ॐ यावदधिकारमवस्थितिराधिकारिकाणाम् ॐ
२०. यावदधिकरणम्
सूत्रभाष्यम्
।। ॐ यावदधिकारमवस्थितिराधिकारिकाणाम् ॐ ।। ३३ ।।
यथा यथाऽधिकारो विशिष्यते एवं मुक्तावानन्दो विशिष्यते । ‘मनुष्येभ्यो गन्धर्वाणां गन्धर्वेभ्य ऋषीणामृषिभ्यो देवानां देवेभ्य इन्द्रस्य इन्द्राद्रुद्रस्य रुद्राद्ब्रह्मण एष ह्येव शतानन्द’ इति चतुर्वेदशिखायाम् । अध्यात्मे च—
‘ज्ञानं चोपासनं चैव मुक्तावानन्द एव च ।
यथाधिकारं देवानां भवन्त्येवोत्तरोत्तरम्’इति ।।
तत्त्वप्रदीपिका
यद्यनियमेन सर्वेषां ज्ञानिनां मोक्षस्तर्ह्यकिञ्चित्करोऽसौ योग्यताविशेषः स्यादित्यत आह–यावदधिकारमवस्थितिराधिकारिकाणाम् । ‘आधिकारिका’ मोक्षाधिकारिणः । यावान्यावानधिकारो योग्यता तेषां तावति तावत्यानन्दादिगुणगणे स्वरूपात्मकेऽवस्थितिर्भवति । न च ‘मनुष्येभ्यो गन्धर्वाणामि’’त्यादि वचनस्य पूर्वोक्तानन्दश्रुतिविरोधः । सङ्क्षेपस्य विस्तराविरोधात् ।
तत्त्वप्रकाशिका
अत्र भगवज्ज्ञानसाधनोपासनाधिकारिणामुपासनेऽधिकारनियमसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथा ‘प्राप्तेश्च’ इत्यादेरनुपपत्तेरसौ समर्थनीयः । प्रकृतोपास्तिमन्तो विषयः । उपासनाधि-कारनियतिमन्तो न वेति सन्देहः । पूर्वोक्तिर्लौकिकक्रियायामदृष्टिश्च सन्देहबीजम् । नोपासना-वन्तोऽधिकारनियतिमन्त इति पूर्वः पक्षः । उपासनाधिकारनिमये प्रमाणाभावात् । न च मुक्ता-वानन्दतारतम्यमुपासनाधिकारनियमे प्रमाणमिति वाच्यम् । उपासनादिप्रयत्नतारतम्येनैव तस्योपपत्ते-रुपासनाऽधिकारनियमाप्रयोजकत्वात् । अभ्युपगम्य चेदमुच्यते । मुक्तावानन्दतारतम्यमेवानुपपन्नम् । तथात्वे मुक्तानां द्वेषेर्ष्यादिदोषप्रसङ्गात् । न चात्र प्रमाणमस्ति । आनन्दश्रुतिस्तु संसारविषय-तयोपपद्यते । अत उपास्त्यधिकारनियमाभावात्प्राप्तेश्च समञ्जसमित्याद्ययुक्तमिति । सिद्धान्तयत्सूत्र-मुपन्यस्य व्याचष्टे ।। यावदिति ।। अस्त्येवोपासनाधिकारे नियमो मुक्तावानन्दतारतम्यस्य भावात् । मुक्तावानन्दतारतम्यस्य चोपासनाधिकारनियमानुसारित्वादिति भावः । ननु मुक्तावानन्दतारतम्यमेव कुतो येनोपासनाधिकारनियम इत्यत आह ।। मनुष्येभ्य इति ।। मुक्तावानन्दतारतम्यमुपासनादि-प्रयत्नेन सम्भवत्यतो नोपासनाऽधिकारनियमं प्रयोजयतीत्यत आह ।। अध्यात्मे चेति ।। अधिकार-नियमेनैव मुक्तावानन्दतारतम्यं नोपासनादिप्रयत्नेनैव तस्याप्युपासनाधिकारनियमानुसारित्वादिति भावः । कथञ्चिदधिकाराधिकयत्ने विघ्नो भवति । ‘स्वाधिकाराधिको यत्नः प्रायशो नोपपद्यते । कथञ्चिदधिके यत्ने दोषः कश्चित्समापतेत्’ इति वचनात् ।
गुर्वर्थदीपिका
उपासनाधिकारनियम इत्यत्रास्यैतावत्येवाधिकारोऽस्यैतावत्येवाधिकार इति नियम इत्यर्थः । उपासनादिप्रयत्नतारतम्येनेत्यत्र स्वसाध्यशत्रुहनने प्रयत्नं कुर्वत्यपि राज्ञां प्रीतिदर्शनादिति मन्दा-शङ्कया पूर्वपक्षारम्भः । वस्तुतस्तु हननादिकारिणा सामर्थ्येन क्रियमाणशत्र्वङ्गशस्त्रनिपातनाख्य-प्रयत्नस्यान्यैः कर्तुमशक्यत्वात्प्रयत्नोऽपि तत्तदधिकारिणामेव । तदुदितफलमपि तेषामेव । असमर्थस्य केवलमभिगमनादिरूपप्रयत्नोऽप्यल्प एव । फलं च तुच्छमप्रेक्षावानेव दिशति । प्रेक्षावांस्तु स्वासाध्ये कर्मणि प्रयतमानं प्रेक्ष्य हसत्येव न तु प्रसीदतीति द्रष्टव्यम् ।
भावबोधः
अधिकारिनियमसमर्थनादिति ।। ‘अनियमः सर्वेषां’ इति सर्वज्ञानिनामनियमेनैव मोक्षो न केषाञ्चिदेवेति नियमः । तत्र मानाभावादित्युक्ते तर्हि तद्वदेव सर्वेषां मुक्तानामानन्दादयः अनिय-मेनैकप्रकारा एव स्युः न तु केषाञ्चिदधिकाः केषाञ्चिदल्पा इति नियमः । आनन्दश्रुतेः संसारि-विषयत्वेन तत्र प्रमाणाभावात् । ततश्च तत्साधनोपासनमपि सर्वेषामेकप्रकारमेव स्यान्न तु तत्र तारतम्यम् । फलवैचित्र्यरूपमानाभावादित्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः । उपासनेत्यादि । अत्रोपास्तिमन्तः तदधिकारनियतिमन्तो न भवन्त्युत भवन्तीति चिन्ता । तदर्थं मुक्ता आनन्द-तारतमवन्तो न भवन्ति उत भवन्तीति । तदर्थं मुक्तावानन्दतारतम्ये प्रमाणं नास्त्युतास्तीति । तदर्थं ‘अथात आनन्दस्य मीमांसा’ इत्यादिश्रुतिः किं संसारिमातत्रविषयोत मुक्तिविषयाऽपीति । तदर्थं मुक्ततारतम्यं द्वेषेर्ष्याद्यापादकं भवत्युत न भवतीति ।।
ननु ‘वृद्धिह्नासभाक्त्वं’ इत्युक्तरीत्या मौक्तानन्दतारतम्यस्यैव अधिकारतारतम्ये हेतुत्वोपपत्तेः कथं प्रमाणाभाव इत्यत आह– न च मुक्ताविति ।। तद्धेतुप्रतिपादकतया प्रयत्नानुसारिणो मुक्तावाधिकारिकानन्दादय इति न्यायविवरणं व्याचष्टे– उपासनादीति ।। ‘अक्षरधियां’ इति द्वितीयसूत्रनिवर्तनीयमाह– अभ्युपगम्य चेति ।। ननु ‘दर्शनाच्च’ इति अनेन मुक्तावानन्दतारतम्य-सद्भावे ‘अथात आनन्दस्य मीमांसा’ इत्यादिश्रुतेरुक्तत्वेन कथं तत्र प्रमाणाभाव इत्यत आह– आनन्दश्रुतिस्त्विति ।। अत्र सूत्रे ‘आधिकारिक’ इति ब्रह्मादिपुरुषविशेषस्य संज्ञा । आधिकारि-काणां ब्रह्मानन्दानां मुक्तावानन्दादिगुणतारतम्येनावस्थितिर्यावदधिकारं अधिकारानुसारेणैवेति सूत्रार्थमभिप्रेत्य प्रवृत्तं यथा यथेत्यादिभाष्यं व्याचष्टे– अस्त्येवेत्यादिना ।। अधिकारानुसारित्वा-त्प्रयत्नस्येति न्यायविवरणानुसारेण स्मृत्यभिप्रायमाह– अधिकारेति ।। ‘च’शब्दः परस्परसमुच्चये यथाधिकारमेव उपासनमुपासनादिप्रयत्न उत्तरोत्तरं भवति । यथोपासनमेव ज्ञानं यथा ज्ञानमेव मुक्तावानन्द इति स्मृतियोजना सूचिता ।
ननु ‘वसिष्ठसाम्यं समभीप्समानं प्रच्यावयन्निच्छया शापमाप’ इत्यादिना माण्डव्यादीना-मधिकाराधिकयत्नदर्शनात् कथमेतदित्यतः प्रवृत्तं कथञ्चिदधिके यत्ने तत्साधनादिवस्तूनां दूषण-प्राप्तेरिति न्यायविवरणं मनसि निधायाह– कथञ्चिदिति ।। यमं प्रति शापदानादिरूपो विघ्नो भवतीत्यर्थः । अत्र न्यायविवरणोदाहृतं प्रमाणं पठति– अधिकारेति ।।
भावदीपः
अधिकारनियमेति ।। अस्यैतावती योग्यताऽस्य त्वेतावतीत्येवं योग्यतानियम इत्यर्थः ।। समर्थनादिति ।। पूर्वत्रोपासनायाः फलानियमे उक्ते यद्यनियमेन ज्ञानिनां मोक्षस्तर्ह्यकिञ्चित्करोऽसौ योग्यताविशेषः स्यात् । तत्प्रयोजकफलतारतम्यस्यान्येनैवोपपत्तेरिति शङ्कायां तन्नियमसमर्थना-दित्यर्थः । तेन पूर्वोक्ते तर्कपराहतिशङ्कनात्पूर्वसङ्गतिर्ध्येया । तथैव तत्वदीपोक्तेः ।। अन्यथेति ।। योग्यतानियमासमर्थने सति प्राप्तेश्च समञ्जसमित्यत्रोपसंहारानुपसंहारयोरधिकारिभेदेन सामञ्जस्य सर्वाभेदादित्यत्र फलभेदेन तयोस्तथात्वस्य, आनन्दादय इत्यत्र चतुर्णामेव सर्वोपास्यत्वस्य, प्रियशिरस्त्वाद्यप्राप्तिरित्यादौ प्रियशिरस्त्वादेः सर्वोपास्यत्वाभावस्य चोक्तिर्न स्यात् । तत्सर्व-स्याप्यधिकारभेदहेतुकत्वादित्यर्थः । पूर्वोक्तिः प्राप्तेश्चेत्याद्युक्तिरित्यर्थः ।। लौकिकेति ।। भोजन-कृष्यादिक्रियायामधिकारनियमस्यादृष्टिरित्यर्थः । प्रयत्नानुसारिणोऽनुक्तावाधिकारिकानन्दादय इति न्यायविवरणोक्तिं प्रमाणाभावोपपादकतया योजयति ।। प्रमाणाभावादित्यादिना ।। आद्यसूत्र-व्यावर्त्यचोद्यमन्यत्रोक्तं प्रपञ्च्य द्वितीयसूत्रव्यावर्त्यचोद्यमाह ।। अभ्युपगम्य चेदमिति ।। मुक्तौ तारतम्यमभ्युपगम्य प्रयत्नेनान्यथासिद्धत्वमुच्यत इत्यर्थः । प्रमाणसिद्धार्थे बाधकमकिञ्चित्करं स्वयमेवाभासीकरिष्यतीत्यत आह ।। न चात्रेति ।। मुक्तनामानन्दादितारतम्ये प्रमाणं च नास्ति न केवलं बाधकमस्तीत्येवेति चार्थः ।
ननु भक्तिपाद एव वृद्धिह्रासभाक्त्वमिति नये गुणसूत्रे दर्शनाच्चेत्यत्राथात आनन्दस्येति श्रुतिरेव तत्र मानमित्युक्तमित्यतः तदुपमर्दिकाधिकाशङ्कामाह ।। आनन्देति ।। अत इति ।। प्रमाणा-भावादित्यर्थः । इत्याद्ययुक्तमिति फलोक्तिः ।। मुक्तौ तारतम्यमेव नेत्येतदग्रे निरसिष्य-न्मौक्ततारतम्य प्रमाणकत्वमधिकारनियमस्याह ।। अस्त्येवेति ।। काकस्य कार्ष्ण्याद्धवलः प्रासाद इतिवत् हेतुसाध्ययोर्वैयधिकरण्यनिरासाय यथा यथेत्यादिभाष्यस्य फलितार्थमाह ।। मुक्ताविति ।। एतेनाधिकारिकाणां मोक्षाधिकारिणां मुक्तावानन्दाद्यवस्थितिर्यावदधिकारमधिकारानुसारिणीति सूत्रे भाष्ये च मौक्ततारतम्यस्याधिकारानुसारित्वोक्तेरुपयोगो दर्शितः ।। इत्यत आहेति ।। यद्यप्येषा शङ्का दर्शनाच्चेत्यत्र प्रागेव श्रुत्युक्त्या निरस्ता । मुक्ताविति पदं तत्रेवात्रापि नास्ति । प्रत्युत तद्विरुद्धा च । तथाप्यस्य सङ्क्षेपत्वाद्विस्तरोक्तमत्र ग्राह्यम् । तत्राऽस्पष्टमेतदनुरोधेन स्पष्टयितव्यमिति श्रुत्यन्तरोक्तिरित्यदोषः । स्मृत्युक्तेरुपयोगाय व्यावर्त्यचोद्यमाह ।। मुक्ताविति ।। इत्यत आहेति ।। स्मृतौ यथाधिकारमित्युक्त्या शङ्कानिरास इति भावः । ननु स्मृतौ यथाधिकारमित्युक्तावपि कथं शङ्कानिरासः । युक्तेरनुपन्यासादित्यतोऽधिकारानुसारित्वात्प्रयत्नस्येत्यन्यत्रोक्तं हेतुं भावार्थतया योजयति ।। अधिकारेति ।। न्यायविवरणोक्तमेवाह ।। कथञ्चिदित्यादिना ।। विघ्न इति ।। पृथ्वादेः शततमाश्वमेधादिक्रतुविघ्नदृष्टेरिति भावः ।। दोष इति ।। चन्द्रसुग्रीवविविदमैन्दादि-रेवोदाहरणं ध्येयम् ।
अभिनवचन्द्रिका
द्वेषेर्ष्यादीति ।। द्वेषोऽप्रीतिः । ईर्ष्या असहिष्णुता । आदिशब्देन गुणेषु दोषाविष्करण-लक्षणाऽसूयादेर्ग्रहणम् । अत्र गुणसूत्रम् ‘अक्षरधियां त्वविरोधः सामान्यतद्भावाभ्यामौपस-दवत्तदुक्तम्’ इति । अक्षरधियामविरोधो विरोधाभावः निर्दोषत्वादिना भगवत्समत्वात् । अन्यथा भगवतोऽपि तत्प्रसङ्गः । तेभ्य उत्तमेभ्योऽधमानामुत्कर्षाभावात् । उत्तमानुग्रहप्राप्तपरमैश्वर्यादि-मत्त्वाच्चेति यावत् । तद्यथा गुरुप्रसादप्राप्तोत्कर्षवन्तः शिष्याः न तद्वेषिण इति सूत्रार्थः ।
वाक्यार्थमुक्तावली
यद्यनियमेन ज्ञानिनां मोक्षस्तर्हि तद्वदेव मुक्तभोगेऽपि योग्यतायामविशेषः स्यात् । तथा च तत्साधनमुपासनमपि सर्वेषामेकप्रकारेण स्यादित्याक्षेपादनन्तरसङ्गतिस्तत्त्वप्रदीपोक्ता ज्ञेया । उपासनाधिकारेति । उपास्तिमतः उपासनायां योग्यतानियतिमन्तो न भवन्त्युत भवन्तीति चिन्ता । तदर्थं तदुपासकत्वेनाभिमतं मुक्तावानन्दतारतम्यमेवाप्रामाणिकत्वाद्द्वेषेर्ष्यादिदोषप्रसञ्जकत्वाच्चा-सिद्धम् । सिद्धत्वे वा प्रयत्नतारतम्येनान्यथासिद्धमुत प्रामाणिकं द्वेषेर्ष्याद्यप्रसञ्जकमनन्यथासिद्धमिति । ननु वृद्धिह्रासभाक्त्वमित्यत्रोक्तं मुक्तावानन्दतारतम्यममुपासनाधिकारनियममन्तरेणानुपपद्यमानं तत्रार्थापत्तिरूपं प्रमाणं भविष्यतीत्यशङ्क्य निषेधति ।। न चेति ।। कुतो न वाच्यमित्यतो यावदधिकारमधिकारानुसारेणैवानन्दतारतम्यम् । न तु प्रयत्नतारतम्येनेति सूत्रखण्डव्यावर्त्यप्रयत्न-तारतम्यमादायार्थापत्तेरन्यथोपपत्तिं चेष्टेत्युक्तन्यायं प्रदर्शयन्नाह ।। उपासनादीति ।। आदिपदेन तत्साधनश्रवणादितत्साध्यमपरोक्षज्ञानं चोपासनायां योग्यताविशेषाभावेऽपि तद्विषये प्रयत्न-तारतम्येनापरोक्षज्ञानतारतम्ये मौक्तानन्दतारतम्यमुपपद्यते । उपासनाप्रयत्नतारतम्यमपि तद्धेतु-श्रवणादिप्रयत्नतारतम्येनैव दृष्टेनैवोपपत्तौ अदृष्टकल्पनानुपपत्तेरिति भावः । अक्षरधियामिति द्वितीयसूत्रनिरसनीयामाशङ्कामाह ।। अभ्युपगमेति ।।
ननु वृद्धिह्रासनये दर्शनाच्चेत्यत्र मुक्तावानन्दतारतम्यसद्भावेऽथात आनन्दस्य मीमांसेति आनन्दश्रुत्युक्तेः कथं प्रमाणाभाव इत्यत आह ।। आनन्दश्रुतिस्त्विति ।। सूत्रे गताविति विपरिणम्यानुवर्तते । आधिकारिकाणामधिकारायोग्यता तदनुसार्यनुष्ठाने शीलं येषां ते आधिकारिकाः । शीलमिति सूत्राठ्ठक् । तेषां मोक्षाधिकारिणां ब्रह्मादीनां यावदधिकारम् । यावदवधारण इत्यव्ययीभावः । अधिकारानुसारेणैवोपासनायोग्यतानुसारेणैव गतावानन्दादिरूपे मोक्षे स्थितिः तारतम्येनावस्थानम् । न तूपासनाप्रयत्नतारतम्येन । येनान्यथोपपत्त्याधिकारनियमो न स्यादिति सूत्रार्थं मनसि निधायाह ।। अस्त्येवेति ।। सूत्रे यावदधिकारानुसारेणैव न तु प्रयत्नानुसारेण । कुत इत्यतः आधिकारिकाणामित्यनेनाधिकारानुसारेणैवानुष्ठानशीलं येषाम् । न त्वाधिकारिको यत्न इति योग्यतातारतम्याभावे प्रयत्नतारतम्यस्यैवायोगादिति सूचितम् । तत्र प्रमाणपरतयोत्तरभाष्यमवतार्य व्याचष्टे । मुक्तानामित्यादिना । उपासनादिप्रयत्नेनेत्युक्त्या भाष्ये ज्ञानोपासनापादाभ्यां तत्र यत्नलक्षणेत्युक्तं भवति । भाष्ये देवानामिति मोक्षयोग्यानामित्यर्थः । ननु यथाधिकारमेव प्रयत्न इत्ययुक्तम् । माण्डव्यादीनां वसिष्ठसाम्येऽधिकाराधिकप्रयत्नदर्शनादित्याशङ्क्य कथञ्चिद्यत्नप्रसक्तावपि यथाधिकारमेव यत्नः पूर्णो भवति । अन्यथा विघ्नसम्भवादिति भाष्यार्थं मत्वा दूषणमित्युक्तन्यायं च दर्शयन् प्रमाणमाह ।। कथञ्चिदिति ।।
तत्त्वसुबोधिनी
अधिकारनियमसमर्थनादिति ।। अनियमः सर्वेषामित्यत सर्वज्ञानिनामनियमेनैव मोक्षो न तु केषाञ्चिदेवेति नियमः तत्र मानाभावादित्युक्ते तर्हि तद्वदेव सर्वेषां मुक्तानां आनन्दादयो नियमे-नैकप्रकाराः स्युः न तु केषाञ्चिदधिकाः केषाञ्चिदल्पाः इति नियमः आनन्दश्रुतेः संसारिविषयत्वेन तत्र प्रमाणाभावात् । तच्च तत्साधनोपासनमपि सर्वेषामेकप्रकारमेव स्यान्न तु तत्तारतम्यं फल-वैचित्र्यरूपं मानाभावादित्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः । अन्यथेति । तत्रानन्दादि-नियमस्योक्तत्वादिति भावः ।। पूर्वोक्तिरिति ।। प्राप्तेश्चेति ।। पूर्वोक्तिरित्यर्थः ।
ननु वृद्धिह्रासभाक्तवमियुक्तरीत्या मौक्तानन्दतारतम्यस्यैवाधिकारतारतम्ये हेतुत्वोपपत्तेः कथं प्रमाणाभाव इत्याशङ्क्य निषेधति ।। न च मुक्ताविति ।। मुक्तावानन्दतारतम्यमङ्गीकृत्य उपासनादिप्रयत्नतारतम्येनैव तस्य उपपत्तिरित्युक्तम् । इदानीं तदेव न युज्यते इत्याह ।। अभ्युप-गम्यं चेति ।। ननु द्वेषेर्ष्यादि तत्र नास्त्येवेत्यतः प्रमाणाभावेन तदभावो वक्तुं अशक्य इत्याह ।। न चेति । ननु दर्शनाच्च इत्यनेन मुक्तौ आनन्दतारतम्यसद्भावे ‘आथात आनन्दस्येति श्रुतेः उक्तत्वेन कथं तत्र प्रमाणाभाव इत्यत आह ।। आनन्दश्रुतिस्तु इति ।। अत्र सूत्रे आधिकारिकेति ब्रह्मादि-पुरुषविशेषस्य संज्ञा । आधिकारिका मोक्षाधिकारिणः इति तत्वप्रदीपोक्तेः । आधिकारिकाणां ब्रह्मादीनां मुक्तावनन्दादिगुणतारतम्येन स्थितिः यावदधिकारं अधिकारानुसारेणैवेति सूत्रार्थः इत्यभिप्रेत्य यथा यथेति भाष्यं व्याचष्टे ।। अस्त्येवेति ।। अधिकारेति ।। अनेन चशब्दः परस्परसमुच्चये यथाधिकार्येवोपासनं उपासनादिप्रयत्नः उत्तरोत्तरं सम्भवति, यथोपासनमेव ज्ञानं, यथा ज्ञानमेव मुक्तावानन्द इति स्मृतियोजना सूचिता ।। तस्यापीति ।। उपासनादिप्रयत्नस्या-पीत्यर्थः । ननु वसिष्टसाम्यं समभीप्समानं प्रच्यावयन्निच्छया शापमाप इत्यादिना माण्डव्यादीनां अधिकाराधिकप्रयत्नस्य दर्शनात्कथमेतदित्यत आह ।। कथञ्चिदिति ।। यमं प्रति शापदानादिरूपो विघ्नो भवतीत्यर्थः । अत्र प्रमाणमाह ।। अधिकारेति ।।
वाक्यार्थविवरणम्
अधिकारनियमेति ।। योग्यतानियमेत्यर्थः ।। पूर्वोक्तिः प्राप्तेश्चेत्युक्तिः ।। लौकिकेति ।। कृष्यादिक्रियायामधिकारिभिरेव कर्तव्यत्वस्यादृष्टेरधिकारनियमवन्तो न भवन्तीत्यर्थः ।। उपासनादि-प्रयत्नः उपासनादिरूपजीवप्रयत्नः ।। तस्य ।। आनन्दतारतम्यस्य ।। नियमेति ।। नियमे आनन्दतारतम्यस्याप्रयोजकत्वादित्यर्थः ।। अभ्युपगम्य ।। मुक्तावानन्दतारतम्यमिति शेषः ।। इदम् ।। तस्योपासनाधिकारनियमाप्रयोजकत्वम् ।। अत्र ।। मुक्तावानन्दतारतम्ये । तस्यापि उपासनादिरूपप्रयत्नतारतम्ये प्रयोजकत्वोपपत्तौ किमुपासनादिप्रयत्नतारतम्येनेति भावः ।
वाक्यार्थमञ्जरी
अधिकारनियमेति ।। केषाञ्चिदेव सर्वगुणोपासनं न सर्वेषामिति व्यवस्थेत्यर्थः । अदृष्टिः नियतिः ।। न चात्रेति ।। प्रमाणं चेत्यन्वयः । ‘अथानन्दस्य मीमांसा’इत्यानन्दतारतम्यश्रुतिरेव तत्र प्रमाणमित्यत आह ।। आनन्दश्रुतिरिति ।।
ॐ यावदधिकारमवस्थितिराधिकारिकाणां ॐ ।। आधिकारिकाः ब्रह्मादिजीवविशेषाः । तेषां यावदधिकारमधिकारानुसारेणैव मुक्ताववस्थितिः तारतम्येनावस्थानम् । न तूपासनाप्रयत्न-तारतम्येनेत्यर्थः । ननु वसिष्ठसाम्यं समभीप्समानं प्रच्यावयन्निच्छया शापमापेत्यादिना माण्डव्या-दीनां अधिकाराधिकप्रयत्नदर्शनात्कथमेतदित्यत आह ।। कथञ्चिदिति ।। यमं प्रति शापप्रदानादि-रूपो विघ्नो भवतीत्यर्थः । वचनात् न्यायविवरणे ।