ॐ शास्त्रयोनित्वात् ॐ
३. शास्त्रयोनित्वाधिकरणम्
सूत्रभाष्यम्
अनुमानतोऽन्ये न कल्पनीया ।
॥ ॐ शास्त्रयोनित्वात् ॐ ॥ ३ ॥
"नावेदविन्मनुते तं बृहन्तं सर्वानुभुमात्मानं साम्पराये’ (तै.ब्रा. ३-१२-९) ॥ "औपनिषद पुरुष’ इत्यादिश्रुतिभ्यश्र्च ॥
न चानुमानस्य नियतप्रामाण्यम् ॥
"श्रुतिसाहाय्यरहितमनुमानं न कुत्रचित् ।
निश्र्चयात्साधयेदर्थं प्रमाणान्तरमेव च ॥
श्रुतिस्मृतिसहायं यत् प्रमाणान्तरमुत्तमम् ।
प्रमाणपदवीं गच्छेन्नात्र कार्या विचारणा ॥
पूर्वोत्तराविरोधेन कोऽत्रार्थोऽभिमतो भवेत् ।
इत्याद्यमूहनं तक शुष्कतर्कं तु वर्जयेदि’त्यादि कौर्मे ॥
शक्यत्वाच्चानुमानानां सर्वत्र ।
"सर्वत्र शक्यते कर्तुमागमं हि विनाऽनुमा ।
तस्मान्न सा शक्तिमती विनागममुदीक्षितुम् ।’ इति वाराहे ।
सत्तकदीपावली
अधुना रुद्रादीनां जगत्कारणत्वमाशङ्क्य तत्परिहारत्वेन सूत्रमवतारयति ॥ शास्त्रेति ॥ यद्यनुमानेन जगत्कर्ता सिद्ध्येत् तर्ह्येव यत्कार्यं तत्सकर्तृकमिति व्याप्त्या क्षित्यादिकार्यस्यापि य कश्र्चित्कर्ता सिद्ध्यन् रुद्रादि परिशङ्कित स्यात् । न त्वेतदस्ति शास्त्रैकसमधिगम्यत्वाज्जगत्कर्तु । अत शास्त्रं यं जगत्कर्तारं बोधयति स जगत्कर्ता स्यान्नापर । शास्त्रैकवेद्यत्वं जगत्कर्तृ श्रुतिभिरुपपादयति । नावेदविदित्यादिना ॥ सर्वमनुभवतीति सर्वानुभुं परमात्मानं साम्पराये तल्लोकमुद्दिश्य वेदविदेव मनुते न त्ववेदविदित्यनेन वेदैकवेद्यत्वमनुमानावेद्यत्वं च जगदीशितुरुक्तं भवति । पुरु सरण परमपुरुषो जगत्कर्ता औपनिषद उपनिषदेकसमधिगम्य इत्युक्तं भवति । नैषा तर्केण मतिरापनेयेत्याद्या श्रुतिरादिशब्दोक्ता । इतोऽपि नानुमानं स्वतन्त्रमीश्र्वरं साधयति अनियतप्रमाणत्वाभावादित्याह ॥ न चेति ॥ एतदेव पुराणवचनेनोपपादयति ॥ श्रुतीति ॥ न ह्यनिश्र्चितार्थसाधकं प्रमाणं भवति । न च क्षित्यादे कार्यत्वहेतुना घटवत्सकर्तृकत्वं निश्र्चेतुं शक्यम् । शरीरवत्कर्तृरहितत्वेन अकर्तृकत्वस्यापि सम्भवात् । जडशरीरादिमानीश्र्वरो अनुमानगम्योऽस्त्विति न वाच्यं प्रत्यक्षविरोधात् । अत श्रुतिमनुसृत्यैव अत्यन्तातीन्द्रिये ईश्र्वरे प्रवर्तमानमनुमानं प्रमाणं भवेत् नान्यथा । यथा भगवदवतारग्राहि प्रत्यक्षम् । न चात्यन्तातीन्द्रियार्थे स्वतन्त्रानुमानप्रवृत्तौ यस्तर्केणानुसन्धत्ते स मां वेद न चेतनम् इति वचनविरोध । तद्वचनस्य श्रुतिपौर्वापर्यपर्यालोचनतकविषयत्वादित्यर्थ । यदि स्वतन्त्रानुमानेन प्रत्यक्षयोग्यार्थस्यापि सिद्धिर्भवेत् तर्हि शशश़ृङ्गादीनामपि सिद्धि स्यात् । तत्रापि गवादिवच्चतुष्पाददिहेतुना अनुमानस्य कर्तुं शक्यत्वादित्याह ॥ शक्यत्वादिति ॥ पुराणवचनेनैतदुपपाद-यति ॥ सर्वत्रेति ॥ उदीक्षितुम् अर्थमुदीक्षयितुमित्यर्थ । ननु प्रत्यक्ष एव विषयीकरोति नानुमानम् इत्येतत्प्रतिपादनं व्यर्थमित्येतच्चोद्यं परिहरति रेतो धातुरित्यादिमोक्षधर्मवचनेन । अस्यार्थ । कस्यचिदेव रेतस शरीरविशेषपरिणामान्यथानुपपत्या कस्यचिदेव अपथ्यस्य सेवनेन वातपित्तादिधातुविकारान्यथानुपपत्या कस्याश्र्चिदेव वटकर्णिकाया वटविशेषपरिणामान्यथानुपपत्या केनचिदेव जातिस्मृत्यन्यथानुपपत्या कस्यचिदेव अयस्कान्तस्य अयोभ्रामकत्वान्यथानुपपत्या सूर्यकान्तशिलाया अप्यग्निजनकत्वान्यथानुपपत्या जीवद्दशायां तन्निर्वाहकमन्यत्कल्पनीयम् । तच्च कारणं रेतोधात्वाद्यभिमानिजीवान्तर्यामी कर्मसापेक्षो विष्णुरेवेत्येतद्वेद एव बोधयितुं शक्नोति । देवताभ्युपयाचनान्यथानुपपत्याऽप्यागमिकोऽर्थ सिद्ध्यति । अप्रत्यक्षाया हि देवताया याचनं लोकसिद्धम् । मृतशरीरस्य ज्ञानचेष्टानिवृत्यनुपपत्या जीवद्दशायां ज्ञानादिनिर्वाहकं पूर्वोक्तं कारणं सिद्ध्यत्येव अन्यथा मृतशरीरस्यापि ज्ञानादिमत्वप्रसङ्गात् । गतप्राणत्वेन ज्ञानाभावश्र्चेत्सुप्तशरीरस्य ज्ञानं स्यात् सप्राणत्वात् । जीवेश्र्वरादिकमनङ्गीकुर्वत प्रत्यक्षैकप्रामाण्यवादिनोऽम्बुपानादि प्रवृत्तिरपि दुर्घटा स्यात् । अनुमायत्तत्वात्तस्या । इतोऽपि न शास्त्रापह्नव कर्तुं शक्यते । अत्युत्कटै पुण्यपापैरिहैव फलमश्नुते इति लोकप्रसिद्धेरित्याह दर्शनादिति । हितशासनात् शास्त्रम् ऋगादिकं तदनुकूलस्मृत्यादि चोच्यते न पाशुपतादिकं कुवर्त्मत्वादित्येतत्स्कान्दवचनेन दर्शयति ॥ ऋगिति ॥ चरितं रघुनाथस्य शतकोटिप्रविस्तरमित्यादिवचनसिद्धं मूलरामायणम् । भारतवचनैरपि वेदादे सच्छास्त्रत्वं प्रदर्शयति ॥ साङ्ख्यमिति ॥
साङ्ख्यं योग पाशुपतं वेदारण्यकमेव च ।
ज्ञानान्येतानि भिन्नानीति
साङ्ख्यादिदर्शनानां नानामतत्वमुक्त्वा तत्र वेदारण्यकस्यापौरुषेयत्वेनोत्कर्षे वक्तव्ये पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायण स्वयम् । ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद्विशिष्यत इति पञ्चरात्रस्यैव प्रमाणत्वेन यद्वैशिष्ट्य-कथनं तद्वेदारण्यकेन यज्जगत्कारणमुच्यते तदेव पञ्चरात्रेणेति वेदपञ्चरात्रयोरेकत्वाभिप्रायं यथायोगं यथान्यायं निष्ठा नारायण पर इति वाक्यशेषादित्यर्थ । एतदेव शास्त्रं ऋगादिकं योनि प्रतिपत्तिकारणं यस्य तच्छास्त्रयोनीत्येव व्याख्येयम् । न शास्त्रस्य योनिरितीत्याह ॥ शास्त्रमिति ॥ जगज्जन्मादिकारणे ब्रह्मणि पूर्वसूत्रोक्ते किं तत्र प्रमाणमित्याकाङ्क्षितत्वाच्छास्त्रप्रमाणकत्वमेवाभिधातुं युक्तम् । न तु शास्त्रकारणत्वम् असङ्गतत्वात् । न हि शास्त्रकारणत्वं जगत्कारणत्वे हेतु वैपरीत्यस्यापि वक्तुं शक्यत्वात् । जगज्जन्मादि-कारणत्वोक्तौ शास्त्रादिकारणत्वस्यापि सिद्धत्वाच्च । न पुनस्तत्कारणत्वं वक्तुं युज्यते शास्त्रस्यापि जगदन्तर्भूतत्वादित्यभिप्राय ।
तत्त्वप्रदीपिका
जगत्कारणत्वं विष्णोरुक्तं केचित्प्रधानरुद्रादीनां कल्पयन्ति, तन्निराकरोति अनुमानत इत्यादिना । अनुमानतोऽन्ये न कल्पनीया कारणभूता इति कुत? । शास्त्रयोनित्वात् । जगत्कारणस्य शास्त्रयोनित्वे प्रमाणमाह नेत्यादि । ""नावेदविन्मनुते तं बृहन्तं सर्वानुभुमात्मानं साम्पराय’’ इति । तं पूर्णं वेदेनैव मनुते । सर्वमनुभवतीति "सर्वानुभू’ सम्यक्परस्मिन्नयनं "साम्पराय’ । तादर्थ्ये सप्तमी । "औपनिषद’ उपनिषदेकगम्य । "पुरुष’ पूर्णषगुण । न हि पूर्णगुणात्सर्वज्ञादन्यस्य जगत्कारणत्वम् । न च द्वयो पूर्णत्वं, पूर्णत्वविरोधात् । आदिशब्दात् ""सर्वे वेदा यत्पदमामनन्ति’’ ""तं त्वौपनिषदं पुरुषं पृच्छामी’’त्यादि च द्रष्टव्यम् ।
न चानुमानस्य नियतप्रामाण्यम् । अनुमानत्वादेव । प्रमाणान्तरानुकूलत्वे यन्मानं, नान्यथा, तद्ध्यनुमानं नाम ।
""श्रुति प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम्’’ इति, ""श्रुतिर्वेदोऽक्षजं प्रत्यक्षं पूर्वोक्तिरैतिह्यं युक्तिरनुमान-मि’’ति च तुरश्रुतेरैतिह्यादपि पाश्र्चात्त्यत्वादनुमानस्य न तेषां विरोधे, तन्निरपेक्षत्वे वा प्रामाण्यम् । श्रुतेस्तु क्वापि प्रत्यक्षानुमानानन्तर्यवचनं प्रवृत्तिक्रमापेक्षम् ॥ श्रुतिसाहाय्यरहितमनुमानं प्रत्यक्षं च श्रौतेऽर्थे न क्वापि प्रमाणम् । यथा हिंसाऽधर्मत्वानुमानं; यथा च रामकृष्णादेर्मानुषत्वादिविषयं प्रत्यक्षम् । उपक्रमोपसंहारादि-लिङ्गै ऊहनं "तक’ । श्रुतिनिरपेक्ष "शुष्कतक’ । तस्मान्न स्वतन्त्रस्य तस्य प्रामाण्यं सम्भवति ।
ननु स्वतन्त्रमेवार्थं साधयदनुमानं को निवारयति? तथाहि विमतं सकर्तृकं कार्यत्वाद्घटवदित्य-नपेक्षमेवेदं जगत्कर्तारमीश्र्वरं साधयतीति; तदयुक्तम् । उपाधिदोषदुष्टत्वात्तस्य । अस्मदादिप्रत्यक्षकर्तृकत्वं शरीरवत्कर्तृकत्वं वा उपाधि । तेन हि घटादेस्सकर्तृकत्वम् । तस्मान्न स्वतन्त्रस्य प्रामाण्यमिति नियत-प्रामाण्यं नास्तीत्युक्तम् । तस्मान्नानुमाऽऽगमं विनाऽर्थमुदीक्षयितुं शक्नोति ।
तत्त्वप्रकाशिका
अत्र जन्मादिकारणत्वस्यान्यनिष्ठत्वनिरासादस्ति शास्त्रसङ्गति । जगज्जन्मादिकर्तृत्वस्य जिज्ञास्ये ब्रह्मणि श्रवणाद्विष्णुरेव ब्रह्मेत्युक्तम् । जन्मादिकर्तृत्वस्य च यदाऽन्यनिष्ठता निवार्यते तदैव तेन विष्णुत्वनिश्चय स्यादिति । तज्जन्मादिकारणत्वं विषय । किं विष्णोरेवान्यस्याप्यस्ति वेति सन्देह । पूर्वोक्तन्याय प्रसिद्धिश्र्च संशयबीजम् । अन्येषामप्यस्तीति पूर्व पक्ष । अनुमानेन रुद्रादेरपि कारणता-साधनसौलभ्यात् । न चोदाहृतश्रुतिविरोध । तासां युक्तिविरुद्धार्थे प्रामाण्यायोगात् । तथा च जन्मादिकारणत्वस्य भगवदेकनिष्ठताभावान्न तस्यैव तेन जिज्ञास्यब्रह्मतानिश्र्चय इति । सिद्धान्तयति ॥ अनुमानत इति ॥ कारणत्वेनेति शेष । तत्र हेत्वाकाङ्क्षायां सूत्रमुपन्यस्यति ॥ शास्त्रयोनित्वादिति ॥ भवेदनुमानतोऽन्येषां कारणत्वकल्पना यदि कारणमानुमानिकं स्यात् । न चैतदस्ति । शास्त्रैक-समधिगम्यत्वात्कारणस्य । न हि धर्मादिनिश्चयोऽनुमानेनेति सूत्रार्थ । कारणस्य शास्त्रैकवेद्यत्वं कुत इत्यत आह ॥ नेति ॥ तं पूर्णं सर्वज्ञं सर्वकर्तारं सर्वस्वामिनं मोक्षायाऽवेदविन्न जानाति । पुरुषो जगत्कर्तोपनिषदेकसमधिगम्य इत्यर्थ ।
औपनिषदस्यापि कारणस्यानुमानेन सिद्धि किं न स्यात्स्वातन्त्र्यादिहेतुना पूर्णत्वादिसिद्ध्यङ्गी-कारादित्यत आह ॥ न चेति ॥ सत्यमस्त्येवाऽनुमानस्यौपनिषदपदार्थनिश्चायकत्वं श्रुत्यादिसहकारि-युक्तस्यैव न तु नियतप्रामाण्यम् । स्वातन्त्र्येणादृष्टार्थनिश्र्चायकत्वे प्रतिपक्षादिसम्भवात् । तादृशं च प्रकृतमिति भाव । अत्रैव स्मृतिसंमतिमाह ॥ श्रुतीति ॥ कुत्रचिददृष्टे । यथेश्वरो न स्वतन्त्रश्चेतन-त्वादिति । प्रमाणान्तरं प्रत्यक्षं यथा रामकृष्णादिदोषग्राहि । तर्हि कीदृशस्य प्रत्यक्षादेरदृष्टार्थनिश्र्चायकत्वमिति तत्राह ॥ श्रुतीति ॥ अत्रापि प्रमाणान्तरं प्रत्यक्षम् । यशोदाया प्रत्यक्षम् । तक प्रमाणपदवीं गच्छेदित्यन्वय । यथा विष्णु स्वतन्त्र पूर्णत्वादिति । केवलानुमानस्य प्रामाण्येऽतिप्रसङ्गं चाह ॥ शक्यत्वाच्चेति ॥ श्रुत्यादिसाहित्यहीनानुमानस्य सर्वत्र जगत्कारणाभावादौ शशादीनां विषाणित्वादौ च कर्तुं शक्यत्वान्नानुमानस्य नियतप्रामाण्यमित्यर्थ । तत्रैव प्रमाणमाह ॥ सर्वत्रेति ॥ उदीक्षितुमर्थमुदीक्ष-यितुम् । तस्मात्केवलानुमानस्यानिर्णायकत्वाच्छास्त्रेणैव कर्तृत्वनिश्चय इति स्थितम् ॥
भावबोध
॥ ॐ शास्त्रयोनित्वात् ॐ ॥ अन्यनिष्ठत्वनिरासादिति । तथा चोक्तस्य लक्षणस्यातिव्याप्ति-निरासाय प्रमाणमुच्यत इत्यनन्तरसङ्गतिरिति भाव । किमिति । अत्र जगज्जन्मादिकारणत्वं किमन्यस्यापि किं विष्णोरेवेति चिन्ता । तदर्थं जगत्कारणत्वं किमनुमानादिप्रमाणगम्यमुत शास्त्रैकवेद्य-मिति । तदर्थं कारणत्वस्य शास्त्रैकसमधिगम्यत्वे प्रमाणं नास्त्युतास्तीति । तदर्थं नावेदविदित्यादिश्रुते कारणत्वस्यानुमानवेद्यत्वनिषेधकत्वं न सम्भवत्युत सम्भवतीति । तदर्थं केवलानुमानस्यातीन्द्रियार्थे प्रामाण्यं युक्तमुतायुक्तं वेति । तदर्थं केवलानुमानस्य प्रामाण्याभावे प्रमाणं नास्ति उतास्तीति । "रुद्रादे सममेतल्लक्षणम्’ इति न्यायविवरणानुसारेण पूर्वपक्षमुपपादयति । अनुमानेनेति । न चानुमानत कल्प्या अन्ये सृष्ट्यादिकारणा’ इति प्रमाणानुसारेणाह । कारणत्वेनेति शेष इति ।
सृष्ट्यादिकारणत्वस्य गम्यत्वादागमादिभि ।
कारणं भगवान् विष्णु शास्त्रगम्य सनातन ॥
इति विशेषप्रमाणमूलकं "शास्त्रैकसमधिगम्यत्वात् कारणत्वस्य’ इति न्यायविवरणं मनसि निधाय सूत्रार्थमाह । भवेदित्यादिना । जगत्कारणत्वस्य शास्त्रैकसमधिगम्यत्वे हेतुत्वेनाभिप्रेतस्यातीन्द्रियत्वस्य शास्त्रैकसमधिगम्यत्वेन व्याप्तिमुपपादयति । न हि धर्मादीति ।
तस्माद्वेदविद पुंसो सर्वस्वामी स सर्ववित् ।
सर्वग सर्वकर्ता वै ज्ञायते न कुतश्र्चन ॥
इति प्रमाणानुसारेण "नाऽवेदवित्’ इति श्रुतिं व्याचष्टे तं पूर्णमित्यादिना । आत्मानमित्यस्य सर्वकर्तारं सर्वस्वामिनमिति । पुरुष इत्यस्य जगत्कर्तेति च व्याख्यानम्, श्रुत्यो प्रकृतोपयुक्तत्वज्ञापनार्थम् । कर्तृत्वस्य आत्मशब्दार्थत्वेन पुरुषस्य जगत्कर्तृत्वेन "कर्तृत्वादात्मशब्दोक्त’ "जगृहे पौरुषं रूपमादौ लोकसिसृक्षया’ इत्यादिप्रमाणसिद्धत्वादिति भाव ।
श्रुतिसाहाय्यरहितानुमानस्य वह्न्यादौ प्रवृत्ते कथं न कुत्रचिदित्युक्तमित्यत आह कुत्रचिददृष्ट इति । अस्मदाद्यदृष्ट इत्यर्थ । तथा च प्रमाणान्तरं प्रत्यक्षमित्याद्युपपन्नम् । अन्यथा केनाप्यदृष्ट-विषयकश्रुतिसहितप्रत्यक्षस्याप्रसिद्धत्वाद्विशिष्य निषेधोऽनर्थक इति भाव । अत्रापि प्रमाणान्तरमिति । तकस्य पृथग्ग्रहणादिति भाव ।
भावदीप
॥ ॐ शास्त्रयोनित्वात् ॐ ॥ सङ्गतिरिति ॥ अन्तर्भावरूपा । अन्यनिष्ठत्वनिरासमात्रेण कथं सा लब्धा । तन्निरासस्य वा किं फलमित्यत तन्निरासफलं व्यञ्जयंस्तां व्यनक्ति ॥ जगदिति ॥ तदैव तेनेति ॥ एतेनास्य जिज्ञास्यब्रह्मणो विष्णुत्वनिर्णायकलक्षणातिव्याप्तिनिरासपरत्वाद् ब्रह्मशास्त्रेऽन्तर्भाव प्रागुक्तजिज्ञास्यब्रह्मणो विष्णुत्वनिश्चय फलमिति सूचितम् । इतिशब्दो हेत्वर्थ सन्निति शास्त्रसङ्गतिरित्यन्वेति । यद्वा पूर्वस्माच्छ्रुत्यधिकरणसङ्गतिस्त्विति इहेतरत्र च शास्त्रसङ्गति-रित्यनन्तरमनुवर्त्य तत्परतया एतद्वाक्यं पूर्वाधिकरण इव योज्यम् । तथा चात्र पूर्वपक्षे पूर्वोक्तस्याक्षेपा-त्पूर्वाधिकरणतद्विषयवाक्याभ्यामेतदधिकरणैतद्विषयवाक्ययोराक्षेपिकी सङ्गतिरिति भाव । अस्मिन्पक्षे अनुवृत्तेन प्रकारार्थकस्येतिशब्दस्यान्वयो ज्ञेय । यद्यपि पूर्वत्रैव श्रुतिस्मृत्युक्त्या जन्मादिकर्तृत्वस्य विष्ण्वेकनिष्ठतोक्ता । तथापि सा भाष्यकृतैवोक्ता न तु सूत्रकृतेति वा तासामिह पूर्वपक्षे युक्तिनिरोधे-नाक्षेपाद्वा भवत्यन्यनिष्ठताशङ्केति भाव । एतेनानेन सर्वगतत्वमायामयशब्दादिभ्य इत्यत्रैव तृतीये विष्ण्वेकनिष्ठताया वक्ष्यमाणत्वात्तेन गतार्थमिदमिति निरस्तम् । आगमाद्यवष्टम्भेनात्र तदुक्तस्याप्याक्षेपादिति बोध्यम् ॥ तदिति ॥ यतो वेत्यादिवाक्योक्तम् । अन्यस्यापीति ॥ भाष्ये अन्य इत्येवोक्तावपि न च रुद्रादौ सममेतल्लक्षणमिति न्यायविवरणे समपदेन साधारण्यस्योक्ते अत्रापि भाष्येऽन्येऽपीत्यभि-मतमिति भावेनान्यस्येत्यनुक्त्वा विष्णोरेव अन्यस्याप्यस्ति वेत्युक्तम् । क्वचिद्विष्णोरन्यस्याप्यस्ति न वेति पाठ । अत एव भाष्यानुरोधादन्येषामपीति वाच्ये रुद्रादाविति एकवचनानुरोधेनान्यस्येत्युक्तम् ॥ पूर्वोक्तेति ॥ स च न्यायो जगज्जन्मादिकर्तृत्वस्येत्यादिना प्राग्विवृत ॥ प्रसिद्धिश्र्चेति ॥ रुद्रादौ जगत्कर्तृत्वसंहर्तृत्वादिप्रसिद्धिश्चेत्यर्थ । अत्र सौत्रशास्त्रपदेनानुमानमूलकं पाशुपताद्यागममूलकं चेति चोद्यद्वयं व्यावर्त्यम् । द्वयोरप्यशास्त्रत्वात् । नैव शास्त्रं कुवर्त्म तदिति वक्ष्यमाणत्वात्प्रत्यक्षस्याप्रसक्ते । तत्राद्यमनुमानत इति भाष्येण द्वितीयं तु ऋग्यजुस्सामाथर्वाश्चेति भाष्येण सूचितम् । तत्राद्यं व्यनक्ति ॥ अनुमानेनेति ॥ विमतं सकर्तृकं कार्यत्वात् घटवदित्यनेन विश्वकर्तृसिद्धौ प्रसिद्धिबलाद्रुद्रादिरेव कश्चिन्न तु विष्णु । नावेदविदिति नैषा तर्केणेति स्वप्रामाण्यनिषेधकश्रुत्युक्ते विष्ण्वाख्यकर्तरि अनुमानस्या-पर्यवसानादिति भाव । एतेन भाष्ये तसिल् तृतीयार्थ । तथा रुद्रादौ सममेतल्लक्षणमिति न्यायविवरणे च मया अनुमानेन सहितं समं अनुमानेन सिद्धमिति समशब्दार्थो दर्शित । अत एव भाष्यरीत्या अन्येषामिति प्रक्रमेऽपि रुद्रादेरित्युक्तम् ॥ श्रुतीति ॥ य उ त्रिधात्वित्यादिश्रुतीत्यर्थ ॥ युक्तिविरुद्धार्थ इति ॥ विष्णुरेव कर्ता नान्य इत्यस्योक्तयुक्तिविरुद्धत्वेन विष्णुकर्तृत्वमात्र एव तात्पर्यं श्रुत्यादेर्न त्वन्यकर्तृतानिषेधे इति श्रुत्यादिना विष्णोरनुमानेन च शिवादे कर्तृत्वं प्राप्तमिति देशादिभेदेनाविरुद्धं नेयमिति भाव । ततश्र्च किमित्यत आह ॥ तथा चेति ॥ रुद्रादेरपि कारणत्वे सतीत्यर्थ । एतेन रुद्रादौ समं साधारणमित्यपि समशब्दार्थो दर्शितो भवति ॥ भगवदेकेति ॥ जन्माद्यस्येत्यत्र कृत्स्नजग-ज्जन्मादिकर्तृत्वस्य विष्णुलक्षणत्वे असम्भवापत्त्या कतिपयजगज्जन्मादिकर्तृत्वे लक्षणत्वेनावश्यं विवक्षणीये सति तदन्येषामपि प्राप्तमिति न भगवदेकनिष्ठतेति भाव । यथान्यासे विरोधादसङ्गतेश्चाह ॥ कारण-त्वेनेति शेष इति ॥ कथमनेनोक्तार्थे हेतुरुक्त इत्यतो भाष्येऽनुक्तमपि शास्त्रैकसमधिगम्यत्वात्कारणस्येति न्यायविवरणवाक्यमत्र संयोज्यमिति भावेन तदेव पठति ॥ शास्त्रैकेति ॥ शास्त्रं वेदादि च तदेकं असहायं च शास्त्रैकं विशेषणविशेष्यभावस्य कामचारित्वात् सङ्ख्यावचनस्यैवैकशब्दस्य पूर्वकालैकेति समासविधानात् । सूत्रे पूर्वत्र प्रकृतं कारणं कारणत्वस्येत्यनुवर्त्यं कारणवाचितयाऽध्याहृतं तत्पदं वा तस्येत्यनुवर्त्यमिति भाव । क्वचिच्छास्त्रगम्यत्वस्यानुमानिकेऽपि दृष्टेर्व्यभिचारव्युदासायार्थ-लब्धस्याप्येकेत्यस्योक्ति । अयं च सूत्रार्थोऽत्रापि भाष्ये सौत्रपदयोर्विग्रहोक्त्याऽन्ते विवरिष्यते । अत्र च जगत्कर्ता नानुमानयोग्य शास्त्रैकगम्यत्वादित्यभिमतप्रयोगे धर्मादिर्दृष्टान्त । तत्र चोदनालक्षणोऽर्थो धर्म इति जैमिनिसूत्राच्छास्त्रैकगम्यत्वरूपहेतुसत्वं सिद्धं कृत्वा साध्यमुपपादयति ॥ न हीति ॥ चोदनैकप्रमाणकत्वभङ्गापत्तेरिति भाव । ऋग्यजुरित्यादिस्मृत्या शास्त्रशब्दितस्य सर्वस्य विष्णौ प्रामाण्येऽपि अन्यार्थं तु जैमिनिरित्यादावपरममुख्यवृत्त्या धर्मादावपि प्रामाण्योपगमान्न तत्र साधनवैकल्यं शङ्क्यम् ।
ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचिका ।
ता एव तु परा विद्या यदा विष्णोस्तु वाचिका ॥
इत्याथर्वणभाष्योक्ते । एतेन पूर्वपक्ष्यभिमतकार्यत्वाद्यनुमानस्य बाधितविषयत्वं सूचितम् । सर्वानुभुमित्यस्य सर्वमनुभवति अनुभावयति उत्पादयति चेत्यर्थद्वयमुपेत्याह ॥ सर्वज्ञं सर्वकर्तारमिति ॥ आत्मानमित्यस्य स्वामिनमित्यर्थ । सर्वेति योग्यतयोक्तम् । सम्यक्परस्मिन्नयनं सम्पराय । तादर्थ्ये सप्तमी । चर्मणि द्वीपिनं हन्तीत्यादिवदित्युपेत्याह ॥ मोक्षायेति ॥ प्रकृतोपयोगायाह ॥ पुरुषो जगत्कर्तेति ॥ जगृहे पौरुषं रूपमादौ लोकसिसृक्षयेत्यादेरिति भाव ।
भाष्यस्थादिपदेन तं चौपनिषदं पुरुषं पृच्छामीत्यादेर्ग्रह । इत्यादिभ्य इति भाष्यस्य सूत्रेणान्वय ॥ स्वातन्त्र्यादिहेतुनेति ॥ तथा चोक्तं सर्वधर्मोपपत्तेश्चेत्यत्र न्यायविवरणे स्वतन्त्रस्य पूर्णगुणत्वनियमात् ।
अपूर्णोऽयं जीवसङ्घोऽस्वतन्त्र पूर्णो हरिर्य स्वतन्त्र सदैव ।
न हि स्वतन्त्रोऽपूर्णतां कामयीत पूर्णो यदि स्यादस्वतन्त्र कुतस्स ॥
इति श्रुतेरिति । आदिपदेन कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभेत्याद्युक्तकर्तृत्वादिहेत्वादिग्रह । भाष्ये चस्त्वर्थ । नियतप्रामाण्यं तु नास्तीत्युपेत्य तदनूद्यार्थमाह ॥ न त्विति ॥ प्रतिपक्षादीति ॥ तच्च व्यक्तमनुभाष्ये तत्वनिर्णयतट्टीकयोस्तकताण्डवे च । प्रकृतं कार्यत्वादीत्यर्थ । धूमादौ व्यभिचारादाह ॥ कुत्रचिददृष्ट इति ॥ यथा रामेति ॥ व्यक्तमेतत्"अपरीक्षितदृष्ट्यैव सदोषो ज्ञायते हरिरि’त्यादि-ज्ञानपादीयानुव्याख्यानसुधयो ॥ यशोदाया इति ॥ "सा तत्र ददृशे विश्वं जगत्स्थास्नु च खं दिश’ इत्यादे कृष्णानने विश्वग्राहिप्रत्यक्षं एको दाधारेत्यादिविश्वम्भरश्रुतिसहायम् । पूर्णत्वादित्यादि तु "न हि स्वतन्त्रोऽपूर्णतां कामयीते’ति "आत्मा हि परमस्स्वतन्त्रोऽधिगुण’ "पूर्णमद पूर्णमिदमि’त्यादि-श्रुतिसहायम् ॥ केवलानुमानस्येति ॥ तेन भाष्ये चकार उक्तस्मृतिसमुच्चायक इति सूचितम् ॥ जगत्कारणाभावादाविति ॥ तथा चोक्तं विष्णुतत्वनिर्णये । विमतं विकर्तृकमस्मत्संमतकर्तृरहित-त्वादित्यादि । आदिपदेन ""वस्तुत्वात्तुरग श़ृङ्गी’’त्याद्यनुभाष्योक्तमश्वश़ृङ्गित्वादिकं ग्राह्यम् । पूर्वस्मात्साध्यानुवृत्तिं मत्वाह ॥ नानुमानस्येति ॥
अभिनवचन्द्रिका
अत्र जगज्जन्मादिकारणत्वस्येति ॥ ब्रह्मसम्बन्धिलक्षणस्य अनतिप्रसक्तत्वविचारत्वेन ब्रह्मविचारत्वात् शास्त्रान्तर्भाव इत्यर्थ । तदैव तेन विष्णुत्वनिश्र्चय स्यादिति ॥ ननु जगज्जन्मादि-कारणत्वस्यान्यनिष्ठत्वेऽपि रूढिविषयजीवानिष्ठत्वात् तेन रूढ्यर्थजीवनिरासायोगेन विष्णुपरता सेत्स्यतीति किमन्यनिष्ठतानिरासप्रयासेनेति चेत् सत्यम् । भवत्येव तेन देवदत्तादिजीवव्यावृत्ति देवदत्तादिजीवा-निष्ठत्वात्, तथापि जीवत्वेन ब्रह्मशब्दरूढिविषयस्य न रुद्रादेर्व्यावृत्ति सम्भवति । जीवापबाधकत्वेनोप-न्यस्तस्य पूर्ववाक्योक्तजगज्जन्मादिकारणत्वस्य तत्रापि सत्त्वात् । नापि मुख्यतो जिज्ञास्यत्वानुपपत्तिर्बाधिका विष्णुवत्तस्यापि मुख्यतो जिज्ञास्यत्वसम्भवात् । अन्यथा तस्यापि न स्यात् । तथा च रुद्रादिरेव जिज्ञास्यं ब्रह्म निर्बाधरूढिसद्भावादिति शङ्कापरिहाराय पूर्वोक्तजन्मादिकारणत्वस्य विष्ण्वेकनिष्ठत्व-साधनमावश्यकमिति द्रष्टव्यम् । किं विष्णोरन्यस्याप्यस्ति न वेति सन्देह इति ॥ विष्णोरित्यनन्तर-मिवेति शेष । ततश्र्चैवं योजना यथा विष्णो स्वातन्त्र्येण जगत्कारणत्वं तथैवान्यस्यापि रुद्रादे अस्ति न वेति सन्देह इति । अन्येषामप्यस्तीति पूर्वपक्ष इति ॥ नन्विदमयुक्तम् । सिद्धान्त्यभिमतस्य रुद्रादिसमवेतज्ञानाज्ञानबन्धादिकर्तृत्वस्य रुद्रादावसम्भवात् । न हि स्वयमेव प्रेक्षावान् स्वात्मानं बध्नाति दुखयतीति कर्तृत्वस्यात्र युक्तम् । प्रेक्षावत्त्वहाने । प्रेक्षावत्त्वानङ्गीकारे च मूढस्य देवदत्तादिजीववत् जगत्कर्तृत्वासम्भवेनानतिव्याप्तिरेवेति चेत्, स्यादयं दोष यदि "यतो वा इमानी’ति वाक्यस्य रुद्रादि-समवेतज्ञानाज्ञानबन्धादिकर्तृत्वमेवार्थ स्यात् । न चासावर्थ । रुद्रादेर्विष्णुसमानत्वेन बन्धादिशून्यत्वात् । किं नाम महदादिकर्तृत्वमेवार्थ । अन्यथा घटस्य ज्ञानाज्ञानबन्धकर्तृत्वं वाक्यार्थ स्यात् । यदि बाधितविषयत्वान्नासौ वाक्यार्थ, हन्त तर्हि तत एव रुद्रादिसम्बन्धादिकर्तृत्वमपि न वाक्यार्थ । ततश्र्चऽऽगमाद्विष्णोरिवानुमानाद्रुद्रादेरेपि कारणत्वस्य प्रमितत्वात् भवेदेवातिव्याप्ति । न च छलप्रसङ्ग । सूत्रकाराभिमतस्य रुद्रबन्धादिकारणत्वस्य श्रुत्यनभिमततत्वात् । प्रत्युत सूत्रकारस्यैवायं दोषो यत् श्रुत्यनभिमतार्थवक्तृत्वं नामेति । एवमेव हिरण्यगर्भादिचेतनेषु प्रधानाद्यचेतनेषु चातिव्याप्तिरूह्या । यद्यपि प्रधानादौ सिद्धान्त्यभिमतं उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वरूपं कर्तृत्वं न सम्भवति, तथापि ज्ञानं विनैव जगत्कारणत्वं श्रुत्यर्थ इति मन्यमानस्य भवेदेवातिव्याप्तिरिति शङ्केति । अनुमानं तु शिवो जगत्कर्ता जगत्करिष्यामीति तदिच्छुत्वे सति तत्कर्त्रा विष्णुना न्यूनाधिकबलवत्त्वात् । न चाऽसिद्धो हेतु । ब्रह्मविष्णुमहेश्र्वराणां आत्यन्तिकसाम्यस्य आविपालगोपालसिद्धत्वादिति । तदिदमुक्तम् साधनसौलभ्यादिति ॥ हेतोराविपालगोपालसिद्धत्वेनासिद्धिशङ्कानुदयात्सौलभ्यमित्यर्थ । न चोदाहृतश्रुतिविरोध इति ॥ "न ते विष्णो’ (ऋ.सं.७-९९-१२) इत्यादिश्रुतिविरोध इत्यर्थ । तासां युक्तिविरुद्धार्थ इति ॥ तासां श्रुतीनां "न हि निन्दा’ न्यायेन विष्णूत्कर्ष एव तात्पर्यम् न तु शिवाद्यपकर्ष इति भाव । न तस्यैव तेनेति ॥ ब्रह्मशब्दस्य विष्णाविव रुद्रादावपि वृत्ते पूर्ववाक्योक्तस्य जन्मादिकारणत्वस्य तत्रापि सत्त्वेन निर्णायकाभावात् जिज्ञास्यं ब्रह्म शिवो वा विष्णुर्वेति सन्देह स्यात्, न तु निश्र्चय । उभावपि विष्णुशिवौ जिज्ञास्यब्रह्मणी इति निश्र्चयो वा स्यादित्यर्थ । अङ्गीकृत्य चेदमुदितम् । ब्रह्मशब्दस्य विष्णौ यौगिकत्वात् रुद्रे रूढत्वात् योगापेक्षया रूढेर्बलवत्त्वात् रुद्र एवेति निश्र्चय स्यादिति द्रष्टव्यम् । भवेदनुमानत इति ॥ यद्यपरोक्षस्यैव परोक्षमनुमानस्य प्रमेयं स्यात् तदाऽनुमानेन रुद्रादीनां कारणत्वनिश्र्चय । महदादिकारणत्वमेव श्रुत्यर्थ इति निश्र्चय स्यात् । न चैवं परोक्षमात्रस्य शास्त्रासाधारणविषयत्वात् । अन्यथा अनुमानेन धर्मादिनिश्र्चय स्यादिति भाव । शास्त्रैकसमधिगम्यत्वादिति ॥ ननु कारणस्यानुमानवेद्यत्वात्, शास्त्रैकसमधिगम्यत्वादित्ययुक्तमिति चेत्, स्यादयं दोष यद्ययमेकशब्द अनुमानावेद्यत्वं वदेत्, न चैवम् । किं नाम असहायवाची, स च असहाय शास्त्रवेद्यतामाह । एकशब्दस्यानेकार्थत्वात् । तदुक्तं महाभाष्ये "एकशब्दोऽयं बह्वर्थ । अस्ति संख्यावाची एको द्वौ बहव इति, अस्त्यसहायवाची एकाग्न्य एकहलानि एकाकिभि क्षुद्रकैर्जितमिति, अस्त्यन्यवाची "सधमादोद्युन्म एकास्ता, अन्या इत्यर्थोगम्यत’ इति, ननु समासशास्त्रे प्रथमानिर्दिष्टत्वेनोपसर्जनत्वात् एकशब्दस्य पूर्वनिपातेन भवितव्यम् । न भवितव्यम् । पूर्वकालैके(पा.२-१-४९)ति सूत्रेण समासानङ्गीकारात् । सङ्ख्यार्थकस्यैकशब्दस्य तत्र ग्रहणात् । सङ्ख्येतरार्थकस्य "विशेषणं विशेष्येण बहुल(पा.२-१-५७)मि’त्यनेन समासविधानात् । नन्वथापि विशेषणमिति प्रथमानिर्दिष्टत्वात् पूर्वनिपातो भविष्यति । न भविष्यति । विशेषणविशेष्यभावस्य कामचरणत्वेन एकशब्दस्य विशेष्यत्वात् । ननु "नावेदवित्’ इति श्रुत्या कारणस्य शास्त्रैकवेद्यत्वाप्रतिपादनात् एतच्छ्रुत्युदाहरणमयुक्तमित्यत "सर्वानुभु’मिति शब्दार्थमाह सर्वज्ञं सर्वकर्तारमिति ॥ सर्वमनुभवतीति व्युत्त्पत्या सार्वज्ञं तथा सर्वप्राणिनामनु कर्मानुसारेण भावयति उत्पादयतीति व्युत्पत्त्या सर्वकर्तृत्वं चशब्दार्थ इति बोध्यम् । "औपनिषद पुरुष’ इति श्रुतेरनुदाहार्यत्वमिति शङ्कानिरासाय पुरुषशब्दार्थमाह पुरुषो जगत्कर्तेति ॥ पुरु सर्वं सूत इति जगत्कर्तृत्वं पुरुषशब्दार्थ इति बोध्यम् । औपनिषदस्यापीति ॥ चाक्षुषेऽपि पुष्पे घ्राणेन गन्धसिद्धिवत् औपनिषदे धर्मिणि अनुमानेन शिवत्वसिद्धि किं न स्यात् । अपि तु स्यादेव । त्वयापि औपनिषदे धर्मिणि स्वातन्त्र्यादिहेतुना पूर्णत्वसिध्यङ्गीकारादिति भाव । एतेन औपनिषदस्य कारणस्यानुमानेन सिद्धिर्नानिष्टा विष्णो जगत्कारणत्वाहाने । न हि य एव विष्णु जगत्कारणत्वेनोपनिषद्भि सिद्ध स एव चेदनुमानेन सिद्ध । तदा विष्णोर्जगत्कारणत्वहा-निर्भवति । उपनिषदनुमानयो समानविषयत्वात् येनानुमानेन सिद्धिरनिष्टा स्यादिति परास्तम् । सत्यमस्त्ये-वेति ॥ सत्यमस्त्येवानुमानस्य पूर्णत्वादिधर्मवैशिष्ट्येन निश्र्चायकत्वम्, तत्साधकस्वातन्त्र्यादिहेतूनां श्रुत्यनुसारित्वात् तथापि नानुमानेन जगत्कारणे शिवत्वसिद्धि । आगमसाहाय्यरहितानुमानस्यादृष्टार्थ-निश्र्चायकत्वाभावात् प्रतिपक्षादिसम्भवादिति भाव । भाष्ये श्रुतिसाहाय्यरहितेति ॥ श्रुतिसाहाय्यरहित-मनुमानं कुत्रचिददृष्टेऽर्थे शिवत्वादिरूपमर्थं निश्र्चयान्न साधयेन्निश्र्चयरूपानुमितिजननद्वारा अर्थं न व्यवस्थापयेत् । किन्तु एककोटिकसंशयरूपामनुमितिं जनयेत् । एवं प्रमाणान्तरं प्रत्यक्षमपि अदृष्टेऽर्थे एककोटिकसंशयं विपरीतनिश्र्चयं वा जनयेत् । न त्वर्थव्यवस्थापिकां प्रमां, श्रुतिस्मृतिसाहाय्ययुक्तं प्रमाणान्तरं प्रत्यक्षं प्रमाणपदवीं गच्छेत्, निश्र्चयरूपं ज्ञानं जनयेदित्यर्थ । कीदृशमनुमानं प्रमाणपदवीं गच्छेदित्यत श़ृङ्गग्राहकतया प्रमाणमनुमानमाह भाष्ये पूर्वोत्तरेति ॥ श्रुतिसाहाय्ययुक्त तक प्रमाणपदवीं गच्छेदिति पूर्वेण सम्बन्ध । कोऽसौ श्रुतिसाहाय्ययुक्तस्तक इत्यत उक्तं पूर्वोत्तरेति । "मन प्राणे प्राण तेजसि तेज परस्यां देवताया’मित्यत्र प्राणशब्दस्य पूर्वोत्तराविरोधेन निमित्तेन क चतुर्मुख अभिमतोऽर्थ विवक्षितोऽर्थो भवेत् । अन्यथा मुक्त्यर्थलयप्रतिपादकपूर्वोत्तरवाक्यविरोध स्यादिति भाव । एतेन "कोऽत्रार्थोऽभिमतो भवे’दिति प्रश्र्नस्य आक्षेपस्य वा ऊहशब्दवाच्यानुमानत्व-कथनमयुक्तमिति परास्तम् । टीकायां रामकृष्णादिदोषग्राहीति ॥ ननु रामकृष्णादि-दोषाणामतीन्द्रियत्वेन तान् प्रत्यक्षं विषयीकुर्यात् । विषयीकरोति च । अत शुक्तिकायामारोपितरजतत्ववत् रामकृष्णाद्यारोपितदोषाणामैन्द्रियकत्वमेव वाच्यम् । तथा चाऽऽगमाऽसहकृतस्य प्रत्यक्षस्याऽतीन्द्रियार्थ-निश्र्चायकत्वाभावेनेदमुदाहरणमिति चेत्, मैवम् रामकृष्णाद्यारोपितदोषाणामतीन्द्रियत्वात् कथं तर्हि तेषामिन्द्रियेण ग्रह इति चेत्, चक्षुराद्यविषयीभूताया अपि तत्ताया संस्कारलक्षणसहकारिवशात् सोऽयमिति ग्रहवत् दोषलक्षणसहकारिवशात् अतीन्द्रियाणामपि दोषाणां ग्रह इति गृहाण । अत एव दृष्टान्तोऽप्यपास्त । इन्द्रियं स्वमहिम्ना यमर्थं विषयीकरोति तस्यैवैन्द्रियकत्वात् । अन्यथा सर्वेषा-मारोपितार्थप्रतिभासप्रसङ्गो दुर्वार इति । यथा यशोदाया इति ॥ यशोदाप्रत्यक्षस्य श्रुतिस्मृतिसहायत्वं नाम श्रुतिस्मृत्युक्तानुष्ठानजनितधर्मसहकृतत्वमिति द्रष्टव्यम् । एतेन यशोदाप्रत्यक्षगृहीतस्यातीन्द्रियत्वेन प्रत्यक्षेण ग्रह । प्रत्यक्षेण ग्रहे च नातीन्द्रियत्वमिति परास्तम् । अतीन्द्रियस्याप्यर्थस्य योगजधर्म-सहकारिवशेन भानसम्भवात् । "इत्याद्यमूहनं तक’ इत्यत्राऽऽद्यशब्दोक्तोदाहरणमाह यथा विष्णुरिति ॥
वाक्यार्थमुक्तावली
॥ ॐ शास्त्रयोनित्वात् ॐ ॥ अत्र यतो वेत्यादिब्रह्मलक्षणप्रतिपादकश्रुत्यर्थजन्मादिकारणत्वस्यानति-व्याप्तलक्षणत्वनिर्णयाङ्गन्यायव्युत्पादनस्य क्रियमाणत्वात् शास्त्रेऽन्तर्भावसङ्गतिरित्याह ॥ तत्रेति ॥ विष्णुरेव ब्रह्मेति पूर्वाधिकरणे सृष्ट्यादिकर्तृत्विलङ्गेन साधिते तस्यान्यनिष्ठत्वादेतदनुपपन्नमित्याक्षेपे तत्परिहारस्य क्रियमाणत्वादाक्षेपिकी सङ्गतिरिति भावेन श्रुत्यधिकरणसङ्गतिमाह ॥ जन्मादीति । स्यादितीति । श्रुत्यधिकरणसङ्गतिरिति शेष । यद्यपि लक्षणस्यान्यनिष्ठता प्रागेव श्रुत्यादिभिर्निरस्ता । तथापि भाष्यकृतैव न सूत्रकृतेति भवत्येव शङ्का । यद्वा तासां युक्तिविरोधेनाक्षेपोऽत्र क्रियत इति । अन्यस्यापीति । अत्र जन्मादिकारणत्वं किमन्यस्याप्युत विष्णोरेवेति चिन्ता । तदर्थं जगत्कारणत्वं किमनुमानादि-प्रमाणगम्यमुत शास्त्रैकवेद्यमिति । तदर्थं कारणत्वस्य शास्त्रैकसमधिगम्यत्वेन प्रमाणं नास्त्युतास्तीति । पूर्वोक्तन्याय इति । य उ त्रिधातु पृथिवीमित्युक्तन्याय शिवादीनां कारणत्वेन प्रसिद्धिश्र्चेत्यर्थ । अन्ततरानुक्तौ तूक्तरीत्या संशयो न स्यादिति द्रष्टव्यम् । सौत्रशास्त्रपदेनानुमानमूलं पाशुपताद्यागममूलं चेति पदद्वयं व्यावर्त्यम् । तत्राद्यमनुमानत इति भाष्येण द्वितीयं तु ऋग्यजुस्सामाथर्वाश्र्चेति भाष्येण सूचितम् । तत्राद्यं व्यनक्ति । अनुमानेनेति । रुद्रो जगत्कर्ता सर्वज्ञत्वात् व्यतिरेकेण यज्ञदत्तवदि-त्यनुमानेनेत्यर्थ । यद्वा जगत्कारणत्वं रुद्रनिष्ठं तदन्यानिष्ठत्वे सति यत्किञ्चिन्निष्ठत्वादित्यनुमानेनेत्यर्थ । प्रामाण्यायोगादिति । य उ त्रिधात्वित्यादीनां युक्तिविरुद्धार्थे एकस्यैव जगद्धारकत्वादिकमिति प्रतीतार्थे प्रामाण्यायोगादित्यर्थ । यद्वा अन्यनिषेधेन विष्णुकारणत्वश्रुतीनां प्रामाण्येऽपि तासां तदितरनिषेधपराणां प्रामाण्यायोगादित्यर्थ । यद्वाऽतिव्याप्तिरित्यापातत । वस्तुतस्त्वसम्भव एवेति न्यायविवरणटीकाया-मुक्तत्वात् । युक्तिविरोधे विष्णुकारणत्वपराणां सर्वथा अप्रामाण्यादित्यर्थ । शास्त्रयोनित्वादिति हेत्वंशस्यानुमानत इति भाष्येणान्वयमभिप्रेत्य व्याचष्टे । भवेदिति । शास्त्रयोनित्वादित्येतच्छेषपूरणेन न्यायविवरणवाक्येन विवृणोति । शास्त्रैकेति । शास्त्रं वेदादिकम् । शास्त्रं च तदेकमसहायं चेति शास्त्रैकं विशेषणविशेष्यभावस्य कामचारित्वात् । सङ्ख्यावचनस्यैवैकशब्दस्य पूर्वकालैकेति समास-विधानादिति न्यायविवरणटीकातस्तदर्थो ज्ञेय । तथा च प्रयोग । जगत्कर्ता नानुमानयोग्य शास्त्रैकगम्यत्वाद्धर्मादिवदिति । तत्र चोदनालक्षणोऽर्थो धर्म इति जैमिनिसूत्राद्धेत्वंशं दृष्टान्ते सिद्धवत्कृत्य साध्यमुपपादयति । न हीति । चोदनैकप्रमाणकत्वभङ्गापत्तेरिति भाव । अमुख्यवृत्या अपि धर्मादे शास्त्रैकगम्यत्वस्य सिद्धान्तेऽङ्गीकारान्न साध्यवैकल्यम् । आत्मानमित्यस्यार्थद्वयमाह । सर्वकर्तारं सर्वस्वामिनमिति । कर्तृत्वादात्मशब्दोक्त इति वचनात् । सम्यक् परस्मिन्नयनं साम्पराय इति तत्वप्रदीपं मनसि निधाय तादर्थ्ये सप्तमीति भावेन साम्पराय इत्येतद्य्वाचष्टे । मोक्षायेति । पुरुषो जगत्कर्तेति । ""जगृहे पौरुषं रूपमादौ लोकसिसृक्षये’’त्युक्तेरिति भाव । भाष्ये आदिपदेन तं चौपनिषदं पुरुषं पृच्छामीत्यादिसङ्ग्रह । इत्यादिभ्य इति भाष्यस्य सूत्रेणान्वय । स्वातन्त्र्यादीति । उक्तं च न्यायविवरणे । स्वतन्त्रस्य पूर्णत्वनियमादिति । आदिपदेन कर्तृत्वात् सगुणं ब्रह्मेत्याद्युक्त-कर्तृत्वादिग्रह । धूमादौ व्यभिचारादाह । कुत्रचिददृष्ट इति । अस्मदादिप्रत्यक्षादृष्ट इत्यर्थ । तथा च प्रमाणान्तरं प्रत्यक्षमित्याद्युपपन्नम् । अन्यथा केनाप्यदृष्टविषयकश्रुतिसहितप्रत्यक्षस्याप्रसिद्धत्वाद्विशिष्य निषेधोऽनर्थक इति भाव । अथवा वेदैकवेद्यत्वमदृष्टत्वम् । अत एव तत्वप्रदीपे श्रुतिसाहाय्यरहितमनुमानं प्रत्यक्षं च श्रौतेऽर्थे न प्रमाणमित्युक्तम् । भाष्ये "इत्याद्यमूहनं तक’ इति । विमर्श एवाद्यं पूर्वभावि यस्य तदूहनं मननं तक इत्यर्थ ।
तत्त्वसुबोधिनी
॥ ॐ शास्त्रयोनित्वात् ॐ ॥ अन्यनिष्ठत्वनिरासादिति । तथा च उक्तस्य लक्षणस्यातिव्याप्ति-निरासाय प्रमाणमुच्यत इत्यनन्तरसङ्गतिरिति भाव । श्रुत्यधिकरणसङ्गती दर्शयति । जगज्जन्मादीति । पूर्वपक्षमुपपादयति । अनुमानेनेति । शिवो जगज्जन्मादिकर्ता सर्वज्ञत्वादिति व्यतिरेकेणेत्यर्थ । न च हेत्वसिद्धि । पाशुपताद्यागमात्प्रसिद्धिरित्याशयात् । ननु रुद्रादीनामनुमानत अकल्पनात् कारणताया एव च तत कल्पनात् पूर्ववादिनां तन्निरासाय कारणत्वेन न कल्पनीया इत्येव वक्तव्ये अन्ये न कल्पनीया इति वचनमन्यथानुवाद इत्यत शेषं सम्पूर्य व्याचष्टे । कारणत्वेनेति शेष इति । सूत्रार्थमाह । भवेदित्यादिना । जगत्कारणत्वस्य शास्त्रैकसमधिगम्यत्वे हेतुत्वेन अभिप्रेतस्यातीन्द्रियत्वस्य शास्त्रैकसमधिगम्यत्वेन व्याप्तिमुपपादयति । न हि धर्मादीति ॥ आत्मानमित्यस्य सर्वकर्तारं सर्वस्वामिनमिति पुरुष इत्यस्य जगत्कर्तेति च व्याख्यानं श्रुत्यो प्रकृतोपयुक्तत्वज्ञापनार्थम् । कर्तृत्वस्य आत्मशब्दार्थत्वेन जगत्कर्तृत्वस्य पुरुषशब्दार्थत्वेन ""कर्तृत्वादात्मशब्दोक्त’’ ""जगृहे पौरुषं रूपम् आदौ लोकसिसृक्षया’’ इत्यादिप्रमाणसिद्धत्वादिति भाव । नन्वनुमानस्यास्वातन्त्र्येणादृष्टार्था-निश्र्चायकत्वेऽपि श्रुत्यादिसाहाय्यरहितत्वान्नोपनिषदर्थनिश्र्चायकत्वमित्याह । तादृशं चेति । श्रुतिसाहाय्य-रहितानुमानस्य वह्न्यादौ प्रवृत्ते कथं कुत्रचिदित्युक्तमित्याह । कुत्रचिददृष्ट इति । अस्मदाद्यदृष्ट इति अर्थ । तथा च प्रमाणान्तरं प्रत्यक्षमित्युपपन्नम् । अन्यथा केनाप्यदृष्टविषयकश्रुतिसहित-प्रत्यक्षस्याप्रसिद्धत्वाद्विशिष्य निषेधोऽनर्थक स्यादिति भाव । अत्रापि प्रमाणान्तरमिति । तकस्य पृथग्ग्रहणादिति भाव । विपक्ष इति । पूर्वानुमानापेक्षया विपरीतानुमानकरणे इत्यर्थ । नन्वनुमाया अचेतनन्वेन उदीक्षणासम्भवात् कथमुदीक्षितुमित्युक्तमित्यत आह । अर्थमुदीक्षयितुमिति । केवलानु-मानस्येति । श्रुत्यादिसाहाय्यरहितस्येत्यर्थ । अनिर्णायकत्वात् । स्वातन्त्र्येणादृष्टार्थानिश्र्चायकत्वात् ।
वाक्यार्थविवरणम्
जगत्कारणम् अनुमानवेद्यं न भवति शास्त्रैकसमधिगम्यत्वात् इत्यनुमाने शास्त्रेतरप्रमाणावेद्यत्वे सति तद्वेद्यत्वादिति हेत्वर्थ । तत्र जगत्कारणस्यानुमानिकत्वाभावे शास्त्रेतरानुमानरूपप्रमाणावेद्यत्वमात्रमेव हेतु । न च साध्यावैशिष्ट्यम् । अनुमानवेद्यतायोग्यताशून्यस्य हेतुत्वात् । फलोपधानाभावस्य साध्यत्वात् । तथा च "जगत्कारणमनुमानवेद्यं न अनुमानवेद्यतायोग्यताशून्यत्वात् धर्मादिवत्’ इत्येवानुमानमभिप्रेतम् । तत्र दृष्टान्ते हेतुमुपपादयति । न हि धर्मादिनिश्चयो अनुमानेनेति । नेति । ननु शास्त्रयोनित्वं नाम शास्त्रैकसमधिगम्यत्वम् । तच्च तदितरावेद्यत्वे सति तद्वेद्यत्वम् । तत्र यदि तदिरावेद्यत्वमात्रं हेतुत्वेनाभिप्रेतं, तर्हि विशेष्यभागो व्यर्थ इति चेत् । सत्यम् । ब्रह्मण प्रत्यक्षावेद्यत्वस्योभयसिद्धत्वेन शास्त्रेतरानुमानावेद्यत्वे सर्वथा प्रमाणावेद्यत्वप्राप्त्या तदसिद्धिरेव स्यादित्याशङ्कापरिहारायैव शास्त्रवेद्यत्व-मुक्तम् । न तु हेतुशरीरप्रविष्टतयेति ज्ञेयम् ॥ कारणस्य शास्त्रैकवेद्यत्वमिति ॥ कारणस्य शास्त्रेतरप्रमाणावेद्यत्वं कुत प्रमाणात्प्रतिपत्तव्यम् । तथा च हेतो स्वरूपासिद्धिरिति भाव ।
वाक्यार्थमञ्जरी
जन्मादिकारणत्वस्य विष्णुलक्षणत्वेनोक्तस्य । तेन शास्त्रसङ्गतिरित्युपपन्नम् ॥ तदैवेति ॥ अन्यथा अतिव्याप्तत्वेन विष्णुलक्षणत्वासिद्धेरिति भाव । यद्यपि लक्षणस्य विष्ण्वेकनिष्ठत्वं प्रागुक्तं तथापि तद्भाष्यकारेणैवेति न दोष । इतिशब्दस्याध्याहृतेन श्रुत्यादिसङ्गतिरित्यनेनान्वय । एवमग्रेऽपि । उक्तन्याय पूर्वोक्तश्रुतिस्मृतिरूप प्रसिद्धि वक्ष्यमाणरीत्या ॥ अनुमानेनेति ॥ क्षित्यादिकं सकर्तृकं कार्यत्वादित्यनुमानेन कर्तृमात्रसिद्धावपि तस्य नावेदविदिति स्वप्रामाण्यनिषेधकश्रुत्युक्ते विष्ण्वाख्ये कर्तरि पर्यवसानायोगेन पाशुपताद्यागमोक्ते शिवादौ पर्यवसानाद्वा शिवो जगत्कर्ता सर्वज्ञत्वात् व्यतिरेकेण कुलालवदित्यनुमाने वा रुद्रादे कारणत्वसिद्धि । न च द्वितीयेऽसिद्धि पाशुपताद्यागमेन तत्सिद्धेरिति भाव ॥ श्रुतीति ॥ य उ त्रिधात्वित्यादिश्रुतीत्यर्थ । युक्तिविरुद्धार्थे उक्तानुमानविरुद्धे विष्णोरेव कारणत्वरूपे ॥ ॐ शास्त्रयोनित्वात् ॐ ॥ जगत्कारणस्य वेदवेदानुसारिग्रन्थैकप्रमाणकत्वान्नानुमान-पाशुपतादिवेद्यत्वमित्यर्थ । अभिधेयत्वादिनाऽन्येषामपि अनुमेयत्वादाह ॥ कारणत्वेनेति शेष इति ॥ आनुमानिकं अनुमाननिश्र्चेयम् ॥ शास्त्रैकेति ॥ शास्त्रमात्रज्ञेयत्वादित्यर्थ । कारणं नानुमाननिश्र्चेयं शास्त्रैकवेद्यत्वादिति प्रयोगे व्याप्तिमुपपादयति ॥ न हीति ॥ तस्य चोदनैकवेद्यत्वादिति भाव । प्रकृतोपयोगायात्मशब्दस्यार्थान्तरं सर्वकर्तारमिति । कर्तृत्वादात्मशब्दोक्त इत्यादे । सम्यक् परस्मिन्नयनं सम्पराय सम्पराय एव साम्पराय । तादर्थ्ये सप्तमीत्युपेत्याह ॥ मोक्षायेति ॥ जगत्कर्तेत्यपि प्रकृतोपयोगाय । ""जगृहे पौरुषं रूपम् आदौ लोकसिसृक्षया’’ इत्युक्तेरिति भाव । अङ्गीकारात् स्वतन्त्रस्य पूर्णगुणत्वनियमादिति न्यायविवरणे ॥ श्रुत्यादिसहकारीति ॥ स्वातन्त्र्यानुमानमपि पूर्णो हरिर्य सदैवेत्यादिश्रुतिसहायमिति भाव ॥ प्रतिपक्षादीति ॥ विमतं सकर्तृकं कार्यत्वादित्युक्ते विमतं विकर्तृकमस्मत्संमतकर्तृरहितत्वादिति प्रतिपक्षसम्भवादित्यर्थ । तादृशं श्रुतिसाहाय्यरहितम् । श्रुतिसाहाय्यरहितानुमानस्य वह्व्यादौ प्रवृत्ते कथं न कुत्रचिदिति तत्राह ॥ अदृष्ट इति ॥ अस्मदाद्यदृष्ट इत्यर्थ । तेन प्रमाणान्तरं प्रत्यक्षमित्युपपन्नम् । अन्यथा केनाप्यदृष्टविषयकश्रुतिसहितप्रत्यक्षस्याप्रसिद्धत्वेन विशिष्य निषेधे अनर्थक स्यादिति ध्येयम् । यथेश्र्वर इति ॥ इदं तु य स्वतन्त्र सदैवेति श्रुतिबाधितम् ॥ यथा रामेति ॥ इदं तु वर्जित सर्वदोषैरिति श्रुतिविरुद्धम् ॥ अत्रापीति ॥ तकस्य पृथगभिधानादिति भाव ॥ यशोदाया इति ॥ तच्च य उ त्रिधात्वित्यादिश्रुतिसहायम् । यथा विष्णुरिति ॥ समव्याप्तत्वेनोभयोरपि परस्परं साध्यसाधनभावसूचनाय पूर्वप्रयोगाद्य्वत्यास । भाष्ये तादृशतकप्रदर्शनाय पूर्वोत्तरेत्याद्युक्तम् । ऊहनं परामर्शजन्यज्ञानविशेष । शुष्क श्रुत्यसहाय ॥ जगत्कारणत्वाभावादाविति ॥ जगन्निष्कारणं वस्तुत्वादात्मवत् । न चेष्टापत्ति । सकारणत्वस्य यतो वेत्यादिप्रमाणसिद्धत्वेन प्रामाणिकहानापत्ते । शशो विषाणवान् मृगत्वात् कृष्णमृगवत् । न चेष्टापत्ति । शशविषाणस्य सर्वथा अप्रमितत्वेनाप्रमाणिककल्पनाप्रसङ्गादिति भाव । ईक्षणकर्तृत्व-मागमसहायस्यापि नास्तीति किं विशिष्य निषेधेनेत्यत आह ॥ उदीक्षयितुमिति ॥ तस्मात् स्वपरपक्षयो साधकबाधकसद्भावात्कथं शास्त्रादीश्र्वरसिद्धिरित्येतदुपपादनाय पूर्वभाग ।
विवृति
अन्यनिष्ठत्वनिरासादिति ॥ तथाचोक्तलक्षणस्यातिव्याप्तिनिरासाय प्रमाणमुच्यत इत्यनन्तरसङ्गतिरिति भाव । श्रुत्यधिकरणसङ्गती दर्शयति ॥ जगज्जन्मादीति ॥ पूर्वपक्षमुपपादयति ॥ अनुमानेनेति ॥ ननु रुद्रादीनामनुमानत अकल्पने असिद्धिरेव स्यात् तत्राह ॥ कारणत्वेनेति शेष इति ॥ सूत्रार्थमाह ॥ भवेदित्यादिना ॥ जगत्कारणत्वस्य शास्त्रैकसमधिगम्यत्वे हेतुत्वेनाभिप्रेतस्यातीन्द्रियस्य शास्त्रैकसमधिगम्यत्वेन व्याप्तिमुपपादयति ॥ न हि धर्मादीति ॥ नावेदविदिति श्रुतिं व्याचष्टे ॥ तं पूर्णमिति ॥ आत्मानमित्यस्य सर्वकर्तारं सर्वस्वामिनमिति ॥ पुरुष इत्यस्य जगत्कर्तेति व्याख्यानं श्रुत्यो प्रकृतोपयुक्तत्वज्ञापनार्थम् ॥ कर्तृत्वस्यात्मशब्दार्थत्वेन, जगत्कर्तृत्वस्य पुरुषशब्दार्थत्वेन, कर्तृत्वादात्मशब्दोक्त, जगृहे पौरुषं रूपमादौ लोकसिसृक्षया’ इत्यादि प्रमाणसिद्धत्वादिति भाव । नन्वनुमानस्य प्रामाण्यमस्त्येवेति निषेधोऽनुपपन्न इत्याशङ्क्य तदर्थमाह ॥ स्वातन्त्र्येणेति ॥ तादृशं चेति ॥ स्वातन्त्र्येणादृष्टार्थनिश्र्चायकमित्यर्थ । श्रुतिसाहाय्यरहितानुमानस्य वह्न्यादौ प्रवृत्ते कथं कुत्र चिदित्युक्तमित्यत आह ॥ कुत्रचिददृष्ट इति ॥ अस्मदाद्यदृष्ट इत्यर्थ । तथा च प्रमाणान्तरं प्रत्यक्षमित्युपपन्नम् । अन्यथैकेनाप्यदृष्टविषयकश्रुतिसहितप्रत्यक्षस्याप्रसिध्या विशिष्य निषेधोऽनर्थक स्यादिति भाव ॥ अत्रापि प्रमाणान्तरमिति ॥ तकस्य पृथग्ग्रहणादिति भाव ॥ विपक्ष इति ॥ पूर्वानुमानापेक्षया विपरीतानुमानकरणेत्यर्थ ॥ नन्वनुमानस्याचेतनत्वेनोदीक्षणासम्भवात्कथमेतदित्यत आह ॥ अर्थमुदीक्षयितुमिति ॥ केवलानुमानस्येति ॥ श्रुतिसाहाय्यरहितस्येत्यर्थ ॥ अनिर्णायकत्वात्, स्वातन्त्र्येणादृष्टार्थानिश्र्चायकत्वात् ॥