ॐ जगद्व्यापारवर्जम् ॐ

९. सर्वकामाधिकरणम्

सूत्रभाष्यम्

।। ॐ जगद्व्यापारवर्जम् ॐ ।। १७ ।।

सर्वान्कामानाप्त्वाऽमृतः समभवत्’ इत्युच्यते । तत्र सृष्ट्यादिभ्योऽन्यान्व्यापारानाप्नोति ।।

तत्त्वप्रदीपिका

ननु हन्तैवं परमगतिं प्राप्तानां सत्यसङ्कल्पानां यथेष्टभोगभोगिनां किमपि नाशक्यमुपलभामहे । ‘सर्वान्कामानाप्त्वाऽमृतः समभवत्’ इति च श्रुतिः । अतः सृष्ट्यादीनपि प्राप्नोतीत्यत आह– जग-द्व्यापारवर्जम् ।। ‘सर्वान्कामानाप्त्वा’ इति हि श्रुतावुच्यते । तत्र सृष्ट्यादिभ्योऽन्या-न्कामानाप्नोतीत्यर्थः ।

तत्त्वप्रकाशिका

अत्र ब्रह्मप्राप्तस्य मुक्तस्य भोगेयत्तासमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथा भगवतः सर्वोत्तमत्वाभावप्रसङ्गात्समर्थनीयमेतत् । प्रकृता मुक्ता एवात्र विषयः । जगत्सृष्ट्यादि-व्यापारानाप्नुवन्ति न वेति सन्देहः । तस्य ब्रह्मलक्षणत्वेनोक्तिर्मुक्तस्य सत्यकामत्वं च सन्देहबीजम् । आप्नुवन्तीति पूर्वः पक्षः । सर्वान्कामानाप्त्वेति श्रुतेः । सृष्ट्यादिव्यापारस्यापि काम्यत्वात् । न च सर्वशब्दस्य सङ्कोचः । मुक्तस्य सत्यकामत्वेन कामितसमस्तप्राप्त्युपपत्तेः सङ्कोचे कारणाभावात् । अन्यथोक्तसत्यकामत्वव्याघातात् । अतो मुक्तानां जगज्जन्मादिकर्तृत्वादयुक्तं लक्षणसूत्रमिति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। जगदिति ।। न मुक्तानां जगद् व्यापारः किं तु तद्व्यतिरिक्त-कामावाप्तिरेव । ‘सर्वान्कामान्’ इति सर्वकामावाप्तिरुच्यत इति चेत् । सत्यम् । तत्रापि जगद्व्यापारवर्जमेव सर्वान्कामानाप्नोतीत्यर्थोपपत्तेरिति भावः ।

भावबोधः

भोगेयत्तासमर्थनादिति ।। पूर्वाधिकरणे कारणनिर्णयेन परिहृतानुपपत्तिकस्य भोगस्य अत्र इयत्तासमर्थनादनन्तरसङ्गतिरिति भावः ।। जगदिति ।। अत्र सर्वे मुक्ता जगद्व्यापारादि-सर्वभोगानाप्नुवन्ति उत नाप्नुवन्तीति चिन्ता । तदर्थं ‘सर्वान् कामान्’ इति श्रुतिगत‘सर्व’शब्दः किमसङ्कुचितवृत्तिरुत सङ्कुचितवृत्तिरिति । तदर्थं ‘अस्माच्छरीरभेदात्’ इत्यनेनावगतस्य ‘सर्वान्’ इति श्रुतेर्जीवप्रकरणत्वस्य च सर्वशब्दसङ्कोचकत्वं न सम्भवतीति । तदर्थं सर्वजीवानां सर्व-कामावाप्तिसामर्थ्यमस्त्युत नास्तीति । तदर्थं ‘सर्वेऽस्मै देवा बलिमावहन्ति’ इति श्रुतिः किं सर्वमुक्तजीवविषया उत मुक्तहिरण्यगर्भमात्रविषयेति । तन्मात्रविषयत्वपक्षेऽपि किं मुक्तविरिञ्चस्य संसार्यादिसर्वजीवनियामकत्वतत्पूज्यत्वादिकं उत स्वसहमुक्तमात्रनियामकत्वतत्पूज्यत्वादिकमिति । तदर्थमत्र प्रमाणमस्त्युत नास्तीति । सर्वान् कामानाप्त्वाऽमृतः समभवदिति भाष्योक्तयुक्तिमाह– सर्वान् कामानिति । सङ्कल्पादेव समस्तसम्भवात् सृष्ट्यादिकार्यसम्भव इति न्यायविवरणोक्त-युक्तिमाह– मुक्तस्य सत्यकामत्वेनेति ।। तत्रापीति ।। सर्वशब्दविशेषितकामशब्दोक्तेषु विषयेष्वपीत्यर्थः । अनेन भाष्यगततत्रेतिपदमुक्ततात्यर्यं भवति ।

भावदीपः

भोगेयत्तेति ।। भोगस्य मर्यादेत्यर्थः । एवं भोगेऽनुपपत्तिनिरासेन समर्थिते सत्यत्र तदियत्ता-चिन्तनमवसरप्राप्तमिति भावः । अन्यथा निरङ्कुशत्व इत्यर्थः । उक्तिर्जन्मादिसूत्र इत्यर्थः । सङ्कल्पादेव समस्तसम्भवात्सृष्ट्यादिकार्यसम्भव इत्यन्यत्रोक्तप्रतिज्ञामुक्त्वा भाष्यसूचितहेतुं तावदाह ।। आप्नुवन्तीति ।। श्रुतेर्निरवकाशतोपपादकत्वेन न्यायविवरणोक्तहेतुं व्यनक्ति ।। न च सर्वेति ।। अथाप्यस्तु सङ्कोच इत्यत आह ।। सङ्कोच इति ।। प्रकरणादि तु न कारणं बद्धस्यासामर्थ्येऽपि मुक्तस्य जगद्व्यापारसामर्थ्यसम्भवात् । मुक्तस्यापि जीवत्वेन बद्धवदसामर्थ्ये बाधकमाह ।। अन्यथेति ।। अत इति ।। सत्यकामत्वयुक्त्या निरवकाशश्रुतिबलादित्यर्थः ।। पूर्वपक्षं निराह ।। नेति ।। तस्य पर्यवसितार्थपरतया सृष्ट्यादिभ्योऽन्यानाप्नोतीति भाष्यं व्याचष्टे ।। किं त्विति ।। शङ्कोत्तरत्वेनापि समग्रभाष्यं व्यनक्ति ।। सर्वानिति ।। तत्रापीति ।। सत्यकामत्वयुक्त्यनुसङ्गृहीत-श्रुतावपीत्यर्थः ।। शेषं मत्वाह ।। इत्यर्थोपपत्तेरिति ।।

अभिनवचन्द्रिका

भोगेयत्तासमर्थनादिति ।। न मुक्तनां निरुपचरितसर्वकामावाप्तिः अपि तु स्वयोग्यसर्वकामा-वाप्तिरिति समर्थनादित्यर्थः ।। भगवत इति ।। उपलक्षणमेतत् । मुक्तेषु तारतम्याभावप्रसङ्गात् इत्यपि ग्राह्यम् ।। सृष्ट्यादिव्यापारानिति ।। इदं तु संदेहप्रदर्शनमुदाहरणमात्रम् । मुक्ताः स्वोत्तमैश्वर्यं लभन्ते न वेत्यपि ग्राह्यम् ।। सिद्धान्तयत्सूत्रमिति ।। ‘सर्वान्कामानाप्त्वा’ इति श्रुत्यर्थकथनेन मुक्तस्य जगव्द्यापारप्राप्ते र्निष्प्रामाणिकत्वसूचनमुखेन सिद्धान्तं सूचयत्सूत्रमुपन्यस्य व्याचष्ट इत्यर्थः । एतेन सूत्रे सिद्धान्तहेत्वनभिधानात् सूत्रस्य सिद्धान्तप्रापकत्वाभिधानमयुक्तमिति परास्तम् । सूत्रे प्रतिज्ञाऽभावात् प्रतिज्ञामध्याहरति – न मुक्तानामिति ।। प्रतिज्ञया सूत्रं सङ्गमयितुं शङ्कते – सर्वान्कामानिति ।। सत्यं तत्रापीति ।। सत्यं सर्वकामावाप्तिः श्रुत्योच्यत इति तत्रापि तथापि सा श्रुतिर्नास्माकं बाधिका । तस्याः श्रुतेः जगद्व्यापारवर्जमेव सर्वान् कामानाप्त्वेत्यर्थोपपत्तेरिति भावः । कुतः श्रुतेः सङ्कोच इति ।। ‘सर्वान् कामानाप्त्वा’ इति श्रुतेः कुतो जीवपरत्वम् । जीवपरत्वेऽपि कुतः श्रुत्यर्थसंकोच इति तटस्थ आक्षिपतीत्यर्थः । परमसाध्यं निर्दिशति ।। युक्त एवेति ।। जीवपरत्वेऽपि कुतः श्रुत्यर्थसंकोच इति द्वितीयाक्षेपं परिहरति – जीवानां चेति ।। प्रकरणात् श्रुत्युक्तो जीवः । असन्निहितत्वात्तु श्रुत्यर्थसंकोच इति सूत्रयोजना द्रष्टव्या । एतेन असन्निहितत्वादित्येतावतैव पूर्णत्वात् सूत्रे प्रकरणादिति व्यर्थं समुच्चयायोग इति च परास्तम् ।। ता वा एता इति ।। तावा एताः = प्रसिध्दाः चतस्रः = ‘भूर्भुवःस्वर्महरिति चतुर्विध-व्याहृतिप्रतिपाद्याः अनिरुध्दाद्याः भगवन्मूर्तयः, प्रत्येकं अनिरुध्दादिभेदेन चतुर्धा । या एताः चतस्रः = अनिरुध्दाद्याः चतस्रः = प्रत्येकमनिरुध्दादिभेदेन चतस्रः व्याहृतिप्रतिपाद्यः, ता एताः षोडश भगवन्मूर्तीः, यो वेद स ब्रह्म वेदेत्यर्थः ।। अमुक्तज्ञानिनामिति ।। अमुक्तस्वरूपं साकल्येन पश्यतां ज्ञानिनाममुक्तनिष्ठतया जगदैश्वर्याऽदर्शनात् नायं श्रुत्यर्थ इत्यर्थः । किमेतच्छ्रुतिबलेनाऽशेषमुक्तानां परमेश्वरवत् जगदैश्वर्यमुच्यते, उत हिरण्यगर्भस्यैवेति विकल्पं मनसि कृत्वा पक्षद्वयप्रतिषेधं युगपत्प्रतिजानीते – नैतच्छ्रुतिबलेनेति ।। एतच्छ्रुतिबलेन हिरण्यगर्भस्य वा, अशेषमुक्तानां वा जगदैश्वर्यं न सिध्यतीत्यर्थः । प्रतिज्ञाद्वये युगपत् हेतुमाह– मुक्त-हिरण्यगर्भस्यैवेति ।। अत्रायं विवेकः – हिरण्यगर्भमात्रविषयत्वाच्छ्रुतेः नाऽनया सर्वेषां जगदैश्वर्यसिद्धिः । हिरण्यगर्भस्यापि मण्डलाधिपत्यप्रतिपादकत्वात् नाऽनया सर्वैश्वर्यसिद्धिरिति । आधिकारिकपदमिति ।। श्रुत्यन्तरसिद्धस्य स्वावरनियामकत्वस्य सूचनायाऽऽधिकारिकपदमित्यर्थः ।

ननु मुक्तानामिति ।। मुक्तेषु तारतम्यसद्भाव एव सर्वमिदमुपपन्नं । भवेत् तदेव कुत इत्यतः प्रमाणोदाहरणेन तारतम्योक्तिपूर्वकं हिरण्यगर्भस्य सर्वनियामकत्वं देवानां स्वावरनियामकत्वं चाहाऽऽचार्यो भाष्यकार इत्यर्थः । आत्मत्वोपासकानां श्वेतद्वीपगमनोक्तिरयुक्ता । ‘योग्यत्वं चात्र विवक्षितम्’ इति गीताभाष्ये न सर्वेषां मुक्तानां श्वेतद्वीपावाप्तिः, किं तु अत्र श्वेतद्बीपावाप्तौ योग्यत्वं च विवक्षितमिति अभिधानादित्यत आह – योग्यत्वं चेति ।। गीताभाष्ये निवासार्थमेव योग्यत्वमुक्तं ‘न तु दर्शनार्थमुक्तमिति न तद्विरोध इति भावः ।। पृथिमीमारभ्येति ।। पृथिवीमारभ्य केचिदत्रैव मुच्यन्ते’ इत्युक्तक्रमेण स्थितेषु यावत्सुस्थानेषु नारायणोऽस्ति तावत्सर्वस्थानेषु सालोक्याद्यस्त्येवेत्यर्थः । ननु नारायणावस्थानं न सालोक्यादिप्रयोजकं नरकादावपि तत्प्रसङ्गादित्यत आह– ईश्वरस्येति ।। मुक्तप्राप्यत्वरूपविशेषस्य उक्तस्थानेष्वेवावस्थितेरत्रैव सालोक्यादीति भावः । अत एव मूले क्षीरसागर इति यावत्सु स्थानेषु नारायाणोऽस्ति तावत्सु सालोक्याद्यस्तीत्युक्तम् । अन्यथा क्षीरसागर इति पदं व्यर्थं स्यात् चकारेणेति ।। ‘प्रत्यक्षोपदेशात्’ नेति नकारः चकारेणाऽनुषज्यत इत्यर्थः ।

ननु किं चकारं प्रयुज्य तेन नकारानुकर्षणेन । नकार एव किं न प्रयुज्यते । न च सूत्रलाघवं भवति । चकारप्रयोगे वा नकारप्रयोगे वा साम्यात् । प्रत्युत चकारप्रयोगे प्रतिपत्तिगौरवमिति चेन्न । अनुवृत्यैव लभ्यस्य नकारस्य प्रयोगायोगात् । न च चकारवैयर्थ्यम् । चकाराप्रयोगे उत्तरसूत्रेषु नकारानुवृत्तिर्विज्ञायेत । तन्मा विज्ञायीति चकारप्रयोगः । ‘चानुकृष्टं न सर्वत्र’ इति नियमात् चकारप्रयोगे उत्तरसूत्रेष्वनुवृत्त्यभावो विज्ञायते । यद्यपि उत्तरत्र नञोऽन्वयानुपपत्त्यापि अनुवृत्त्यभावो विज्ञातु शंक्यः, तथापि अन्तरङ्गज्ञापकाभाव एव बहिरङ्गमन्वेषणीयम् । इह तु शिष्यहितैषिणा सूत्रकृता अन्तरङ्गज्ञापकमुक्तम् । मानवमावर्तमिति पदद्वयेनोक्तमर्थं तद्वाचकप्रसिद्धपदस्य व्युत्पत्तिप्रदर्शनमुखेन ज्ञापयति – मानवा यत्रेति ।। एतेन मानवावर्तमिति समस्तपदस्य मूलेऽभावात् तद्व्युत्पत्तिप्रदर्शनमयुक्तमिति परास्तम् ।

पूर्वपक्षस्तु मुक्ता अपि पारमेश्वरं जगद्वापारमाप्नुवन्ति । ‘सर्वान्कामानाप्नोति’ इति श्रुतेः । न च सर्वशद्बसंकोचः । बाधकाभावात् । अन्यथा सत्यकामत्वव्याघातः । कामिताऽप्राप्तौ दुःखप्रसङ्गश्च । अतो मुक्तानां जगज्जन्मादिकर्तृत्वात् अयुक्तं लक्षणसूत्रमिति ।

सिद्धान्तस्तु न मुक्तनां सर्वकामावाप्तिः । प्रमाणाभावात् । न च ‘सर्वान्कामानाप्त्वा’ इति श्रुतिस्तत्र प्रमाणमिति वाच्यम् । योग्यसर्वकामाऽवाप्तेरेव श्रुत्यर्थत्वात् । ननु ‘सर्वान् कामानाप्त्वा’ इति श्रुतेः ईश्वरपरत्वेन जीवपरत्वाभावात् नानया श्रुत्या मुक्तस्य जगद्वापारसिद्धिरित्येवोत्तरं युक्तमिति चेत् उच्यते सङ्कोचेनैवोत्तरं युक्तं, श्रुतेर्जीवपरत्वात् तत्कुत इति चेत्, ‘शरीरभेदादुत्क्रम्य’ इति जीवप्रकरणात् । अस्तु श्रुतेः जीवपरत्वं, सङ्कोचः कुत इति चेत् जीवस्य तादृक्-सामर्थ्यविधुरत्वात् । ननु अस्त्येव मुक्तानां जगदैश्वर्यं, ‘सर्वेऽस्मै देवा बलिमावहन्ति’ इति प्रत्यक्षोपदेशादिति चेन्न । किमनया श्रुत्या सर्वमुक्तानां जगदैश्वर्यं सिध्यतीत्युच्यते, उत चतुर्मुखस्य । नाद्यः श्रुतेश्चतुर्मुखविषयत्वात् । नापि द्वितीयः चतुर्मुखस्य मुक्ताऽऽधिकारिक-मण्डलाधिपत्यस्यैवाऽभिधानेन सर्वाधिपत्यानभिधानात् । ननु ब्रह्मादिदेवानां मुक्तनियामकत्वमात्रमेव कुतोऽङ्गीक्रियते संसारिनियामकत्वमपि किं न स्यात् इति चेत्, न ‘इमं मानवमावर्तं नावर्तन्त’ इति निषेधात् । अतो मुक्तानां जगद्व्यापाराभावात् युक्तं लक्षणसूत्रमिति सिद्धम् ।।

वाक्यार्थमुक्तावली

यदि मुक्तानां सत्यकामत्वाविच्छया चिता वाचिता वा भोगस्तत एव सृष्ट्यादि-व्यापारोऽप्यस्त्वित्यत्याक्षेपोत्थानादनन्तरसङ्गतिः ।। जगदिति ।। अत्र मुक्ताः जगत्सृष्ट्यादि-व्यापारानाप्नुवंत्युत नेति चिन्ता । तदर्थं तेषां सत्यकामत्वप्रतिपादकश्रुतौ सर्वशब्दस्य सङ्कोचे कारणं नास्त्युतास्तीति । सर्वान्कामानाप्त्वाऽमृत इति भाष्यसूचितं समस्तकार्यमिति पूर्वाधिकरण-सम्बन्धिनमेव पूर्वपक्षन्यायं प्रदर्शयिष्यन् न्यायार्थतया साध्यमाह ।। आप्नुवन्तीति ।। मुक्ताः समस्तं कार्यं सृष्टादिव्यापारमाप्नुवन्तीत्यर्थः । कुत इत्यतः समस्तकाम्यप्राप्त्याख्यकार्यश्रुतेरिति भावेनाह ।। सर्वानिति ।। ननु भवेच्छ्रुतिबलात्समस्तकामाप्तिः सृष्ट्यादिव्यापारावाप्तिस्तु कुतः समस्तस्य सृष्ट्यादिरूपव्यापाराख्यकार्यस्यापि समस्तकाम्यान्तर्भावादिति भावेनाह ।। सृष्ट्यादीति ।। कुतो न सङ्कोच इत्यतो मुक्तस्य समस्तकामितवत्वेन कामनायोग्यसृष्ट्यादिसमस्तकार्यप्राप्त्युपपत्तेरिति भावेनाह ।। मुक्तस्येति ।। विपक्षे बाधकपरत्वेनापि न्यायं विवृणोति ।। अन्यथेति ।। एतेन सम्यगस्तं निरस्तं व्याहतं कार्ये सत्यकामत्वाख्यं प्रसज्येतेति विवृतं भवति । सूत्रे मुक्तः जगद्व्यापारवर्जं सर्वकामानाप्नोतीत्यध्याहारं च मत्त्वा प्रवृत्तं सृष्ट्यादिभ्योऽन्यानाप्नोतीति भाष्यांशं तावद्व्याचष्टे ।। न मुक्तानामिति ।। तर्हि श्रुतिविरोध इत्याशङ्क्य तत्सावकाशत्वप्रतिपादनपरत्वेन सूत्रं व्याकुर्वन् कामानित्यादि समग्रभाष्यं व्याचष्टे ।। सर्वानित्यादिना ।। आप्नोतीत्यतः परं इत्यर्थोपपत्तेरिति शेषः । ततश्च यद्यपि सर्वान् कामानाप्त्वाऽमृतः समभवदित्युच्यते । तथापि तत्र श्रुतावपि सृष्ट्यादिभ्योऽन्यानाप्नोतीत्यर्थोपपत्तेरिति भाष्यार्थः । सूत्रस्यापि जगद्व्यापारवर्जं सर्वान् कामानाप्त्वेति श्रुत्यर्थ इत्यध्याहारेणार्थ इति भावः ।

तत्त्वसुबोधिनी

भोगपक्षेऽपि भोगोपपत्युक्तिमत्तासमर्थनादिति । पूर्वाधिकरणे कारणनिर्णयेन परिहृतानु-पपत्तिकस्य भोगस्यात्रेयत्तासमर्थनादनन्तरसङ्गतिरिति भावः । सर्वान् कामानाप्त्वाऽमृतः समभावदिति भाष्योक्तयुक्तिमाह ।। सर्वान् कामनिति ।। सङ्कल्पादेव समस्तसम्भवादिति न्यायविवरणोक्तां युक्तिमाह ।। मुक्तस्येति ।। प्रकरणादसन्निहितत्वाच्चेति सूत्रनिरसनीयमाह ।। सङ्कोच इति ।। तत्रापीति सर्वशब्दविशेषितकामशब्दोक्तेषु विषयेष्वपि ।

वाक्यार्थविवरणम्

भोगेयत्तेति ।। भोगे इयत्ता मर्यादेत्यर्थः ।।

वाक्यार्थमञ्जरी

इयत्ता मर्यादा कामान् काम्यान् ।। अन्यथेति ।। काम्यस्यापि सृष्ट्यादिव्यापारस्य लाभ इत्यर्थः ।। ॐ जगद्व्यापारवर्जं ॐ ।। मुक्तः जगत्सृष्ट्यादिव्यापारवर्जतदतिरिक्तानेव कामा-नाप्नोतीत्यर्थः ।

 

 

Load More