ॐ असार्वत्रिकी ॐ

२. असार्वत्रिकाधिकरणम्

सूत्रभाष्यम्

सर्वेषां पुरुषार्थापेक्षित्वाज्ज्ञानाधिकारितेत्यत आह —

।। ॐ असार्वत्रिकी ॐ ।। १० ।।

न सर्वेषामधिकारः ।

तत्त्वप्रदीपिका

किमनियमेन सर्वे ज्ञानाधिकारिणः किं वा नेत्याकाङ्क्षायां सर्वेषां निर्दुःखं सुखमाप्नुवानीति पुरुषार्थापेक्षित्वात्तस्य च ज्ञानैकहेतुकत्वादुक्तरीत्या स्वर्गादेरपि ज्ञानेन लभ्यत्वात्सर्वेषां ज्ञानाधिकार इत्यत आह– असार्वत्रिकी ।। न सर्वेषामुच्चनीचादिभावानामुक्तसामर्थ्ये वदिष्यमाणसामर्थ्ये च ज्ञानेऽधिकारः ।

तत्त्वप्रकाशिका

अत्र भगवत्प्राप्तिसाधनज्ञाने सर्वेषामधिकाराभावमहिम्नो वर्णनादस्ति शास्त्रादिसङ्गतिः । सर्वाधिकारिकत्वेन तस्य यागाद्यतिशयः सिध्यतीत्येतद्वर्णनीयम् । प्रकृतं ज्ञानमेव विषयः । किं तत्र सर्वेषामधिकारोऽस्ति न वा इति सन्देहः । लोके साधनद्वैविध्यप्रतीतिः सन्देहबीजम् । पूर्वपक्ष-यति ।। सर्वेषामिति ।। सर्वेषामप्यस्ति ज्ञानेऽधिकारः । फलार्थी समर्थो विद्वान्हि साधनेऽधिक्रियते । तत्रास्त्येव सर्वेषां ज्ञानफले मोक्षेऽर्थिता । निर्दुःखानन्दात्मकत्वात्तस्य । तादृशस्य च पुरुषार्थत्वात् । अस्ति च सर्वेषां श्रवणादौ सामर्थ्यं तदुपयोगिनी विद्वत्ता च । एवं च सर्वेषामधिकाराभावे निरधिकारित्वं ज्ञानस्य स्यात् । अतः सर्वेषां ज्ञानेऽधिकारित्वान्न तदतिशयवदिति भावः । वक्ष्यमाणसूत्रमनुकरोति स्त्रीलिङ्गप्रयोगेण । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ।। अत इति ।।

गुर्वर्थदीपिका

भगवत्प्राप्तिसाधनज्ञान इत्यत्र ज्ञानपदेन वेदान्तश्रवणादिजन्यापरोक्षज्ञानं गृह्यते । ‘याव-दधिकारमवस्थितिराधिकारिकाणाम्’ इत्यधिकरणे उपासनेऽधिकारिणां निरूपितत्वात्तज्जन्यज्ञानेऽ-प्यधिकारी निरूपितप्राय एव । तस्यैव ज्ञानेऽधिकारित्वात् । अतः किं पुनर्विचारेणेति चेत्सत्यम् । अधिकारिपदमात्रेणाधिकारिणां कथनेऽपि तल्लक्षणस्याकथितत्वेन तदर्थं पुनरारम्भस्यावश्यकत्वात् । न च वाच्यं प्रथमाधिकरणे ‘भक्तिमान्परमे विष्णौ यस्त्वध्ययनवान्नरः’ इत्यादिनाऽधिकारिलक्षणं तद्विशेषश्च भाष्यकारेण निरूपित इति । तथापि सूत्रमर्यादया निरूपणाय पुनरारम्भ इति ज्ञेयम् । अत एव ‘अध्ययनमात्रवतः’ ‘नाविशेषादिति चोपरि’ इति तत्रैव भाष्यम् ।

भावबोधः

अधिकाराभावेति ।। ‘अधिकोपदेशात्तु बादरायणस्य’ इति ज्ञानशेषत्वेन कर्मणः सकाशा-द्योऽतिशय उक्तः । स कर्मवज्ज्ञानस्यापि सर्वाधिकारिकत्वे न सम्भवतीति पूर्वाक्षेपादनन्तर-सङ्गतिरिति भावः । अत एव वक्ष्यति– सर्वाधिकरारिकत्वेन तस्य यागाद्यतिशयः सिध्यतीति ।। किं तत्रेति ।। अत्र ज्ञानेऽधिकारः सर्वेषामस्त्युत नास्तीति चिन्ता । तदर्थं मोक्षार्थित्वादिमात्रस्य ज्ञानाधिकारोपयोगित्वं सम्भवत्युत न सम्भवतीति । तदर्थमर्थित्वादिव्यतिरिक्तं ज्ञानाधिकारनियामकं नास्त्युतास्तीति । ननु भाष्ये लाघवाज्ज्ञानाधिकार इत्येव वक्तव्येऽधिकारितेति किमर्थमुक्तमित्यत आह– वक्ष्यमाणसूत्रमिति ।।

भावदीपः

ज्ञाने सर्वेषामित्यादि ।। एतेन पूर्वत्र ज्ञानादेव स्वर्ग इत्यादिश्रुत्युक्तेर्ज्ञानजन्यस्वर्गादि-रूपकाम्यफले प्रसङ्गान्न सर्वज्ञानिनामधिकार इत्युक्तम् । इह तु ज्ञान एव तत्कामिनां सर्वेषां नाधिकार इत्युच्यत इति पूर्वसङ्गतिरपि सूचिता । चिन्ताफलमाह ।। सर्वाधिकारिकत्व इति ।। प्रकृतमिति ।। पुरुषार्थोऽत इत्यत्रातःशब्देन प्रकृतमित्यर्थः ।। लोक इति ।। भोजनादिकं सर्वाधि-कारिकम् । वाणिज्यादिकमसर्वाधिकारिकं प्रतीयत इति भावः । भाष्ये सर्वेषामधिकारितेत्यन्वय-मुपेत्याह ।। सर्वेषामपीति ।। अन्धपंग्वादीनामर्थिनामपि कर्मादाविव एडमूकादीनां ज्ञानेऽनधिकारेण व्यभिचारितया भाष्योक्तार्थित्वमात्रस्याधिकाराप्रयोजकत्वादुपलक्षणत्वेन हेत्वंशं व्यनक्ति ।। फलार्थीत्यादिना ।। सामर्थ्यवैदुष्यवत्त्वे सति तज्जन्यफलार्थित्वादिति हेतोः पक्षधर्मतामुपपाद्या-प्रयोजकत्वं निराह ।। एवं चेति ।। अधिकारप्रयोजके सत्यपीत्यर्थः । इतोऽन्यस्याधिकार-प्रयोजकस्याभावादिति भावः । फलोक्त्या भाष्यार्थसुपसंहरति ।। अत इति ।। अर्थित्वादेरधिकार-प्रयोजकस्य भावादित्यर्थः । उत्तरभाष्य इवात्रापि भाष्ये अधिकार इति वाच्ये अधिकारितेत्युक्तेः कृत्यमाह ।। वक्ष्यमाणेति ।। एतेन कस्याधिकार इत्युत्तरभाष्यस्थषष्ठ्यप्युक्तप्रयोजनेति ध्येयम् ।।

अभिनवचन्द्रिका

सर्वेषामिति ।। प्राणिभृन्मात्रस्येत्यर्थः ।। सर्वाधिकारिकत्वेनेति ।। असर्वाधिकारिका-द्यागाद्धैन्यमेव स्यान्नाऽऽधिक््यमिति भावः । ननु ‘पुरुषार्थापेक्षित्वात् ज्ञानेऽधिकारिता’ इति भाष्यमनुपपन्नम् । फलार्थित्वमात्रस्याऽधिकाराप्रयोजकत्वादित्यतः भाष्यमुपलक्षणपरमिति भावेनाह– फलार्थीति ।। तत्रास्त्येवेति ।। अनन्तकालिके संसारे सर्वेषां क्रमेण ज्ञानफले मोक्षे अर्थिता भवेदेवेत्यर्थः । एतेन पामराणां मोक्षेऽर्थित्वाभावात् ‘अस्त्येवेत्ययुक्तमिति परास्तम् । कदाचिद्भविष्यतीत्यर्थस्यैव विवक्षितत्वेन वर्तमानत्वस्याविवक्षितत्वात् कुतस्तदर्थिता भविष्यतीत्यत आह– निर्दुःखेति ।। मोक्षस्वरूपज्ञाने तदर्थित्वमवर्जनीयमिति भावः । एवमपि सामर्थ्या-भावान्नाधिकारितेत्यत आह– अस्ति चेति ।। श्रवणादावपि सामर्थ्यं कदाचिद्भविष्यतीति भावः । तदुपयोगिनीति ।। विद्वत्तापि प्रयत्नेन भविष्यतीति भावः ।। एवं च सर्वेषामिति ।। अधिकारि-प्रयोजकस्य अर्थित्वादेः सद्भावेऽपि कस्यचिदधिकाराभावे कस्यापि न स्यात् अविशेषादिति भावः । ननु भाष्ये लाघवात् ‘ज्ञानाधिकार’ इति वक्तव्ये ‘अधिकारिता’ इति किमर्थमुक्तमित्यत आह– वक्ष्यमाणसूत्रमिति ।।

वाक्यार्थमुक्तावली

यदि सर्वपुरुषार्थसाधनत्वं ज्ञानस्य तर्हि सर्वेषां पुरुषार्थापेक्षितत्वात् ज्ञाने सर्वेऽप्यधिकारिणः स्युरिति पूर्वोक्तमुपजीव्य पूर्वपक्षोत्थानादनन्तरसङ्गतिः ।। तत्रेति ।। ज्ञाने सर्वेषामधिकारोऽस्ति न वेति चिन्ता । तदर्थं किमर्थित्वादिकमेवाधिकारप्रयोजकमुतान्यदिति । औदार्यमित्युक्तपूर्वपक्षन्याय-मेवार्थित्वसामर्थ्यविद्वत्वरूपोदाहरणगुणवत्वमित्यर्थतयैतदधिकरणेऽपि प्रदर्शयत्पूर्वपक्षभाष्यं व्याचष्टे ।। सर्वेषामपीति ।। भाष्ये पुरुषार्थापेक्षितत्वादित्येतदुपलक्षणं मत्वाऽऽह ।। अस्ति चेत्यादिना ।। एवं चेति ।। एवमप्यधिकारोपयुक्तसद्भावेऽपीत्यर्थः ।। अनुकरोतीति ।। ज्ञानाधिकारिता न सार्वत्रिकी इत्यन्वयलाभायेति भावः । एवं सति न सर्वेषामिति भाष्यं स्वपदवर्णनपरतया पर्यवस्यतीति ज्ञेयम् ।

तत्त्वसुबोधिनी

अधिकाराभावेति ।। अधिकोपदेशात्तु बादरायणस्येति ज्ञानस्य कर्मशेषित्वे कर्मणः सकाशात् ज्ञानस्य यः विशेषः उक्तः सः कर्मवत् ज्ञानस्यापि सर्वाधिकारिकत्वे न सम्भवतीति पूर्वाक्षे-पादनन्तरसङ्गतिरिति भावः । अधिकारप्रयोजकाभावात् अधिकाराभाव इत्यतः तत्त्प्रयोजकार्थि-त्वादेः सद्भावात् युक्तोऽधिकार इत्यत आह ।। निर्दुःखेति ।। निर्दुःखानन्दात्मकत्वस्येत्यर्थः । ननु अधिकारप्रयोजकार्थित्वादेः सर्वेषु सत्वेऽपि कथं न सर्वेषामधिकार इत्यत आह ।। एवं चेति ।। ननु भाष्ये लाघवात् ज्ञानाधिकार इत्येव वक्तव्ये अधिकारितेति किमर्थमुक्तमित्यत आह ।। वक्ष्यमाणेति ।।

वाक्यार्थमञ्जरी

सर्वेषु विशेषत्रयं क्रमेणोपपादयति ।। तत्रेत्यादिना ।। पुरुषार्थत्वात्, पुरुषैरर्थ्यत्वात् एवं च एवमपि । ननु भाष्ये लाघवायाधिकार इति वक्तव्ये अधिकारितेति किमर्थमुक्तमित्यत आह ।। वक्ष्यमाणेति ।। ॐ असार्वत्रिकी ॐ ।। ज्ञानाधिकारिता असार्वत्रिकी न सर्वजननिष्ठेत्यर्थः ।

Load More