ॐ वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ॐ
१०. अथ वैषम्यनैर्घृण्याधिकरणम्
सूत्रभाष्यम्
सर्वकर्तृत्वे वैषम्यनैर्घृण्ये तस्येत्यतो वक्ति–
।। ॐ वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ॐ ।। ३५ ।।
कर्मापेक्षया फलदातृत्वान्न तस्य वैषम्यर्नैर्घृण्ये । ‘पुण्येन पुण्यं लोकं नयति पापेन पापम् (प्र.उ.३-७) इति हि श्रुतिः ।
सत्तर्कदीपावली
सुकृतिनः स्वर्गादिस्थान् दुष्कृतिनो नरकादिस्थान् सृजतीति विषमो निर्घृण इति न शङ्कनीयम् । न ह्यदण्ड्याननुगृह्णन् दण्ड्यान् दण्ड्यन् राजा विषमो निर्घृण इत्युच्यते लोके । तथाहि श्रुतिः । पुण्येन पुण्यं लोकं नयति पापेन पापमिति ।
तत्त्वप्रदीपिका
यद्येवं सर्वकर्तृत्वमीश्वरस्य बोभूयते, कांश्चिदिष्टं भोजयति कांश्चिदनिष्टमिति न समत्वमीश्वरस्य स्यात् । निरये पतितानतिबाधाविह्वलानाक्रन्दतोऽनन्यनाथाननुज्जिहीर्षोर्नैर्घृण्यं चेत्यतो वक्ति ॐ वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ॐ । तत्तत्कर्माणि वीक्ष्य तदानुकूल्येन फलं ददाति न विपर्ययेणेति नोक्तदोषः ।
तत्त्वप्रकाशिका
अत्र विष्णोः सर्वकर्तृत्वे वैषम्यादिदोषप्रा प्तियुक्तिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । जगज्जन्मादिकर्तृत्वं हरेरुक्तम् । तस्य युक्तिविरोधे लक्षणस्यासम्भवित्वं स्यादतोऽसौ निराकर्तव्य एव । जन्मादिकर्तृत्वमेव विषयः । ईश्वरस्य युक्तमयुक्तं वेति सन्देहः । श्रुतिविरोधदर्शनं च सन्देहबीजम् । सयुक्तिकं पूर्वपक्षयति ।। सर्वेति ।। न विष्णोः सर्वकर्तृत्वं युक्तम् । तथा हि । किमसौ प्रा णिकर्म- सापेक्षः सृष्ट्यादि करोति तदनपेक्षो वा । नाद्यः । नियमेन कर्मापेक्षया प्रवर्तमानस्यास्वातन्त्र्या-पातात् । अस्वतन्त्रस्य च सर्वकर्तृत्वानुपपत्तिः । द्वितीये वैषम्यनैर्घृण्ये स्याताम् । निर्निमित्तं विभागेन सुखादिप्रदानात् । वैषम्यादिदोषवतश्च न सर्वकर्तृत्वम् । कर्मानपेक्षया सर्वकर्तृत्वे च ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ इत्यादिवेदाप्रा माण्यं च स्यात् । अतो हरेः सर्वकर्तृत्वायोगान्न युक्तं लक्षणमिति भावः । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ।। अत इति ।। युक्तमेव विष्णोः सर्वकर्तृत्वम् । न चोक्तदोषप्रसङ्गः । कर्मापेक्षया फलदातृत्वाङ्गीकारे वैषम्यादिदोषाभावादिति भावः ।
गुर्वर्थदीपिका
वैषम्यनैर्घृण्ये इत्यत्र एकस्य सुखदानादपरस्य दुःखदानात् वैषम्यम् । स्वदत्तदुःखोद्रेकात् रुदतो दृष्ट्वा तदुपरि कृपाया अकरणात् नैर्घृण्यमित्यर्थः ।
भावबोधः
वैषम्यादिदोषेति ।। अत्राप्यादिपदेनास्वातन्त्र्यादिविरोधियुक्तिग्रहणेन ‘बहुयुक्तयः’ इत्यनेनैव तदधिकरणोपाधिरपि सङ्गृहीत इति भावः । पूर्वाधिकरणे लोकानुग्रहाय सृष्ट्यादिक्रीडां करोती-त्युक्ते तर्हि सर्वेषां सुखमेव दद्यात्; न तु केषाञ्चित् सुखं केषाञ्चित् दुःखम् । वैषम्याद्या-पत्तेरित्याक्षेपोत्थानादनन्तरसङ्गतिरिति ज्ञेयम् ।। ईश्वरस्येति ।। अत्र विष्णोः सर्वकर्तृत्वं युक्तिविरुद्धं भवत्युत नेति चिन्ता । तदर्थं प्रा णिसुखदुःखादिसर्वकर्तृत्वे वैषम्यादिप्रा प्नोत्युत नेति । तदर्थमीश्वरः प्रा णिनां सुखदुःखादिदाने तत्तदनादिकर्मयोग्यतादिकं किं नापेक्षत उतापेक्षत इति । तदर्थं कर्माद्यपेक्षायामीश्वरस्यास्वातन्त्र्यं प्रा प्नोत्युत नेति । तदर्थं कर्मयोग्यतादिकं विष्ण्वनधीन-सत्तादिकम् उत तदधीनसत्तादिकमिति । तदर्थं कर्मादिकारयितृत्वनिबन्धनं वैषम्यादिकं दोषावहं भवत्युत नेति । तदर्थं वैषम्यादिकं किं तत्त्वेनैव दोष उत वेदाप्रा माण्याद्यनिष्टहेतुत्वेनेति । ईशस्य पूर्णत्वादिसिद्धिरिति न्यायविवरणं व्याचष्टे– न विष्णोरिति ।। अनेन पूर्णत्वं सर्वकर्तृकत्वमिति व्याख्यातं भवति । कर्मसापेक्षत्वेऽनीशत्वमिति न्यायविवरणं व्याचष्टे– नियमेनेति ।। सर्वकर्तृ-कत्वेति भाष्यं व्याचष्टे– द्वितीय इति ।। अनेन पक्षत्वे श्रुतेरप्रा माण्यमिति न्यायविवरणं व्याचष्टे– कर्मापेक्षतयेति ।।
भावदीपः
युक्तीति ।। कर्मसापेक्षत्वेऽनपेक्षत्वे च दोषप्रा प्तिरिति बहुमुखदृढयुक्तीत्यर्थः । सापेक्षत्वेन वैषम्यादिनिराससम्भवात्कथं भाष्ये दोषनिर्धारणमित्यतः कर्मसापेक्षत्वेऽनीश्वरत्वमनपेक्षत्वे श्रुतेर-प्रा माण्यमिति न्यायविवरणं विवृण्वन्पक्षभेदेन भाष्यं योजयितुं विकल्पयति ।। किमसाविति ।। कर्मसापेक्षत्वेनेश्वरस्यास्वातन्त्र्यमिति वक्ष्यमाणदिशाऽस्वातन्त्र्यापातादित्युक्तम् । भाष्ये सर्व-कर्तृत्वे इत्युक्तेराह ।। सर्वकर्तृत्वानुपपत्तिरिति ।। पूर्णत्वासिद्धिरिति न्यायविवरणोक्तिस्तु सर्वकर्तृ-त्वानुपपत्तिफलाशयेति भावः । भाष्यं योजयति ।। द्वितीय इति ।। अन्यत्रोक्तं दोषान्तरं चाह ।। कर्मेति ।। अप्रा माण्यं चेति समुच्चयोक्त्याऽनपेक्षत्वपक्षे दोषभेदोक्तिपरयोर्ग्रन्थयोरविरोधश्चोक्तो ध्येयः ।। अत इति ।। कर्मसापेक्षत्वेऽनपेक्षत्वे च युक्तिविरोधादित्यर्थः । उक्तदोषनिरासकतया भाष्यसूत्रे तात्पर्यतो व्याचष्टे ।। कर्मेति ।। अत्रोक्तदोषोऽग्रे निरसिष्यत इति भावः ।
अभिनवचन्द्रिका
सृष्ट्यादि करोतीति ।। प्राणिनामिति शेषः । आदिशब्देन सुखदुःखादिकं ग्राह्यम् । प्राणिनां कर्मसापेक्षः सुरनरतिर्यगादिनीचोच्चयोनिषु सृष्टिं करोति । विभागेन सुखदुःखादिकं च ददातीत्यर्थः । द्वितीयपक्षं परिशेषयितुं आद्यं दूषयति – नाद्य इति ।। इष्टापत्तिरित्यत आह – अस्वतन्त्रस्येति ।। यद्यसौ सहकार्यभावे स्त्रष्टुमशक्तः, तर्हि आदिकाले सहकारिवैधुर्येण महदादिसृष्टृत्वं न स्यादिति स्वाभिलाषितसर्वकर्तृत्वविरोधित्वान्नास्वातन्त्र्यमिष्टमिति भावः । द्वितीये त्विदं भाष्यमुपतिष्ठत इति भावेनाह– द्वितीय इति ।। कुत इत्यत आह– निर्निमित्त-मिति ।। अत्रेमौ प्रयोगौ ईश्वरो विषमः, निर्निमित्तं कांश्चिद्देवादिषूत्पाद्य सुखदातृत्वात् । तथा ‘ईश्वरो निर्घृणः, निर्निमित्तमेव कांश्चिद्दैत्यादिषूत्पाद्य दुःखदातृत्वात्’ इति । यदर्थं वेषम्यनैर्घृण्ये साधिते तदाह– वैषम्यादिदोषवतश्चेति ।। ‘ईश्वरो न महदादिस्रष्टा, वैषम्यादिदोषित्वात् देवदत्तवत्’ इति प्रयोगो द्रष्टव्य इति । एतेन किमिदमापादनमुत साधनम् । नाद्यः वैषम्य-नैर्घृण्याभावस्य पूर्वपक्षिणाप्यङ्गीकृतत्वेन ‘वैषम्यनैर्घृण्ये न सापेक्षत्वात्’ इत्यनेन सिद्धान्तेन तदभाव-साधनवैयर्थ्यात् । किञ्च अस्मिन् पक्षे वैषम्यादिदोषवतश्च न सर्वकर्तृत्वमित्युत्तरवाक्यमसङ्गतं प्राप्नोति । न चाऽऽपाद्यस्येष्टत्वपरिहारार्थमुत्तरवाक्यमिति वाच्यम् यदि प्राणिनां कर्मानपेक्षयैव सर्वकर्ता स्यात्, तर्हि वैषम्यनैर्घृण्ये स्यातामिति आपादयित्रैव आपाद्यापादकयोर्व्याप्तेरङ्गीकृतत्वेन इह पुनर्वैषम्यादिदोषवतश्च न सर्वकर्तृत्वमित्यापाद्यस्य तदभावव्याप्यत्वकथनविरोधात् । अत एव न द्वितीयः वैषम्यादिदोषतश्च न सर्वकर्तृत्वमित्युत्तरवाक्यायोगप्रसङ्गात् । कर्मानपेक्षयैव सर्वकर्तृत्वलिङ्गोपजीवनेन सिद्धस्य वैषम्यादेः तद्विघातकत्वायोगात् । न हि व्यापकेन व्याप्या-भावसाधनमिति परास्तम् । कर्मनैरपेक्ष्येण सुखदुःखदातृत्वहेतुना वैषम्यनैर्घृण्ये प्रासाध्य ताभ्यां तदन्यस्यैव महदादिसर्वकर्तृत्वस्य निराकरणाङ्गीकारात् । युक्तिविरोधन सर्वकर्तृत्वं दूषयित्वा प्रमाणाभावेन दूषयितुमाह– कर्मानपेक्षयेति ।। सर्वप्राणिगतसुखदुःखकर्तृत्वे चेत्यर्थः । ज्योति-ष्टोमादिवाक्यमप्रमाणं सुखाद्यसाधनस्यापि पुण्यादेः तत्साधनत्वाभिधायित्वादिति प्रयोगात् ज्योतिष्टोमादिवाक्याप्रामाण्यं स्यात् । ततश्च ‘विष्णोः सर्वकर्तृत्वाभिधायको वेदः अप्रमाणं वेदत्वात् ज्योतिष्टोमादिवाक्यवत्’ इति प्रयोगसम्भवेन प्रमाणाभावात् न विष्णोः सर्वकर्तृत्वमिति भावः ।
वाक्यार्थमुक्तावली
वैषम्यादिदोषेति ।। अत्रादिपदेन स्वातन्त्र्यादिविरोधियुक्तिग्रहणेन बहुयुक्तय इत्यनेनैवैतदधि-करणोपाधिरपि संगृहीतः । अत्र कर्मादिसापेक्षत्वेन पक्षत्वे च दोष इति बहुमुखदृढयुक्तिविरोधो निरस्यते । पूर्वं बहुमुखयुक्तिविरोधपरिहारेऽपि उपपद्यते चेति सूत्रे फलमुखवैषम्यस्याङ्गीकारेणैव प्रमाणमुखस्य वैषम्यादेर्निरासात् प्रा बल्यमभिप्रेत्य पुनरारम्भ इति भावः । पूर्वाधिकरणे लोकानु-ग्रहाय सृष्ट्यादिक्रीडां करोतीत्युक्ते तर्हि सुखमेव सर्वेषां दद्यान्न तु केषांचित्सुखं केषांचिद्दुःखं वैषम्यापत्तेरित्याक्षेपेणोत्थानादनन्तरसङ्गतिः ।। ईश्वरस्येति ।। अत्र विष्णोः सर्वकर्तृत्वं न युक्तमिति चिन्ता । तदर्थमीश्वरः कर्मादिक्रमयोग्यतादिनिरपेक्ष उत सापेक्ष इति । तदर्थं कर्म-योग्यताद्यपेक्षायामस्वातन्त्र्यं प्रा प्नोत्युत नेति । तदर्थं कर्मयोग्यतादिकं विष्ण्वधीनसत्ताकमुत नेति उत तदधीनं चेति । तदर्थं तस्येश्वराधीनत्वे पुनरापन्नं स्वाधीनानादिसिद्धयोग्यतानुसारेण सुखदत्वलक्षणवैषम्यादिकमित्येव दोषः । किं वा वेदाप्रमाण्याद्यापादकतयेति ।
ननु तत्तत्पूर्वपुण्यपापं कर्मनिमित्तीकृत्य फलदाने वैषम्याद्यभावात्कथं भाष्ये दोषनिर्धारण-मित्यतो विकल्पमुखेन भाष्यं योजयितुं विकल्पयति । कर्मसापेक्षत्वेनेश्वरस्यास्वातन्त्र्यमित्ये-तद्भाष्यं हृदि कृत्वाऽद्यस्योत्तरमाह ।। नाद्य इति ।। तथा च न्यायविवरणे कर्मसापेक्ष-त्वेनेश्वरमिति । द्वितीयोत्तरत्वेन भाष्यं योजयति ।। द्वितीय इति ।। कर्मानपेक्षतया सर्वकर्तृत्व इत्यर्थः ।। निर्निमित्तमिति ।। निर्निमित्तं कांश्चित्सुखयन् विषमः स्यात् । कांश्चिन्निर्निमित्तं दुःखयन्निर्घृणः स्यादिति सुधानुसारेणार्थो बोध्यः । द्वितीये दूषणान्तरपरत्वेन भाष्यं योजयति ।। कर्मानपेक्षत्वेति ।। कर्मानपेक्षतया सुखदुःखकर्तृत्वे वेदाप्रा माण्यकारणवैषम्यनैर्घृण्य इति भाष्यार्थः इति भावः । उक्तं च न्यायविवरणे । अनपेक्षत्वे श्रुतेरप्रा माण्यमिति ।। वैषम्यादीति ।। कर्मानुसारेण न स्वतो वैषम्यादिदोषाभावात् वेदाप्रा माण्यापादकतयापि दोषाभावादित्यर्थः । सूत्रे ईश्वरस्य फलदान इति शेषः । उत्तरसूत्रात्कर्मेति सापेक्षत्वादित्यतः पूर्वं सम्बध्यत इति ज्ञेयम् ।
तत्त्वसुबोधिनी
वैषम्यादिदोषेति ।। अत्राप्यादिपदेन अस्वातन्त्र्यादिविरोधियुक्तिग्रहणम् । अत्र पूर्वाधिकरणे लोकानुग्रहाय सृष्ट्यादिक्रीडां करोतीति उक्ते तर्हि सर्वेषां सुखमेव दद्यात् न तु केषाञ्चित्सुखं, केषाञ्चिद्दुःखं वैषम्याद्यापत्तेरित्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः । अस्तु अस्वातन्त्र्यं ततः किमित्यत आह ।। अस्वतन्त्रस्येति ।। सर्वकर्तृत्वेति भाष्यं व्याचष्टे ।। द्वितीय इति ।। कुतः इत्यत आह ।। निर्निमित्तमिति विभागेनेति ।। कस्यचिदेव दुःखं कस्यचिदेव सुखमिति विभागे-नेत्यर्थः । द्वितीये दूषणान्तरमाह ।। कर्मेति ।। तेन वेदेन स्वर्गादिसुखस्य ज्योतिष्टोमादिकर्म-फलत्वस्योक्तत्वादिति भावः ।
वाक्यार्थमञ्जरी
निर्दयत्वमित्यर्थः । विभागेन विषमतया । नेश्वरस्य वैषम्यनैर्घृण्ये कर्मसापेक्षत्वात् हि यस्मात्तथा प्रस्तुतार्थं दर्शयति । पुण्येन पुण्यमिति श्रुतिरित्यर्थः ।