ॐ व्यतिहारो विशिंषन्ति हीतरवत् ॐ

२२.व्यतिहाराधिकरणम्

सूत्रभाष्यम्

नेति चेन्न —

।। ॐ व्यतिहारो विशिंषन्ति हीतरवत् ॐ ।। ३८ ।।

उक्तं प्राणात्परमात्मन उत्तमत्वं पूर्वोक्ताध्याहारेण ‘एष तु वा अतिवदति’ (छां.उ.७-१६) इति विशिंषन्ति हि । यथेतरेषु विशेषणम् ।

उत्तमत्वं हि देवानां मुक्तावपि हि मानवात् ।

तेभ्यः प्राणस्य तस्माच्च नित्यमुक्तस्य वै हरेः’ इति (च) बृहत्तन्त्रे ।

तत्त्वप्रदीपिका

न प्राणात्परमात्मन उत्तमत्वं तत्रोक्तमिति चेन्न । व्यतिहारो विशिंषन्ति हीतरवत् । उपदिष्टमेव तत्र प्राणात्परमात्मन उत्तमत्वं पूर्वोक्तप्रश्नप्रतिवचनाध्याहारेण ‘अस्ति भगवः प्राणाद्भूय इति, प्राणाद्वाव भूयोऽस्तीति, तन्मे भगवान्ब्रवीत्विति, वाग्वाव नाम्नो भूयसी’इत्यादि । अध्याहारयुक्ति-माह– ‘एष तु वा अतिवदति’ इति विशिंषन्ति हीति । अयमर्थः । ‘अतिवाद्यसीति, अतिवाद्य-स्मीति ब्रूयान्नापह्नुवीत’इत्युक्तात्प्राणातिवादिनः सत्यातिवादिनं विशिंषन्ति च्छन्दोगाः, ‘एष तु वा अतिवदति यः सत्येनातिवदति’ इति । एवं विशिंषन्तः प्राणात्सत्यं विशिंषन्ति हि । यथेतरेषु वागादिषु नामादिभ्यो विशेषणं भेदादिज्ञापनं एवमेतत्सत्यस्य परमात्मत्वे ।

तत्त्वप्रकाशिका

अत्र भगवज्ज्ञानसाधनोपासनाधिकारिणः प्राणात्परमेश्वरस्योत्तमत्वसमर्थनादस्ति शास्त्रादि-सङ्गतिः । अन्यथोपासनायोगात्समर्थनीयम् । प्रकृतो विष्णुरेवात्र विषयः । प्राणादुत्तमो न वेति सन्देहः । प्राणस्य हिरण्यगर्भत्वाद्विप्रतिपत्तिः सन्देहबीजम् ।। पूर्वपक्षयति ।। नेति ।। न विष्णोः प्राणादुत्तमत्वम् । छन्दोगश्रुतौ प्राणस्यैव सर्वोत्तमत्वेनोक्तत्वात् । अथोच्येत । प्राणानन्तरमपि ‘एष तु वा अतिवदति यः सत्येनातिवदति’ इति सत्यपदेनोदितस्य विष्णोराधिक्यमुच्यत इति । मैवम् । ‘अस्ति भगवः प्राणाद्भूय इति प्राणाद्वाव भूयोऽस्तीति तन्मे भवान्ब्रवीतु’ इति सत्यं वा व प्राणाद्भूत इति प्रकरणान्तरवत्प्रश्नप्रतिवचनाभावात् । कारणविशेषमन्तरेण प्रकरणभेदकल्पनायोगात् । सत्यपदेन प्राण एवोच्यते । अतः प्राणादुत्तमत्वाभावाद्विष्णोर्न तदुपासनं सर्वैः कार्यमिति भावः । पूर्वपक्षं प्रतिषेधति ।। नेति ।। कुतो नेत्यतः सूत्रं पठित्वा व्याचष्टे ।। व्यतिहार इति ।। श्रुतौ प्राणस्यैव सर्वोत्तमत्वोक्तेर्न विष्णोस्तदुत्तमत्वमिति न युक्तम् । ‘एष तु वा अतिवदति यः सत्येनातिवदति’ इति सत्यपदोदितस्य विष्णोः प्राणादुत्तमत्वस्योक्तत्वात् । प्रश्नाद्यभावात् प्राण-विशेषणमेव तदिति न वाच्यम् । प्रश्नाद्यध्याहारस्य कर्तुं शक्यत्वात् । न चाध्याहारकारणा-भावादेकप्रकरणत्वमेव युक्तमिति वाच्यम् । ‘स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति’ इति प्राणवादिनोऽतिशयितवस्तुवादित्वेनातिवादित्वमुक्तम् । ततश्च ‘एष तु वा अतिवदति यः सत्येनातिवदति’ इति सत्याख्यवस्तु वदतोऽप्यतिवादित्वमुच्यते । तत्र प्राणातिवादितः सत्याति-वादी तुशब्देन विशिष्यते । तेन ज्ञायतेऽन्योऽयमन्योऽसाविति । अतः प्रकरणभेदकसद्भावाद्युक्तं प्रश्नाद्यध्याहारेण सत्यस्य प्राणादुत्तमत्वव्याख्यानमिति भावः ।

ननु कथमेतद्विशेषणं प्रकरणभेदकं येन प्रश्नाद्यध्याहारं प्रतिपद्येमहीत्यत आह ।। यथेति ।। यथा ‘खलु वाग्वाव नाम्नो भूयसी’ इत्यादिविशेषणं प्रकरणभेदकं वाचो नामाधिक्य-वाचकत्वात्तथैतदपि भेदकं भवत्येव । यः सत्यं वदति स तु प्राणातिवादिनोऽपि विशेषेणातिशयितं वस्तु वक्तीति प्राणात्सत्यस्याधिक्यवाचकत्वादिति भावः । अत्र स्मृतिं चाऽऽह ।। उत्तमत्वमिति ।। अतो विष्णोः प्राणादुत्तमत्वाद्युक्तं तदुपासनमिति सिद्धम् ।

गुर्वर्थदीपिका

प्राणस्य हनुमदादिरूपस्य रामवशत्वेऽपि विप्रतिपत्त्यभावात्कथं पूर्वपक्षोत्थानमित्यत उक्तं प्राणस्य हिरण्यगर्भत्वादिति ।। पूर्वोक्ताध्याहारेणेति वदता वि विशेषेण अति अतिशयितापेक्षित-वाक्यस्याहारः योग्यतयाऽन्यत आहरणं व्यतिहार इति सौत्रव्यतिहारपदस्यार्थस्सूचितः । एक-प्रकारत्वे पूर्ववाक्यादावृत्तिः स्यात् । अत्र त्वपेक्षितप्रश्नप्रतिवचनवाक्यस्य ‘अस्ति भगवः प्राणाद्भूय’ इत्यादिरूपेणान्यादृशत्वादध्याहार एवेति भावः । तर्ह्यल्पाक्षरत्वाध्याहार इति किमिति नोक्तमिति चेन्न । यत्किञ्चिदधिकवाक्याहरणं निवारयितुं वीत्युपसर्गदानम् । विशेषश्च प्रकृतार्थानुकूलत्वम् । तस्मादतिमेधाव्यलौकिकः सूत्रकारो न लौकिकानुसारीति ज्ञेयम् ।

भावबोधः

प्राणात्परमेश्वरस्येति ।। पूर्वसूत्रे ‘उपदेशवत्’ इति प्राणात् परमात्मन उत्तमत्वस्योपदिष्टत्वात् तदविरोधेनैव ‘सर्वेभ्यः’ इति श्रौत‘सर्व’शब्दार्थो ग्राह्य इत्यभिहिते तदेव कथमित्याक्षेपोत्थाना-दनन्तरसङ्गतिरिति भावः । अत एव भाष्ये ‘नेति चेत्’ इति पूर्वसूत्रोक्तमेवाक्षिप्तम् ।। प्राणा-दित्यादि ।। अत्र विष्णुः किं प्राणादुत्तमो न भवत्युत भवतीति चिन्ता । तदर्थं ‘वाग्वाव नाम्नो भूयसि’ इत्यादिदेवतातारतम्यप्रतिपादकच्छन्दोगश्रुतौ प्राणाद्विष्णोरुत्तमत्वप्रतिपादकं नास्त्युता-स्तीति । ‘सत्येन’ इति वाक्यगतः ‘सत्य’शब्दः किं प्राणपरः उत विष्णुपर इति । तदर्थं प्रकर-णान्तरवत् ‘अस्ति भगवः प्राणाद्भूयः’ इत्यादिप्रश्नप्रतिवचनाध्याहारः किं न कर्तव्य उत कर्तव्य इति । तदर्थः तदध्याहारे ज्ञापकं नास्त्युतास्तीति । न विष्णोः प्राणादुत्तमत्वमिति । अनेन विष्णोरपि ततः परत्वमिति न्यायविवरणानुसारेण तस्माद्विष्णोरुत्तमत्वमिति प्रागुक्तमनुवृत्य तेन सम्बन्धः प्रदर्शितो भवति । प्राणस्यैवोन्नतिप्रतीतिरिति न्यायविवरणं व्याचष्टे– छन्दोगेति ।। ‘अस्ति भगवः प्राणाद्भूयः’ इति प्रश्नाद्यभावादिति न्यायविवरणांशं तन्निवर्तनीयाशङ्कानिरासपूर्वकं व्याचष्टे– अथोच्येतेति ।। प्रकरणान्तरवदिति ।। ‘अस्ति भगवन्नाम्नो भूय इति’ ‘नाम्नो वाव भूयोऽस्तीति’ ‘तन्मे भगवान् ब्रवीतु’ इति ‘वाग्वाव नाम्नो भूयसि’ इत्यादिनामवागादि-प्रकरणान्तरवदित्यर्थः । अनेन सौत्र‘इतरवत्’इत्यस्यार्थ उक्तो भवति ।

ननु प्रश्नप्रतिवचनाश्रवणेऽपि तदध्याहारेण ‘यः सत्येन’ इत्यादेः प्रकरणान्तरत्वं सम्भव-तीत्यतः ‘विशिंषन्ति’ इति सूत्रनिवर्तनीयाशङ्कामाह– कारणविशेषमिति ।। प्रश्नाध्याहारस्य कर्तुं शक्यत्वादित्यादिना पूर्वोक्ताध्याहारेणेत्यादिभाष्यव्याख्यानपरेण ‘एष तु वा अतिवदति’ इति विशेषणात् प्रतिवचनप्रतिसन्धानोपपत्तेरिति न्यायविवरणमप्युक्ततात्पर्यं भवति ।

भावदीपः

प्राणादिति ।। उपदेशवदिति पूर्वसूत्रखण्डे प्राणाद्विष्णोरुत्तमत्वं श्रुत्युपदिष्टतयाऽभिमतं तन्नेति शङ्कायां तत्समर्थनादित्यर्थः । तेन पूर्वेणाक्षेपिकी सङ्गतिरप्यस्य सिद्धा ज्ञेया । उपासकचिन्ता-नन्तरमुपास्यचिन्तनाद्वा पूर्वसङ्गतिर्ध्येया । अत्र प्राणादित्यादिनैव पूर्तावधिकारिण इत्यन्तोक्तिः शास्त्रादिसङ्गत्युपपादनाय । फलमाह ।। अन्यथेति ।। प्राणाद्विष्णोरुत्तमत्वासमर्थने प्राणस्यैव सर्वोत्तमत्वप्राप्तावन्यस्योपास्यस्याभावात्प्राणस्य च स्वयं बद्धत्वेन गौणश्चेदिति सूत्रे न हि गौणात्म-निष्ठस्य मोक्ष इत्युक्तदिशा अन्यमोचकत्वायोगान्मोक्षार्थप्रवृत्तोपासनायोगादित्यर्थः । यद्वा सर्वोत्तमत्वासमर्थने सच्चिदानन्द आत्मेति यत्सर्वसाधारणमुपासनमुक्तं तदयुक्तं स्यात् । स्वामित्व-रूपात्मत्वस्याभावादित्यर्थः । क्वचित्तदुपासनायोगादित्येव पाठः ।। प्रकृत इति ।। पूर्वसूत्रादौ भेदप्रतियोगित्वादिनाऽक्षरपदेन प्रकृत इत्यर्थः । यस्योत्तमत्वं वाच्यं स एवेत्येवार्थः ।। हिरण्य-गर्भत्वादिति ।। ‘वायुरेव यतो ब्रह्मपदं नियमतो व्रजेत् । सहैव जननेऽप्यस्मात्पूर्वं वायोर्जनिं वदेत्’ इति आद्याध्यायबृहद्भाष्योक्तस्मृतेरिति भावः । विप्रतिपत्तिः, वादिविप्रतिपत्तिः । हिरण्यगर्भोत्त-मत्त्ववादिन एव प्राणोत्तमत्त्ववादिन इति भावः । एतेनात्र तारतम्योक्तिपरश्रुतौ श्रीतत्त्वानुक्तेर्गते-र्वक्ष्यमाणत्त्वेऽपि हिरण्यगर्भानुक्तिः कुत इति चोद्यानवकाशः । प्राणोक्त्यैव तदुक्तेः । तदागमस्य स्मृतिनयादौ निरासेऽपि श्रुत्यवष्टंभेन विप्रतिपत्तिरित्यर्थः । सर्वश्रुतीनां विष्णूत्कर्ष एव गतिसामा-न्यस्य संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत इत्यादौ द्वितीयादावेव सिद्धत्वेऽप्यधिकाशङ्कयाऽस्योत्थानमिति ध्येयम् । काङ्क्षितानुवृत्त्या नेति चेदिति शङ्काभाष्यं व्याचष्टे ।। न विष्णोरिति ।। कुत इत्यतः प्राणस्यैवोन्नतिप्रतीतेरित्यन्यत्रोक्तं हेतुं व्यंजयन्नाह ।। छन्दोगेति ।। अस्ति भगवः प्राणाद्भूय इति प्रश्नाद्यभावादित्यन्यत्रोक्तमेव हेतुं शङ्कानिवर्तकतयाह ।। अस्ति भगव इति ।। प्रकरणान्तर-वदिति ।। नामवागादिपूर्वप्रकरणेष्विवेत्यर्थः । संज्ञाभेद एव प्रकरणभेदकल्पकोऽस्त्वित्यत आह ।। कारणविशेषमित्यादि ।। अत इति ।। छन्दोगश्रुतौ तथा प्रतीतेरित्यर्थः ।। तदुपासनमिति ।। आनन्दादय इत्यत्रोक्तात्मत्वशब्दितसर्वोत्तमत्वोपासनमित्यर्थः ।। सम्बन्धभाष्यस्थनञोऽर्थमाह ।। इति न युक्तमिति ।। कुत इत्यतः प्राणात्परमात्मन उत्तमत्वमिति भाष्यार्थहेतुतया व्यनक्ति ।। एष त्विति ।। प्रश्नाद्यध्याहारेणेति भाष्यस्य व्यावर्त्यपूर्वमर्थमाह ।। प्रश्नेत्यादिना ।। व्यावर्त्यपूर्वं एष त्विति भाष्यं व्याचष्टे ।। न चेति ।। ततश्चेति ।। ततोऽपि प्राणातिवादित्ववादिनः सकाशा-दपीत्यर्थः । तत्र प्राणातिवादिन इति पञ्चमी ।। तेनेति ।। सत्यवादिनः तुशब्देन विशेषणकरणेन प्राणोऽन्यः सत्योऽन्य इति ज्ञायते । प्राणसत्ययोर्भेदाभावे तद्वादिनोर्भेदायोगादिति भावः । भाष्यमेवं व्याख्याय व्युत्क्रमेणोपसंहरति ।। अत इति ।। यस्माद्विशिंषन्ति छन्दोगा अत इत्यर्थः । एतेन भाष्यादौ हिर्हेताविति सूचितम् ।। अत्रेति ।। प्राणाद्धरेरुत्तमत्व इत्यर्थः ।। स्मृतिं चेति ।।

न केवलं प्रकरणभेदकं विशेषणमिति चार्थः ।। अत इति ।। प्रश्नाद्यध्याहारेण सत्यपदेन विष्णो-रुक्तत्वादित्यर्थः । तदुपासनं सर्वोत्तमत्वरूपात्मत्वोपासनमित्यर्थः ।

अभिनवचन्द्रिका

प्राणस्य हिरण्यगर्भत्वादिति ।। प्राणपदेन हिरण्यगर्भस्य विवक्षितत्वात् तस्य च सर्वोत्तमत्वेन कैश्चिदङ्गीकृतत्वात् विप्रतिपत्तिः सन्देहबीजमित्यर्थः ।। प्राणस्यैवेति ।। यद्यपि प्राणस्य सर्वोत्तमत्वेनोक्तत्वादित्येवालम्, तथापि  छन्दोगश्रुतौ प्राणपदेन विष्णुं विवक्षित्वा, तस्य सर्वोत्तम-त्वाभिधानात् असिद्धं प्राणस्य सर्वोत्तमत्वमिति शङ्कानिरासाय प्राणस्यैवेत्येवकारः । प्राणविशेषण-मेव तदिति ।। ‘सत्येनातिवदति’ इति सत्यपदोक्तं सत्यत्वं प्रश्नाद्यभावात् प्राणविशेषणमेवेत्यर्थः । प्रश्नाद्यभावोऽसिद्ध इत्याह– प्रश्नाद्यध्याहारस्येति ।। मन्त्रद्रष्ट्रा उच्चारणेनाऽनभिव्यक्तीकृतस्यापि तदभिप्रेतस्य प्रश्नप्रतिवचनस्य निश्चेतुं शक्यत्वादित्यर्थः ।। न चाध्याहारेति ।। मन्त्रद्रष्टुः प्रश्नप्रतिवचनवाक्यं विवक्षितमित्यत्र प्रमाणाभावेन प्रकरणविच्छेदकप्रश्नाद्यभावात् एकप्रकरणत्वमेव युक्तमिति न वाच्यमित्यर्थः । अनिश्चितत्वात्प्रश्नप्रतिवचनयोः भेदकत्वासम्भवेऽपि भेदकान्तर-सद्भावात् प्रकरणभेद एव युक्त इत्याह– ‘स वा एष’ इत्यादिना ।। तेनेति ।। तुशब्देन प्रकरणनिश्चयद्वारा प्राणपदोक्तोऽन्यः, सत्यपदोक्तोऽन्य इति निश्चीयत इत्यर्थः । अत इति ।। अत इत्यस्य विवरणम्– प्रकरणभेदकसद्भावादिति ।। प्रायपाठबलादिति शेषः । ततश्च प्रकारण-भेदकसद्भावेन प्रायपाठबलात् ऋष्यभिप्रेतप्रश्नप्रतिवचनवाक्यानुसन्धानेन सत्यस्य प्राणादुत्तमत्व-प्रतिपादनं युक्तमित्यर्थः । एतेन प्रश्नप्रतिवचनाभावात् न सत्यस्य प्राणादुत्तमत्वमिति शङ्किते अविद्यमानवाक्याध्याहारेण प्राणादुत्तमत्वव्याख्यानमयुक्तमिति परास्तम् । उच्चारणेन ज्ञापितानामिव प्रायपाठज्ञापितयोरपि प्रश्नप्रतिवचनयोः सत्यत्वात् ।। भाष्ये उक्तमिति ।। मन्त्रद्रष्ट्रा पूर्वोक्त-प्रश्नप्रतिवचनसदृशप्रश्नप्रतिवचनाध्याहारेण अनुसन्धानेन विष्णोः प्राणादुत्तमत्वमुक्तमित्यर्थः । तुशब्दस्य प्रतिपाद्यविशेषणत्वाभावेन कथं प्रकरणभेदकत्वमित्याशङ्कते टीकायां– ननु कथमेत-द्विशेषणमिति ।।

पूर्वपक्षस्तु– न विष्णोः सर्वोत्तमत्वं युक्तम् । प्राणस्याशोत्तमत्वमुक्त्वा, तदुत्तमानभिधानात् । न हि सत्यपि प्राणादुत्तमे तदनभिधाने कारणमस्ति । येनाऽनुक्तिमगणय्य प्राणादुत्तमत्वं विष्णोः प्रतीमः । न च सत्यपदोदितस्य विष्णोः प्राणादुत्तमत्वमुक्तमिति वाच्यम् । प्रकरणभेदकाभावेन सत्यत्वस्य प्राणविशेषणत्वात् । ततश्च न विष्णोः सर्वोपास्यत्वमिति ।

सिद्धान्तस्तु– युक्तमेव विष्णोः सर्वोत्तमत्वम् । ‘एष तु वा अतिवदति यः सत्येनातिवदति’ इति सत्यपदोदितस्य विष्णोः प्राणादुत्तमत्वाभिधानात् । न च नामादाविव प्रश्नप्रतिवचनाभावात् न श्रुतेः प्राणादुत्तमत्वाभिधाने तात्पर्यमिति वाच्यम् । प्रायपाठबलेन प्रश्नप्रतिवचनस्याऽनुमातुं शक्यत्वात् । न च प्रकरणभेदकाभावात् न प्रश्नप्रतिवचनाध्याहार इति वाच्यम् । तुशब्दस्य प्रकरणभेदकस्य सद्भावात् । ततश्च प्रश्नप्रतिवचनानुसन्धानपूर्वकं मन्त्रद्रष्ट्रा विष्णोः प्राणादुत्तमत्व-स्योक्तत्वेन तस्य सर्वोपास्यत्वं युक्तमिति सिद्धम् ।

वाक्यार्थमुक्तावली

नेति चेन्नेति भाष्ये एव प्राणात्परमात्मन उत्तमत्वं नोपदिष्टमिति पूर्वाक्षेपेणोत्थानादनन्तर-सङ्गतिः ।। प्राणादिति ।। अत्र प्राणाद्विष्णुरुत्तमो न भवत्युत भवतीति चिन्ता । तदर्थं प्राणादुपरि सत्यपदोक्तः प्रश्नाद्यभावात्प्राण एवोत तदध्याहारेण विष्णुरिति ।। तस्मात्परमात्मन उत्तमत्वमिति पूर्वानुवृत्त्या नेत्यंशं व्याचष्टे ।। विष्णोरिति ।। कुतो नेत्यत उन्नतिरित्युक्तन्यायप्रदर्शकतया तस्मात्परमात्मन उत्तमत्वमुपदिष्टमित्यन्तानुवृत्त्या नेत्यस्यार्थान्तरमाह ।। छन्दोगेति ।। एवशब्देन लब्धस्य विष्णोस्सर्वोत्तमत्वेनानुक्तत्वादिति हेतोरसिद्धिमाशङ्कते अथेति । तत्परिहाराय नेत्ये-तत्प्रकारान्तरेण व्याचष्टे ।। मैवमिति ।। सत्यपदेन विष्णोरुक्तिः नेत्यर्थ इति भावः । कुतो नेत्यतो

व्यतिहार इतरवदित्यंशव्यावर्त्यपूर्वपक्षमाह ।। अस्तीति ।। एतेन नेत्यस्य प्रश्नप्रतिवचनेनेत्यर्थो भवति ।

ननु प्रश्नप्रतिवचनाश्रवणेऽपि तदध्याहारेण यः सत्यपदेनेत्यादेः प्रकरणान्तरत्वं सम्भवतीत्यतो न प्रकरणान्तरकल्पनं युक्तम् । यतो न तत्कल्पकमिति नेत्यस्यार्थान्तरं मत्वा विशिंषन्तीति सूत्रखण्डव्यावर्त्याशङ्कामाह ।। कारणविशेषेति ।। पूर्वपक्षफलप्रदर्शकतयापि नेत्येतद्व्याचष्टे ।। अत इति ।। सूत्रे उपदेश इत्यनेन लब्धमुपदिष्टं प्राणात्परमात्मन उत्तमत्वमिति वाक्यमादाविवान्वीयते । तच्च नेत्युक्तपूर्वपक्षप्रतिक्षेपे हेतुरिति भावेन प्रवृत्तमुक्तमिति भाष्यं व्याचष्टे ।। श्रुताविति ।। प्रतिसन्धिरित्युक्तन्यायप्रदर्शकस्येतरव्यतिहार इत्यस्य हि यतः इतरवद्विशेषेणापेक्षितस्यात्यधिकस्य प्रश्नादेर्हार आहार अध्याहार इति यावत् । कर्तव्यः । अतः प्राणात्परमात्मन उत्तमत्व-मुक्तमित्यन्वयमभिप्रेत्यार्थ उक्तः  । पूर्वोक्ताध्याहारेणेति । पूर्वोक्तिवत् प्रश्नप्रतिवचनाध्याहारे-णेत्यर्थः । अध्याहारेण प्रकरणविच्छेदकारणमुक्तं विशिंषन्ति हीति । हि यस्मात् प्राणवादिनः अतिवादित्वमुक्त्वा एष तु वाऽतिवदति यः सत्येनातिवदतीति प्राणातिवादिनः सकाशात्सत्य-वादिनं तुशब्देन विशिंषन्ति यः सत्यं वदति स तु प्राणस्यातिशयवस्तुवादिनोऽपि विशेषे-णातिशयवस्तुवादीति विशिष्टं ज्ञापयन्तीत्यर्थः । एवं सत्यवादिनं विशिंषन्तः प्राणात्सत्यमपि विशिंषन्ति । अतः प्रकरणभेदसद्भावात् व्यतिहारः । व्यतिहारेण च प्राणात्सत्यस्योत्तमत्वमिति भावेन प्रवृत्तं प्रश्नाध्याहारेणेति भाष्यं व्याचष्टे । प्रश्नाद्यभावादित्यादिना भाव इत्यन्तेन । प्रश्नाध्याहारेणेति । पूर्वोक्तवदिति पूरणीयम् ।। तेनेति ।। तुशब्देन सत्यातिवादिनो विशेषितत्वेन सत्यात्प्राणस्यापि विशेषितत्वात्प्राणोऽप्यन्यः सत्योऽप्यन्य इति इतरवदिति दृष्टान्तांशस्येतर-वद्विशिंषन्ति इत्यत्रापि सम्बन्धं यथा प्रश्नादिना नामादितो वागादिकं विशिंषन्ति तथा तुशब्देन प्राणात्सत्यं विशिंषन्तीत्यर्थं च मत्वा यथेतरेष्विति भाष्यं व्यावर्त्यपूर्वं व्याचष्टे । नन्वित्यादिना ।। स्मृतिं चेति ।। हिशब्दसूचितमिति शेषः ।

तत्त्वसुबोधिनी

प्राणात्परमेश्वरस्येति ।। पूर्वसूत्रे उपदेशवदिति ।। प्राणात्परमात्मनः उत्तमत्वस्योपदिष्टत्वा-त्तदविरोधेनैव सर्वेभ्य इति वाक्यस्य सर्वशब्दस्यार्थो ग्राह्य इत्यभिहिते तदेव कथमित्याक्षेपो-त्थानादनन्तरसङ्गतिरिति भावः । अन्यथेति । ईश्वरस्योत्तमत्वाभावे इत्यर्थः । विप्रतिपत्तिरिति । हिरण्यगर्भः सर्वोत्तम इति केषांचनामतं अपरेषां विष्णुः सर्वोत्तम इति । एवं च विप्रतिपत्तेः मध्यस्थस्य संशयो भवतीत्यर्थः ।। प्रकारणान्तरवदिति ।। अस्ति भगवो नाम्नो भूय इति । नाम्नो वा भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति वाग्वाव नामो भूयसीत्यादिना नामवागादि-प्रकरणान्तरवदित्यर्थः । अनेन सौत्रेतरवदित्यस्यार्थ उक्तो भवति । ननु प्रश्नवचनाश्रवणेऽपि तदध्याहारेण यः सत्येनेत्यादेः प्रकरणान्तरत्वं सम्भवतीत्यत आह ।। कारणविशेषमिति ।। तुशब्दरूपविशेषणस्य कथं भेदकत्वं इत्यतः तत्सम्भवाय तदर्थमाह ।। यः सत्यमिति ।।

वाक्यार्थविवरणम्

विप्रतिपत्तिरिति ।। हरिहरहिरण्यगर्भाणां त्रयाणामपि समत्वस्य कैश्चिदभिधानादिति भावः । नन्वेवं विप्रतिपत्तौ हिरण्यगर्भादुत्तमो न वेति सन्देहोपपत्तावपि प्राणादुत्तमो न वेति सन्देहः कथमुपपद्यत इत्यत उक्तं प्राणस्य हिरण्यगर्भत्वादिति ।। प्रश्नप्रतिवचनाभावादित्यन्वयः । तत्र व्यतिरेकदृष्टान्तः ।। प्रकरणान्तरवदिति ।। नामादिप्रकरणे यथा प्रश्नप्रतिवचने स्तस्तथाऽभावादिति भावः । ननु प्रकरणभेदकप्रश्नाद्यध्याहारेण प्राणाद्विष्णोरेवाधिक्यं वक्तव्यमित्यत आह ।। प्रकरणेति ।। प्राणप्रकरणयस्सत्येनेतिप्रकरणयोरित्यर्थः ।। भेदेति ।। भिन्नार्थप्रतिपादकत्वेत्यर्थः ।। प्राण एवेति ।। तथा च सत्यवं प्राणस्य विशेषणमित्यर्थः ।। तदितीति ।। सत्यपदमित्यर्थः । तथा च सत्यपदोदितो न विष्णुरिति भावः ।। अध्याहारेति ।। अध्याहारं कृत्वा भिन्नप्रकरणत्वकल्पने कारणाभावादित्यर्थः ।। ततश्चेति ।। प्राणातिवादिनः सकाशात् ।। अयम् । प्राणपदोदितः । असौ । सत्यपदोदितः । सूत्रे सप्तम्यर्थे वतिरित्याशयेन भाष्ये यथेतरेष्वित्युक्तम् । ‘स तु’ इत्यत्रत्यः तुशब्दः प्राणातिवादिनोऽपीत्यतः परं योज्यः । तस्य व्याख्यानं विशेषेणेति ।।

वाक्यार्थमञ्जरी

वादिविप्रतिपत्तेर्हिरण्यगर्भविषय एव सद्भावादाह ।। प्राणस्येति ।। एष तु वेति ।। योऽधिकारी सन्निर्दोषश्चासौ यो नियामकश्चेति सत्यो विष्णुस्तेनातिवदति तमतिशयितं वक्तीति यावत् स एषः प्रागुक्तप्राणातिवाद्यपेक्षया तु विशेषेणातिवदतीत्यर्थः ।। अस्ति भगव इति ।। नामवागादि-प्रकरणान्तरेऽस्ति भगवो नाम्नो भूय इति नाम्नो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति नारद-प्रश्नवत् ‘वाग्वाव नाम्नो भूयसी’ इति सनत्कुमारप्रतिवचनवच्चास्ति, ‘भगवः प्राणाद्भूय’ इत्यादि-प्रश्नस्य ‘सत्यं वाव’इत्यादि परिहारस्य चाभावादित्यर्थः । सत्यपदं विष्णुपरमेव नेत्याह ।। सत्यपदेनेति ।। ननूक्तभंग्या प्रश्नाद्यध्याहारेण यःसत्येनेत्यादेः प्रकरणान्तरत्वात् कथं सत्यपदं प्राणपरमित्यत उक्तम् ।। कारणविशेषमिति ।।

ॐ व्यतिहारो विशिंषन्ति हीतरवत् ॐ ।। सत्यप्रकरणे प्रश्नप्रतिवचनयोर्व्यतिहारोऽध्याहारः कार्यः कुतः इतरवत् प्रश्नप्रतिवचनाभ्यां नामादितो वागादिकमिव प्राणात्सत्यं तुशब्देन विशिंषन्ति व्यावर्तयन्ति छन्दोगा हि यस्मात्तस्मादित्यर्थः ।। स वा इति ।। स एषोऽधिकारी एवं विजानानः शृृण्वन् मन्वानो विचारयन् पश्यन् ध्यायन्नतिवादी प्राणाख्योत्तमवस्तुवादी भवतीत्यर्थः । अयं सत्योऽसौ प्राण एकवस्तुज्ञानिनस्तारतम्यायोगादिति भावः । एतत् तुशब्दाख्यम् ।। प्राणा-त्सत्यस्येति ।। प्राणात्सत्यस्योत्तमत्वाभावे तद्वादिनस्तद्वाद्यपेक्षया आधिक्यायोगादिति भावः ।

।। इति व्यतिहाराधिकरणम् ।। २३ ।।