ॐ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॐ
६. प्रकृत्यधिकरणम्
सूत्रभाष्यम्
स्त्रीशब्दा अपि तस्मिन्नेवेत्याह
॥ ॐ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॐ ॥ २४ ॥
"हन्तैतमेव पुरुषं सर्वाणि नामान्यभिवदन्ति यथा नद्यस्स्यन्दमाना समुद्रायणा समुद्रमभिविशन्त्येवमेवैतानि नामानि सर्वाणि पुरुषमभिविशन्ति’ इति प्रतिज्ञादृष्टान्तानु-परोधात्प्रकृतिशब्दवाच्योऽपि स एव ॥
सत्तकदीपावली
ननु परमपुरुषे स्त्रीवाचकशब्दासम्भवात् । न तत समाकर्ष स्त्रीषु तेषां किन्तु तास्वेव मुख्यास्ते इति पूर्वपक्षं प्रतिक्षिपतीत्याह ॥ स्त्रीत्यादिना ॥ प्रकृतं परमपुरुषमेव सर्वाणि नामानि सर्वतो मुख्यतश्च वदन्तीति प्रतिज्ञाय नदीवन्मध्ये स्थिरचरव्यवहारान् घटयन्त्यपि परमपुरुषैकायनस्वप्रवृत्तिनिमित्तधर्माण्यत तमेव सर्वतो मुख्यतश्च वदन्तीति दृष्टान्ताभिधानात् । प्रकृतिशब्दमुक्यार्थोऽपि स एव । एवं सति तयोरनुपरोधात् । अन्यथोपरोधादित्यर्थ ।
तत्त्वप्रदीपिका
यद्यपि परत्वावरत्वादिकमपेक्षाभेदादेकत्र युगपदुपलभ्यते । एकबहुभाव कार्यकारणभावश्च कथञ्चिद्युज्यते । न तथा स्त्रीपुम्भावो युगपदेकत्र दृष्ट । तस्मान्न स्त्रीशब्दाभिधेय परमपुमा-नित्यत आह "प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्’ । स्त्रीशब्दा अपीत्यादिभाष्योदित प्रकृतिश्चेति चकारार्थ । न केवलं प्रकृतिशब्देनैव वाच्य इत्युच्यते । स्त्रीशब्दानां सर्वेषामपि वाच्य एवेति । "पुरुषमभिविशन्ति’ इति । मुख्यवाचकत्वेन विशन्तीत्यर्थ । अभिवदन्तीति प्रतिज्ञातत्वात् ॥
तत्त्वप्रकाशिका
अत्र स्त्रीलिङ्गत्विलङ्गेनान्यत्रैव प्रसिद्धानां स्त्रीशब्दानां परमात्मनि समन्वयप्रतिपादनादस्ति शास्त्रादिसङ्गति । समन्वयसूत्रे सर्वशब्दानां भगवत्परत्वमुक्तम् । सर्वान्तर्गता प्रकृत्यादिशब्दा श्रूयन्ते "एषा ह्येव प्रकृतिरविकृतिर्या प्राणेन संविशत्यदितिर्देवतामयी’ इत्यादौ । तेषां चान्य-परत्वे न सर्वशब्दाभिधेयत्वं परमात्मन सिद्ध्यतीत्यवश्यं निर्णेयता । तत्प्रकृत्यादिशब्दवाच्यं विषय । किं विष्णुरन्यद्वेति सन्देह । समन्वयसूत्रमन्यत्रैव प्रसिद्धिश्च सन्देहबीजम् । न प्रकृत्यादिशब्दवाच्यो हरिरिति पूर्व पक्ष । प्रकृत्यादिशब्दानां स्त्रीलिङ्गत्वात् । परमपुरुषे च तदयोगात् । न च रूपविशेषापेक्षयोपपत्ति । "नैनं वाचा स्त्रियं ब्रुवन्’ इति तस्य स्त्रीत्व-निषेधात् । न च नपुंसकशब्दप्रवृत्तिवत्परमात्मनि स्त्रीशब्दप्रवृत्ति । नियामकविशेषाभावेन कल्पनाऽयोगात् । न चाऽस्त्यस्त्रीभूतस्यापि स्त्रीनियामकत्वेन तच्छब्दवाच्यत्वोपपत्ति । वशीकृतभार्येऽपि भर्तरि तत्प्रयोगादर्शनात् । न च नामानि सर्वाणीत्यादिविरोध । उक्त-न्यायविरोधेन तत्सङ्कोचोपपत्ते । अत प्रकृत्यादिशब्दानां परमात्मवाचित्वाभावान्न समन्वय-सूत्रमुपपन्नमिति । सिद्धान्तयत्सूत्रमवतारयति ॥ स्त्रीशब्दा इति ॥ एवं प्राप्तं पूर्वपक्षं प्रतिक्षेप्तुं स्त्रीशब्दा अपि परमात्मनि प्रवर्तन्त इति साधयत्यत्र सूत्रकार इत्यर्थ । सूत्रं व्याचष्टे ॥ हन्तेति॥ प्रकृत्यादिस्त्रीशब्दवाच्यश्चेश्वरो भवति । "हन्तैतमेव पुरुषम्’ इति श्रुतौ (परम)-पुरुषस्याशेषनामवाच्यतां प्रतिज्ञाय तत्रैव नदीसमुद्रदृष्टान्तस्योक्तत्वात् । प्रकृत्यादिस्त्रीशब्द-वाच्यताभ्युपगमे प्रतिज्ञादृष्टान्तानुपरोधादन्यथा तदुपरोधादिति भाव । हन्तेत्यास्वादने । प्रकृतिपदमन्योपलक्षकम् । प्रधानस्त्रीनामत्वात्तद्ग्रहणम् ॥
गुर्वर्थदीपिका
वशीकृतभार्येऽपीत्यत्र भार्याया स्वगृहकृत्यादौ वशीकरणेऽपि तन्निष्ठस्त्रीत्वस्य भर्त्र-धीनत्वाभावात् नास्मत्प्रतिबन्धीति ज्ञेयम् । क्षुद्रनदीनामपि स्थूलनदीद्वारा वर्षासु समुद्रं प्रत्येव गमनेन नदीनां समुद्रगमने सङ्कोचाभावात् दार्ष्टान्तिके केषाञ्चित् पदानां सङ्कोचे दृष्टान्त-दार्ष्टान्तिकभावोपरोध स्यादिति भावेनोक्तं अन्यथा तदुपरोधादिति ।
भावबोध
समन्वयसूत्र इति ॥ अव्यवहितपूर्वाधिकरणसङ्गतिस्तु कारणत्वेनेत्युक्तकारणत्वस्यात्र "योनिश्च हि गीयत’ इति स्त्रीलिङ्गशब्दप्रवृत्तिहेतुत्वेनोपादानादिति ज्ञातव्यम् । किं विष्णु-रिति। "अत्रैषा ह्येव प्रकृति’ इत्यादिश्रुतिगतप्रकृतिशब्दवाच्यत्वं विष्णोरस्ति न वेति चिन्ता । तदर्थं विष्णो प्रकृत्यादिस्त्रीलिङ्गशब्दवाच्यत्वे विशेषप्रमाणं तस्य प्रवृत्तिनिमित्तत्वञ्च नास्त्युता-स्तीति तदर्थं तस्य स्त्रीलिङ्गशब्दवाच्यत्वे स्त्रीलिङ्गत्वविरोध प्राप्नोत्युत नेति । तदर्थं स्त्रीलिङ्ग-शब्दप्रवृत्तौ किं स्त्रीत्वमेव निमित्तमुत स्वदेहादेवापत्योत्पादकत्वं वेति । "स्त्रीलिङ्गत्वम्’ इत्यनु-व्याख्यानोक्तपूर्वपक्षयुक्तिमाह प्रकृत्यादिशब्दानां स्त्रीलिङ्गत्वादिति । स्त्रीलिङ्गशब्दानां च स्त्रीत्वनिमित्तकत्वादिति भाव ॥ तदयोगादिति ॥ स्त्रीत्वायोगादित्यर्थ ॥ स्त्रीत्वनिषेधा-दिति॥ न च तत्केवलस्य लौकिकस्य वा स्त्रीत्वस्य निषेधो नाज्ञेयत्वपरम् । अन्यथा नैनमस्त्री पुमान् ब्रुवन्नित्युत्तरवाक्यविरोधादिति वाच्यम्; तथात्वे पुरुषे स्त्रीशब्दप्रयोगापातादिति भाव ॥ नियामकविशेषाभावेनेति ॥ नपुंसकिलङ्गब्रह्मशब्दवाच्यत्वे "तदेव ब्रह्म परमं कवीनाम्’ इति श्रुतिवत् स्त्रीलिङ्गशब्दवाच्यत्वे विशेषमानाभावादित्यर्थ ॥ प्रकृत्यादिशब्दवाच्यश्चेति ॥ एतेन न केवलमाकाशादिशब्दवाच्य किन्तु प्रकृत्यादिशब्दवाच्यश्चेति सौत्रशब्द प्रकृत्यादिशब्द-वाच्योऽपीति भाष्येण व्याख्यात इत्युक्तं भवति ॥ दृष्टान्तस्योक्तत्वादिति ॥ तथा च नामानि सर्वाणीत्येतदपेक्षयास्य विशेषश्रुतित्वमिति भाव । सूत्रे प्रकृतिशब्दस्यैवोपादानात् कथं स्त्रीशब्दा अपीति भाष्ये उक्तमित्यत आह प्रकृतिपदमिति ॥
भावदीप
स्त्रीलिङ्गत्वमित्यनुभाष्यसूचितिलङ्गेनाऽन्यत्रैव प्रसिद्धिमाह ॥ स्त्रीलिङ्गत्वेति ॥ अत्र अधिकरणे । स्त्रीशब्दानां स्त्रीलिङ्गशब्दानामित्यर्थ । तत्तु समन्वयादिति सर्वशब्दानां परमेश्वरे समन्वय उक्त इत्यानुमानिकसूत्रभाष्येणोक्तप्रायत्वादत्र भाष्येऽनुक्तां पूर्वसङ्गतिं स्वयमाह ॥ समन्वयसूत्र इति ॥ श्रूयते श्रुतौ प्रतीयते ॥ एषेति ॥ यद्यपीयं श्रुति तृतीये कामादितरत्र तत्र चायतनादिभ्य इत्यत्र भाष्ये श्रीतत्वपरत्वेनोदाहृता तथाप्येतत्पादीयोदाहरणानां मुख्यवृत्त्याऽन्य-पराणामपि सतां परममुख्यवृत्त्या ब्रह्मपरत्वस्याभिमतत्वादियमत्रोदाहृता । अत एव द्वितीये तेजोऽतस्तथाह्याहेत्यादौ भूतपरत्वेनोदाहृतैव कारणत्वेन च इत्यत्राप्युदाहृतेति ध्येयम् । या प्राणेनेति काठके अदितिशब्द । न केवलं सिद्धान्तेऽप्यन्यपरा एवाऽत्रोदाहरणं किन्तु अन्य-परत्वरहिता उपनिषदादिगता भगवन्मात्रपराऽपि स्त्रीलिङ्गशब्दयुक्ता श्रुतय इति सूचयितुमेतत् श्रुत्युक्ति । तेन छन्दोनयाद्युक्तगायत्र्यादिश्रुतिरप्यनेन रूपेणात्रोदाहरणमिति सूचितम् । अन्य-परत्वे अन्यमात्रपरत्वे । औपनिषदशब्दाभिप्राये तु यथा श्रुतमेव योज्यम् । यद्वाऽन्यपरत्वेऽपि विष्णुपरत्वाभाव इत्येवार्थ । विष्णुरन्यद्वेति संशयेऽपि विष्णुर्भवति न वेत्येवार्थ । अत एव न प्रकृत्यादिशब्दवाच्यो हरिरित्येव पूर्वपक्षकोटिरग्रे वक्ष्यते । तथाऽन्यपरभगवन्मात्रपरद्विविध-वाक्यसाधारणमेतदिति ध्येयम् । अनुभाष्योक्तां युक्तिमाह ॥ स्त्रीलिङ्गत्वादिति ॥ स्त्रीलिङ्ग-वाचित्वादित्यर्थ । नारायण्यादिरूपविशेषे स्त्रीलिङ्गत्वं युज्यत इत्याशङ्क्य तत्र श्रुतिविरोधमाह ॥ न च रूपेति ॥ ननु "नैनं वाचा स्त्रियं ब्रुवन्नैतमस्त्री पुमान्ब्रुवन् । पुमांसं न ब्रुवन्नेनं वदन्वदति कश्चन’ इति मन्त्रे पुमांसं स्त्रियं च वदन्नेव न वदतीत्युक्तत्वादुभयात्मकं स्वरूपं प्रतीयते । अस्त्रीपुमानिति ब्रुवन्नपि न वदतीत्युक्तत्वात् स्त्रीत्वं पुंस्त्वं च प्रतीयते । विष्णो-र्लौकिकस्त्रीपुंविलक्षणत्वादस्त्रीपुमानित्यपि वदन्नपि वदतीत्याद्यैतरेयभाष्योक्त्या केवलस्य लौकिकस्य वाऽस्त्रीत्वस्य निषेधपरं तद्वाक्यम् । अन्यथा नैनमस्त्री पुमान् ब्रुवन्नित्युत्तरवाक्य-विरोधात् । तथा च रूपविशेषस्य स्त्रीत्वे श्रुतिविरोधाभावात्तदपेक्षया प्रकृत्यादिशब्दोपपत्तिरिति चेन्न पुंरूपे स्त्रीशब्दाप्रयोगापातात् । तथा च त्रिपादस्यामृतं दिवीत्युक्तश्वेतद्वीपादिस्थ-नारायणादिपुंरूपे छन्दोनयोक्तगायत्र्यादिशब्दोक्तिर्न स्यादिति तात्पर्यात् । ननु देवतादि-खवादिशब्दवाच्येषु स्त्रीलिङ्गाभावेऽपि स्त्रीलिङ्गशब्दवाच्यत्वं शब्दसाधुत्वमात्रेण युक्तं तद्वदिह स्यादिति चोद्यं सदृष्टान्तमुक्त्वा प्रतिज्ञादृष्टान्तेत्यादिसूत्रत्रयोक्तहेतुव्यावर्त्यहेतुना निराह ॥ न च नपुंसकेति ॥ ननु चमसवदविशेषादित्यादावुक्तस्य नामानि सर्वाणि इत्यादेरेव नियमाकत्वा-दित्यतो विशेषेत्युक्तम् । तत्तु सामान्यं वक्ष्यमाणदिशा सङ्कुचितसर्वनामपरमिति भाव ।
यद्वा बृहन्तो ह्यस्मिन्गुणा इत्यादेर्गुणपूर्णत्वरूपब्रह्मपदवाच्यत्वनियामकस्येवेह प्रकृत्यादि-स्त्रीलिङ्गशब्दप्रवृत्तिनिमित्तरूपनियामकविशेषस्याभावादित्यात्मकृतेरित्यादिसूत्रद्वयव्यावर्त्योक्ति। तदधीनत्वसूत्रेण गतार्थत्वमाशङ्ग्य निराह ॥ न चाऽस्त्रीभूतस्यापीति ॥ एतद्वाक्यं पूर्ववद्द्वेधा व्याख्येयम् ॥ उक्तेति ॥ स्त्रीलिङ्गायोगरूपन्यायेनेत्यर्थ ॥ अत इति ॥ साधकाभावादित्यर्थ । पूर्वपक्षफलमाह ॥ नेति ॥ हरौ स्त्रीशब्दप्रवृत्त्युक्तेरसाङ्गत्यनिरासाय भाष्यार्थमाह ॥ एवमिति ॥ आकाङ्क्षाक्रमेण भाष्यं व्याचष्टे ॥ प्रकृत्यादीति ॥ सूत्रभाष्ययो प्रकृतिशब्दस्तदादिस्त्रीलिङ्ग-शब्दमात्रोपलक्षणमित्यग्रे व्यक्तत्वादादिपदम् ॥ वाच्यश्चेति ॥ न केवलं प्रागुक्तिलङ्गशब्द-वाच्यश्चेति सौत्रचशब्दार्थोक्तिपरभाष्यस्थापिशब्दार्थो दर्शित । ननु सर्वस्त्रीशब्दसमुच्चायक-श्चशब्द इति तत्वप्रदीपोक्तेरत्र पुन सर्वपुल्लिङ्गशब्दसमुच्चायकत्वोक्तौ कथं सर्वस्त्रीशब्दलाभ इत्यतोऽस्मिन् व्याख्याने तल्लाभप्रकारमाह ॥ प्रकृतिपदमिति ॥ एतेन स्त्रीशब्दा अपीति सम्बन्धभाष्यमुपपादितमिति ध्येयम् ॥
अभिनवचन्द्रिका
स्त्रीशब्दानामिति ॥ यद्यप्यत्र प्रकृत्यादिशब्दानामिति वक्तव्यं तथापि स्त्रीवाचकशब्दत्व-मधिकरणोपाधिरिति द्योतनाय भाष्ये "स्त्रीशब्दा’ इत्युक्तमिति अत्रापि स्त्रीशब्दानामित्युक्तम् ॥ प्रकृत्यादिशब्दाः श्रूयन्त इति ॥ अनेन समन्वयसूत्रप्रतिपाद्यशब्दराश्यन्तर्गतप्रकृत्यादिशब्द-निर्णायकत्वमस्याधिकरणस्य तेन सङ्गतिरित्युक्तं भवति ॥ प्रकृत्यादिशब्दानां स्त्रीलिङ्ग-त्वादिति॥ तेषां च उत्सर्गतः स्त्रीत्वाधिकरणवाचित्वादिति भावः । नियामकविशेषाभावेति ॥ "तदेव ब्रह्म परमं कवीनाम्’ इति नपुंसकशब्दवाच्यत्वे नियामकविशेषवत् अत्र नियामक-विशेषाभावादित्यर्थः ॥ न चास्त्रीभूतस्यापीति ॥ अप्रकृत्यादिरूपस्येत्यर्थः ॥ उक्त-न्यायविरोधेनेति ॥ परमात्मा "एषा ह्येव प्रकृति’ इत्यादिश्रुतिगतप्रकृत्यादिशब्दवाच्यो न स्त्रीलिङ्गशब्दवाच्यताव्यापकस्त्रीत्वशून्यत्वादित्युक्तन्यायविरोधेनेत्यर्थः ॥प्रकृतिपदमन्योपलक्षक-मिति ॥ उपलक्षकमिवोपलक्षकम् । यथोपलक्षकं काकपदं दध्युपघातकानामुपस्थापकं, तथा प्रकृतिपदमुदाहरणत्वात् न्यायविषयशब्दान्तरस्मारकमिति भावः । एतेन प्रकृतिपदस्य शब्दान्तरोपलक्षकत्वे प्रकृतिः परमात्मेत्युक्ते स्त्रीवाचकः शब्दः परमात्मेति वाक्यार्थः स्यादिति परास्तम् ।
वाक्यार्थमुक्तावली
समन्वयसूत्र इति ॥ परमपुरुषे स्त्रीवाचकशब्दायोगान्न तत समाकर्ष इत्याक्षेपा-दनन्तरसङ्गति ॥ या प्राणेनेति ॥ एष ह्येव प्रकृतिरिति श्रुते । कामादितरत्रेति सूत्रे श्रीतत्त्व-परत्वेनोदाहरणेऽपि एतत्पादीयविषयवाक्यानामन्यपरत्वमविज्ञाय मुख्यवृत्या भगवत्परत्वा-त्समन्वयो न युज्यते ॥ या प्राणेनेति काठकवाक्यस्य भगवदेकपरत्वनिर्णयादमुख्यतोऽप्यन्य-परत्वादेतत्पादे समन्वयो न घटत इति चेन्न । उपक्रमादिबलादिति प्रातिपदिकस्य भगवत्परत्व-सम्भवेऽप्यन्तरङ्गस्त्रीप्रत्ययबलान्न भगवत्परत्वमिति स्त्रीलिङ्गत्वेन रूपेण भगवत्परत्वाभावचोदने स्त्रीत्वघटनेन निर्णयोपपत्ते । अस्मिन्पादेऽन्यपरत्वमभ्युपेत्यैव भगवति समन्वय इत्यस्या-प्रायिकत्वात् । अस्मिंश्चाधिकरणे प्रकृत्यादिशब्दे विनियमस्याबाधाच्चेति ॥ विष्णुरन्यद्वेति । अत्र नामानि सर्वाणीति श्रुतिसङ्कोचेन प्रकृत्यादिशब्दवाच्यमुत रूढियोगज्ञापकसद्भावासङ्कोचेन विष्णुरिति । तदर्थं स्त्रीलिङ्गस्य ब्रह्मणि किमसाधुत्वमयुक्तमुतयुक्तमिति ॥ न प्रकृत्यादीति ॥ ननु संशयानुसारेणान्यदिति पूर्वपक्षयितव्यम् । सत्यं किं त्वन्य इत्याध्याहारोपपत्ते । यद्वा सिद्धान्तिनाप्यन्यपरतयाङ्गीकृतप्रकृत्यादिविवक्षया संशयकोट्युत्थानम् ।
भगवन्मात्रपरतयाभ्युगतादित्यादिशब्दे पूर्वपक्षिणस्तन्निषेधमात्रेण चरितार्थ्यादेव पूर्वपक्ष इति बोध्यम् । स्त्रिशब्दा अपीति भाष्यानुसारेण स्त्रीलिङ्गत्वमिति विवृणोति प्रकृत्यादीति ॥ तद-योगादिति ॥ स्त्रीलिङ्गशब्दानां सस्त्रीत्वनिमित्तकत्वात्परमपुरुषे स्त्रीत्वायोगादित्यर्थ । रूपविशेषात् कार्यत्वकारणत्ववदत्रापि रूपविशेषात्पुरुषत्वस्त्रीत्वे किं न स्यातामिति कारण-त्वाधिकरणेन गतार्थतामाशङ्क्य निराह न च रूपविशेषापेक्षया इति ॥ ननु केवलस्य लौकिकस्य वा स्त्रीत्वस्य निषेधपरं तद्वाक्यमन्यथा नैनमस्त्री पुमान् ब्रुवन् इत्युत्तरवाक्यविरोधात् तथा च त्रिपादस्यामृतं दिवीत्युक्तश्वेतद्वीपादिस्थे पुंरूपे छन्दोनये गायत्र्यादिशब्दोक्तिर्न स्यादिति तात्पर्यात् ॥ न च नपुंसकेति ॥ नपुंसकिलङ्गब्रह्मादिशब्दस्य विष्णोर्नपुंसकत्वाभावेऽपि कलत्रादिशब्देष्विव प्रयोगसाधुत्वात्प्रयोगवत् स्त्रीशब्दवृत्तिरिति न च वाच्यमित्यर्थ ॥ नियामकेति ॥ तदेव ब्रह्म एष एव ब्रह्मेत्यादिविशेषप्रमाणवदत्र प्रमाणाभावादित्यर्थ ॥ उक्तेति ॥ स्त्रीलिङ्गायोगरूपन्यायेनेत्यर्थ ॥ प्रकृत्यादिस्त्रीशब्दवाच्यश्चेति ॥ परमपुरुषे स्त्रीशब्दोऽनुचित इति चोदिते स्त्रीशब्दा अपि तस्मिन्नेवेति लोकरीत्यानौचित्यद्योतको वा न केवलं पुल्लिङ्ग-शब्दवाच्य इति समुच्चायको वा । सौत्रश्चशब्दो भाष्येऽपिशब्दश्चेति भाव । प्रकृतिपदमिति तेन स्त्रीशब्दा अपीति भाष्ये सामान्येन ग्रहणमिति भाव । सूत्रार्थस्तु स्पष्ट ।
तत्त्वसुबोधिनी
समन्वयसूत्र इति ॥ कारणत्वेऽप्युक्त कारणत्वस्यात्र योनिश्च हि गीयते इति स्त्रीलिङ्ग-शब्दप्रवृत्तिहेतुत्वेन उपादानात् अनन्तरसङ्गति ॥ प्रकृत्यादिशब्दानामिति ॥ स्त्रीलिङ्गशब्दानां च स्त्रीत्वनिमित्तकत्वादिति भाव । तदयोगादिति स्त्रीत्वायोगादित्यर्थ ॥ नैनमिति । एवं च वाचा वचनेन स्त्रियमिति नाब्रुवन्नित्यर्थ ॥ स्त्रीत्वनिषेधादिति ॥ न च तत्केवलस्य लोकस्य वा स्त्रीत्वस्य निषेधेनाहेयत्वपरम् अन्यथा नैनमस्त्री पुमान् ब्रुवन्निति उत्तरवाक्यविरोधादिति वाच्यम् । तथात्वे पुरुषे स्त्रीशब्दप्रयोगापातादिति भाव । नियामकविशेषे मानाभावादित्यर्थ ॥ प्रवृत्यादिस्त्रीशब्दवाच्यश्चेति ॥ सौत्रश्चशब्द । प्रकृत्यादिशब्दवाच्येऽपीति भाष्ये व्याख्यात इत्युक्तं भवति ॥ दृष्टान्तस्योक्तत्वादिति ॥ तथा च नामानि सर्वाणीत्येतदपेक्षयास्य विशेष-श्रुतित्वमिति भाव । सूत्रे प्रकृतिशब्दस्यैवोपादानात् कथं स्त्रीशब्दस्यापीति भाष्ये उक्तमित्यत आह ॥ प्रकृतिपदमिति ॥ स्त्रीवाचिशब्दानामनेकत्वात् प्रकृतिशब्दग्रहणमेव कुत कृतमित्यत आह ॥ प्रधानेति ॥
वाक्यार्थविवरणम्
स्त्रीशब्दानामिति ॥ स्त्रीत्वप्रवृत्तिनिमित्तकशब्दानामिति व्याख्येयम् । तेन पुल्लिङ्गान्तरादि शब्दसङ्ग्रह इति ध्येयम् ॥ स्त्रीलिङ्गत्वात् ॥ स्त्रीत्वप्रवृत्तिनिमित्तकत्वादित्यर्थ ॥ तदयोगादिति ॥ प्रवृत्तिनिमित्तभूतस्त्रीत्वायोगादित्यर्थ ॥ तत्प्रयोगेति ॥ भार्याशब्दप्रयोगेत्यर्थ ॥ उक्त-न्यायेति॥ प्रकृत्यादिशब्दानां स्त्रीलिङ्गत्वात् परमपुरुषे तदयोगादित्युक्तन्यायेनेत्यर्थ ॥ स्त्रीशब्दा ॥ स्त्रीत्वप्रवृत्तिनिमित्तका शब्दा इत्यर्थ । एवमुत्तरत्रापि व्याख्येयम् ।
वाक्यार्थमञ्जरी
स्त्रीशब्दानां स्त्रीलिङ्गवाचकशब्दानाम् ॥ एषेति ॥ स्त्रीरूपा भगवति प्रकर्षेण करोतीति प्रकृति विकाररहितत्वादविकृतिरित्यर्थ ॥ या प्राणेनेति ॥ या देवोत्तमाऽदनाददिति-शब्दवाच्या भगवति मुख्यप्राणेन सह देहादौ प्रविशतीत्यर्थ ॥ स्त्रीलिङ्गत्वादिति ॥ साक्षा-दपत्योत्पादकत्वरूपस्त्रीलिङ्गवाचकत्वादित्यर्थ । तदयोगात् स्त्रीलिङ्गायोगात् । नारायणादिरूप विशेषे तत्सम्भवमाशङ्क्याह ॥ न चेति ॥ नियामकविशेषाभावेनेति ॥ नपुंसकिलङ्ग-ब्रह्मशब्दवाच्यत्वे अथ कस्मादुच्यते ब्रह्मेतिवत् स्त्रीलिङ्गशब्दवाच्यत्वे विशेषमानाभावादित्यर्थ । ॐ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॐ ॥ न केवलं पुँल्लिङ्गशब्दवाच्यो हरिरपि तु स्त्रीलिङ्ग-प्रकृत्यादिशब्दवाच्यश्च हन्तैतमेवेति प्रतिज्ञा यथा नद्य इति दृष्टान्तस्तयोरनुपरोधादनुसारा-दित्यर्थ ॥ दृष्टान्तस्योक्तत्वादिति ॥ तथा च नामानि सर्वाणीत्येतदपेक्षया अस्याविशेष-श्रुतित्वमिति भाव ॥ आस्वादन इति ॥ अयमर्थ आस्वादनीय एव नोदासितव्य इत्यर्थे वर्तत इत्यर्थ ॥ सूत्रे प्रकृतिशब्दस्यैवोपादानात् स्त्रीशब्दा इति कथं भाष्ये बहुवचनमित्यत आह ॥प्रकृतिपदमिति ॥ प्रधानस्त्री रमा ॥