ॐ तत्रापि च तद्व्यापारादविरोधः ॐ

१३. तद्व्यापाराधिकरणम्

सूत्रभाष्यम्

ईश्वरस्य नरकायुक्तेः ‘सर्वं विसृजति१ सर्वं विलापयति सर्वं रमयति सर्वं न रमयति सर्वं प्रवर्तयत्यन्तरस्मिन्निविष्टः’ इति कौषारवश्रुतिविरोध इत्यतो वक्ति—

।। ॐ तत्रापि च तद्व्यापारादविरोधः ॐ ।। १७ ।।

चशब्दाददुःखानुभवेन । ‘स स्वर्गे स भूमौ स नरके सोऽन्धे तमसि प्रवृत्तिकृदेक एवानु-विष्टो नासौ दुःखभुगीश्वरः प्रभुत्वात्सर्वं पश्यति सर्वं कारयति नासौ दुःखभुग्य एवं वेद’ इति पौत्रायणश्रुतेरविरोधः ।

नरकेऽपि वसन्नीशो नासौ दुःखभुगुच्यते ।

 नीचोच्चतैव दुःखादेर्भोग इत्यभिधीयते ।।

 नासौ नीचोच्चतां याति पश्यत्येव प्रभुत्वतः’ इति भागवततन्त्रे ।

तत्त्वप्रदीपिका

दुर्गतिभेदः प्राधान्येनोदितः । यदि तत्रस्थ ईश्वरो दुःखं भोजयति स्वयं कथं तदस्पर्शी स्यात् । दुःखस्पर्श ईश्वरत्वमेव न स्यात् । अभोजकत्वे ‘सर्वं रमयति सर्वं न रमयति’ इत्यादिश्रुतिविरोधश्च । यो जनो रमते तं सर्वं रमयति यो न रमते तं सर्वं न रमयतीत्यर्थः । एवमाशङ्कायामाह– ‘ॐ तत्रापि च तद्व्यापारादविरोधः ॐ ।। प्रवर्तनव्यापाराददुःखानुभवाच्च न विरोधः । स्वातन्त्र्यादेव ।

तत्त्वप्रकाशिका

अत्रेश्वरप्राप्तिसाधनवैराग्याय नरकस्य सदुःखत्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । नरकस्य निर्दुःखत्वे न तत्र तत्साधने च वैराग्यं स्यादतः सदुःखत्वं साधनीयम् । प्रकृतं नरकमेव विषयः । किं सदुःखं न वेति सन्देहः । उभयविधस्थानदर्शनं सन्देहबीजम् । न नरके दुःखमस्तीति पूर्वः पक्षः । तथा हि यदि नरकेऽस्ति दुःखं तत्र पृच्छामः । किं तत्रेश्वरः प्रेरको न वेति । आद्यं दूषयति ।। ईश्वरस्येति ।। यदि नरकस्य सदुःखतामङ्गीकृत्य तत्रस्थानां प्रेरकतयेश्वरो वर्तत इत्यभ्युपगम्यते तर्हि तस्य दुःखिसहावस्थानान्नरकभोगप्राप्तिः । ईश्वरस्य च नरकदुःखायुक्तेर्न तत्र दुःखमिति भावः । न च वैशेष्ययुक्त्यैतत्परिहृतमिति वाच्यम् । दुःखाननुभवे सार्वज्ञाभावप्रसङ्गात् । द्वितीयं निराचष्टे ।। सर्वमिति ।। यदि नरके दुःखसिद्ध्यर्थं तत्रेश्वरो न प्रेरक इत्युच्यते तर्हि श्रुतिविरोधः । अतः प्रकारद्वयेनापि नरकस्य सदुःखत्वानुपपत्तेर्न तत्र तत्साधने च वृथा वैराग्यमापाद्यमिति भावः । योग्यं सर्वम् ।

सिद्धान्तयत्सूत्रमवतारयति ।। अत इति ।। भवत्येव नरकं सदुःखम् । न चोक्तदोषः । नरकेऽपि तस्येश्वरस्य प्रेरणरूपव्यापाराभ्युपगमेन श्रुतिविरोधाभावादिति सूत्रार्थः । सदुःखत्वे नरकस्य अस्मिन्नपि पक्षे कथितविरोधपरिहारो वाच्यः । स कुतो न सूत्रित इत्यत आह ।। चशब्दादिति ।। तत्राप्यदुःखानुभवेन तद्व्यापारादुभयविरोधाभाव इत्यर्थः । इति समुच्चिनोतीति शेषः । अस्यार्थस्य प्रामाणिकत्वे भवेदविरोधस्तत्कुत इत्यत आह ।। स इति ।। सहभाव-युक्तिपरिहारः प्रभावादिति । असार्वज्ञमाशङ्क्य सर्वं पश्यतीत्युक्तम् । अत्र स्मृतिं चाह ।। नरकेऽपीति ।। सर्वज्ञस्य कथं दुःखानुभवाभाव इत्यत आह ।। नीचेति ।। अतो नरकस्य सदुःखत्वाद्भवितव्यं तत्र वैराग्येणेति सिद्धम् ।

गुर्वर्थदीपिका

वैशेष्ययुक्तयेत्यनेन ‘ॐ सम्भोगप्राप्तिरिति चेन्न वैशेष्यात्’ इति सूत्रोक्तयुक्तिं स्मारयति । हानोपानादीनामपि व्यवहारत्वप्रतीतेर्व्यापार एव व्यवहारो नोच्चारणमात्रम् । तदपि वाचो व्यापार-रूपत्वेनैव व्यवहारपदवाच्यत्वमिति भावेनोक्तम् ।। प्रेरणरूपव्यापाराभ्युपगमेनेति ।। ननु तमसि वृद्धिह्रासरहितजीवचैतन्यस्य दुःखानुभवेऽपि का क्षतिः । मुक्तौ च तादृशजीवस्य सुखानुभवे को लाभः । दुःखं दुःखतयैव दोषः सुखं सुखतयैव गुणः । न तयोः पुनर्हानिलाभान्तरचिन्तेति चेन्न । सहिष्णूनां स्वसहनशक्तया दुःखेऽप्यनिष्टत्वादर्शनेन मुमुक्षूणां स्वविरक्तिशक्तया वैषयिक-सुखेष्विष्टत्वादर्शनेन च तयोरपि गुणदोषान्तरचिन्ताया आवश्यकत्वात् ।

किञ्च सुखस्य दुःखस्य चैतन्यस्वरूपत्वेनैव गुणत्वे दोषत्वे च बाह्यसुखदुःखयोर्गुणता दोषता च न स्यात् । तदुभयरूपमनसि च तयोर्गुणता दोषता च स्यात् । अनुभवाद्गुणदोषतेति चेत् सर्वज्ञपरमात्मनोऽपि तत् स्यात् । स्वसमवेततदनुभवस्य च समवायनिराकरणेन निराकृतत्वात् । समवायवादिनां मते समवायस्यैकत्वेन पुनः परमात्मन्येव प्रसङ्गाच्च । दुःखस्वरूपत्वं परमात्मनि नास्तीति तु न सर्वाधारे परमात्मनि वक्तुं युक्तम् । स्वीयतया तदनुभवश्चेत्समवायाभावे स्वीयत्वं स्वसंयोगो वा स्वाश्रितत्वं वा स्यात् । तदपि परमात्मन्येव गतम् । प्रत्ययार्थमुपेक्ष्य स्वत्वमेव स्वीयत्वमिति पक्षोऽपि बाह्यसुखदुःखयोः स्वीयत्वासम्भवादुपेक्षणीय एव । देहदाहकतया सर्वेषामनिष्टरूपेऽग्नावेवाग्निस्तम्भनशक्तिमति देहदाहेऽनिष्टत्वादर्शनाच्च । दुष्टानि स्वस्वव्यापारो-दासीनानि खानि इन्द्रियाणि यस्मात्तद्दुःखं, सु सुष्ठूनि स्वस्वव्यापारेषु सम्यक्प्रवर्तमानानि खानि यस्मात्तत्सुखमिति व्युत्पत्तेश्चैतन्य एव गुणदोषयोरभावेऽयोगाच्च । तस्मात्सुखदुःखाभ्यां चैतन्य एव कश्चिद्गुणः काचिद्धानिश्च वक्तव्या । तदुभयं च किमिति चेत्सत्यम् । दुःखानुभवे सत्यौत्तर-व्यापारान्प्रत्यननुकूलताख्या काचिन्नीचता चिद्रूपमन आदावेव भवति । सुखानुभवे च तं प्रति सम्यगनुकूलताख्या काचिदुच्चता चिद्रूपमनआदावेव जायते । सा च नीचता सर्वज्ञतया दुःखद्रष्टुरपि परमात्मनो नास्तीति ‘नीचोच्चतैव दुःखादेर्भोग इत्यभिधीयत’ इति स्मृतेरभिप्रायः ।

भावबोधः

सदुःखत्वेति । निर्णीते धर्मिणि धर्मचिन्तेति पूर्वाधिकरणेऽवान्तरभेदभिन्ने नरकस्वरूपे निर्णीते इदानीं तद्गतसदुःखत्वरूपप्रकारविचारः क्रियत इत्यनन्तरसङ्गतिरिति भावः । सदुःखं न वेति सन्देह इति । अत्र नरकं निर्दुःखमुत सदुःखमिति चिन्ता । तदर्थं दुःखिसहावस्थानमीश्वरस्य दुःखापादकं न वेति । तदर्थमीश्वरस्य दुःखपरिहारोपायोऽस्त्युत नास्तीति ।। उभयविधस्थानेति ।। निर्दुःखं स्वर्गादिकं सदुःखं भूम्यादिकमित्यर्थः । भाष्ये ईश्वरस्य नरकायुक्तेः श्रुतिविरोध इति यथाश्रुतान्वयभ्रमनिरासायेश्वरस्य नरकायुक्तेरिति भाष्यं सहावस्थानादीशस्यापि दुःखप्राप्तिरिति न्यायविवरणं च सौत्र‘च’शब्दनिवर्तनीयपूर्वपक्षप्रतिपादनाय प्रवृत्तम् । सर्वं विसृजतीत्यादि भाष्यं तु ‘तत्रापि च तद्व्यापारादविरोधः’ इति सूत्रांशनिवर्तनीयपूर्वपक्षप्रतिपादनाय प्रवृत्तमित्यभिप्रेत्य पूर्वपक्षं विवृणोति । तथा हीत्यादिना सहावस्थानादिति न्यायविवरणोक्तसहावस्थानरूपापादका-सिद्धिपरिहारार्थमाह ।। यदि नरकस्येति ।। इदानीं समग्रं न्यायविवरणं योजयति ।। तर्हि तस्येति ।। विपर्ययपर्यवसानपरतया भाष्यं योजयति ।। ईश्वरस्येति ।। नरकायुक्तेरित्यस्य नरकेऽवस्थानायुक्तेरिति प्रतीतिनिरासार्थमुक्तम् ।। दुःखायुक्तेरिति ।।

ननु ‘ॐ सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॐ’ इति सूत्रेण सार्वज्ज्ञादिसामर्थ्यवैशेष्येण जीवेन सहावस्थितावपि न जीवसमानभोगप्राप्तिरित्युक्तत्वात् कथमेवं पूर्वपक्षोत्थानमित्याशङ्क्य परिहरति ।। न च वैशेष्ययुक्त्येति ।। सार्वज्ञाभावप्रसङ्गादिति ।। तथा च सार्वज्ञादि-वैशेष्ययुक्तिरेवासिद्धेति भावः । अत एव नीचोच्चतैवेत्यादिना सार्वज्ञासिद्धिशङ्का परिहरिष्यत इति हृदयम् ।

ननु साधूनेव रमयति नासाधून् । असाधूनेव न रमयति न साधूनिति, कथं सर्वं रमयति सर्वं न रमयतीत्युक्तमित्यत आह ।। योग्यं सर्वमिति ।। सहभावयुक्तिपरिहारः प्रभुत्वादितीति ।। अनेन स्वातन्त्र्यात् कारणाभावादिति न्यायविवरणमप्युक्ततात्पर्यं भवति ।

भावदीपः

सदुःखत्वसमर्थनादिति ।। दुःखाभोगेनैवेशेन प्रेर्यत्वोक्तेरिति भावः । एतेनानिष्टादिकारिणा-मित्यत्र यन्नरकस्य नित्यत्वं दुःखात्मकत्वं चावरोहादिपदादिनाभिमतं तत्रानित्यत्वोक्तिविरोध-निरासेन व्यक्तिभेदसाक्षेपं नित्यत्वं समर्थ्येदानीमीश्वरस्य निर्दुःखत्वादिश्रुतिविरोधनिरासेन दुःखात्मकत्वं समर्थ्यत इति वा एवं तर्हि अनिष्टादिकारिणां नित्यानित्यनरकभोक्तृत्वे तत्सहा-वस्थानादीशस्यापि नरकदुःखप्राप्तिरिति शङ्कोदयाद्वा सङ्गतिः सूचिता । (उभयविधावस्थेति ।। मूर्छासुषुप्त्यवस्थयोः सदुःखनिर्दुःखयोर्दर्शनमित्यर्थः ।) भाष्यमेकवाक्यतायामनन्वितमिति मत्वा विकल्पपूर्वं वाक्यभेदेन योजयति ।। किं तत्रेति ।। सहावस्थानादीशस्यापि नरकदुःख-प्राप्तिरित्यन्यत्रोक्तापादनस्य भाष्यवाक्यं विपर्ययपर्यवसानमिति भावेन ग्रन्थद्वयोक्तवाक्यद्वय-मसङ्गततया प्रतीयमानं सङ्गमयितुमापादकं पूरयति ।। यदीति ।। सदुःखतामिति ।। चशब्दो दुःखान्तरसमुच्चयार्थः । तदेवोत्तरसूत्रेऽनूद्यत इत्युक्तदिशाऽनिष्टादिनयसिद्धां सदुःखतामित्यर्थः ।। प्रेरकतयेति ।। अन्तर्यामिनयादावुक्तदिशा वा स एव च कर्मानुस्मृतिशब्दविधिभ्य इति वक्ष्यमाणदिशा वेति भावः । ईश्वरस्येति हेतुगर्भम् । अन्यथा चैत्रादिवदीश्वरत्वमेव न स्यादिति भावः । न तत्र दुःखमिति भाष्यशेषोक्तिः । एवं च शब्दाददुःखानुभवेनेति भाष्यव्यावर्त्यचोद्यं विवृत्य नीचोच्चतैव दुःखादेर्भोग इति भाष्यव्यावर्त्यं गतार्थत्वनिरासकं चोद्यं व्यनक्ति ।। न च वैशेष्येति ।। लिङ्गपादीयाद्याधिकरणगुणसूत्रे ‘ॐ सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॐ’ इत्यत्रोक्तसामर्थ्यातिशयवत्त्वरूपयुक्त्येत्यर्थः ।। सार्वज्ञाभावेति ।। सुखदुःखगोचरापरोक्षज्ञानस्यैव भोगशब्दार्थत्वात् । तथा च प्रागुक्तपरिहारो न युक्त इति भावः । ईश्वरस्य नरकायुक्तेरित्यस्य नरके प्रेरणायुक्तेः प्रेरणायोगस्य प्रेरणाभावस्योक्तौ सत्यामित्यर्थकत्वमुपेत्य कृत्स्नं भाष्यमेक-वाक्यतया द्वितीयपक्षनिरासकत्वेन योजयति । यदीत्यादिना ।। श्रुतीति ।। ‘स सर्ववित्सर्वं सृजति’ इत्यादिश्रुतीत्यर्थः । तत्र सर्वं रमयति रमणयोग्यं सर्वं रमयति तदयोग्यं सर्वं न रमयतीत्यर्थः । ‘स सर्ववित्’ इत्यादिशेषोक्तिरीश्वरपरत्वद्योतनाय । तत्र वियत्पादीयन्यायेन सर्वसृष्टिविलयौ बोध्यौ ।। अत इति ।। प्रेरकस्येश्वरस्यापि दुःखप्रसङ्गादप्रेरकत्वे च श्रुतिविरोधादित्यर्थः ।। प्रकारेति ।। प्रेरकत्वाप्रेरकत्वरूपप्रकारद्वयेनापीत्यर्थः । सर्वं रमयति सर्वं न रमयतीत्यनयोर्विरोधनिरासाय सर्वशब्दार्थमाह ।। योग्यं सर्वमिति ।। नरकस्य सदुःखत्वे प्राप्तदोषनिवर्तकतया सूत्रं व्याकुर्वन् प्राक्सिद्धमेवार्थमनुवदति ।। भवत्येवेति ।। अनात्मविदित्यत्रात्मपदेन प्रकृत ईश्वरस्तच्छब्देन परामृश्यत इति भावेनाह ।। तस्येश्वरस्येति ।। उभयविरोधेति ।। दुःखाभोगविरोधो वा सर्वप्रेरकत्वश्रुतिविरोधो वा नेत्यर्थः । श्रुतौ हेतूक्तेरुपयोगमाह ।। सहभावेति ।। दुःखि-सहावस्थानादित्यादिना प्रागुक्तयुक्तीत्यर्थः । न च सहावस्थानादीशस्यापि नरकदुःखप्राप्तिः स्वातन्त्र्यादित्यन्यत्रोक्तेरिति भावः । श्रुतौ ‘स स्वर्गः’ इत्यादिशेषोक्तिः । प्राक् तदन्तरसूत्रादौ जीवेन सहेशस्य स्वर्गादाववस्थानमपि सम्मतं यच्च कृतात्यय इत्यादिना जीवेन सह भूम्यादाववस्थानं यच्च न तृतीय इत्यादावग्रे दुःखैकरूपे तमस्यपि सहावस्थानमभिप्रेतम् । तत्र सर्वत्रापि न जीववत्तत्तल्लोकगतसुखदुःखभोगोऽस्तीत्युक्तवक्ष्यमाणस्थलेष्वपि विरोधशङ्काव्युदासाय । अत एव स्मृतावप्युच्यत इति पदम् । असौ दुःखभुक् न चेदसर्वज्ञः स्यात् दुःखापरोक्षस्यैव दुःखभोगशब्दार्थत्वादित्यत उक्तं श्रुतौ ‘सर्वं पश्यति’ इति । तत्र हेतुः सर्वं कारयतीति । ईशस्य दुःखाभोगे कैमुत्यन्यायेनासौ दुःखभुग्य एवं वेदेति ।। असार्वज्ञमिति ।। नासौ दुःखभुगित्युक्त्या प्रसक्तमिति भावः ।। अत्र स्मृतिं चेति ।। शङ्कापरिहाराय दुःखभोगशब्दार्थमन्यथा वक्तुमिति योज्यम् ।। इत्यत आहेति ।। अत्र नीचोच्चता नाम भिन्नांशहीनस्यापि जीवस्य सांशत्वा-त्तूलपिण्डस्येव स्वरूपसंकोचविकासौ । यथोक्तं क्षपणकपरीक्षायां न च पर्यायादप्यविरोधो विकारादिभ्य इति सूत्रे नानित्यतास्मत्पक्षे तु चैतन्यादेर्विशेषिणः । लक्षणस्य निवृत्तौ तु स्यान्न तच्चेतने क्वचिदित्यनुभाष्यसुधायाम् । उक्तं च बृहद्भाष्ये षष्ठे ‘अल्पतेजस्तथैवाल्पं जीवरूपं हि संसृतौ । तथैव सुमहातेजः करोति भगवान्महत्’ इति । महच्च करोतीत्यर्थः । त्रयोदशे गीतातात्पर्ये तु ‘तद्गतानां तु दुःखानां भोगोऽभिमतिरुच्यते । तदभावान्नाभिमानी भगवान्पुरुषोत्तम’ इति । अभिमतिरेव भोग इत्युक्तम् ।। अत इति ।। ईश्वरस्यादुःखानुभवेन तद्व्यापारोररीकरणे-नोक्तद्विविधविरोधस्याभावादित्यर्थः ।

अभिनवचन्द्रिका

उभयविधस्थानेति ।। वैकुण्ठभूलोकदर्शनं सन्देहबीजमित्यर्थः । नरके दुःखाङ्गीकारे ईश्वरस्य दुःखं स्यादित्यनिष्टमापदयितुं नरके ईश्वराभावात् न तस्य दुःखापादनं युक्तमित्याशङ्कानिरासाय पृच्छति  किं तत्रेति ।। आद्यं दूषयतीति ।। नरके ईश्वरमङ्गीकृत्य तत्र दुःखमस्तीति वदन्तं वादिनं दूषयतीत्यर्थः । एतेन नरके दुःखस्यैव दूषणीयत्वात्, तत्रेश्वरोऽस्तीत्याद्यपक्ष-दूषणमयुक्तमिति परास्तम् । यदि नरकस्येति ।। अत्र यदि नरकस्य सदुःखताऽङ्गीक्रियते इत्येतत्, आपादकं तर्हि ईश्वरस्य दुःखभोगप्राप्तिः स्यादित्येवमापाद्यम् । नरकस्य सदुःखत्वं नेश्वरदुःख-भोगाऽऽपादकं नियामकाभावादित्यत उक्तम् दुःखिसहावस्थानादिति ।। दुःखिसहावस्थानम-सिद्धमित्याशङ्का परिहाराय तत्रस्थानां ‘प्रेरकतया ईश्वरोऽभ्युपगम्यत’इत्यनेन पराऽभ्युपगमप्रदर्शनं कृतमिति बोध्यम् । एतेन यदि नरकस्य सदुःख ताऽङ्गीक्रियते, तर्हि ईश्वरस्य दुःखभोगप्राप्तिः स्यादित्येतावतैव पूर्णत्वात् अधिकं व्यर्थमिति परास्तम् । विपर्यये पर्यवसानमाह– ईश्वरस्येति ।। भूलोके दुःखिसहावस्थितस्यापि ईश्वरस्य शक्तिवैशेष्यात् दुःखाऽभोगवत् नरकेऽपि दुःखाऽभोगोऽस्त्वित्याशङ्क्य निषेधति न चेति ।। कुतो नेत्यत आह– दुःखाननुभव इति ।। युज्यते दुःखिना सहावस्थितस्यापि ईश्वरस्य भूलोके स्वीयतया दुःखानुभवाऽभावः । भूलोकस्य सर्वेषां स्वस्थितानां दुःखजननस्वभावाभावेन ईश्वरीय दुःखाभावात् । अस्वकीयस्य दुःखस्य स्वकीयतयाऽननुभवस्य गुणत्वेन सार्वज्ञाऽविघातकत्वात् । नरकस्थस्य तु ईश्वरस्य न स्वीयतया दुःखस्याऽननुभवाभावो युज्यते । नरकस्य स्वस्थितानां सर्वेषां दुःखजननस्वभाववत्त्वेन स्वकीय-दुःखप्राप्त्या तदनुभवाभावस्य सार्वज्ञविरोधित्वादिति भावः ।। द्वितीयमिति ।। द्वितीयवादिनं निराचष्ट इत्यर्थः ।। प्रकारद्वयेऽपीति ।। नरके ईश्वराङ्गीकारे ईश्वरस्य दुःखप्राप्त्या न नरकस्य दुःखजननस्वभावः । तदनङ्गीकारे तु ‘सर्वं विसृजति‘ इति श्रुत्या तस्य कार्यमात्रं प्रति कारणत्वात् तद्रहितप्रदेशे दुःखसम्भवेन प्रकारद्वयेऽपि नरकस्य सदुःखत्वानुपपत्तिरिति भावः ।। न चोक्तदोष इति ।। ईश्वरं विना नरके दुःखाङ्गीकारे तस्य सर्वकारणता ग्राहकश्रुतिविरोधः स्यादित्युक्तदोषः स्यादिति न वाच्यमित्यर्थः । असार्वज्ञतामाशङ्क्येति ।। ‘नासौ दुःखभुग्’ इत्युक्त्या सर्वथा दुःखज्ञानमेव नास्तीति मन्यमानस्य शंकामाशंक्येत्यर्थः ।

पूर्वपक्षस्तु नरकं न सदुःखं ईश्वरस्यापि दुःखप्रसङ्गात् । न च सहावस्थितयोः जीवेश्वरयोः जीवस्यैव दुःखं नेश्वरस्येति सम्भवति । न च भूलोके सहावस्थितयोः जीवेश्वरयोःजीवस्यैव दुःखं नेश्वरस्य शक्तिवैशेष्यादितिवत् नरकेऽपि वैषम्यं स्यादिति वाच्यम् । भूलोकस्य स्वस्थितानां सर्वेषां दुःखजननस्वभावाभावेन तत्र तथासम्भवेऽपि, नरकस्य स्वस्थितानां सर्वेषां दुःखजननस्वभाववत्त्वेन वैषम्यायोगात् । न च तत्रेश्वाराभावान्न दुःखप्रसङ्गः । ‘सर्वं सृजति’ति श्रुत्या ईश्वरस्य कार्यमात्रं प्रति कारणत्वेन तत्रेश्वराभावे सुतरां दुःखायोगात् । ततश्चोभयथापि दुःखासम्भवात् न तत्र वैराग्येण भाव्यमिति ।

सिद्धान्तस्तु भवत्येव नरकं सदुःखम् । तत्रापि ईश्वरव्यापाराङ्गीकारेण अकारणकत्वदोषा-भावात् । न चेश्वरस्य दुःखप्राप्तिः । नरकस्यापि तद्वशत्वेन अदुःखानुभवेनैव तत्प्रेरकत्वात् । न च तत्र प्रमाणाभावः । ‘स स्वर्गे स भूमौ स नरक’ इति श्रुतेः, ‘नरके पि वसन्नीश’ इति स्मृतेश्च । ततश्च नरकस्य सदुःखत्वात् तत्र वैराग्येण भाव्यमिति सिद्धम् ।

वाक्यार्थमुक्तावली

नरकस्येति ।। नित्यानित्यत्वविभागयुक्ततया सिद्धस्य नरकस्य धर्मिणः सदुःखत्व-रूपधर्मविचारादनन्तरसङ्गतिरपीति भावः । अत्र नरकं निर्दुःखमुत सदुःखमिति चिन्ता । तदर्थं दुःखिसहावस्थानेऽपीश्वरस्य दुःखपरिहारोपयोगितदननुभवे सार्वज्ञं चास्त्युत नास्तीति ।। उभयविधेति ।। वैकुण्ठभूलोकदर्शनमित्यर्थः । वैकुण्ठे मुक्तस्थाने शापादिप्रयुक्तेषद्दुःखस्याप्य-भावात् । सूत्रे चशब्दनिवर्तनीयपूर्वपक्षप्रदर्शकं ईश्वरस्य नरकायुक्तेरिति भाष्यं सहस्थानमिति न्यायप्रदर्शकतयापि व्याचष्टे ।। आद्यं दूषयतीति ।। बहिरेव तर्कमुक्त्वा विपर्ययपर्यवसायिनः प्रदर्शनपरतया ईश्वरस्येति भाष्यं योजयति ।। ईश्वरस्य नरकभोगायुक्तेरिति ।। नरकभोगस्येश्वरत्व-युक्त्या ‘निरनिष्टो निरवद्य’ इत्यादिश्रुत्या च विरुद्धत्वादित्यर्थः । अत एव वक्ष्यति । अस्मिन्पक्षे कथितविरोधपरिहारो वाच्य इति ।

ननु ‘सम्भोगप्राप्तिः’ इति सूत्रे सार्वज्ञादिसामर्थ्यवैशेष्येण जीवेन सह स्थितावपि न जीवसमानभोगप्राप्तिरित्युक्तत्वात्कथं पूर्वपक्षोत्थानमित्याशङ्क्य परिहरति ।। न च वैशेष्ययुक्त्येति ।। सार्वज्ञाभावप्रसङ्गादिति ।। तथा च सार्वज्ञादिवैशेष्ययुक्तिरेव न सिद्धेति भावः । अत एव नीचोच्चतैवेत्यादिना सार्वज्ञादिशङ्का परिहरिष्यत इति हृदयम् । तत्रापि तद्व्यापारादविरोध इति सूत्रांशनिवर्त्यपूर्वपक्षप्रदर्शकं सर्वं सृजतीत्यादिभाष्यन्यायं प्रकारान्तरेण विवृण्वन्व्याचष्टे ।। द्वितीयमिति ।। श्रुतिविरोध इति । सहावस्थानप्रतिपादकश्रुतिविरोध इत्यर्थः । सर्वं रमयति सर्वं न रमयतीत्येतद्विरुद्धमित्यत आह ।। योग्यं सर्वमिति ।। यो जनो रमणयोग्यस्तं सर्वं रमयति यस्त्वरमणयोग्यस्तं सर्वं न रमयतीत्यर्थः ।। न चोक्तदोष इति ।। द्वितीयपक्षोक्तदोष इत्यर्थः । चशब्दाद्दुःखाननुभवेनाविरोध इति भाष्येऽन्वयमभिप्रेत्य शेषपूरणेन व्याचष्टे ।। तत्रापीति ।। प्रभुत्वादित्यनेनैव कारणाभव इत्युक्तन्यायः स्वतन्त्रत्वेन सहभावेऽपि दुःखकारणाभव इति सूचित इत्याह ।। सहभावयुक्तीति ।। सूत्रे व्यापारपदेन कर्तृत्वमिव कारयितृत्वमपीति भावेन भाष्ये सर्वं कारयतीत्युक्तम् ।

तत्त्वसुबोधिनी

सदुःखत्वेति ।। निर्णीते धर्मिणि धर्मचिन्तेति पूर्वाधिकरणेऽवान्तरभेदभिन्ने नरके निर्णीते इदानीं तद्गतस्य दुःखवत्वरूपधर्मविचारः क्रियत इत्यनन्तरसङ्गतिः ।। उभयविधस्थानेति ।। निर्दुःखं स्वर्गादिकं सदुःखं भूम्यादिकमित्यर्थः । भाष्ये ईश्वरस्य नरकायुक्तेः श्रुतिविरोध इति यथाश्रुतान्वयभ्रमनिरासाय ईश्वरस्य नरकायुक्तेरिति भाष्यं सौत्रचशब्दनिवर्तनीयपूर्वपक्षप्रतिपादनाय प्रवृत्तम् । ‘सर्वं विसृजति’ इत्यादि भाष्यं तु तत्रापि च तद्व्यापारादविरोध इति सूत्रांश-निवर्तनीयपूर्वपक्षप्रतिपादनाय प्रवृत्तमित्यभिप्रेत्य पूर्वपक्षं विवृणोति ।। तथा हीत्यादिना ।। विपर्यये पर्यवसानपरतया भाष्यं योजयति ।। ईश्वरस्येति ।। नरकायुक्तेरित्यस्य नरकेऽवस्थानायुक्तेरिति प्रतीतिनिरासार्थमुक्तम् ।। दुःखायुक्तेरिति ।। ननु ‘ॐ सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॐ’ इति सूत्रेण सार्वज्ञादिसामर्थ्यवैशेष्यात् जीवेन सहावस्थितावपि न जीवसमानभोगप्राप्तिरित्युक्तत्वात् कथमेवं पूर्वपक्षोत्थानमित्याशङ्क्य परिहरति ।। न च वैशेष्येति ।। सार्वज्ञाभावेति ।। तथा च सार्वज्ञादिवैशेष्ययुक्तेरेवासिद्धिरिति भावः । अत एव नीचोच्चतैवेत्यादिना सार्वज्ञासिद्धिशङ्कां परिहरतीति हृदयम् । ननु साधूनेव रमयति नासाधून् । असाधूनेव न रमयति न साधून् इति कथं सर्वं रमयति सर्वं न रमयतीत्युक्तमित्यत आह ।। योग्यं सर्वमिति ।। नन्वीश्वरस्य दुःखि-जीवसहभूतस्य सदुःखत्वं स्यादित्यत आह ।। सहभावेति ।।

वाक्यार्थविवरणम्

तत्साधने पापे नरकं नरकस्थानम् । दुःखज्ञानमेव दुःखानुभव इत्यभिप्रेत्याह ।। दुःखेति ।। तर्हि श्रुतिविरोध इति ।। ‘सर्वं न रमयत्यन्तरस्मिन्निविष्ट’ इति सर्वेषां सुखदुःखादिप्रदत्वेनेश्वरस्य सद्भावप्रापकश्रुत्यादिविरोध इत्यर्थः । तथा चैवं दुःखादिप्रदत्वेन श्रुतिसिद्धेश्वरस्य नरकेऽनङ्गीकारे दुःखमेव न सम्भवति । तत्प्रदातुरेवाभावादिति भावो द्रष्टव्यः । एवं हि सति अतः प्रकारद्वयेऽपि न नरकस्य सदुःखत्वानुपपत्तेरित्युत्तरटीकावाक्यं युक्तम् । अन्यथेश्वरस्य नरके सद्भावपक्षे नरकस्य सदुःखत्वानुपपत्तावपि प्रेरको नेति पक्षे कथं नरकस्य सदुःखत्वानुपपत्तिः । अतः प्रकार-द्वयेऽपीत्युक्तमयुक्तमिति शङ्कानवकाश इति ध्येयम् ।। उभयविधेति ।। नरकस्य सदुःखत्वपक्षे तत्रेश्वरसत्त्वानङ्गीकारे श्रुतिविरोधः । तत्सत्त्वाङ्गीकारे दुःखिना सहावस्थानाद्दुःखप्राप्तिरूपो विरोध इत्युभयविधविरोधेत्यर्थः ।। सहभावयुक्तीति ।। दुःखिना सहावस्थानरूपयुक्तीत्यर्थः ।। असार्वज्ञेति ।। ‘नासौ दुःखभुक्’ इति तस्य दुःखानुभवानङ्गीकार इति शेषः । भाष्ये एवं वेत्तुः फलमुक्तं नासाविति ।। य एवं वेदासौ न दुःखभुक् । ‘तं यथा यथोपासत’ इति श्रुतेरित्यर्थः ।। कथमिति ।। तथात्वे सार्वज्ञमेव न स्यादिति भावः ।। आहेति ।। दुःखानुभवो नाम दुःखज्ञानमात्रं न विवक्षितमित्याशयेनाहेत्यर्थः । तत्र तत्साधने च ।

वाक्यार्थमञ्जरी

उभयविधस्थानेति ।। निर्दुःखं स्वर्गादिकं सदुःखं भूम्यादिकमित्यर्थः । ननु ‘ॐ सम्भोगप्राप्तिरिति चेन्न वैशेष्याद्’ इति सूत्रेण सार्वज्ञादिसामर्थ्यविशेषवत्वेन जीवसहावस्थितावपि न जीवसमानभोगप्राप्तिरित्युक्तत्वात्कथमियं शङ्केत्याशङ्क्य निषेधति ।। न च वैशेष्येति ।। सार्वज्ञाभावप्रसङ्गादिति ।। तथा च सार्वज्ञादिसामर्थ्यवैशेष्ययुक्तिरेवासिद्धेति भावः । ननु साधूनेव रमयति नासाधून् असाधूनेवारमयति न साधूनतः कथं सर्वं रमयति सर्वं न रमयतीत्युक्तमित्यत आह ।। योग्यं सर्वमिति ।। ॐ तत्रापि च तद्व्यापारादविरोधः ॐ ।। तत्रापि च नरकेऽपि च दुःखाभोगेनैव तद्व्यापारात्तस्य हरेः प्रेरणाख्यव्यापारादविरोधः हरेर्दुःखभोगप्रसङ्गेन वा सर्वं रमयतीति श्रुत्या वा न विरोध इत्यर्थः ।

।। इति तद्व्यापाराधिकरणम् ।। १३ ।।