ॐ नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः ॐ
१०. अथ आत्माधिकरणम्
सूत्रभाष्यम्
।। ॐ नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः ॐ ।। १७ ।।
‘स इदं सर्वं विलाप्यान्तस्तमसि निलीनस्तद्विलाप्य व्युत्तिष्ठते स इदं सर्वं विसृजति विलापयति विस्थापयति प्रस्थापयत्याच्छादयति प्रकाशयति विमोचयत्येक एव’ इति श्रुतेः परमात्माऽपि न लीयते । अश्रुतत्वाद्ब्रह्मलयस्य । निलीनशब्देनापिहितत्वमुच्यते । तुच्छेनाऽभ्वपिहितं यदासीत्, इति श्रुतेः । ‘स एतस्मिंस्तमसि निलीनः प्रकृतिं पुरुषं कालं चानुपश्यति नैनं पश्यति कश्चन’ इति पैङ्गिश्रुतिः । ‘नित्यो नित्यानां चेतनश्चेतनानाम्’ (कठ.उ. ५-१३) ‘स नित्यो निर्गुणो विभुः परः परमात्मा’ । ‘नित्यो विभुः कारणो लोकसाक्षी परो गुणैः सर्वदृक् शाश्वतश्च’ इत्यादि श्रुतिभ्यो नित्यत्वाच्च ।
।। इति आत्माधिकरणम् ।।
तत्त्वप्रदीपिका
नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः । अन्तस्तमसि निलीन इति श्रुतेः परमात्माऽपि लीयते पृथिव्यादिवदिति न मन्तव्यम् ।। अश्रुतत्वाद्ब्रह्मलयस्य ।। प्रत्युत ‘तद्विलाप्य व्युत्तिष्ठते’ ‘स इदं सर्वं विसृजति’ इत्यादेरस्या एव श्रुतेरपि परमात्मा न नश्यति । नचान्यत्र ब्रह्मलयः श्रुतः ।
तत्त्वप्रकाशिका
अत्र परमात्मनि श्रुतिसमन्वयसिद्ध्यर्थं तल्लयविषयश्रुतिविरोधपरिहरादस्ति शास्त्रादिसङ्गतिः । सकलजगज्जन्मादिकर्ता परमात्मेत्युक्तम् । तस्य च लयप्राप्तौ तदनुपपत्तेरसौ निरसनीयः । सर्वोत्पत्तिलयकर्तृत्वेन प्रकृतः परमात्मा विषयः । लीयते न वेति सन्देहः । ‘नित्यो नित्यानाम्’ ‘अन्तस्तमसि निलीन’ इति श्रुतिविरोधः सन्देहबीजम् । तत्र सूत्रमुपन्यस्य पूर्वपक्षं सूचयन् व्याचष्टे ।। नात्मेति ।। परमात्माऽपि लीयते एव । ‘तमसि निलीन’ इति श्रुतेः । न चेयं श्रुतिर्नेश्वरविषयेति वाच्यम् । स इदं सर्वं विसृजति’ इत्यादितल्लिङ्गात् । न चास्ति श्रुत्यन्तरमपीति वाच्यम् । विष्णुर्लयवांश्चेतनत्वाज्जीववदिति युक्तिसाहित्येन लयश्रुतेः प्राबल्यात् । न च वक्तव्यं स्वातन्त्र्य-हेतुना परमात्मनोऽनुपपत्तेरुक्तत्वात्कथं लय इति । स्वतन्त्रस्यापि लीलया विग्रहग्रहणपरित्यागो-पपत्तेः । अतः सयुक्तिकश्रुतिविरोधेनान्यश्रुतेरप्रामाण्यान्नोक्तसमन्वयो युक्त इति न वाच्यम् । कस्यामपि श्रुतौ ब्रह्मलयस्याश्रुतत्वादिति भावः । प्रस्थापयति प्रेरयति । आच्छादयत्यज्ञानेन ।
ननु ‘अन्तस्तमसिनिलीनः’ इति ब्रह्मलयस्य श्रुतत्वात्कथमुच्यतेऽश्रुतत्वमित्यत आह ।। निलीनेति ।। कुतो निलीनश्रुतिरपिहितत्वपरेत्यत आह ।। तुच्छेनेति ।। अस्यां श्रुतौ ‘नासदासीत्’ इत्यादिना सर्वस्य लयमुक्त्वा तम आसीदिति प्रकृतेरवस्थानमभिधाय ब्रह्मणस्तदपि हितत्वं पुनः प्रादुर्भावश्चोच्यते । अतस्तत्समाख्यानादत्रापि निलीनशब्दोऽपि हितत्वार्थ एवेति भावः । ब्रह्मणो निलीनत्वमपि हितत्वमेवेत्यत्र श्रुतिं चाह ।। स इति ।। निलीन इत्युक्त्वा पुरुषादीन्स्वयं पश्यति नैनं पश्यति कश्चनेति वचनान्निलीनशब्दोऽपि हितार्थे प्रयुक्त इति ज्ञायत इति भावः । किमर्थमेवं निलीनश्रुतेरर्थान्तरं परिकल्प्यते लय इत्येवार्थः किं न स्यात् । समाख्यादीनां श्रुतेर्दुर्बलत्वात् । न च श्रुत्यन्तरबलात् । तस्याप्रामाण्योपपत्तेरित्यत आह ।। नित्य इति ।। नित्यत्वश्रुतिविरोधा-दर्थान्तरमेव युक्तम् । न च तदप्रामाण्यम् । बाहुल्येन प्राबल्यात् । न च सयुक्तिकाया अपि प्राबल्यम् । श्रुतिविरुद्धयुक्तेः स्वयममानत्वादिति भावः । गुणैर्गुणेभ्यः । न चोदाहृतश्रुतीनां स्वरूपविषयत्वं वाच्यम् । ‘नित्यो नित्यानाम्’ इति देहनित्यत्वस्याप्युक्तत्वात् । अतः श्रुत्यविरोधेन परमात्मलयस्य निरस्तत्वाद्युक्तस्तस्मिन् श्रुतिसमन्वय इति सिद्धम् ।
गुर्वर्थदीपिका
युक्तिसाहित्येन लयश्रुतेः प्राबल्यादित्यत्र तर्हीदमधिकरणं युक्तिसहितश्रुतिविरोधपरिहारात्मक-चतुर्थपादे प्रवेशनीयमिति न शङ्कनीयम् । तत्र युक्तीनामपि श्रौतत्वस्याभिप्रेतत्वादिति ज्ञेयम् । प्रस्थापयति इतस्ततो जीवानां प्रस्थापनं यात्रां कारयतीति व्युत्पत्तिमभिप्रेत्याऽऽह– प्रेरयतीति ।। इदं चोपलक्षणम् । विस्थापयति उत्तमाधमाख्यविभागेन स्थापयतीत्यपि द्रष्टव्यम् । तस्या-प्रामाण्योपपत्तेरित्यत्र तस्य निलीनशब्दस्यार्थान्तरबोधकश्रुत्यन्तरस्याप्रामाण्योपपत्तेः युक्तिसहितलय-श्रुतिविरोधेनाप्रामाण्योपपत्तेरित्यर्थः । इत्यादिश्रुतिभ्यो नित्यत्वाच्चेति वदता बहुश्रुतिषु नित्यत्वस्य श्रुतेः ‘नात्मा लीयत’ इति श्रुतेरर्थान्तरं च सूचितम् ।
भावबोधः
अनन्तरसङ्गतिं सूचयन् विषयमाह– सर्वोत्पत्तिलयकर्तृत्वेन प्रकृत इति ।। पूर्वाधिकरणे विप्रतिपत्तिनिरासेन ब्रह्मव्यतिरिक्तस्य सर्वस्य लयोक्तौ तर्हि ब्रह्मणोऽपि चेतनत्वेन तत्साम्याल्लयः स्यादिति पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भावः ।। लीयत इति ।। अत्र परमात्मा लीयते न वेति चिन्ता । तदर्थमन्यस्तमसि निलीय इति श्रुतिर्ब्रह्मणो देहलये प्रमाणं न भवत्युत भवतीति । तदर्थं सा श्रुतिश्चेतनत्वयुक्तियुक्तत्वेन निरवकाशोतापिहितत्वपरत्वेन सावकाशेति । तदर्थं श्रुति-सावकाशत्वयुक्त्याभावसत्त्वयोः कल्पकं ब्रह्मणो देहनित्यत्वसाधकं प्रमाणं नास्त्युतास्तीति । ‘स इदं सर्वं विसृजति’ इत्यादिलिङ्गादित्यनेन भाष्येऽधिकांशोदाहरणस्य प्रयोजनमुक्तम् । भाष्ये परमात्मापीत्यपिशब्दसूचितां चेतनत्वेन साम्याद्विष्णोरपि देहलय इति न्यायविवरणोदाहृतां युक्तिमाह– विष्णुर्लयवानिति ।। ‘असम्भवस्तु’ इत्यधिकरणेन गतार्थत्वं निरस्यति– न च वक्तव्यमिति ।। स्वातन्त्र्यस्यापीति ।। तथा च स्वातन्त्र्यस्याप्रयोजकत्वादनुत्पराक्षेपेणैवै-तदधिकरणप्रवृत्तिरिति भावः । ब्रह्मलयस्याश्रुतत्वादित्यनेन श्रुतत्वाच्चान्यथेति न्यायविवरणमपि व्याख्यातं भवति । प्रादुर्भावश्चोच्यत इति । ‘तपस्तन्महिमा जायतैकम्’ इति श्रुतिशेषेणेत्यर्थः ।। बाहुल्येनेति ।। अनेन ताभ्य इति सूत्रगतस्य श्रुतिभ्य इति भाष्यगतस्य बहुवचनस्य प्रयोजनमुक्तं भवति ।। देहनित्यत्वस्याप्युक्तत्वादिति ।। अनेन ‘सर्वा एते चिदात्मनो ब्रह्मलयमनुप्राप्य विष्णोरुदरे संविशन्ति’ इति तस्योदरे सर्वसङ्ग्रहणादिश्रुतिभ्यो नित्यत्वावगतत्वात्तदेहस्येति न्यायविवरणमुक्तार्थं भवति ।
भावदीपः
चिन्तायाः फलमाह ।। सकलेति ।। अत्रैवैतद्विचारे किं निमित्तमित्यत आह ।। सर्वोत्पत्ती-त्यादि ।। तथा चात्रैवावसरप्राप्तोऽयं विचार इति भावः । इति श्रुतेः परमात्माऽपि न लीयत इत्युक्तेर्विरोधनिरासायाह ।। पूर्वपक्षं सूचयन्निति ।। तथैव भाष्यं व्याचष्टे ।। परमात्माऽपीति ।। भाष्ये तमसि निलीन इत्येतावत्येव वाच्ये शेषोक्तेरुपयोगं शङ्कापूर्वमाह ।। न चेयमिति ।। चेतनत्वसाम्याद्विष्णोरपि देहलय इत्यन्यत्रोक्तयुक्तिं शङ्कापूर्वं व्यनक्ति ।। न चास्ति श्रुत्यन्तर-मिति ।। नित्यो नित्यानामित्येतदित्यर्थः । ननूत्पत्तिमत्वाल्लीयन्त इति सिद्धमिति प्रागुक्त-न्यायेनेश्वरस्याप्यसम्भवस्त्विति नये पराधीनविशेषावाप्त्यभावरूपानुत्पत्तिमत्त्वोक्त्यैव लयाभावोऽपि सिद्ध इति तेनैवेदं गतार्थमित्याशङ्क्य निराह ।। न च वक्तव्यमित्यादिना ।। अत इति ।। लयश्रुतेः प्राबल्यादित्यर्थः । भाष्यादिस्थनञोऽन्वयमाह ।। इति न वाच्यमिति ।। एतेन सूत्रे तमसि निलीन इति श्रुतेरात्मा लीयत इति न । अश्रुतेरिति पूर्वस्मादिति पदानुवर्तने न प्रकृतलयान्वयेन च योजना सूचिता । अर्थतस्समाख्यात्वद्योतनाय तुच्छेनेति श्रुतेः संक्षेपेणार्थमाह ।। अस्यामिति ।। आनुमानिकनये तदनन्यत्वनये चैषा श्रुतिरर्थतः सम्यग्व्याख्यातेति भावः ।। प्रादुर्भावश्चेति ।। तपसस्तन्महिना जायतेति शेषेणेति भावः । अत एव भाष्ये स इदं सर्वं विलाप्येति व्युत्तिष्ठत इति च पूर्वोत्तरशेषोक्तिरर्थसाम्यद्योतनाय कृता । अत इति अर्थतः साम्यादित्यर्थः । यथा पुरुषविधमपि चैनमधीयत इत्यर्थतः पुरुषसूक्तसमाख्यानाद्वैश्वानरविद्योक्तो विष्णुरेवेत्युक्तं वैश्वानरनये पुरुष-विधमपि चैनमधीयत इति सूत्रे तद्वदिति भावः ।। समाख्यादीनामिति ।। प्रकृते समाख्या-मात्रत्वेऽप्येवमुक्तिः शब्दादेवेत्यत्रोक्तन्यायस्मारणार्था । अत एव लिङ्गादीनामित्यनुक्त्वा प्रकृत-समाख्यापूर्वकतया लिङ्गादेर्ग्रहणम् । श्रुतेर्निलीनशब्दादित्यर्थः ।। श्रुत्यन्तरेति ।। नित्यो नित्यानामिति श्रुत्यन्तरेत्यर्थः । अर्थान्तरं परिकल्प्यत इत्यनुषङ्गः । कथमुक्ताशङ्कानिरास इत्यतो बहुवचनतात्पर्यमाह ।। नित्यत्वेति ।। गुणैरुत्कृष्ट इति भ्रमनिरासायाह ।। गुणैर्गुणेभ्य इति ।। सत्त्वादिभ्य इत्यर्थः । सर्वे वा एते चिदात्मानो ब्रह्मल्लयमनुप्राप्य विष्णोरुदरे संविशन्तीति तस्योदरे सर्वसङ्ग्रहादिति श्रुतिभ्यो नित्यत्वावगमाच्च तद्देहस्येत्यन्यत्रोक्त्यनुरोधेन नित्योनित्यानामिति श्रुत्युक्तेर्भावम् शङ्कापूर्वमाह ।। न चोदाहृतेति ।। स्वरूपतो नित्यानामपि सकाशान्नित्यत्वोक्ति-र्देहतोऽपि नित्यत्वाभिप्रायेति भावः । ‘जगृहे पौरुषं रूपम्’ इत्यादि तु प्रथमस्कन्धतात्पर्ये जगृह इति तु व्यक्तिरिति चतुर्थगीताभाष्ये च व्याख्यातम् । तथा ब्रह्मशापोपसंसृष्टे स्वकुले यादवर्षभः । प्रेयसीं सर्वनेत्राणां तनुं स कथमत्यजत् । त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः । अवतीर्णो हि भगवान्स्वेच्छोपात्तपृथग्वपुरित्यादिपुराणवाक्यानि तु एकादशस्कन्धतात्पर्यादौ सम्यग्व्याख्यातानीति भावः । अत इति ।। निलीनश्रुतेर्नित्यत्वश्रुतिबाहुल्येनापि हि तत्वार्थत्वादित्यर्थः ।
वाक्यार्थमुक्तावली
तस्य लयप्राप्ताविति ।। चेतनत्वेन पूर्वदृष्टान्तेन तस्यापि लयप्राप्तावित्यनेनानन्तरसङ्गतिं सूचयति । परमात्मा लीयते नवेतिचिन्ता । तदर्थम् अन्तस्तमसि निलीन इति श्रुतिर्देहलयपरा । उतापिहितत्वमात्रपरा वेति । तदर्थमपिहितत्वमात्रपरत्वे ज्ञापकमस्ति न वेति ।। सूत्रमुपन्यस्य पूर्वपक्षमिति ।। सूत्रे श्रुतेरश्रुतेरिति च द्वेधा विच्छेदः । तमसि विलीन इति श्रुतेरात्मा लीयते इति नेति योजनायां सूत्र एवपूर्वपक्षलाभादुपन्यस्य तत्सूचितं पूर्वपक्षं सूचयन् व्याचष्ट इत्यर्थः । ‘स इदं सर्वं विसृजति’ इति वाक्यशेषोपयोगमाह ।। न चेयमिति ।। परमात्माऽपि लीयत इति भाष्ये अन्यवच्चेतनत्वेन हेतुना परमात्माऽपि लीयत इति सूचितं जीवसाम्यमित्युक्तन्यायं सङ्गमयितुमाह ।। न चास्तीत्यादिना ।। असम्भवस्त्वित्यधिकरणन्यायेन गतार्थत्वं निरस्यति ।। न च वक्तव्य-मिति ।। तस्याक्षेपोऽयमिति भावः । विग्रहग्रहणं परित्यागोपपत्तेरिति । उक्तजन्मलयव्यवहारस्यैव मुख्यत्वोपपत्तौ गौणाश्रयणमन्न्याय्यमिति भावः । ततश्च जीववदात्मा परमात्माऽपि लीयते तमसिविलीन, इति श्रुतेरिति न वाच्यम् । कुतः अश्रुतेः । कस्यामपि श्रुतौ ब्रह्मलयस्याश्रुतत्वा-दित्यर्थः ।। इत्यत आहेति ।। श्रुतेरिति ।। सूत्रखण्डस्थ निलीनशब्दस्यापिहितत्वतात्पर्यकत्वे समाख्याश्रुतेरित्यर्थान्तरमाहेत्यर्थः ।। पुनःप्रादुर्भावश्चेति ।। तपसस्तन्महिना जायतैकमित्यंशे-नेत्यर्थः । अत एव भाष्ये इदं सर्वं विलाप्य व्युत्तिष्ठते इति पूर्वोत्तरशेषोक्तिः ।। तत्समाख्या-नादिति ।। अर्थतः समाख्यानादित्यर्थः ।। श्रुतिं चाहेति ।। प्रयोग ज्ञापनायेति शेषः ।। एतेन श्रुतेरित्यस्य निलीनशब्दस्यापिहितत्वश्रुतेरित्यर्थान्तरमुक्तं ज्ञेयम् । स्वयं पश्यतीत्युक्त्या देहावगमात् । नैनं पश्यतीत्यप्रत्यक्षत्वोक्त्या चेत्यर्थः ।। प्रयुक्त इति ।। नास्माभिर्गौण्याश्रीयत इति भावः ।। समाख्यादीनामिति ।। आदिपदेन पश्यतीत्युक्तदर्शनान्यथानुपपत्तेः नैनं पश्यतीत्यप्रत्यक्षे प्रयोगस्य च ग्रहणम् । ताभ्यः श्रुतिभ्यो नित्यत्वावगमाच्चेति सूत्रखण्डव्यावर्त्यपूर्वमवतार्य भाष्यं योजयति किमर्थमित्यादिना ।। ताभ्य इति बहुवचनेन लब्धं सर्वसङ्ग्रह इति न्यायं घटयितुमाह ।। बाहुल्येनेति ।। परत्वे गुणानां कर्तृत्वकरणत्वयोरभावादाह ।। गुणैर्गुणेभ्य इति ।। सत्वादि-गुणेभ्योऽतिक्रान्त इत्यर्थः ।। देहनित्यत्वस्यापीति ।। स्वरूपनित्यत्वस्य इतर चेतनमात्र-साधारण्यात्ततोऽप्यतिशयेन नित्यत्वोक्तिर्देहनित्यत्वमादाय पर्यवस्यतीति भावः ।
तत्त्वसुबोधिनी
अनन्तरसङ्गतिं सूचयन् विषयमाह ।। सर्वोत्पत्तिलयेति ।। पूर्वाधिकरणे विप्रतिपत्तिनिरासेन ब्रह्मव्यतिरिक्तस्य लयोक्तौ तर्हि ब्रह्मणोऽपि चेतनत्वेन तत्साम्यात् लयः स्यादिति पूर्वपक्षोत्थानात् अनन्तरसङ्गतिरिति भावः । स इदं सर्वं विसृजति’ इत्यादितल्लिङ्गादित्यनेन भाष्येऽधिकांशो-दाहरणस्य प्रयोजनमुक्तम् ।। श्रुत्यन्तरमपीति ।। नित्यो नित्यानामिति श्रुत्यन्तरमित्यर्थः । असम्भवस्त्वित्यधिकरणेन गतार्थतां निरस्यति ।। न च वक्तव्यमिति ।। स्वतन्त्रस्यापीति ।। तथा च स्वातन्त्र्यस्याप्रयोजकत्वात् अनुत्पत्यपेक्षेणैवैतदधिकरणप्रवृत्तिरिति भावः । विस्थापयति प्रस्थापयति पदयोः पौनरुक्त्यादाह ।। प्रस्थापयति प्रेरयतीति ।। प्रादुर्भावश्चोच्यत इति ।। तमसस्तन्महिमा जायतैकम्’ इति श्रुतिविशेषेणेत्यर्थः । समाख्यानुसारेणैवमर्थः क्रियत इत्यत आह ।। समाख्यादीनामिति ।। तस्याः षष्ठप्रमाणत्वादिति भावः । स एतस्मिन्निति श्रुत्यन्तरबलात् न लीनश्रुतेरर्थान्तरं कल्प्यत इत्यत आह ।। न चेति ।। बाहुल्येनेति ।। ताभ्यः इति सूत्रगतस्य श्रुतिभ्य इति भाष्यगतस्य च बहुवचनस्य प्रयोजनमुक्तं भवति । गुणैः पर इति सत्वादिभिः पर इत्यर्थः प्रतीयते अत आह ।। गुणैर्गुणेभ्यः इति ।। नित्यो नित्यानामिति ।। अन्यथा नित्यानामिति व्यर्थःस्यादिति भावः ।
वाक्यार्थविवरणम्
अनुत्पत्तेरुक्तत्वादिति ।। अनादिनो भावस्य लयाभावनियमादिति भावः ।। विग्रहेति ।। तथा च यथा कथञ्चिद्विग्रहग्रहणतत्परित्यागयोरेवोत्पत्तिलयशब्दार्थत्वेन तयोश्च परमात्मनि सत्त्वेन स्वातन्त्र्यमप्रयोजकमिति भावः । तुच्छेनेत्यत्र छान्दसः स्वार्थे यक्प्रत्यय इति ज्ञातव्यम् । प्रादुर्भावश्चोच्यते । ‘तपसस्तन्महिमा जायतैकमिति’ श्रुतिशेषेणेत्यर्थः ।। निलीन इत्युक्तेति ।। निलीनशब्दस्य नाशार्थकत्वे पुरुषादिद्रष्टृत्वोक्त्ययोगादिति भावः ।। श्रुतेरिति ।। निलीनश्रुतेः सावकाशत्वादित्यर्थः ।। श्रुत्यन्तरेति ।। ‘स एतस्मिन्’ इति श्रुत्यन्तरबलान्निलीनश्रुतेरर्थान्तरं परिकल्प्यत इति वर्तते । अर्थान्तरत्वम् । निलीनशब्दस्य । तदप्रामाण्यम् । तासां नित्यत्व-श्रुतेरप्रामाण्यमित्यर्थः । ननु बहुत्वेन नित्यत्वश्रुतीनां प्राबल्यवन्निलीनश्रुतेरप्युक्तचेतनत्वादि-युक्तिसहितत्वेन प्राबल्यान्नार्थान्तरं कल्प्यमित्यत आह ।। न चेति ।। सयुक्तिकायाः निलीनश्रुतेः ।। श्रुतीति ।। नित्यत्वश्रुतीत्यर्थः । उदाहृतनित्यत्वश्रुतीनां स्वरूपनित्यत्वाभिप्रायकत्वेन निलीनश्रुतेः देहनाशपरत्वेनाविरोध इत्याशङ्क्य निषेधति ।। न चेति ।। नित्य इति ।। स्वरूपतो नित्यानां जीवादीनां सकाशादप्यस्य विशिष्य नित्यत्ववचनं देहनित्यत्वं विना न सम्भवतीति भावः ।
वाक्यार्थमञ्जरी
आत्मा परमात्मा न लीयते कुतः अश्रुतेः ब्रह्मलयस्याश्रवणात् ताभ्यो नित्यो नित्यानां स नित्यो निर्गुणः स नित्यो विभुरित्यादिश्रुतिभ्यस्तस्य नित्यत्वाच्चेत्यर्थः ।। उक्तत्वादिति ।। असम्भवस्तु सतोऽनुपपत्तेरित्यत्रेति शेषः ।। प्रेरयतीति ।। अतो न पुनरुक्तिरित्याशयः ।। अपिहितत्वेति ।। आच्छादितत्वेत्यर्थः ।। प्रादुर्भावश्चेति ।। ‘तपसस्तन्महिमा जायतैकम्’ इति श्रुतिविशेषेणेत्यर्थः । अपिहितार्थे प्रयुक्त इति लयादर्शनादिति भावः । श्रुत्यन्तरबलादित्य-नन्तरमर्थान्तरं परिकल्प्यत इत्यनुवर्तते परत्वं प्रति गुणशब्दोक्तब्रह्मादेरवधित्वात्तत्र चापादाने पञ्चम्या भाव्यत्वादाह ।। गुणेभ्य इति ।। अप्रधानेभ्य इत्यर्थः ।। देहनित्यत्वस्येति ।। अन्यथा स्वरूपनित्यषष्ठ्यन्तनित्यपदोक्तजीवाधिक्यालाभादिति भावः ।
।। इति आत्माधिकरणम् ।।