ॐ ज्योतराद्यधिष्ठानं तु तदामननात् ॐ

१०. अथ ज्योतिरधिकरणम्

सूत्रभाष्यम्

करणत्वं प्राणानामुक्तम् ।

जीवस्य करणान्याहुः प्राणानेतांस्तु सर्वशः ।

 यस्मात्तद्वशगा एते दृश्यन्ते सर्वदेहिषु’ इति

सौत्रायणश्रुतौ सयुक्तिकं जीवकरणत्वं प्रतीयते । ‘ब्रह्मणो वा एतानि करणानि चक्षुः श्रोत्रं मनो वागिति तद्ध्येतैः कारयति’ इति च काषायणश्रुतौ अत आह–

।। ॐ ज्योतराद्यधिष्ठानं तु तदामननात् ॐ ।। १५ ।।

यज्ज्योतिराद्यधिष्ठानं ब्रह्म तदेवैतैः करणैः प्रवर्तयति । ‘यः प्राणे तिष्ठन्’ (बृ.उ.५-७-१६) इत्यादि तदामननात् ।

तत्त्वप्रदीपिका

एवं तावत्प्राणस्वरूपमुत्पत्तिसङ्ख्यापरिमाणवृत्तिभेदैः प्रपञ्चितम् । अकरणत्वं मुख्यस्योक्तम् । इतरेषां प्राणानां करणत्वमुक्तम् । कः पुनरत्र कर्ता यस्यैतानि करणानि भवन्त्यत आलोच्यते । यद्वशगानि तस्येति युक्तम् । जीववशगानि दृश्यन्ते श्रूयन्ते च । ब्रह्मवशगानि श्रूयन्ते । तत्र सूत्रम्– ज्योतिराद्यधिष्ठानं तु तदामननात् । ‘योऽग्नौ तिष्ठन्यस्तेजसि तिष्ठन्’ इत्यादि श्रुतेर्यज्ज्योतिराद्यधिष्ठानं तन्नियामकं ब्रह्म तदेव तस्मिन्नेव प्रकरणे चक्षुरादि नियामकं श्रूयते ‘यः प्राणे तिष्ठन्’ ‘यश्चक्षुषि तिष्ठन्’ इत्यादि । तेजःशब्दवाच्यायाः प्रकृतेः सूर्याग्न्यादेः प्राणस्य च नियन्तुः परस्य चक्षुरादिनियमनं किं कथनीयमित्यभिप्रायः । प्राणवता शब्दात् । जीवेन कर्त्रा करणैः कारयति ब्रह्म । जीवापेक्षां योजयित्वा योजयित्वेत्यर्थः । इतश्च युज्यते जीवकरणत्वश्रुतिः । अप्रयोजककर्तृत्वेऽपि जीवस्य तस्य च नित्यत्वात् । अनादिनित्यत्वात्तस्य जीवस्य करणानां तत्सम्बन्धस्य च ।

तत्त्वप्रकाशिका

अत्र जगत्कारणे नारायणे श्रुतिसमन्वयसिद्ध्यर्थमिन्द्रियविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादि सङ्गतिः । श्रुतिसमन्वयेनोक्तं हरेर्जगत्कारणत्वमिन्द्रियविषयश्रुतीनां विरोधेनाप्रामाण्येऽयुक्तं स्यादिति निरसनीयोऽसौ । अधिकरणसङ्गतिं दर्शयति ।। करणत्वमिति ।। करणत्वाच्चेति चशब्देनेन्द्रियाणां करणत्वमुक्तम् । तान्येव विषयः । किं जीवकरणान्युत ब्रह्मकरणानीति सन्देहः । सन्देहबीजं श्रुतिविगानं दर्शयन् पूर्वपक्षं सूचयति ।। जीवस्येति ।। श्रुतौ ब्रह्मकरणत्वं प्रतीयत इति शेषः । जीवकरणानीन्द्रियाणि । ‘जीवस्य करणान्याहुः प्राणान्’ इति श्रुतेः । न च श्रुत्यन्तरविरोधः । जीववशत्वेन प्राणानां दृश्यमानत्वयुक्तियुक्तत्वेन जीवकरणत्वश्रुतेः प्राबल्यात् अनुभूयते खलु स्वाधीनत्वमिन्द्रियाणाम् । अतः प्रबलश्रुतिविरोधाद् ब्रह्मकरणत्वश्रुतिरप्रमाणमेवेति न श्रुतिसमन्वयेन विष्णोर्जगत्कारणत्वसिद्धिरिति भावः । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ।। अत इति ।। ब्रह्मैव चक्षुरादिभिः करणैर्दर्शनादि कारयति न पुनर्जीवकरणानि । ब्रह्मण एव तेजःप्रभृतिभूतप्रेरकत्वेन तदंशभूतानामपि चक्षुरादीनां ब्रह्म प्रयोज्यत्वस्यैवोपपत्तेः । सर्वप्राणप्रेरकमुख्यप्राणप्रेरकत्वश्रुतेर्यश्चक्षुषि तिष्ठन्नित्यादिश्रुतेश्चेति भावः । चक्षुरादिवदिति प्रकृतत्वाज्ज्योतिरादिग्रहणम् ।

गुर्वर्थदीपिका

चक्षुरादिवदिति प्रकृतत्वादित्यत्र श्रोत्रादीति वक्तव्यत्वेऽपि चक्षुषः ज्योतिरंशत्वात्तस्य च चक्षुरादिवदित्यतीताधिकरणे आदित्वेन पठनाच्चात्रापि ‘ज्योतिराद्यधिष्ठानम्’ इत्येवोक्तमिति भावः ।

भावबोधः

ननु प्राणानां करणत्वे सिद्धे ब्रह्मकरणत्वादिविचारावसरस्तदेव कुतः सिद्धमित्यत आह– अधिकरणसङ्गतिमिति ।। ननु ‘अकारणत्वाच्च’ इति सूत्रेण मुख्यप्राणस्याकारणत्वमेवोक्तमिति कथं कारणत्वं प्राणानामुक्तमित्यत आह– ‘च’ शब्देनेति ।। अत एवेतरेषां प्राणानां करण-त्वादिति तत्सूत्रभाष्य उक्तम् ।। किमिति ।। चक्षुरादिवदित्यत्र करणत्वेन प्रकृतानि चक्षुरादीनि जीवकरणान्युत ब्रह्मकरणानीति चिन्ता । तदर्थं ब्रह्मकरणत्वं जीवकरणत्वश्रुतिविरुद्धं न वेति । तदर्थं ‘जीवस्य करणान्याहुः’ इति श्रुतिः ‘यस्मात्तद्वशगाः’ इत्युक्तिश्च जीवस्वामिकत्वाभिप्रायो-तेश्वरस्वामिकत्वेऽपि जीवं प्रति क्रियासाधनत्वमात्राभिप्रायेति । तदर्थं प्राणानामीश्वरस्वामिकत्वे जीवं प्रति क्रियासाधनत्वमात्रे च प्रमाणं नास्त्युतास्तीति । यस्मादिति श्रुतिशेषोक्तयुक्तिमाह– जीववशत्वेनेति ।। अनेनेन्द्रियाणां जीवकरणत्वे दृष्टा युक्तिरिति न्यायविवरणमपि व्याख्यातं भवति । सूत्रे ‘तु’शब्दो जीवकरणत्वरूपविपक्षव्यावृत्त्यर्थमेवकारार्थः करणैः प्रवर्तयतीत्युपस्कारो ज्योतिराद्यधिष्ठानमित्यस्यैवैतदर्थत्वेनावृत्तिर्वा । तदिति पदं व्यस्तं समस्तं च । व्यस्ततच्छब्दबलाद्य-च्छब्दलाभः । ‘ज्योतिराद्यधिष्ठानम्’ इति हेत्वर्थगर्भमित्यभिप्रेत्य प्रवृत्तं यत् ज्योतिराद्यधिष्ठानमिति भाष्यं व्याचष्टे– ब्रह्मैवैत्यादिना । ‘यः प्राणे तिष्ठन्’ इत्यादेः पौनरुक्त्यापातेन तस्य मुख्यप्राणपरत्वे कथमत्र तदुदाहरणमित्यतस्तदामननादि’ति युक्तिप्रदर्शकमपीत्यभिप्रेत्य तदुदाहरणमित्याशयेनाह– सर्वप्राणप्रेरकेति ।। ‘यश्चक्षुषि तिष्ठन्’ इत्यादिदृष्टयुक्तेरीश्वरकरणत्वानङ्गीकार इति न्यायविवरणं ‘तदामननादि’त्येतत्प्राणानां ब्रह्मकरणत्वे श्रुतिप्रदर्शकतया व्याख्यातमित्यभिप्रेत्याह– यश्चक्षुषीति ।।

ननु कारणक्रमेण वचने आकाशाद्यधिष्ठानमिति कार्यक्रमेण वचने पृथिव्याद्यधिष्ठानमिति वक्तव्ये ज्योतिराद्यधिष्ठानमिति किं निमित्तमित्यत आह– चक्षुरादिवदिति ।। प्रकृतत्वादिति ।। उपलक्षणं चैतत् । ‘चक्षुषा दर्शयति’ इति श्रुतौ चक्षुष आदित्वेन ग्रहणादित्यपि ग्राह्यम् ।

भावदीपः

अधिकरणेति ।। अस्याधिकरणस्याप्रस्तुतचिन्तापरत्वनिवृत्त्यर्थं पूर्वेण प्रस्तुतं स्मारयतीत्यर्थः । अन्यथा सामान्यासिद्धौ विशेषचिन्ताया अनवसरदुस्थत्वादिति भावः । एतेनास्य विचारस्य प्राणविषयत्वाच्छ्रेष्ठश्चेत्यतःपूर्वमेवोत्पत्तिसंख्यापरिमाणचिन्तापेटिकायां निवेशः स्यादिति शङ्काऽ-पास्ता । करणत्वोक्त्यनन्तरमेवास्याकाङ्क्षोदयात् । तर्हि तदनन्तरमेव निवेशः स्यादिति न शङ्क्यम् । प्रस्तुतमुख्यप्राणचिन्तासमाप्त्यनन्तरमेवास्योत्थानौचित्यात् सर्वप्राणप्रेरकमुख्यप्राणप्रेरकत्वात् ब्रह्मणः तत्कारणत्वं युक्तमित्येवं रूपत्वादस्य विचारस्येति ।। श्रुताविति ।। श्रुतावित्यतः परमित्यर्थः । श्रुत्युक्तामेव युक्तिं शङ्कापूर्वं व्यनक्ति ।। न चेत्यादिना ।। दृश्यन्त इति श्रौतपदभावमाह ।। अनुभूयत इति ।। अत इति ।। सयुक्तिकत्वात्प्रबलेत्यर्थः । तदेवेत्यादिभाष्यं व्याचष्टे ।। ब्रह्मैवेति ।। एवकारतात्पर्यमाह ।। न पुनरिति ।। सौत्रतुशब्दोऽवधारणे । व्यस्तेन तत्पदेनान्वेतीति सूचितम् । यज्ज्योतिराद्यधिष्ठानं ब्रह्मेत्यस्य तात्पर्यमाह ।। ब्रह्मण एवेति ।। योऽग्नौ तिष्ठन्यस्तेजसि तिष्ठन्नित्यादिश्रुतेर्यज्ज्योतिराद्यधिष्ठानं तन्नियामकं ब्रह्म तदेव तस्मिन्नेव प्रकरणे चक्षुरादिनियामकं श्रूयते । यः प्राणे तिष्ठन्यश्चक्षुषि तिष्ठन्नित्यादीति तत्वप्रदीपोक्तं तदंशभूतानामपीत्येतट्टीकोक्तिं चानुरुध्य चन्द्रिकायां यदग्न्यादिरूपज्योतिराद्यधिष्ठानं ब्रह्म तदेव तत्कार्यरूपचक्षुरादिरूपज्योति-राद्यधिष्ठानमिति सूत्रं योज्यमित्याह भाष्यकार इत्युक्तं सर्वप्राणप्रेरकेत्यादि । यद्यपि यः प्राणे तिष्ठन्निति श्रुतः यो वाचि तिष्ठन् यश्चक्षुषि तिष्ठन्नित्यादि चेन्द्रियप्रायपाठात् घ्राणपरः माध्यन्दिनानां तथा पाठाच्च । तथापि चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रतिष्ठते इति श्रुतेः घ्राणेन्द्रियप्रधानदेवताया मुख्यवायोरपि प्राणपदेन ग्रहणादधिकार्थलाभाय मुख्यप्राणप्रेरकत्व-श्रुतेरित्युक्तम् । अत एव सर्वप्राणप्रेरकेति चोक्तिः । आदिपदेन न्यायविवरणोक्तश्रुतिर्ग्राह्येति भावेनाह ।। यश्चक्षुषीति ।। ननु भूतांशत्वात्प्राणानां भूतक्रमेणाकाशाद्यधिष्ठानमिति वा यः पृथिव्यां तिष्ठन्नित्यादिश्रौतक्रमानुसारेण पृथिव्याद्यधिष्ठानमिति वा वाच्यमित्यत आह ।। चक्षुरादीति ।।

अभिनवचन्द्रिका

सन्देहबीजं श्रुतिविगानमिति ।। ननु नेदं श्रुतिविगानम् । इन्द्रियाणामुभयकरणत्वसम्भवात् । यथा हि देवदत्तायाः पुत्रो देवदत्तस्यापि पुत्रो भवति । एवम् इन्द्रियाणि ईश्वरकरणान्यपि जीवकरणानि भविष्यन्ति इति चेत्, उच्यते भवत्येवैतच्छ्रुतिविगानम् । तथा हि– ‘जीवस्य करणान्याहुः’ इति श्रुतिस्तावत् जीवस्य करणस्वातन्त्र्यं वक्ति । ‘तद्वशगा’ इति तद्वशत्वाभि-धानात् । ‘ब्रह्मणो वा एतानि करणानि’ इति श्रुतिस्तु ब्रह्मण एव करणस्वातन्त्र्यं वक्ति । एतैः कारयतीत्यभिधानात् । न चोभयोः स्वातन्त्र्यं सम्भवतीति ।। चक्षुरादिभिः करणैरिति ।। स्वसम्बन्धिभिरिति शेषः ।। न पुनर्जीवेति ।। ईश्वराज्ञया जीवप्रयोज्यान्यपि न जीवसम्बन्धी-नीत्यर्थः । कुतो नेन्द्रियाणि जीवसम्बन्धीनीत्यतो लाघवाय ‘तदामननात्’ इति वक्तव्ये ‘ज्योतिराद्यधिष्ठानंत्विति वदता सूत्रकृता सूचितां युक्तिमाह– ब्रह्मण एवेति ।। चक्षुरादेर्ब्रह्म-प्रयोज्यत्वस्य यथेष्टविनियोज्यत्वस्योपपत्तेर्ब्रह्मसम्बन्धीनि चक्षुरादीनि न तु जीवसम्बन्धीनि । चक्षुरादीनां देवत्वेन यथेष्टविनियोगानर्हत्वात् । तदेव हि स्वं नाम भवति, यद्यथेष्टविनियोगार्हमिति भावः ।

वाक्यार्थमुक्तावली

अधिकरणसङ्गतिमिति ।। अव्यवहिताधिकरणसंगतिस्तु प्रकृतस्य मुख्यप्राणस्य भगवदुत्पन्नस्य निर्णीतपरिमाणस्य प्रागुक्ताकरणत्वसिद्धये प्राणानां करणत्वप्रतिपादानादिति ज्ञेयम् ।। किमिति ।। चक्षुरादिवदित्यत्र करणत्वे न प्रकृतानि चक्षुरादीनि किं जीवकरणान्युत ब्रह्मकरणानीति चिन्ता । तदर्थं जीवकरणत्वश्रुतिर्यस्मात्तद्वशग इत्यनुभवसिद्धयुक्तिश्च जीवस्वामित्वाभिप्रायेणोत ईश्वरस्वामि-कत्वेऽपि जीवं प्रति क्रियासाधनत्वबहुकालं जीवसम्बन्धित्वमात्राभिप्रायेणेति । जीवकरणानीति ।। जीवकर्तृप्रयोज्यानीत्यर्थः । कुतो न विरोध इत्यतो दृष्टा युक्तिरित्युक्तमेव पूर्वपक्षन्यायं यस्मात् तद्वशगा इति भाष्यारूढतया दर्शयति ।। जीववशत्वेनेति ।। न च करणत्वं नाम कर्तृप्रयोज्यत्वं प्राणानां जीववशत्वानुभवे च श्रुतेरनुभवयुक्तस्वेनैव प्राबल्यं प्राप्तं किं युक्तिपर्यन्तं धावनेनेति चेत्सयुक्तिकश्रुतिविरोधस्यात्र परिहार्यत्वात् । यद्यदधीनतया दृश्यते तत्र तदधीनमिति व्याप्त्युपपत्या युक्तेर्न विवक्षोपपत्तेरिति भावः । सूत्रे चशब्दोऽवधारणे । तदिति व्यस्तं समस्तं च पदम् । ज्योति-राद्यधिष्ठानमिति चावर्तते । आद्यं हेत्वर्थं गर्भविशेषाणां द्वितीयं साध्यप्रदर्शनपरम् । ततश्च यद् ब्रह्म योऽग्नौ यस्तेजसीति तिष्ठन्नित्यादिश्रुतेर्ज्योतिरादिरधिष्ठानं यस्य तत् तन्नियामकं तदेव ज्योतिराद्य-धिष्ठानमिति ज्योतिरादिप्रकृतिकचक्षुरादिकरणाधिष्ठानं तानि कारणत्वेनोपादाय प्रवर्तयतीति यावत् । कुतः तदामननात् । तस्य चक्षुराद्यधिष्टातृत्वस्य यश्चक्षुषि तिष्ठन्नित्यादावामननादिति सूत्रार्थमभिप्रेत्य भाष्यारोहं दर्शयति ।। ब्रह्मैवेत्यादिना ।। हेत्वर्थगर्भत्वं व्यनक्ति ।। ब्रह्मण एवेति ।। तदंश-भूतानामिति ।। तेषां भूतैरुपचय इत्युक्तत्वादिति भावः । यः प्राणे तिष्ठन्’ इत्यादौ प्राणशब्दस्येन्द्रियपरत्वेऽन्तर्यामिब्राह्मणे यश्चक्षुषि तिष्ठन्नित्यादेः पौनरुक्त्यं मुख्यप्राणपरत्वेत्र प्रकृतानुपयोग इति कथमत्र तदुदाहरणमित्यत आह ।। सर्वप्राणप्रेरकेति ।। इत्यादीत्यादिपदार्थः ।। यश्चक्षुषीति ।। एतेन दृष्टा युक्तिन्यायोऽपि भाष्यारूढो दर्शितः । आकाशादिकारणक्रमेणाकाशा-द्यधिष्ठानमिति वाक्ये ज्योतिरादीत्युक्ते निमित्तमाह ।। चक्षुरादिवदिति ।। चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्य इत्यत्रेति भावः । तत्रापि श्रोत्रादिवदिति वाच्ये चक्षुरादिग्रहणमणवश्चेत्यत्र तद्यथाणुतश्चक्षष इति श्रुतौ चक्षुषः प्रकाशव्याप्तेः स्फुटभासत्वेन चक्षुष एवोपादानादिति बोध्यम् ।

वाक्यार्थविवरणम्

जीवकरणान्युत ब्रह्मकरणानीति ।। यस्मात्तद्वशगा इति वाक्यबलात् कर्तृप्रयोज्यत्वं हि करणत्वं प्रतीयते । एवं जीवकरणानीत्यादेर्जीवप्रयोज्यानि वा ब्रह्यप्रयोज्यानि वेत्यर्थो द्रष्टव्यः । प्रयोज्यत्वं प्रेर्यत्वम् । एवमुत्तरत्रापि जीवकरणत्वादिशब्दार्थोऽयमेव द्रष्टव्यः ।। सर्वप्राणेति ।। सर्वेन्द्रियेत्यर्थः ।

वाक्यार्थमञ्जरी

अकरणत्वाच्च न दोष इति सूत्रे मुख्यप्राणस्याकरणत्वमेवोक्तं न तु प्राणानां करणत्वं तत्कथमेतदिति तत्राह ।। च शब्देनेति ।। ज्योतिराद्यधिष्ठानमग्न्यादिभूतनियामकं यद् ब्रह्म तत्तु तदेव ज्योतिराद्यधिष्ठानम् अग्न्याद्यंशचक्षुरादिनियामकं तत्करणमिति यावत् कुतः तदामननात् तस्य चक्षुरादिनियामकत्वस्य यश्चक्षुषि तिष्ठन्नित्यादिनाभिधानादित्यर्थः ।। सर्वप्राणप्रेरकेति ।। ‘यः प्राणे तिष्ठन्’ इति प्राणशब्दस्येन्द्रियपरत्वे यश्चक्षुषीत्यादिना पौनरुक्त्यापत्तेरिति भावः । आदिपदोपात्त-माह ।। यश्चक्षुषीति ।। ननु कारणक्रमेण वचने आकाशाद्यधिष्ठानमिति कार्यक्रमेण वचने पृथिव्याद्यधिष्ठानमिति वक्तव्यं ज्योतिराद्यधिष्ठानमिति वचने किं निमित्तमित्यत आह ।। चक्षुरादि-वदिति ।। उपलक्षणमेतत् । चक्षुषा दर्शयतीति श्रुतौ चक्षुष आदित्वेन ग्रहणादित्यपि द्रष्टव्यम् ।

Load More