ॐ श्रुत्यादिबलीयस्त्वाच्च न बाधः ॐ
३०. अबाधाधिकरणम्
सूत्रभाष्यम्
।। ॐ श्रुत्यादिबलीयस्त्वाच्च न बाधः ॐ ।। ५० ।।
सावधारणा बलवती श्रुतिः ।
‘इन्द्रोऽश्वमेधांश्छतमिष्ट्वाऽपि राजा ।
ब्रह्माणमीड्यं समुवाचोपसन्नः ।।
न कर्मभिर्न धनैर्नैव चान्यैः ।
पश्येत्सुखं तेन तत्त्वं ब्रवीहि’ इति बलवल्लिङ्गम् ।।
‘नास्त्यकृतः कृतेन’ (मुं.उ.१-२-१२) इत्युपपत्तिश्च ।
‘कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते ।
तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिन’ इति युक्तिमद्भगवद्वचनम् ।।
अतो न प्रमाणान्तरबाधः । ‘कर्मणैव’ (भ.गी.३-२०) इत्ययोगव्यवच्छेदः ।।
तत्त्वप्रदीपिका
सावधारणा बलवती श्रुतिः । ‘तमेव विदित्वा’ इति ‘द्दष्ट्वैव तं मुच्यते नापरेण’ इति च । ‘परीक्ष्य लोकान्कर्मचितानि’ इत्यादेरयमर्थः । कर्मणा सञ्चितान्मन्दिरादीन्विनाशिनः परितो वीक्ष्य तद्वत्परानपि कर्मभिश्चितान्लोकान्विनाशिन एव परीक्ष्य तेभ्यो निर्वेदमायात् ब्रह्मनिष्ठः । ‘नास्त्यकृतः कृतेन’ इति, अकृतप्रियो भगवान् कृतेन न लभ्यत इति । ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय’ इति भगवद्वचनम् । ‘कर्मणात्वधमः प्रोक्तः’ इत्यादि च । तस्य प्रियज्ञानस्य विष्णोर्विज्ञानार्थं स गुरुमेवाभिगच्छेदिति । कर्मणैवेत्ययोगव्यवच्छेदः । कर्म कृत्वैव नाकृत्वेत्यर्थः ।
‘सहैव कर्मणा सिद्धिमास्थिता जनकादयः ।
ज्ञाननिष्ठा ततः कार्यं कर्माऽश्रामोचितम्’ इति भगवद्वचनम् ।।
स्वदृष्ट्या प्रसन्न ईश्वरः सर्वशक्तिर्बन्धान्मोचयतीत्यत्र न कश्चिद्दोषः । प्रमाणं च–
‘न ताद्दशी प्रीतिरीड्यस्य विष्णोर्गुणोत्कर्षज्ञातरि यादृशी स्यात् ।
तत्प्रीणनान्मोक्षमाप्नोति सर्व’ इत्यादिकं नैकम् । ‘त्यागेनैक’ इत्यत्रापि त्यागेनामृतत्वमानशुः, ते कियन्त इत्याकाङ्क्षायां केचिदेवेत्यर्थः । ‘मनुष्यणां सहस्रेषु कश्चित्’इत्यादिवत् । त्यागपूर्वक-ज्ञानेनेत्यभिप्रायः । ‘वेदान्तविज्ञानसुनिश्चितार्थाः परिमुच्यन्ति सर्व’ इति वाक्यशेषात् । ‘विदुषा चिदर्ध्य’ इत्यादेस्तु ज्ञानिनाऽपि कर्म कर्तव्यं मोक्षे सुखाधिक्यायेत्यर्थः । न समुच्चयोऽर्थः । वक्ष्यति चैतदुत्तरपादे । भाक्तं वेत्यादौ कर्मणा मोक्षप्रतिषेधो गत्यादिनिरूपणाप्रसङ्गप्राप्तः । अत्रायं स्वतन्त्रविचारः ।
तत्त्वप्रकाशिका
अत्र यत्साधनं भगवदुपास्तिस्तस्य ज्ञानस्य मोक्षसाधनत्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथोपासनवैयर्थ्यापातादेतत्समर्थनीयम् । प्रकृतो मोक्ष एव विषयः । किं ज्ञानसाध्य उत कर्मसाध्य इति सन्देहः । विप्रतिपत्तिः सन्देहबीजम् । कर्मसाध्य एव मोक्ष इति पूर्वः पक्षः । कर्मणैवेति वचनात् । न च वाच्यं विद्यावचनस्य सावधारणत्वेन प्राबल्यात्तद्विरोधः स्मृतेरिति । स्मृतेरपि सावधारणत्वात् । न चैतावता साम्यम् । भगवद्वाक्यत्वेन प्राबल्यात् । एतेन श्रुतिस्मृत्योः श्रुतिर्बलवती तदपेक्षत्वात्स्मृतेरिति चापहसितं भवति । अतो ज्ञानस्य मोक्षसाधनत्वाभावान्न तदर्थोपासना कर्तव्येति । सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ।। श्रुतीति ।। मोक्षो ज्ञानसाध्य एव । न चैवं प्रमाणान्तरबाधः । ज्ञानस्य मोक्षसाधनत्वोपपादकबलवच्छ्रुत्यादिसद्भावात् । तथा हि । मोक्षस्य मानसाध्यत्वे ‘तमेवम्’ इत्यादिश्रुतिः स्मृतेर्बलवती । निरवकाशावधारणयुक्तत्वात् । तथा बहुकर्मकृतोऽपीन्द्रस्य दुःखासंभिन्नसुखरूपमोक्षार्थं तत्त्वज्ञानप्रार्थनलिङ्गं च बलवत् । निरवकाश-त्वात् । उत्पत्तिनाशवत्फलत्वेनावधृतकर्मणा नित्यपुरुषार्थो न भवतीत्युपपत्तिश्च बलवती । दूषणशून्यत्वात् श्रौतत्वाच्च । तथा ‘कर्मणा बध्यते जन्तुः’ इति वचनं च बलवत् । भगवद्वाक्यत्वेन साम्याद्युक्तिमत्त्वेनाधिक्यात् । यत एवं मोक्षस्य ज्ञानसाधनत्वे प्रत्येकं बलवच्छ्रुत्यादिभावोऽतो विद्यैव मोक्षसाधनमित्यस्य न स्मृतिबाध इति भावः । नन्वेवं चेत्सा स्मृतिरप्रमाणमेवेति प्राप्तमित्यतश्च शब्दसूचितार्थमाह ।। कर्मणेति ।। क्रियत इति शेषः । कर्मयोगश्च मोक्षातिशयार्थ इति ज्ञातव्यम् । अतो ज्ञानस्यैव मोक्षसाधनत्वात्कर्तव्योपासनेति सिद्धम् ।
गुर्वर्थदीपिका
यद्यपि कर्मणैवेत्यत्रैवकारः स्पष्टं श्रूयते तथाऽपि ‘पाठक्रमादर्थक्रमो ज्यायान्’ इति न्यायेन कर्मणा संसिद्धिमास्थिता एवेत्यपि योजनासम्भवेन नासौ निरवकाशः । ‘तमेवं विद्वान्’ इति श्रुतिस्तु तं परमात्मानमेवं सहस्रशीर्षत्वाद्याकारेण विद्वानमृतो मुक्तो भवति । अयनाय मोक्षायान्यः पन्था न विद्यत इति सावकाशमेवकारं विहाय साक्षात्तदर्थभूतमन्ययोगव्यवच्छेदं विविच्य वाक्य-मर्यादयैवाह । अतोऽयोगव्यवच्छेदात्यन्तायोगव्यवच्छेदरूपार्थयोरनवकाशेन निरवकाशत्वात्सैव बलवतीति भावेनोक्तं भाष्ये सावधारणा बलवती श्रुतिरिति । निरवकाशावधारणयुक्तेत्यर्थः । अतो बलवती स्मृतितोऽपि बलवती ।
भावबोधः
अधिकरणस्य पादान्तर्भावज्ञापनार्थमाह– यत्साधनमिति ।। पूर्वाधिकरणे ‘तमेवं’ इत्यादिश्रुतेः सावधारणत्वेन प्राबल्यमित्युक्ते तर्हि ‘कर्मणैव’ इति स्मृतेरपि सावधारणत्वेन भगवद्वाक्यत्वेन च प्राबल्यान्न विद्याया मोक्षसाधनत्वमित्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः । कर्मेत्यादि ।। अत्र मोक्षः किं कर्मसाध्य उत ज्ञानसाध्य इति चिन्ता । तदर्थं ‘तमेवं’ इति विद्यावचनं ‘कर्मणैव’ इति कर्मवचनेन बाध्यमुताबाध्यमिति । तदर्थं विद्यावचनस्य कर्मवचनात् प्राबल्यं नास्त्युतास्तीति । तदर्थं विद्यावचनस्य प्राबल्यनियामकं कर्मणैवेति कर्मवचनगतावधारणस्य सावकाशत्वं नास्त्युतास्तीति । ‘विद्यावचनस्य प्राधान्यं भ्रम’ इति न्यायविवरणं मनसि निधाय पूर्वपक्षमाह– कर्मसाध्य एवेत्यादिना । विद्याकर्मवचनयोः साम्योक्त्या विद्यावचनप्राधान्यभ्रमं उपपाद्य कर्मवचनस्य प्राबल्येनापि तमुपपादयति– न चैतावतेति ।। श्रुतिस्मृत्योरिति ।। ‘विरोधे त्वनपेक्षं स्यादसति ह्यनुमानं’ इति जैमिनिसूत्रादित्यर्थः ।
ननु कर्मवचनस्यापि सावधारणत्वात् सावधारणा बलवती श्रुतिरित्ययुक्तमित्यत आह– निरवकाशेति ।। तस्य तु सावकाशत्वं वक्ष्यत इति भावः ।। युक्तिमत्वेनेति ।। कर्मणो मोक्षसाधनत्वाभावसाधक ‘तस्मात्’ इत्युक्तमुमुक्ष्वक्रियमाणत्वरूपयुक्तिप्रतिपादकत्वेनेत्यर्थः । यद्वा, ‘कर्मणा बध्यते’ इत्युक्तबन्धकत्वरूपयुक्तिमत्त्वेनेत्यर्थः । उपलक्षणमेतत्–
‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ।।’
इति भगवतस्तस्मिन्नेवाधिकप्रीतिवचनात् ।
‘यमेवैष वृणुते तेन लभ्यः’
इति तत्प्रीतेरेव मोक्षवचनाच्चेति न्यायविवरणोक्तमपि ग्राह्यम् । नन्वेवं तर्हि जनकादयः कर्मणा सहैव संसिद्धिं मुक्तिं गता इत्यर्थः स्यात् । तथा चोत्पन्नापरोक्षज्ञानिनां तेषां किं कर्मयोग-व्यवच्छेदेनेत्यत आह– कर्मयोगश्चेति ।।
भावदीपः
ज्ञानचिन्ता चतुर्थपादे सङ्गतेत्यत आह ।। यत्साधनमिति ।। तथा च यत्प्रागुपास्तेर्ज्ञानद्वारा मुक्तिहेतुफलकत्वोक्त्या कर्तव्यत्वमुक्तं तदेवेह मुक्तेः कर्मजत्वस्मृतेः प्राबल्यहेतूनाऽऽक्षिप्य समाधीयत इत्येतत्पादान्तर्भावः । पूर्वानन्तर्यं चास्य नयस्येति भावः ।। प्रकृत इति ।। विद्यासाध्य-त्वेन पूर्वप्रकृत इत्यर्थः । अत्र यद्यपि तमेवेति श्रुतिः कर्मणैव हीति स्मृतिबाधिता न वेत्येव चिन्ताप्रदर्शनायात्र सूत्रे न बाध इत्येवोक्तेस्तथाऽपि विद्यैवेत्यत्रोक्तमेवैतच्चिन्ताफलमिति द्योतनाय न च कर्मणैव हीत्यादिपूर्वभाष्यमेव हृदि कृत्वा संशयधर्माद्युक्तिरिति ध्येयम् । विप्रतिपत्तिर्वादि-विप्रतिपत्तिरित्यर्थः । पूर्वेणागतार्थत्वाय कर्मणैवेत्ययोगव्यवच्छेद इत्येवकारगत्युक्तिपरभाष्य-सूचितयुक्तिं व्यावर्त्यपूर्वमाह ।। न च वाच्यमिति ।। भाष्ये न प्रमाणान्तरबाध इत्युक्तिसूचितयुक्तिं व्यावर्त्यपूर्वं व्यनक्ति ।। न चैतावतेति ।। एतेनेति ।। स्मृतेर्भगवद्वाक्यत्वकथनेनेत्यर्थः ।। तदपेक्षत्वादिति ।। धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यादिति पूर्वतन्त्रस्थस्मृत्यधिकरणे स्मृतेः श्रुतिमूलकत्वेनैव प्रामाण्योक्तेरिति भावः ।। अपहसितमिति ।। यदि वयं स्मृतेः श्रुतिमूलत्वेन प्रामाण्यं ब्रूमस्तदोपजीव्यमूलश्रुतिविरोधात् विरोधे त्वनपेक्षं स्यादिति जैमिनीयविरोधाधिकरणोक्त-न्यायेन स्मृतिरमानं स्यात् । न चैवम् । भगवत्प्रत्यक्षमूलत्वेन श्रुत्यनपेक्षत्वादिति भावः । एतेन वचनस्य प्राधान्यभ्रम इति न्यायविवरणे भ्रमत्वोक्तिरुपपादिता ध्येया ।। अत इति ।। विद्यावचनस्य कर्मवचनबाधितत्वादित्यर्थः ।। तदर्थेति ।। ज्ञानार्थेत्यर्थः । विद्ययैव मोक्ष इति पूर्वभाष्यमनुवृत्त्यार्थ-माह ।। मोक्ष इति ।। अतो न प्रमाणान्तरबाध इति भाष्यस्थप्रतिज्ञाहेतू व्याचष्टे ।। न चैवमिति ।। अत इत्युक्तहेतूपपादकत्वेन सावधारणेत्यादिपूर्वभाष्यं व्याचष्टे ।। तथा हीत्यादिना ।। स्मृतेरिति पञ्चमी ।। निरवकाशेति ।। नान्यः पन्था इत्यस्यैवकारवदवकाशान्तराभावादिति भावः ।। युक्तिमत्त्वेनेति ।। बन्धकत्वमोचकत्वाननुष्ठेयत्वाख्ययुक्तिमत्त्वेनेत्यर्थः । अत इत्यादिभाष्यं योजयति ।। यत इति ।। प्राप्तं तर्हि ज्ञानसमकक्षत्वमित्यत आह ।। कर्मेति ।। कर्म कृत्वैवेति कर्मयोगव्यवच्छेदरूपकर्मयोगश्चेत्यर्थः ।। मोक्षातिशयेति ।। पुरुषार्थनये तथा वक्ष्यमाणत्वादिति भावः । ‘ब्रह्मज्ञानेन वा मुक्तिः प्रयागमरणेन वा’ इत्यादि तु पापादिमुक्तिः स्तुतिपरता चेत्यादितृतीयगीताभाष्योक्तदिशा सावकाशम् ।। अत इति ।। श्रुत्यादिबलीयस्त्वेन विद्यावचनस्य कर्मवचनबाधाभावादित्यर्थः ।
अभिनवचन्द्रिका
शास्त्रादिसङ्गतिरिति ।। उपासनासाध्यविचारस्यापि उपासनासम्बन्धित्वात् पादान्तर्भावोऽप्य-स्तीति भावः । ननु इदं सूत्रं पूर्वाधिकरणशेष एव नाऽधिकरणान्तरम् । पूर्वाधिकरणोक्तदर्शनस्य मोक्षहेतुत्वे बाधपरिहारात् । नापि किञ्चित्साध्यं प्रतिज्ञायते नापि भाष्यकारीयम् । अस्य सूत्रस्य अधिकरणान्तरत्वे ज्ञापकं पश्यामः । ततश्च पूर्वाधिकरणशेषत्वादस्य सूत्रस्य सङ्गत्यादिनिरूपण-मयुक्तमिति चेत्, सत्यम् । इदं सूत्रं पूर्वाधिकरणशेष एव । नाधिकरणान्तरम् । तथापि इदमधिकरणम् आर्थिकार्थविवक्षया वाचनिकार्थविवक्षया च प्रवृत्तमिति ‘कारणानिर्णयो भ्रमः’ इति पूर्वपक्षभेदकयुक्तिद्वयं, तथा ‘प्राधान्यं, प्रीतिः’ इति सिद्धान्तभेदकयुक्तिद्वयं च, वदताऽनु-व्याख्यानकृता सूचनात्, तदनुसारेण द्वेधा व्याख्यातमित्यदोषः । अनुव्याख्या कृता न तु सर्वेष्वप्यधिकरणेषु यावानार्थिकोऽर्थः स सर्वोऽपि विवक्षित इति ज्ञापनाय इदमधिकरणम् आर्थिकार्थपरतया, वाचनिकार्थपरतया च, प्रवृत्तमिति सूचनं कृतम् । इयांस्तु विशेषः । आद्य-व्याख्याने चरमसूत्रं न व्याख्यातमित्येव, परं तु बाधकपरिहाराय इदं सूत्रं तत्रापि योजनीयम् । द्वितीयव्याख्याने तु आद्यं सूत्रद्वयं प्रागेव व्याख्यातमिति न व्याख्यातमित्येव । परं तु इहापि सूत्रद्वयं टीकाकृतो विवक्षितम् । अत एव प्राक् उपासनस्य कर्तव्यतासमर्थनादित्युक्तम् । इह तु ज्ञानस्य मोक्षसाधनत्वसमर्थनादित्युक्तम् । अन्यथा प्रागेव ज्ञानस्य मोक्षसाधनत्वसमर्थनादित्य-वक्ष्यदिति ।
प्रकृतो मोक्ष एव विषय इति ।। यद्यपि ज्ञानस्य मोक्षसाधनत्वसमर्थनादिति स्वयमेवाभिधानात् ज्ञानमेव विषयः, मोक्षसाधनं न वेति सन्देह इत्यादि वक्तव्यम्, न तु मोक्ष एव विषय इत्यादि, तथापि अस्याधिकरणस्य मोक्षसाधनत्वमिव मोक्षस्य ज्ञानसाध्यत्वमपि प्रमेयमिति । तथोक्तम् अवधारणयुक्तत्वादिति ।। अवधारणसमानार्थक ‘नान्यः पन्था’ इति शब्दयुक्तत्वादित्यर्थः । एतेन ‘तमेवम्’ इति श्रुतौ अवधारणाश्रवणात् निरवकाशावधारणयुक्तत्वादित्ययुक्तमिति परास्तम् । ज्ञानस्यैव मोक्षसाधनत्वे कर्मयोगो व्यर्थ इत्यत आह कर्मयोगश्चेति ।।
पूर्वपक्षस्तु– कर्मसाध्य एव मोक्षः । ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः’ इति वचनात् । श्रुतिस्मृत्योः सावधारणत्वेऽपि भगवद्वाक््यत्वेन स्मृतेरेव बलवत्वात् । ततश्च श्रुतेः स्मृतिबाधितत्वेन ज्ञानस्य मोक्षसाधनत्वाभावात् न तदर्थमुपासनं कार्यमिति ।
वाक्यार्थमुक्तावली
पूर्वाधिकरणे तमेवमित्यादिश्रुतेः सावधारणत्वे प्राबल्यमित्युक्ते तर्हि कर्मणैव संसिद्धिमिति स्मृतेः सावधारणत्वेन भगवद्वाक्यत्वेन च प्राबल्यात् विद्यावचनस्य तद्बाध इत्याक्षेपोत्थानादनन्तर-सङ्गतिः । यद्यप्यस्य पूर्वशेषत्वेनाधिकरणान्तरत्वमयुक्तम् । तथापि पृथङ्न्यायसूचकत्वात् पृथगधि-करणत्वं न्यायमालायां दर्शितमिति टीकायामधिकरणान्तरं कृतं बोध्यम् ।। किमिति ।। अत्र मोक्षः कर्मसाध्य उत ज्ञानसाध्य इति चिन्ता । तदर्थं स्मृतेः प्राबल्यमुत श्रुत्यादीनाम् । सूत्रे बाधपदेन विद्यावचनस्य प्राधान्यप्रतीतेः भ्रमत्वे स्मृतिबाधरूपयुक्त्यभिधानात् सूचितं भ्रम इत्युक्तन्यायं व्यञ्जयितुमाह ।। स्मृतेरपीति ।। एतेनेति ।। सर्वज्ञतमभगवत्प्रत्यक्षमूलत्वेन श्रुतिनिरपेक्षत्वेनेत्यर्थः ।
सूत्रे विद्यैव मोक्षसाधनमित्यस्येति योज्यम् । न बाधः न स्मृतिबाधः । कुतः? श्रुत्यादीनां चतुर्णां बलीयस्त्वात् निरवकाशत्वादिनातिप्रबलत्वात् । चशब्दात्परकीयस्मृतेः सावकाशत्वेन दुर्बलत्वाच्चेत्यर्थं विवक्षित्वा व्याचष्टे । मोक्ष इत्यादिना ।। दुःखासम्भिन्नेति । दुःखे सत्यपि सुखं न पश्ये इत्युक्त्या दुःखासमानाधिकरणसुखं (न) लभ्यत इति भावः । निरवकाशत्वादिति । मोक्षसाधनत्वं विना तदर्थप्रार्थितत्वस्य गत्यन्तराभावादिति भावः । यद्यपि न कर्मभिरिति वचनात् आगमविधय एव कर्मणो मोक्षहेतुत्वे प्रमाणम् । तथापि ज्ञानं न मोक्षहेतुरित्युक्तत्वात् तत्वज्ञान-प्रार्थनं ज्ञानं मोक्षसाधनं तदर्थं प्रार्थ्यमानत्वात् । यद्यदर्थं प्रार्थ्यते तत्तत्साधनम् । यथा कर्म स्वर्गस्येति ज्ञानस्य मोक्षसाधनत्वे लिङ्गमिति भावः ।। श्रौतत्वाच्चेति ।। कर्म न नित्यपुरुषार्थसाधकं तद्विरुद्धफलकत्वात् । यद्यद्विरुद्धफलकं न तत्तत्साधनम् । यथा पापं स्वर्गस्येति भावेनाकृतो मोक्षः कृतेनोत्पत्तिनाशवत्फलकेन कर्मणा नास्ति । तत्तस्य मोक्षस्य तस्मात् कार्यत्वे सत्यन्यासाध्यत्वात् तत्साधनविज्ञानार्थं गुरुमेवाभिगच्छेदिति मोक्षो ज्ञानैकसाध्य इत्यत्रोपपत्तेः । श्रुतावेवोक्तत्वादित्यर्थः । यद्यपि मोक्षार्थं तत्वज्ञानप्रार्थनलिङ्गमपि श्रौतम् । तथापि मोक्षार्थं तत्वज्ञानप्रार्थनात् तत्वज्ञानं मोक्षफलकमित्यश्रवणात् निरवकाशत्वादित्येवोक्तम् । अनेनैव विशेषणेन लिङ्गमुपपत्तिरिति च द्वेधोक्तिः ।। युक्तिमत्वेनेति ।। कर्मणा बध्यत इत्युक्तकर्मणः बन्धकत्वरूपयुक्तिमत्वेनेत्यर्थः । यद्वा तस्मात् कर्म न कुर्वन्तीत्युक्तमुमुक्ष्वक्रियमाणत्वरूपयुक्तिमत्वेनेत्यर्थः । ‘विद्ययैव विमुच्यत’ इत्यनेन विद्याभावे न मुच्यते तया विना मोचकप्रसादाभावात् प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः । इति ज्ञानिप्रियत्ववचनात् । ‘यमेवैष वृणुते तेन लभ्यः’ इति तत्प्रतीतेरेव मोक्षवचनाच्चेति सूचितप्रीतिरित्युक्तयुक्तिमत्वेनेत्यर्थः । नन्वेवं तर्हि जनकादयः कर्मणा सह कर्म कुर्वन्त एव मुक्तिं गता इत्यर्थः स्यात् । न चासौ युक्तः । अपरोक्षज्ञानिनां तेषां कर्म विनापि मोक्षसम्भवेन तद्वैय्यर्थ्येन तदयोगव्यवच्छेदायोगादित्यत आह ।। कर्मयोगश्चेति ।।
तत्त्वसुबोधिनी
अधिकरणस्य पादान्तर्भावज्ञापनार्थं तत्साधनमिति । पूर्वाधिकरणे तमेवमित्यादिश्रुतेः सावधारणत्वेन प्राबल्यमित्युक्ते तर्हि कर्मणैवेति स्मृतेरपि सावधारणत्वेन भगवद्वाक्यत्वेन प्राबल्यात् न विद्यायाः मोक्षसाधनत्वमित्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः ।। विप्रतिपत्तिरिति ।। कर्मसाध्यो मोक्षः ज्ञानसाध्य इति विरुद्धवाक्यजन्यविप्रतिपत्तिरित्यर्थः । विद्याकर्मवचनयोः साम्योक्त्या विद्यावचनस्याप्राबल्यभ्रममुपपाद्य कर्मवचनप्राबल्येनापि तमुपपादयति ।। न चैतावतेति ।। एतेनेति ।। भगवद्वाक्यत्वेन प्राबल्यकथनेनेत्यर्थः ।। श्रुतिस्मृत्योरिति ।। विरोधेत्वनपेक्षं स्यादसति ह्यनुमानमिति जैमिनिसूत्रादित्यर्थः । ननु कर्मवचनस्यापि सावधारणत्वात् सावधारणा बलवती श्रुतिरित्युक्तमित्यत आह ।। निरवकाशेति ।। तस्य तु सावकाशत्वं वक्ष्यते इति भावः ।। उत्पत्तिनाशवदिति ।। एवं च कृतेन उत्पत्तिनाशवत् फलवता कर्मणा अकृतनित्यपुरुषार्थो नेत्यर्थ इति स्मृतियोजना सूचिता ।। युक्तिमत्वेनेति ।। कर्मणो मोक्षसाधनत्वाभावसाधकः तस्मादित्युक्त-मुमुक्षुसाधनमिति महान् भेदः । तथा भक्त्येति ।। अहं तत्वतः यावान् यस्मिन् एवं भूतं मां भक्त्या पुमान् तत्वतः अभिजानाति ततः अनन्तरं मां तत्वतः ज्ञात्वा मां विशते इत्यर्थः । नन्वस्य वचनस्य असर्वाधिकार्यविशेषविषयत्वात् कथमेकप्रकारत्वं ज्ञानस्येत्यत आह ।। सामान्य-वचनत्वादेवेति ।। सौत्रश्चशब्दः पृथुक्त्वस्यानुकर्षणार्थ इत्यभिप्रेत्य प्रवृत्तं तद्दर्शनभेद इति भाष्यं व्याचष्टे ।। अनेकप्रकारमेवेति ।। नन्वत्र प्रज्ञान्तरमित्यर्थत्वे उपासनारूपज्ञानविषयस्यालाभात् । ज्ञानमात्रस्य अपरोक्षज्ञानहेतुत्वाभावाच्च । तद्वैचित्र्ये कारणवैचित्र्यरूपहेतुर्न प्रदर्शितः स्यात् । प्रज्ञाशब्दस्यैव उपासनापरत्वे प्रज्ञापृथुक्त्ववदित्येतावता पूर्तेरन्तरशब्दो व्यर्थः स्यादित्यतः तद्व्याचष्टे– प्रज्ञान्तरं प्रज्ञाविशेष इति ।। अनेनोपासनाभेदवदिति भाष्येण प्रज्ञान्तरमित्यस्य प्रज्ञाविशेषस्य उपासनस्य पृथुक्त्ववद्भेदवदिति सौत्रपदं व्याख्यातमित्युक्तं भवति ।
ननु भाष्ये उपासनं नाम ध्यानं विवक्षितं तस्यैव अपरोक्षज्ञानसाधनत्वात् । ध्यानं च न ज्ञानं किन्तु मानसीक्रिया । यथोक्तं क्रियामानसवदिति ।। तथा च प्रज्ञान्तरशब्दस्य प्रज्ञाविशेषपरत्वेऽपि कथमुपासनापदेन तद्व्याख्यानमित्यत आह ।। अवच्छिन्नेति ।। तथा च न ध्यानं परिस्पन्दात्मिका मानसक्रिया तथात्वे अतीन्द्रियाश्रितक्रियायाः अतीन्द्रियत्वेन अपरोक्षावभासविरोधात् । क्रियायाः रूपरहितत्वेन ध्यानरूपावभासविरोधाच्चेति भावः । न च ध्यानस्य परोक्षज्ञानरूपत्वं लिङ्गशब्दा-जन्यत्वात् । श्रवणादिजनितमानसवासनामयस्य वस्तुनो मनसाऽवलोकनं ध्यानमित्यंगीकारादिति वाच्यम् । अत्र ध्यानस्य परोक्षज्ञानजन्यसंस्कारमयपदार्थविषयकत्वेन परोक्षत्वव्यवहारात् । न चैवं क्रियामानसवदिति सूत्रविरोधः । तस्य धात्वर्थक्रियावाचित्वात् । यद्वा ध्यानस्य वासनामयपदार्थ-विषयकत्वेनापरोक्षरूपत्वेऽपि तस्य परोक्षविषयकत्वाभावे नैष्फल्यप्रसङ्गात्तद्विषयत्वमावश्यकम् । तथा च ध्यानस्य परमात्मविषयकत्वे परोक्षरूपत्वायोगेन ज्ञातः परमाणुरित्यादिवदुपनीत-भानत्वाभ्युपगमे उपासनस्य परोक्षत्वात्परोक्षव्यवहारः । शङ्कते । योग्यतैव कथं ज्ञायते इति ।। परिहरति ।। आचार्य आचक्षत इति । विशेषबलादिति । विशेषवाक्यबलादित्यर्थः । तर्हि यावानिति वाक्यस्य का गतिरित्यत आह ।। यावानिति ।।
वाक्यार्थविवरणम्
साम्यम् ।। ज्ञानसाध्यत्वकर्मसाध्यत्ववचनयोरुभयोरपि सावधारणत्वेन साम्यमित्यर्थः ।। भगवदिति ।। कर्मणैवेति गीतावचनस्य कृष्णवाक्यत्वेनेत्यर्थः ।। एतेनेति ।। भगवद्वाक्यत्वेन कर्मणेति स्मृतेः प्राबल्यकथनेनेत्यर्थः ।। बलवती ।। मूलप्रमाणनैरपेक्ष्यादिति भावः ।। तदपेक्षत्वात् ।। मूलप्रमाणसापेक्षत्वात् । सापेक्षनिरपेक्षयोश्च निरपेक्षस्य स्वीकार्यत्वादिति भावः ।। बहुकर्मकृत इति ।। ‘अश्वमेधाञ्छतमिष्ट्वा’ इत्युक्तत्वादिति ध्येयम् ।। शतम् ।। शतसङ्ख्याकान् अश्वमेधान् इत्यर्थः । अत एव स शतक्रतुरिति ध्येयम् । कृतेनेत्यस्यार्थः उत्पत्त्यादीति । अकृत इत्यस्यार्थो नित्यपुरुषार्थ इति मोक्ष इत्यर्थः ।। साम्यात् ।। कर्मणैवेति स्मृतिवचनेनेत्यर्थः । न केवलं साम्यमपि तर्हि कर्मणा बध्यते इति भगवद्वचनमेव मुमुक्ष्वक्रियमाणत्वबन्धकत्वयुक्तियुक्तत्वेन बलवत्त्वेनाधिकमेवेत्याशयेनाह ।। युक्तीति ।। स्मृतिः ।। कर्मणैवेति स्मृतिः ।
वाक्यार्थमञ्जरी
न चैतावतेति ।। तथा च न कर्मपक्षपातो युक्त इति भावः ।। अपहस्तितमिति ।। स्मृतेः स्वतःसर्वज्ञभगवत्प्रत्यक्षमूलत्वेन श्रुत्यनपेक्षणादिति भावः ।
ॐ श्रुत्यादिबलीयस्त्वाच्च न बाधः ॐ । ज्ञानस्य मोक्षहेतुत्वोक्तौ न बाधः नोक्तस्मृतिबाधः । कुतः श्रुत्या बलीयस्त्वात्, तथा प्रतिपादकानां श्रुतिलिङ्गयुक्तिस्मृतीनां बलवत्त्वादित्यर्थः ।। असंभिन्नेति ।। अमिश्रेत्यर्थः । कृतशब्दार्थ उत्पत्त्यादीति । अकृत इत्यस्य नित्यपुरुषार्थेति ।। युक्तिमत्त्वेनेति ।। कर्मणो बन्धकत्वरूपयुक्तिमत्त्वेनेत्यर्थः ।। अतिशयार्थेति ।। न तु मोक्षार्थः येन ज्ञानकर्मसमुच्चयसाध्यत्वं मोक्षस्येति भावः ।
।। इति अबाधाधिकरणम् ।। ३० ।।