ॐ ईक्षतेर्नाशब्दम् ॐ
सूत्रभाष्यम्
५. ईक्षत्यधिकरणम्
ननु "यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ (तै.उ.२-२२) ॥ "अशब्द-मस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्’ (क.उ.१-३-१५) । "अवचनेनैव प्रोवाच’ (बाष्कलश्रुति) ॥ "यद्वाचाऽनभ्युदितं येन वागभ्युद्यते । (क.उ.१-५) यच्छ्रोत्रेण न श़ृणोति येन श्रोत्रमिदं श्रुतम्’ (के.उ.१-८) इत्यादिभिर्न तच्छब्दगोचरम् । नेत्याह ।
॥ ॐ ईक्षतेर्नाशब्दम् ॐ ॥
"स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते’ (ष.प्र.उ.५-५) । "आत्मन्येवात्मानं पश्येत् ॥ विज्ञाय प्रज्ञां कुर्वीत’ (बृ.उ.६-४-२३, ६-४-२१) इत्यादिवचनैरीक्षणीय-त्वाद्वाच्यमेव । औपनिषदत्वान्नावचनेनेक्षणम् ।
"सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति’ (क.उ.२-१५) । "वेदैश्र्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम्’ (भ.गी.१५-१५) इत्यादिश्रुतिस्मृतिभ्यश्र्च ।
सत्तकदीपावली
योऽयं सर्ववेदवाक्यपदसमन्वयो ब्रह्मणि प्रतिज्ञात तं तावदाक्षिपति । यतो वाच इत्यादिश्रुतिभि अशब्दत्वेन ब्रह्मण प्रतिपादितत्वात् तत्रैकस्यापि पदस्य न समन्वय किमु सर्ववेदसमन्वय इत्येतन्निषेधक-सूत्रमवतारयति ॥ ईक्षतेरिति ॥ व्याचष्टे स इति । न चाशब्दत्वेन श्रुत्युक्तत्वात्परमात्मनो तत्राशेष-श्रुतिसमन्वय इति न वाच्यम् । तं त्वौपनिषदं पुरुषमित्यस्यां श्रुतावुपनिषदेकसमधिगम्यत्वेन अनुमानाद्य-गोचरत्वस्योक्तत्वात् । अत सर्ववेदवेद्यो विष्णु । सर्वे वेदा यत्पदमामनन्ति इत्यादिश्रुतिवचनात् । एवं सति यतो वाच इत्यादिश्रुत्यर्थ क इत्यतोऽपेक्षितमर्थमाह ॥ अवाच्येति ॥ साकल्येन वक्तुमशक्यत्वेन अप्रसिद्धत्वात् । ब्रह्मणोऽवाच्यत्वादिव्यपदेश इत्येतत्सोदाहरणमाह ॥ न तदिति ॥ न च वाच्यमीक्षतेर्ना-शब्दमित्यनेन शब्दावाच्यत्वं मायावाद्यभ्युपगतं ब्रह्मणो न निषिध्यते किं तु प्रधानस्य जगत्कारणत्वं साङ्ख्याभ्युपगतं श्रुतिशब्दावाच्यत्वहेतुना निषिध्यत इति । अजामेकामित्यादिश्रुत्युक्तस्य प्रधानस्याशब्दत्वेन साङ्ख्यानभ्युपगतत्वादित्याह ॥ न चेति ॥
तत्त्वप्रदीपिका
एवं तावद्ब्रह्मणो जिज्ञास्यत्वं प्रतिज्ञाय तस्य जन्मादिकारणत्वोक्त्या सर्वगुणपूर्णत्वं प्रदर्श्यायोगान्य-योगव्यवच्छेदेन शास्त्रगम्यत्वमुक्तम् । अत्रेदमसहमानैर्मायिभिराक्षिप्यते न ब्रह्म शास्त्रगम्यं, शब्दागोचरत्वात् । "यतो वाचो निवर्तन्त’ इत्यादिश्रुते । गोचरत्वे, घटादिवदब्रह्मत्वप्रसङ्गाच्च । औपनिषदत्वं तु, लक्षणया तत्रोपनिषद्वृत्तेरिति । तन्निराकरणायेदमधिकरणमारभ्यते । ॐ ईक्षतेर्नाशब्दम् ॐ । जीवघनो जीवसारो ब्रह्मा । तस्मात्तदुपदेशादित्यर्थ । ""तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मण’’ इति, तमेव शास्त्रा-दाचार्याद्विज्ञाय प्रकृष्टमपरोक्षं ज्ञानमापादयेत् । ब्राह्मणो ब्रह्मनिष्ठ ।
"सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति’ इति । "तप आलोचन’ इति धातोरालोचनरूपा युक्तयस्तपांसि ।
तत्त्वप्रकाशिका
अत्र ब्रह्मणो वाच्यत्वसमर्थनादस्ति शास्त्रसङ्गति । सकलजगज्जन्मादिकारणत्वेन ब्रह्मैव शास्त्रस्य मुख्यार्थ इत्यभिहितम् । उपक्रमादिभिर्निर्णीतस्य मुख्यार्थत्वात् । तच्च वाच्यत्व एव सम्भवतीति । तन्मुख्यत शास्त्रयोनित्वं विषय । ब्रह्मणो युक्तमयुक्तं वेति सन्देह । वादिविप्रतिपत्ति सन्देहबीजम् । तत्र पूर्वपक्षयति ॥ नन्विति ॥ न ब्रह्मण शास्त्रमुख्यार्थत्वमुपपद्यते । यतस्तत "यतो वाचो निवर्तन्ते’ इत्यादिश्रुते शब्दावाच्यम् । न ह्यवाच्यस्य शास्त्रमुख्यार्थता सम्भवति । अतो न शास्त्रोक्तकारणत्वं तस्येति भाव । अशब्दमित्यादे शब्दादिगुणशून्यं तदविषयश्चेत्यर्थ । "अवचनेनैव प्रोवाच’ इति वचनवृत्तिं विना लक्षणयोपदिदेश । यच्छ्रोत्रेण न श़ृणोति पुरुष । "त्रयी न श्रुतिगोचरा’ इति गोचर-शब्दस्य विशेष्यिलङ्गतयाऽऽर्षप्रयोगान्न तच्छब्दगोचरमिति युक्तम् । सिद्धान्तयत्सूत्रमवतारयति ॥ नेति ॥ अत्र सूत्रकारो ब्रह्मणोऽवाच्यत्वं श्रुतिप्राप्तं प्रतिषेधतीत्यर्थ । सूत्रं व्याचष्टे । स इति ॥ स प्रणवोपासको जीवोत्तमहिरण्यगर्भोपदेशेन परमं पुरुषं पश्यति । परोक्षतो ब्रह्म विज्ञायाऽपरोक्षतो जानीयादित्यादिश्रुतिभि-र्ब्रह्मण ईक्षणीयत्वावगतेस्तदन्यथानुपपत्त्या वाच्यमेव तदतस्तस्य शास्त्रयोनित्वोपपत्ते कारणत्वसम्भव इत्यर्थ । नेक्षणीयत्वान्यथानुपपत्त्या ब्रह्मणो वाच्यत्वं वाच्यम् । ईक्षणस्य प्रत्यक्षादिनापि सम्भवादित्यत आह ॥ औपनिषदत्वादिति ॥ भवेदेतद्यदि ब्रह्म प्रत्यक्षादिगम्यम् । नैतदस्ति । तस्योक्तरीत्योप-निषदेकगम्यत्वात् । तथा च प्रत्यक्षाद्यवेद्यत्वे सतीक्षणीयत्वान्यथानुपपत्त्या वाच्यमेव तदिति भाव । परिशेषप्रमाणेन वाऽत्र वाच्यत्वं साध्यते । तथा हि । श्रुतिषु तावदीक्षणीयत्वं ब्रह्मण श्रूयते । ईक्षणं च प्रमाणेन भवेत् । प्रसक्तप्रमाणेषु न ब्रह्मणो वचनेतरप्रमाणेनेक्षणम् । तस्यौपनिषदत्वात् । वचनेनेक्षणं चावाच्ये वृत्त्यन्तरायोगेन परिशेषाद्वाच्यत्वमेव साधयतीति ।
ननु श्रुतिसिद्धमवाच्यत्वं कथं युक्तिमात्रेण दूष्यते । "प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम्’ इति युक्तित श्रुते प्राबल्योक्तेरित्यत श्रुतिस्मृती चाह ॥ सर्व इति ॥ तपांसि यत्प्रति वदन्ति वेदा ।
गुर्वर्थदीपिका
"पुरुषमीक्षत’ इति श्रुतौ "इक्श्तिपौ’ इति धातुनिर्देशात् ईक्षते ईक्षधातुश्रवणात् तेन च परमात्मन ईक्षणीयत्वमपि श्रुतमिति भावेनोक्तं ब्रह्मण ईक्षणीयत्वावगतेरिति । सौत्रप्रयोगबलादीक्षणवाच्यपीक्षतिरिति वैदिकं पदं वा । औपनिषदत्वाद् ब्रह्मणो न श्रुतिनिरपेक्षप्रत्यक्षादिप्रमाणैरीक्षणम् । श्रुत्यर्थश्रवण-मनननिदिध्यासनै शक्त्युत्तेजने यन्मनसा भगवदीक्षणं तत् "असाधारण्येन व्यपदेशा भवन्ति’ इति न्यायात् श्रुत्यैवेक्षणमिति सौत्राभिप्रायं हृदि निधायोक्तम् ईक्षणं च प्रमाणेनेत्यादि । श्रुतिसहितयौक्तानुभवस्य केवलश्रुतित प्राबल्यमिति सौत्राभिप्रायस्फोरणायोक्तं न्यायविवरणे श्रुतिसहितानुभवस्य प्रबलत्वादिति । का सा श्रुतिरित्यतो भाष्येऽस्मिन्य श्रुतिस्मृत्योरुद्धारस्तस्य सङ्गतिमाह ॥ नन्विति ॥
भावबोध
॥ ॐ ईक्षतेर्नाशब्दम् ॐ ॥ वाच्यत्वसमर्थनादिति । उपलक्षणमेतत् । सकलशास्त्रप्रतिपाद्यत्व-दर्शनादित्यपि द्रष्टव्यम् । अत एव सुधायां वचनवृत्त्यैव सकलशास्त्रप्रतिपाद्यं ब्रह्मेत्युक्तम् । तमाक्षिप्य समाधातुम् इदमधिकरणमारभ्यत इत्युक्तम् । एवञ्च "सं’शब्दार्थसकलवेदमुख्यार्थत्वाक्षेप-समाधानपरेऽस्मिन्नधिकरणे वेदमुख्यार्थत्वोपपादकवाच्यत्वसमर्थनपरसूत्राणामिव सकलवेदार्थत्वसमर्थनपरस्य "गतिसामान्यात्’ इति सूत्रस्याप्यन्तर्भाव उपपद्यते । "सं’शब्दाक्षेपसमाधानरूपत्वज्ञापनार्थमेव वाच्यत्व-समर्थनपरसूत्रमध्येऽस्य सूत्रस्य निवेश कृत । पृथक्करणे तु वाच्यत्वसमर्थनपरत्वाभावादधिकरणान्तरत्व-प्रतीतिप्रसङ्गात् । यथोक्तं सुधायाम् सूत्रकारस्यापि प्रकरणसाङ्कर्यस्यैतदेव प्रयोजनम् । यदाक्षेपद्वय-समाधानस्य पूर्वसूत्रस्थ"सं’ शब्दार्थसमर्थनमेकमेव प्रयोजनमिति सूचनमिति । अत्रानन्तरसङ्गतिस्तु वचनवृत्त्यैवेत्यादिपूर्वोदाहृतसुधाग्रन्थ एव स्पष्टमुक्ता ।
ननु रुद्रादिशब्दयुक्तवेदवाक्येषु उपक्रमादिलिङ्गबलाद्विष्णुरेव प्रतिपाद्य इत्युक्तम्, न तु विष्णोर्वेद-मुख्यार्थत्वं, यत्सिद्ध्यर्थं वाच्यत्वसमर्थनं सङ्गतं स्यादित्यत आह उपक्रमादिभिरिति । उपलक्षणञ्चैतत् । सुधोक्तरीत्या "सं’शब्देन विष्णोर्मुख्यार्थत्वं स्यादित्युक्तत्वादिति बोध्यम् । युक्तमयुक्तं वेति । अत्र पूर्वसूत्रस्थ"सं’शब्दोक्तसर्ववेदमुख्यार्थत्वं ब्रह्मणो न युक्तमुत युक्तमिति चिन्ता । तदर्थं तस्य वाच्यत्वं नास्त्युतास्तीति । तदर्थं "यतो वाच’ इति श्रुति किं ब्रह्मावाच्यत्वाभिप्रायतया निरवकाशा । उताप्रसिद्धेरवाच्यं तदित्युक्तप्रकारेण सावकाशेति । तदर्थं श्रुतेरवाच्यत्वाभिप्रायत्वे बाधकं ब्रह्मणो वाच्यत्वे साधकं नास्त्युतास्तीति । तदर्थम् "आत्मन्येवात्मानं पश्येत्’ इत्यादिश्रुत्युक्तेक्षणीयत्वं "पूर्णमद’ "एको देव’ इत्यादिश्रुत्युक्तञ्च किं गौणस्य; उत शुद्धस्य ब्रह्मण इति । तदर्थमात्मशब्दस्वाप्यय-वचननिर्गुणपदानि गौणे मुख्यानि, उत शुद्ध एव मुख्यानीति । तदर्थं "यस्यानुवित्त’ इत्यादिरात्मनिष्ठस्य मोक्षोपदेश "तमेवैकम्’ इत्युक्तहेयत्वावचनम् "पूर्णमेवावशिष्यते’ इत्युक्तं प्रलयेऽवशिष्यमाणत्वं "सर्वव्यापी केवल’ इत्याद्युक्तसर्वव्यापित्वजडामिश्रत्वादिकं किं गौणात्मनि सम्भवत्युत शुद्ध एव सम्भवतीति । यतस्तदिति । अनेन न च तस्यावाच्यत्वं श्रुत्यभिप्राय इति न्यायविवरणं व्याख्यातं भवति । उपदिदेशेति । विष्णुमिति शेष । तथा च न व्याहतिरिति भाव । न तच्छब्दगोचरमिति युक्तमिति । उपलक्षणं चैतत् । सुधोक्तरीत्या शब्दानां सम्बन्धिनां गवां ज्ञानानां चरश्र्चरणं वृत्तिर्यस्मिंस्तच्छब्दगोचरमिति व्यधिकरणबहुव्रीहित्वं वा चरश्र्चरणमस्यास्तीति मत्वर्थीयाच्प्रत्ययान्तत्वं वाऽऽश्रित्य शब्दगोचरमित्यस्य साधुत्वं द्रष्टव्यम् । ततश्र्च "मनसा सह’ इति श्रुतौ यदज्ञेयत्वमभिप्रेतं तदपि सङ्गृहीतं भवति । अत एवावाच्यत्वादिकत्वाप्रसिद्धत्वादिकवदज्ञेयत्वस्यापि गतिं वक्ष्यति भाष्यकार । सूत्रे वाच्यमित्येव वक्तव्ये नाशब्दमिति वचनम् "द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत’ इति वचनादवधारणार्थमित्यभिप्रेत्योक्तम् । वाच्यमेवेति । प्रत्यक्षत्वाद्यवेद्यत्वे सतीति । आगमाननुसारिप्रत्यक्षादिप्रमित्यविषयत्वे सति प्रमाविषयत्वान्यथानुपपत्त्येत्यर्थ । तेन आगमानुसारिप्रत्यक्षादिवेद्यत्वेन भ्रान्तिवेद्यत्वेन वा न विशेषणा-सिद्ध्यन्यथासिद्धी । आगमानुसारिप्रत्यक्षादिवेद्यत्वं तु वाच्यत्वव्यतिरेकेण न सम्भवतीति भाव । एवमर्थापत्तिपरतया "औपनिषदत्वात्’ इति वाक्यं व्याख्याय परिशेषप्रमाणपरतयापि व्याचष्टे परिशेषप्रमाणेन वेति । यद्यप्यर्थापत्तिपरिशेषयोरनुमानतैव । तथापि तयोर्भेदमभ्युपेत्य वाऽनुमानत्वा-वान्तरभेदमाश्रित्य वा पक्षान्तरोक्ति । प्रमाणेनेति । भ्रान्तेरविद्यानिवर्तकत्वाभावेन प्रमाणाभासेन मोक्षजनकेक्षणासम्भवादिति भाव । "अवचनेन’ इत्येतद्वचनेतरप्रमाणेनेति व्याख्याय प्रकारान्तरेण व्याख्याति वृत्त्यन्तरेति । श्रुतिस्मृती चाहेति । श्रुतावामनन्तीति साक्षाद्वाच्यत्वोक्ते स्मृतौ च "अहमेव’ इत्यवधारणोपपत्तयेऽन्येषाममुख्यतया वेदवेद्यत्वेऽस्यापि मुख्यतया वेदवेद्यत्वस्य विवक्षणीय-त्वात्तस्य च वाच्यत्वं विनाऽयोगात् सर्वशब्दलक्षणायोगाच्च वाच्यत्वसिद्धिरिति भाव ।
भावदीप
॥ ॐ ईक्षतेर्नाऽशब्दं ॐ ॥ ब्रह्मण इति ॥ तथा च तद्ब्रह्मेति श्रौतब्रह्मण श्रुत्यन्तरोक्तेक्षणीय-त्वादिन्यायेन वाच्यत्वसमर्थनान्न्यायग्रथनात्मकशास्त्रेऽन्तर्भावसङ्गतिरित्यर्थ । यद्यपि पूर्वत्र संशब्दोक्तस्य वाच्यत्वस्येव सर्वशास्त्रयोनित्वस्यापि गतिसूत्रे समर्थनमस्ति तथापीहैकस्य प्राधान्यमुपेत्य वाच्यत्वेत्येवोक्तम् । नन्वत्र वाच्यत्वोक्तौ का पूर्वसङ्गति किं च फलमित्यत श्रुत्यधिकरणसङ्गती प्रयोजनं चाह ॥ सकलेति ॥ कारणत्वेनेति ॥ कारणत्वाद्यनन्तगुणत्वेनेत्यर्थ । ननु संशब्देन मुख्यत्वप्रतिज्ञानेऽपि समन्वयादित्युक्तहेतुना कथं तत्सिद्धमित्यत आह ॥ उपक्रमेति ॥ अबाधे सतीत्यपि योज्यम् । तेषां तात्पर्यिलङ्गत्वेन मुख्यत्वावगमकत्वात् । बाधकस्य चेहाशङ्क्य निरसिष्यमाणत्वादिति भाव ॥ वादीति ॥ वाच्यत्वावाच्यत्ववादीत्यर्थ । पूर्वाक्षेपपूर्वं भाष्योक्तपूर्वपक्षं व्यनक्ति ॥ न ब्रह्मण इति ॥ तत्र हेतुत्वेन इत्यादिभिर्न तच्छब्दगोचरमिति भाष्यं व्यनक्ति । यत इति ॥ तद्ब्रह्मेत्यर्थ । अप्राप्य मनसा सहेत्युक्तेरज्ञेयं चेत्यपि ध्येयम् । अवाच्यत्वादज्ञेयत्वाच्च न ब्रह्मणश्शास्त्रमुख्यार्थत्वमित्यर्थ । हेत्वोर-सिद्धिवारणायोक्तमित्यादिश्रुतेरिति । भाष्ये बहुवचनोक्तावपि प्रत्येकं साधकत्वद्योतनाय श्रुतेरित्येक-वचनोक्ति । हेत्वोरप्रयोजकत्वं निराह ॥ न ह्यवाच्यस्येति ॥ अज्ञेयस्य चेत्यपि ज्ञेयम् । व्याघात-प्रसङ्गादिति भाव ॥ अत इति ॥ शास्त्रमुख्यार्थत्वाभावादित्यर्थ ॥ कारणत्वमिति ॥ कारणत्वा-दीत्यर्थ ॥ शब्दादीति ॥ न विद्यते शब्दो यस्येति व्युत्पत्त्येत्यर्थ । अरूपमित्यादौ तु रूपादिराहित्यं रूपादिग्राहकचक्षुराद्यविषयत्वं चेत्यर्थ । महत्त्वसमानाधिकरणोद्भूतरूप वतस्तादृशस्पर्शवतो वा द्रव्यस्य चक्षुरादिविषयत्वात् । एवं चावाच्यत्वमज्ञेयत्वं चोभयं प्राप्तमिति भाव । सूत्रानुगुणत्वादेतद्वाक्योक्तिर्भाष्ये । अत्रावाच्यत्वादेरस्फुटत्वात्पूर्ववाक्योक्ति । ब्रह्मणोऽवाच्यत्वे कथं तद्ब्रह्मेत्याद्युक्तिरित्यतो भाष्येऽवचनेनैव प्रोवाचेत्युक्तं तद्य्वाहतिनिरासाय व्याचष्टे ॥ अवचनेनेति ॥ उपदिदेश । तद्ब्रह्मेत्यर्थ । यदित्येतत्कर्म-कारकमिति भावेनाह ॥ पुरुष इति ॥ अत्रावाच्यत्वाज्ञेयत्वे स्पष्टमुक्ते । गोचरा इन्द्रियार्थाश्चेति गोचरपदस्य पुिंलङ्गत्वात्कथं गोचरमित्युक्तिरित्यत आह ॥ त्रयीति ॥ "स्त्रीशूद्रब्रह्मबन्धूनां त्रयी न श्रुतिगोचरा’ इति प्रथमस्कन्धे प्रयोगादित्यर्थ । उपलक्षणमेतत् । यदि तत्स्यादगोचरमित्यनुव्याख्यान-सुधायामुक्तदिशा शब्दानां गवां ज्ञानानां चरश्चरणं वृत्तिर्यस्मिन् तच्छब्दगोचरमिति व्यधिकरण-बहुव्रीहिमाश्रित्यापि साधुत्वं ध्येयमित्युक्तं चन्द्रिकायाम् । तृतीये ग्रहवृधनिश्चिगमश्चेति सूत्रे घञर्थे कविधानमिति वार्तिकोक्त्या चरते कप्रत्यये चरेति रूपम् । गोचरसञ्चरवहव्रजव्यजापणनिगमाश्चेति सूत्रे मञ्जर्यां रूढशब्दोऽयं तस्य यथाकथञ्चिन्निर्वचनमित्युक्ते । तथा च प्रागुक्तावाच्यत्वाज्ञेयत्वयोर्द्वयोरपि पूर्वपक्षभाष्येऽभिधानं लब्धम् । अप्राप्य मनसा सहेत्यंशोक्तिश्चार्थवतीति ज्ञेयम् । तेनेक्षणीयत्वमप्य-सिद्धमिति शङ्कितुर्भाव । अत एवाग्रे भाष्ये अवाच्यत्वादिकं त्वित्यादिशब्द । एतेन न च तस्यावाच्यत्वं श्रुत्यभिप्राय इति न्यायविवरणेऽज्ञेयत्वमप्युपलक्ष्यं बोध्यम् । अत्र सूत्रे पूर्वसूत्रात्तत्पदमनुवर्त्य तदशब्दमिति योज्यमिति भावेन भाष्ये न तच्छब्दगोचरमित्युक्तम् । श्रुतिप्राप्तं श्रुतितात्पर्याज्ञानप्राप्तमित्यर्थ । न च तस्यावाच्यत्वं श्रुत्यभिप्राय इति न्यायविवरणोक्त्या किन्तु श्रुत्यभिप्रायाज्ञानप्राप्तमिति ध्वनितत्वात् । सूत्रे चावाच्यं नेत्यनुक्त्वा अशब्दं नेत्युक्त्या अशब्दमस्पर्शमित्यादिश्रुत्यर्थाज्ञानप्राप्तमिति लाभादिति भाव । ननु "य पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परं पुरुषभिध्यायीत । स तेजसि सूर्ये सम्पन्नो यथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुक्त स सामभिरुन्नीयते ब्रह्मलोकम् । स एतस्मात्’ इति श्रुतौ स हि ध्याता तं ध्येयं परमेश्वरमपरोक्षीकृत्य तेजसि सूर्ये सम्पन्न सम्प्राप्तो जीर्णत्वङ्मुक्तसर्पवत्प्रारब्धपाप्मना विनिर्मुक्त सामाभिमानिदेवताभि सत्यलोकं नीत स एतस्मात्सत्यलोकपतेर्जीवसाराच्चतुर्मुखादुत्तमोत्तमं सर्वशरीरगं पुरुषमीक्षत इत्यपरोक्षमीक्षणं भाति । तस्य च शब्दाकरणकत्वात्कथं तेन वाच्यत्वादिसिद्धिरित्यत सत्यं सर्वं जीवघनादित्यत्र तदुपदेशेनेति व्याख्यायत इति भावेनाह ॥ जीवोत्तमहिरण्यगर्भोपदेशेनेति ॥ पश्यतीति जानातीत्यर्थ ।
प्रणवेन हरिं ध्यायन् ब्रह्मलोकं समेत्य च ।
ज्ञानं चतुर्मुखात्प्राप्य मुच्यते नात्र संशय ॥
इति षश्नभाष्योक्तेरिति भाव । पश्यतीत्युक्तिस्तु ईक्षदर्शनाङ्कनयोरिति धातोर्दृशि धात्वादेशरूप-पश्यतेर्ज्ञानमात्रार्थत्वमुपेत्येति । भाष्ये आत्मन्यात्मानमिति श्रुति उत्तरसूत्रार्था ईक्षत इति श्रुत्युक्तिश्च सूत्रोपात्तत्वादुभयत्रापि पश्यतेरपरोक्षेऽपि सम्भवात्स्पष्टमपरोक्षार्था विज्ञायेति श्रुति । आत्मनीति श्रुति प्रागेव व्याख्याता । भाष्ये वचनैरित्यस्येक्षणीयत्वे हेतुत्वानुपयोगादीक्षणीयत्वावगतेरित्युक्तम् । एतेन हेतोरसिद्धिरुद्धृता । सूत्रे ईक्षतेरिति धातुनिर्देशमात्रत्वेन तदर्थलक्षणाया ईक्षणादिति लाभात्तस्य चासम्बद्धस्य हेतुत्वायोगाद्योग्यतया पुरुषमीक्षत इति श्रुत्यानुगुण्याच्च क्रियाकर्मभाव इति मत्वेक्षणीयत्वादित्युक्तं भाष्य इति भाव । अशब्दं नेत्यस्य द्वौ नञाविति न्यायलब्धार्थस्योक्तिर्भाष्ये वाच्यमेवेति । तदनुवदन्विशेष्याकाङ्क्षां पूरयति ॥ वाच्यमेव तदिति ॥ पूर्वपक्षभाष्यात्तत्पदमिहानुवर्त्यम् । सूत्रे च पूर्वसूत्रादिति भाव । ननु सूत्रे अशब्दं नेत्यनुक्त्वा पूर्वस्मात्तत्त्वित्यनुवर्त्य ईक्षतेर्वाच्यमित्युक्तावपि तद्ब्रह्म वाच्यं तु वाच्यमेवेति सिध्यतीति चेन्न । तत्पदान्विततुशब्दस्यात्रान्वये सति तत्त्वित्याध्यायसमाप्त्यनुवृत्तिर्न स्यात् । शिष्टं तन्त्रदीपिकायां व्यक्तम् । वाच्यत्वोक्ते फलमाह ॥ अत इति ॥ वाच्यत्वादित्यर्थ । सौत्रहेतोर-प्रयोजकत्वं शङ्कते ॥ नेति ॥ नावचनेनेक्षणमित्येतदर्थमाह ॥ भवेदेतदिति ॥ तत्र हेतुमाह । तस्योक्तेति ॥ शास्त्रयोनिसूत्रोक्तरीत्येत्यर्थ । एवमीक्षणीयत्वाद्वाच्यमेवेति भाष्यमर्थापत्तिपरतया औपनिषदत्वादित्यादिभाष्यं तत्रेक्षणीयत्वे विशेषणार्पकमिति व्याख्यायेदानीमित्यादिवचनैरीक्षणीयत्वा-द्वाच्यमेवेति भाष्यं परिशेषपरतया औपनिषदत्वादित्यादि तु तत्र प्रसक्तप्रतिषेधपरतया व्याचष्टे ॥ परिशेषेत्यादिना साधयतीत्यन्तेन ॥ अर्थापत्तिपरिशेषयोरनुमानत्वेऽप्यवान्तरविशेषात्पृथगुक्ति ॥ श्रूयत इति ॥ इत्यादिवचनैरिति भाष्यं पूर्ववदसिद्धिनिरासकमिति भाव । भाष्यस्थावचनेनेत्यस्यार्थो वचनेतरेति । वचनवृत्त्यन्येनेत्यर्थान्तरं चाह ॥ वृत्त्यन्तरेति ॥ उपस्थिते हि लक्षणादिर्वाच्य । औपनिषदस्योपस्थितिश्च शब्देनैव । तत्रापि लक्षणादिश्चेत्तत्रापि लक्ष्योपस्थित्यर्थं शब्दान्तरमित्यनवस्थापत्तेरिति भाव । स्वप्रकाश-तया सिद्धे ब्रह्मणि शब्दानां लक्षणेति तु सूर्यदर्शने दीपस्येव वैयर्थ्यादयुक्तम् । विवरिष्यते चैतदग्रे ।
इत्यादिश्रुतिस्मृतिभ्यश्चेति भाष्ये वाच्यमेवेति साध्यस्यान्वयात्सूत्रोक्तेक्षणीयत्वयुक्तिसहायत्वेन श्रुत्याद्युक्तौ बीजमाह ॥ नन्विति ॥ तेषु त्रिष्विति ॥ प्रत्यक्षानुमानागमेषु मध्ये आगमस्य प्राबल्यं जात्यैवोत्सर्गेणैव स्मृतमिति तत्वनिर्णयोक्तेरित्यर्थ ॥ इत्यत इति ॥ एतेन सर्वे वेदा यत्पदमामनन्तीति श्रुतिसहितानुभवस्य बलवत्त्वादिति न्यायविवरणे साहित्योक्तरुक्तप्रयोजना ॥ श्रुतिस्मृती चाहेति ॥ भाष्ये अथ कस्मादुच्यते ब्रह्मेति नामानि सर्वाणि यमाविशन्तीति वचसां वाच्यमुत्तममित्यादीनां बहुत्वेन बहुवचनोक्तावप्युपात्तं तु श्रुतिस्मृतिरूपं द्वयमेवेति भावेन द्विवचनोक्ति । श्रुतावाप्रयोगेण साक्षादेव वाच्यत्वस्य स्मृतौ चाहमेवेत्यवधारणलब्धमुख्यमेववेद्यत्वाद्यन्यथानुपपत्त्या च वाच्यत्वस्य सिद्धेरिति भाव । सूत्रे श्रुत्याद्यनुक्त्वा ईक्षणीयत्वयुक्त्युक्तिस्तु पूर्वपक्ष्यक्तश्रुत्यादिप्रतिरुद्धत्वेन स्वतोऽनिर्णायकत्वा-त्तदनुग्राहकत्वेनेति बोध्यम् ।
अभिनवचन्द्रिका
ईक्षतेरिति धातुनिर्देश । न चाऽविविक्षितार्थशब्दमात्रं ब्रह्मणो वाच्यत्वे हेतुर्भवितुमर्हतीति तदर्थोऽनेन लक्ष्यते । न च ब्रह्मासम्बन्धीक्षणमप्यत्र हेतुर्भवति । अतिप्रसङ्गात् । सम्बन्धश्र्च न कर्तृत्वादिरूप श्रुत्यननुगमात् । विपक्षे बाधकाभावप्रसङ्गाच्च । अत ईक्षणं ब्रह्मकर्मकमेव हेतुत्वेन वाच्यम् । न चैतदपि युक्तम् व्यधिकरणत्वात् । तस्मादीक्षणकर्मत्वमेव हेतुतया विवक्षितम् । इममेवाभिप्रायं मनसि निधाय "ईक्षणीयत्वतो विष्णुर्वाच्य एवे’(अनुव्या.१-१-५)त्युक्तम् । ततश्र्चैवं सूत्रयोजना न विद्यते वाचक शब्दो यस्य तत् अशब्दम् । ईक्षणकर्मत्वाद्ब्रह्म अशब्दम् अवाच्यं न, किन्तु वाच्यमेवेति । वाच्यमिति वक्तव्ये "नाशब्द’मिति वचनं तु "द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत’ इति न्यायात् अवधारणार्थम् । यद्यप्येक एव नञ् प्रकृतमर्थं सातिशयं गमयति, अपरस्तु प्रकृतार्थाभावं गमयतीति "नञुत्तरो नञ् प्रकृतमर्थं गमयती’ति वक्तव्यं तथापि छत्रिन्यायेन तथोक्तमिति ध्येयम् ।
अन्तर्भेदाधिकरणमिदम् । वाच्यत्वसमर्थनपरेऽस्मिन्नधिकरणे "गतिसामान्या’(१-१-१०)दिति अप्रसिद्धशाखाप्रतिपाद्यत्वस्य समर्थनात् । यद्यपि इदमपि "गतिसामान्या’दिति सूत्रं पूर्वाधिकरण एव निवेशनीयम्, तथापि शास्त्रीयप्रमेयस्य बहुवारं स्मृते फलातिशयहेतुत्वात् सिंहावलोकनन्यायमवष्टभ्य इहाधिकरणे प्रवेशितम् । तदुक्तं "बहुवारं स्मृतेस्तस्य फलबाहुल्यकारणा’दिति । ननु वाच्यत्वसमर्थनमेव कुत इत्यत तस्यावश्यकत्वं वक्तुमुपक्रमते सकलजगदिति ॥ सकलजगज्जन्मादिकारणत्वेन ब्रह्मैव सकलशास्त्रान्तर्गतपदानां वचनवृत्त्या लभ्योऽर्थ इत्यभिहितमित्यर्थ । अत्र टीकायामित परं श्रूयमाणम् । "उपक्रमादिभिर्निर्णीतस्य मुख्यार्थत्वा’दिति वाक्यं प्रक्षिप्तम् । अवश्यं चैतदेवं विज्ञेयम्, "शास्त्रमुख्यार्थ इत्यभिहित’मित्यस्य हेत्वाकाङ्क्षाविधुरत्वेन तस्याऽवक्तव्यत्वात् । न हि पूर्वाधिकरणनिर्णीतप्रमेयानुवादावसरे हेत्वाकाङ्क्षा भवति । अन्यथा अधिकरणान्तरेषु सङ्गतिप्रदर्शनाय वृत्तानुवादवेलायां हेत्वाकाङ्क्षा भवति ।
तन्निवृत्तये हेत्वभिधानं च स्यात् । उपक्रमादीनां तात्पर्यसाधकत्वेऽपि शक्तिसाधकत्वाभावाच्च । तच्चेति ॥ वृत्त्या लभ्यार्थत्वं वाच्यत्व एव सम्भवति न तु सर्वथा केनाप्यवाच्यत्वे । पदशक्त्यविषयस्य शक्तिलभ्यार्थत्वासम्भवात् वाच्यत्वं समर्थनीयमिति भाव । तन्मुख्यत इति ॥ नन्वत्राधिकरणे ब्रह्मणो वाच्यत्वसमर्थनात्, ब्रह्म विषय वाच्यमवाच्यं वेति संदेह इति वक्तव्यं, न तु तन्मुख्यत शास्त्रयोनित्वं विषय ब्रह्मणो युक्तमयुक्तं वेति संदेह इति । साध्यसंदेहस्यानुमानाङ्गत्वेन तस्यैव दर्शनीयत्वात् । शास्त्रयोनित्वस्य सिद्धान्तफलत्वेनासाध्यत्वादिति चेत्, सत्यमिह तथैव वक्तव्यम्, तथापि सर्वेष्वप्याक्षेपकाधिकरणेषु तदधिकरणसंशयस्याऽऽक्षेप्याधिकरणप्रमेयसंशयपर्यवसन्नतेति सूचनाय तथोक्तमिति । भाष्ये "नन्वित्यारभ्य न तच्छब्दगोचर’मित्यन्तं वाक्यं पूर्वपक्षप्रदर्शकम्, "नेत्याहे’ति तु सिद्धान्तप्रदर्शकमिति ज्ञापनाय प्रथमवाक्यमवतारयति तत्र पूर्वपक्षयतीति ॥ एतेन नन्वित्यनेन पूर्वपक्षस्य स्पष्टं प्रतिभासात् तत्र पूर्वपक्षयतीत्यवतारिका अनुपपन्नेति परास्तम् । न ह्यवाच्यस्येति ॥
केनापि पदेनावाच्यस्य शक्तिबललभ्यशास्त्रार्थत्वं नास्तीति हि प्रसिद्धमित्यर्थ । अत इति ॥ यस्मादवाच्यमेव ब्रह्म अतस्तस्यकारणादिपदशक्तिबलेन शास्त्रोक्तं कारणत्वं न सम्भवति कारणपदावाच्यस्य कारणत्वासम्भवात् । अन्यथा गङ्गापदावाच्यस्यापि तीरस्य गङ्गात्वप्रसङ्गादिति भाव । ननु कारणपदावाच्यत्वादकारणमित्ययुक्तम् । कारणपदावाच्यस्यापि कारणत्वे प्रमाणसद्भावेन स्वीकर्तव्यत्वात्, गङ्गापदावाच्यस्य गङ्गात्वाभावस्तु प्रमाणाभावादेव । अन्यथा अशब्दपदोक्तमशब्दत्वं न स्यात् यदि "यतो वाच’ (तै.उ.२०) इत्यादि प्रमाणबलात् अशब्दपदावाच्यस्यापि अशब्दत्वसिद्धि, तर्हि "यतो वा इमानि भूतानी’ति वाक्यबलात् कारणपदावाच्यस्यापि कारणत्वसिद्धिरस्त्विति चेत् लक्षणया समन्वयवादिनामशब्दपदावाच्यस्यापि प्रमाणबलेन अशब्दत्वसिद्धिसम्भवेऽपि त्वन्मते कारणपदावाच्यस्य न कारणत्वसिद्धि । लक्षणया समन्वयस्य त्वयाऽनङ्गीकारात् । अवाच्ये मुख्यसमन्वयस्याप्यभावेन त्वन्मते जगत्कारणत्वे प्रमाणवैधुर्यस्यैव प्राप्ते । न च प्रमाणबलात् अशब्दपदप्रवृत्तिनिमित्तसद्भावे तच्छब्दवाच्यत्वमवर्जनीयमिति वाच्यम् । प्रमाणबलेन तत्तच्छब्दप्रवृत्तिनिमित्तसद्भावेऽपि श्रुत्या वाच्यत्वस्य निषिद्धत्वेन तस्यानंगीकर्तव्यत्वात् । ननु ब्रह्मणो वाच्यत्वाभावे "यतो वाचो निवर्तन्ते’ (तै.उ.२) इत्यादिश्रुतिप्रतिपाद्यत्वाभावेन तस्यावाच्यत्वं न सिध्येदिति शंकापरिहारार्थं भाष्ये प्रवृत्तं "अवचनेने’ति वाक्यं व्याचष्टे अवचनेनेति ॥ ब्रह्मणोऽवाच्यत्वसमर्थनाय भाष्योदाहृतं "यच्छोत्रेणे’ति वाक्यं व्याचष्टे यच्छ्रोत्रेणेति ॥ "न श़ृणोती’त्यत्र अयमित्यनुक्ते ब्रह्मेति प्रतीति निरासायाह पुरुष इति ॥ ततश्र्चैवं योजना । पुरुष यद्बह्म श्रोत्रेण न श़ृणोति यद्वाचकं शब्दं न श़ृणोतीत्यर्थ । श्रोत्रशब्दार्थमाह श्रुति येन श्रोत्रमिति ॥ येन कारणेन इदं शब्दजातं श्रोत्रेण श्रुतं तेन निमित्तेन इदं श्रोत्रमुच्यते । शब्दग्राहित्वं श्रोत्रशब्दप्रवृत्तिनिमित्तमिति भाव । ननु "रोपध’ (५५) इति लिङ्गानुशासनसूत्रेण गोचरशब्दस्य पुिंलङ्गत्वविधानात् "न तच्छब्दगोचर’मित्यनुपपन्नम् । न च अस्य प्रयोगस्यार्षत्वान्नपुंसकत्वमुपपन्नमिति वाच्यम् । आर्षग्रन्थेषु नपुंसकत्वेन प्रयोगाभावादित्यत आह त्रयीति ॥ नपुंसकत्वेन प्रयोगाभावेऽपि विशेष्यिलङ्गतया प्रयोगस्य विद्यमानत्वा दार्षप्रयोगस्यानियतिलङ्गत्वं सिद्धमिति भाव ॥ ईक्षणीयत्वावगतेरिति ॥ "स एतस्मा’दित्यादि-श्रुतिसिद्धशब्दजन्यापरोक्षज्ञानविषयत्वान्यथानुपपत्त्या ब्रह्म वाच्यमेवेत्यर्थ । अत्र शब्दस्यापरोक्ष-ज्ञानजनकत्वं च तज्जनकेन्द्रियसहकारित्वमेव न साक्षादिति बोध्यम् । यद्यपि शब्दविषयत्वमात्रेणैव वाच्यत्वसाधनमुचितं परेणापि "यतो वाचो निवर्तन्त’ इत्यादिश्रुतिविषयत्वस्याङ्गीकृतत्वेनाऽसिद्धि-शङ्कानुदयात्, तथापि शिष्यबुद्धिशुद्धये मीमांसाप्रवृत्त्यर्थं "स एतस्मा’दि त्यादिश्रुतिसिद्धमीक्षणविशेषकर्मत्वं हेतुत्वेनोपात्तम् । ननु ईक्षणीयत्ववाच्यत्वयो व्याप्तिसद्भावात् धूमादिना वह्न्यादिसाधनमिव, ईक्षणीयत्वेन लिङ्गेन वाच्यत्वसाधनमुचितम्, न त्वर्थापत्तिविधया । यत्र हि नात्यन्तकी व्याप्ति तत्रार्थापत्तिविधया गमकत्वमङ्गीकरणीयम् । तद्यथा पीनत्वं यस्य रात्रिभोजनमन्तराऽनुपपद्यमानं तस्यैव रात्रिभोजनं कल्पयति, न तु दिवा भुंजानस्य । योगिनो वा रोगिणो वा दिवा भोजनादिनैवोपपन्नत्वेन अन्यथानु-पपत्तेरभावादिति चेत्, सत्यम् तथापि ईक्षणीयत्ववाच्यत्वयोर्व्याप्ते परेणानङ्गीकारात् अर्थापत्तिविधया गमकत्वमुक्तम् । ईक्षणमात्रं हेतुत्वेन सूत्रकृतोक्तमिति मन्यमान शङ्कते नेक्षणीयत्वान्यथानुपपत्त्येति ॥ कुतो न वाच्यमित्यत आह ईक्षणस्येति ॥ ऐन्द्रियकत्वे केवलप्रत्यक्षेण अतीन्द्रियत्वे अनुमानोपनीत-प्रत्यक्षेण वा ईक्षणस्य सम्भवात् वाच्यत्वमन्तराऽप्युपपन्नस्य न वाच्यत्वसाधकत्वमिति भाव । भवेदेत-दिति ॥ यदि ब्रह्मविषयकमीक्षणं केवलप्रत्यक्षेण, अनुमानोपनीतप्रत्यक्षेण वा । उपपन्नं भवेत् तदैव वाच्यतां न साधयेत् । नैतदस्तीत्यर्थ । कुतो नेत्यत आह तस्योक्तरीत्येति ॥ नन्वस्तु आगमसहकृत-प्रत्यक्षजन्येक्षणस्य वाच्यत्वसाधकत्वं, सूत्रोक्तेक्षणस्य अन्यथोपपन्नत्वेन न वाच्यत्वासाधकत्वमित्यत आह तथा चेति ॥ सूत्रकृता शब्दसहकृतप्रत्यक्षजन्येक्षणमेव हेतुत्वेन विवक्षितं नेक्षणमात्रमिति भाव । परिशेषप्रमाणेन वेति ॥ परिशेषप्रमाणसिद्धेनेक्षणेन अत्र सूत्रे वाच्यत्वं साध्यत इत्यर्थ । पूर्वं "स एतस्मा’ (प्र.उ.)दित्यादिश्रुत्यैव शब्दसहकृतप्रत्यक्षजन्येक्षणं सिद्धमित्यभिप्रेत्य तदन्यथानुपपत्त्या वाच्यत्वं साध्यत इत्युक्तम्, इदानीं तु श्रुत्या ईक्षणमात्रं सिद्धं परिशेषेण तु तस्मिन्नीक्षणे शब्दसहकृतप्रत्यक्षजन्यत्वरूपविशेष सिध्यति । एवं च श्रुतिपरिशेषसिद्धविशिष्टेक्षणान्यथानुपपत्त्या वाच्यत्वं साध्यत इत्युच्यत इति भेद । एतेन "परिशेषप्रमाणेन वा अत्र वाच्यत्वं साध्यत’ इत्ययुक्तम्, "वचनेनेक्षणं च अवाच्ये वृत्त्यन्तरायोगेने’ति ईक्षणीयत्वार्थं पराभ्युपगतलक्षणान्यथानुपपत्त्या वाच्यत्वसिद्धेर्वक्ष्यमाणत्वेनोत्तरग्रन्थविरोधात्, ईक्षतेरिति सूत्रोक्तेक्षणहेतुत्वपरित्यागप्रसङ्गाच्चेति परास्तम् । परिशेषसिद्धेनेक्षणेन वाच्यत्वसिद्धेरिहाभिमतत्वात् । परिशेषमेव दर्शयति ईक्षणं च प्रमाणेन भवेदित्यादिना ॥ अत्र ईक्षणसाधनानि त्रीणि प्रमाणानि प्रसक्तानि । केवलं प्रत्यक्षं, अनुमानसहकृतम् आगमसहकृतं चेति । तत्र केवलं अनुमानसहकृतं प्रत्यक्षं वा न सम्भवति । परमेश्र्वरस्य औपनिषदत्वेन तदयोग्यत्वात् । परिशेषाच्छब्दसहकृतप्रत्यक्षमेव परमेश्र्वरेक्षणजनकत्वेन सिद्धमिति भाव । परिशेषसिद्धि-फलमाह वचनेनेक्षणं चेति । परिशेषात्सिद्धं वचनेन जन्यमीक्षणं शब्दानां ब्रह्मणि लक्षणावृत्ति-स्वीकारेऽपि वाच्यत्वं साधयति । अवाच्ये लक्षणादिरूपवृत्त्यन्तरायोगादिति भाव । श्रुतिस्मृती चाहेति ॥ ईक्षतिशब्दार्थत्वेन श्रुतिस्मृती चाहेत्यर्थ । एतेन श्रुतिसिद्धस्य अवाच्यत्वस्य युक्तिमात्रेण दूषणमनुपपन्नमित्याशङ्काया भाष्यकारीयश्रुतिस्मृत्युदाहरणेनाऽपरिहारात् । तदुदाहरणमयुक्तम् । न हि अन्यस्य प्रमेयसिद्धये दुर्बलप्रमाणोदाहरणमयुक्तमिति शङ्काप्राप्तौ तदन्यनेन केनचित्प्रबलप्रमाणोदाहरण-मुपयुज्यते, येन भाष्यकारीयं तदुदाहरणं युक्तं स्यादिति परास्तम् । ईक्षतेरिति धातुनिर्देशस्य ईक्षणीयत्वोप-लक्षकत्ववत् श्रुतिस्मृत्युपलक्षकत्वस्य इहाभिमतत्वात् । भाष्ये सर्वे वेदा यत्पदमामनन्तीति ॥ सर्वे वेदा, नामानि सर्वाणीत्येवमादय वाच्यत्वादिप्रतिपादका यावन्तो वेदा ते सर्वे यत्स्वरूपमामनन्ति । ननु तपप्रतिपादकानां वेदानां न भगवत्परत्वमिति सर्वेषां वेदानां भगवत्परत्वमयुक्तमिति शङ्कापनोदा-योक्तम् तपांसीति ॥ तपप्रतिपादकत्वेनाभिमता यावन्तो वेदा ते सर्वेऽपि सर्वाणि तपांसि यत्प्रति वदन्ति । उपलक्षणमेतत् । "न सुरां पिबे’दित्येवमादयो भगवत्प्रीतिमुद्दिश्य सुरापाननिषेधं कुर्वन्तीत्यादिकमूह्यम् । वाच्यत्वादिप्रतिपादकै सर्वैरपि वेदैरहमेव वेद्य इत्यर्थ । एतेन उदाहृत-श्रुतिस्मृत्यो वेदानां भगवत्परत्वाभिधायकत्वेऽपि वाच्यत्वाभिधायकत्वाभावात्तदुदाहरणमयुक्तमिति परास्तम् । साक्षाद्वाच्यत्वाभिधायकत्वाभावेऽपि सर्वेषां भगवत्परत्वोक्तौ "नामानी’त्यादिश्रुतीनामपि भगवत्परत्वप्राप्त्या वाच्यत्वस्यापि सिद्धे । न हि "नामानी’त्यादिवाक्यं भगवत्परं तदर्थञ्च वाच्यत्वं न भगवत इति सम्भवति । येन श्रुतिस्मृत्युदाहरणमसंगतं स्यात् ।
वाक्यार्थमुक्तावली
ॐ इक्षतेर्नाशब्दं ॐ ॥ अत्र सर्वे वेदा यत्पदमामनन्तीत्यादिब्रह्मप्रतिपादकश्रुत्यर्थभूतस्य ब्रह्मण-स्सर्ववेदमुख्यप्रतिपाद्यत्वस्य निर्णयाङ्गन्यायानुसन्धानस्य क्रियमाणत्वाच्छास्त्रसङ्गतिरित्याह । अत्रेति । शास्त्रमुख्यार्थत्वसिद्धय इति शेष । वाच्यत्वेत्युपलक्षणम् । सर्वशास्त्रप्रतिपाद्यत्वेत्यपि ग्राह्यम् । वेदमुख्यार्थत्वोपपादकवाच्यत्वसमर्थनपरसूत्राणामिव सकलवेदार्थत्वसमर्थनपरस्य गति सामान्यसूत्रस्याप्यत्र विद्यमानत्वात् ।
ननु तर्हि प्रमेयद्वयप्रतिपादनेऽधिकरणभेदप्रसङ्ग इति चेन्न । उभयोरपि पूर्वसूत्रीयसंशब्दार्थत्वेनैकत्व-विवक्षयैकाधिकरणत्वात् । अत एवाधिकरणान्तरत्वप्रतीतिनिरासाय गतिसूत्रस्य मध्ये निवेश । अधिकरणादिसङ्गतिं दर्शयति सकलेति ॥ शास्त्रेति ॥ सर्वशास्त्रेत्यर्थ । अभिहितमिति । संशब्देनेति शेष । आर्थिकी तत्सिद्धिरित्याह ॥ उपक्रमादिति ॥ युक्तमयुक्तं वेति । अत्र सकलवेदमुख्यार्थत्वं ब्रह्मण किमयुक्तमुत युक्तमिति चिन्ता । तदर्थं तस्य वाच्यत्वं नास्त्युतास्तीति । तदर्थं ब्रह्मणो वाच्यत्वसाधकप्रमा नास्त्युतास्तीति । तदर्थं प्रमाणतयोपन्यस्यमानमीक्षणीयत्वं पूर्णमद इति श्रुत्युक्तत्वं च किं जीवाख्यगौणस्योत ब्रह्मण इति । तदर्थं ईक्षणीये श्रुतात्मशब्द पूर्णमद इत्यत्रोक्तस्वप्यय किं गौणे मुख्य उत शुद्ध एव मुख्य इति । तदर्थं यस्यानुवित्त इत्यादेरात्मनिष्ठस्य मोक्षोपदेशस्य तमैवैकमित्युक्ते हेयत्वावचनस्य च पूर्णमेवावशिष्यत इत्युक्तस्य प्रलयेऽवशेषस्य च किं गौणे सम्भव उत शुद्ध एव सम्भव इति । एतत्सर्वनिर्वाहार्थं निर्गुणस्यावाच्यत्वश्रुतिबाधकं वाच्यत्वसाधकमुपपत्तिनिरपेक्षं स्पष्टं प्रमाणं नास्त्युतास्तीति । हेतोरप्रयोजकत्वं परिहरति ॥ न ह्यवाच्यस्येति ॥ भाष्ये अप्राप्य मनसा सहेत्यंशोदाहरणं तु सिद्धान्त्यभिमतवाच्यत्वसाधकेक्षणीयत्वहेतोरसिद्धिव्युत्पादनाय । अत एवावाच्यत्वादिकं त्वप्रसिद्धत्वादित्यत्राज्ञेयत्वस्यापि गतिं वक्ष्यति । अशब्दमित्यादे प्रकृतोपयुक्तमर्थ-द्वयमाह अशब्दमित्यादेरिति ॥ शब्दादिगुणशून्यमिति ॥ तथा चायमर्थ । वचनवृत्ति खलु गुणादि-योगनिमित्ता । तस्य च निर्गुणत्वान्न तत्र वचनवृत्तिरिति भाव । अथवा शब्दादिगुणशून्यतया श्रोत्राद्यग्राह्यत्वादज्ञेयत्वं तस्येति भाव ॥ तदविषयश्र्चेति ॥ अशब्दमित्यस्य शब्दाविषय इत्यर्थ । अशब्दमित्यादे शब्दादिग्राहकश्रोत्राद्यविषय इत्यर्थ । नन्वौपनिषद पुरुष इति वाच्यत्वस्य श्रुतत्वात्कथमवाच्यत्वमित्यत प्राप्तमवचनेनैव प्रोवाचेत्यंशं व्याचष्टे वचनवृत्तिमिति ॥ उक्तं च सुधायाम् । औपनिषदत्वं तु लक्षणया वृत्त्या सम्भवान्न वाच्यतामपेक्ष्यत इति । यद्वाचानभ्युदितमित्यस्य यद्यद्वाचकं शब्दतत्वं वा वाचा इन्द्रियेण न व्यवहृतमिति वा यद् ब्रह्म वाचा वेदवाचा अनभिहितमिति वार्थ । यच्छोत्रेणेत्यत्र यद्यद्विषयं शब्दमित्यर्थ । यद्वा तस्य लौकिकशब्दगुणशून्यत्वादलौकिकशब्दगुणस्य श्रोत्राविषयत्वमित्यर्थ ।
ननु गोचरा इन्द्रियार्था स्युरित्यभिधानात् कथं गोचरमिति नपुंसकिलङ्गप्रयोग इत्यत आह त्रयीति । सूत्रे ईक्षतेरिति धातुनिर्देश । तेन तदर्थभूतमीक्षणं लक्ष्यते । न च ब्रह्मसम्बन्धीक्षणं तस्य वाच्यत्व-साधकमित्यत ईक्षणकर्मत्वमेव हेतुतया विवक्षितम् । तदित्यनुवर्तते । न विद्यते शब्दो वाचको यस्य तदशब्दमवाच्यं न । नाशब्दमिति वचनं द्वौ नयौ प्रकृतमर्थं सातिशयं गमयत इत्यतो वाच्य-मेवेत्यवधारणार्थमित्यभिप्रेत्य स एतस्मादित्यादिभाष्यं प्रवृत्तमिति भावेन व्याचष्टे । स प्रणवोपासक इत्यादिना ॥ य पुनरेतं त्रिमात्रेणोमित्यनेनाक्षरेण परं पुरुषमिभिध्यायीतेति षश्ने पूर्ववाक्ये प्रणवोपासकस्य प्रकृतत्वादिति भाव । उत्तमाज्जीवघनाच्चतुर्मुखादपि परं पुरिशयं पुरुषमीक्षत इति परकृतापव्याख्याननिरासाय व्याचष्टे जीवोत्तमहिरण्यगर्भोपदेशेनेति ।
पश्यत्यपरोक्षतो जानाति । अपरोक्षस्य शब्दाकरणत्वेऽपि शब्दजन्यपरोक्षज्ञानोपासनाद्वारकत्वात् उपदेशेन पश्यतीति युज्यते । विज्ञाय प्रज्ञां कुर्वीतेत्येतत्समानार्थकत्वात् । आत्मन्येवात्मानमित्यत्र ह्युपदेशेनेति योज्यम् । ईक्षणस्य शब्दसम्बन्धाभावे तेन वाच्यत्वनिर्णयायोगादिति ॥ वाच्यमेवेति ॥ यद्यपि तत्त्वित्यनुवृत्तावधारणं स्वत एव भवति । तदर्थं नञ्द्वयं न प्रयोक्तव्यं तथापि तत्पदान्विततु-शब्दस्याध्यायपरिसमाप्तिपर्यन्तं धर्म्यन्वितत्वेन साध्यान्वितत्वाभावात् । अत्र तद्ब्रह्म वाच्यमेवेत्यन्वये तद्भङ्गभयेन पुनरवधारणस्यापेक्षितत्वादिति । प्रत्यक्षादिनापीति । आगमाननुगृहीतप्रत्यक्षादिनेत्यर्थ । सिद्धान्तिनोऽपि प्रात्यक्षिकेक्षणस्याङ्गीकृतत्वात् । प्रत्यक्षाद्यवेद्यत्वे सतीति । श्रुत्यननुसारिप्रत्यक्षादि-प्रमित्यविषयत्वे सति प्रमाविषयत्वान्यथानुपपत्येत्यर्थ । तेनागमानुसारिप्रत्यक्षादिवेद्यत्वेन भ्रान्तिवेद्यत्वेन वा विशेषेणासिध्यन्यथासिध्यो निरास । आगमानुसारिप्रत्यक्षादिवेद्यत्वं तु वाच्यत्वव्यतिरेकेण न सम्भवतीति भाव । एवमीक्षणीयत्वादिति वाक्यमर्थापत्तिपरतया औपनिषदत्वादिति वाक्यं तत्रेक्षणीयत्वे विशेषणार्पकतया व्याख्यायेदानीं प्रथमं वाक्यं परिशेषपरतया द्वितीयं प्रसक्तिप्रतिषेधपरतया व्याचष्टे ॥ परिशेषेत्यादिना साधयतीत्यन्तेन । भ्रान्तेरविद्यानिवर्तकत्वाभावेन प्रमाणेन मोक्षजनकेक्षणासम्भवादिति भाव । वचनेतरप्रमाणेनेति वचनाननुगृहीतप्रमाणेनेत्यर्थ । अवचनेत्येतत् प्रकारान्तरेण व्याख्याति ॥ वृत्यन्तरेति ॥ श्रुतिस्मृती चाहेति । एतेन श्रुतिस्मृतिभ्यश्र्चेत्यस्य वाच्यमेवेत्यनेनान्वयं सूचयति । श्रुतिस्मृतीनामादिपदोपात्तानां बहुत्वेऽपि जातिविवक्षया टीकायां द्विवचनम् । तपांसीत्यत्र वेदा इति श्रुतावाप्रयोगेन साक्षादेव वाच्यस्य स्मृतौ चाहमेवेत्यवधारणलब्धमुख्यवेद्यत्वान्यथानुपपत्त्या च वाच्यत्वसिद्धिरिति भाव । सूत्रे श्रुत्याद्यनुक्तेक्षणीयत्वयुक्तिस्तु सर्वे वेदा इत्यादेरेव विषयवाक्यत्वेन पूर्वपक्ष्युक्तश्रुतिप्रतिरुद्धत्वेन स्वतो निर्णायकत्वात् तदनुग्राहकत्वेनेति बोध्यम् ।
तत्त्वसुबोधिनी
ॐ ईक्षतेर्नाशब्दम् ॐ ॥ वाच्यत्वसमर्थनादिति । उपलक्षणमेतत् । सकलशास्त्रप्रतिपाद्यत्व-समर्थनादित्यपि द्रष्टव्यम् । आद्यसूत्रे ब्रह्मशब्देन जीवादिव्यावर्तकगुणपूर्तिलक्षणत्वेन सूचयित्वा द्वितीये तस्य गुणपूर्तिवाचितासिद्धये जीवपरतानिरासाय कारणता जिज्ञास्यब्रह्मलक्षणत्वेनोक्ता । तृतीये पूर्तिकारणतयोरतिव्याप्तिपरिहाराय तत्र शास्त्रं प्रमाणीकृत्य चतुर्थे तयो विष्ण्वेकनिष्ठत्वाय शास्त्रस्यान्यपरतां निषिध्य सर्वशास्त्रशब्दप्रवृत्तिनिमित्तसर्वगुणसिद्धये वचनवृत्त्या सर्वशास्त्रतात्पर्यविषयतायां चोक्तायां संशब्दार्थस्य वाच्यत्वस्य कार्त्स्नस्य च इहाक्षिप्य समाधानादनन्तरसङ्गति । एवं वाच्यत्वोपपादकेऽ-स्मिन्नधिकरणे सकलवेदार्थत्वसमर्थनपरस्य गतिसूत्रस्यान्तर्भाव संशब्दार्थाक्षेपसमाधानरूपत्वज्ञापनार्थमेव कृत । पृथक्करणे तु वाच्यत्वसमर्थनपरत्वाभावादधिकरणान्तरत्वप्रतीतिप्रसङ्गादिति भाव । ननु रुद्रादि-शब्दयुक्तवेदवाक्येषु उपक्रमादिलिङ्गबलाद्विष्णुरेव प्रतिपाद्य इत्युक्तम् । न तु विष्णो वेदमुख्यार्थत्वं यत्सिद्ध्यर्थं वाच्यत्वसमर्थनं सङ्गतं स्यात् इत्यत आह ॥ उपक्रमादिभिरिति ॥ उपलक्षणं चैतत् । सुधोक्तरीत्या संशब्देन विष्णो मुख्यार्थत्वस्याप्युक्तत्वादिति बोध्यम् । शब्दवाच्यत्वेऽपि न शास्त्रमुख्यार्थत्वमित्यत आह ॥ न हीति ॥ उपदिदेशेति । विष्णुमिति शेष । तथा च न व्याहतिरिति भाव । न तच्छब्दगोचरमिति युक्तमिति । उपलक्षणं चैतत् । सुधोक्तरीत्या शब्दानां गवां ज्ञानानां चरश्र्चरणं वृत्ति यस्मिन् तच्छब्दगोचरमिति व्यधिकरणबहुव्रीहित्वं वा चरश्र्चरणमस्यास्तीति मत्वर्थीयाच्प्रत्ययान्तत्वं वाश्रित्य शब्दगोचरमित्यस्य साधुत्वं द्रष्टव्यम् । ततश्र्च यतो वाचो इत्यादिश्रुतौ मनसा सहेत्यदृश्यत्वस्यापि उक्तत्वात् ईक्षणीयत्वम् असिद्धमिति पूर्वपक्षस्याभिप्राय । सूत्रे वाच्यमित्येव वक्तव्ये नाशब्दमिति वचनं द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत इति वचनात् अवधारणार्थम् इत्यभिप्रेत्योक्तं वाच्यमेवेति ॥ प्रत्यक्षाद्यवेद्यत्वे सतीति ॥ आगमाननुसारिप्रत्यक्षादिप्रमित्यविषयत्वे सति प्रमाविषयत्वान्यथानुपपत्तेत्यर्थ । तेनागमानुसारिप्रत्यक्षादिवेद्यत्वात् भ्रान्तिविषयत्वाद्वा न विशेषणा-सिध्यन्यथासिद्धी । आगमानुसारिप्रत्यक्षादिवेद्यत्वन्तु वाच्यत्वव्यतिरेकेणासम्भवीति भाव । "औपनिषद-त्वात्’ इति वाक्यं पूर्वमर्थापत्तिपरतया व्याख्यातम् इदानीं परिशेषप्रमाणपरतया व्याचष्टे । परिशेषप्रमाणेन वेति । यद्यपि स्वमते अर्थापत्तिपरिशेषयो अनुमानता । तथापि तयो भेदमुपेत्य वा अनुमानत्वा-वान्तरभेदमाश्रित्य वा पक्षान्तरोक्ति ॥ प्रमाणेनेति ॥ भ्रान्ते अविद्यानिवर्तकत्वाभावेन प्रमाणाभासेन मोक्षजनकेक्षणासम्भवादिति भाव । अवचनेन इत्येतद्वचनेतरप्रमाणेनेति व्याख्याय प्रकारान्तरेण व्याख्याति ॥ वृत्त्यन्तरायोगेनेति ॥ न च ईक्षणकर्मत्वरूपम् ईक्षणीयत्वं कथं सूत्रलब्धम् इति वाच्यम् । अन्यथानुपपत्त्यैव तस्य लाभात् । तथाहि । ईक्षतेरिति धातुनिर्देश । तत्राविवक्षितशब्दमात्रे वाच्यत्वे हेतुत्वासम्भवात् तदर्थम् ईक्षणरूपोऽनेन लक्ष्यते । तथा चासम्बद्धस्यान्यसम्बन्धिनो वा ईक्षणस्य हेतुत्वासम्भवात् ब्रह्मसम्बन्धिन एव तस्य हेतुत्वं वक्तव्यम् । सम्बन्धश्र्च न कर्तृत्वादिरूप श्रुत्यननुगमात् वाच्यत्वसाधकत्वाभावाच्च । तथा चेक्षणं ब्रह्मकर्मकमेव हेतुत्वेन वाच्यम् । तदपि न युक्तम् । तथात्वे ब्रह्म वाच्यं तत्कर्मकेक्षणादिति वैय्यधिकरण्यं स्यात् । ईक्षणकर्मत्वमेव वाच्यत्वे हेतुतया विवक्षितमित्यन्यथानुपपत्त्या ईक्षणीयत्वं लक्ष्यते इति न कोऽपि दोष इति भाव । श्रुतिस्मृती चाहेति । श्रुतावामनन्तीति साक्षाद्वाच्यत्वोक्ते स्मृतौ चाहमेवेत्यवधारणोपपत्तये मुख्यतया वेद्यत्वस्य विवक्षणीयत्वात् तस्य च वाच्यत्वं विना अयोगात् सर्ववेदलक्षणाया अयोग्यत्वाच्च वाच्यत्वसिद्धिरिति भाव । ननु सर्वस्यापि वेदस्य ब्रह्मस्वरूपप्रतिपादकत्वे धर्मादिसिद्धि न स्यात् तत्प्रतिपादकाभावादित्यत आह ॥ वेदा इति ॥ तथा च वेदस्य धर्मादिप्रतिपादकत्वात् न तदसिद्धि । न च तथात्वे विष्णु-प्रतिपादकत्वायोग । स्वतन्त्र्येण विष्णुज्ञानार्थमेव तत्प्रतिपादनादिति भाव । यद्वा पदसमन्वयाभिप्रायेण सर्वे वेदा इति । वाक्यसमन्वयाभिप्रायेण तपांसीति । तथा च मुखतो धर्मादिप्रतिपादकत्वेऽपि वाक्यतात्पर्यं विष्णावेवेति भाव ।
वाक्यार्थमञ्जरी
वाच्यत्वेति ॥ उपलक्षणमेतत् । सुधोक्तरीत्या संशब्दार्थसर्वशास्त्रप्रतिपाद्यत्वसमर्थनादित्यपि ध्येयम् । तेन सकलशास्त्रप्रतिपाद्यत्वसमर्थकगतिसामान्यसूत्रस्यैतदधिकरणान्तर्भाव उपपन्न । ननूपक्रमादिलिङ्ग-बलाद्रुद्रादिशब्दोपेतशास्त्रस्यापि विष्णुरेवार्थ इत्येवोक्तं न तु तस्य मुख्यत्वमित्यत आह ॥ उपक्रमादीति ॥ उपलक्षणमेतत् । सुधोक्तरीत्या संशब्देन विष्णोर्मुखार्थत्वस्याप्युक्तत्वात् ॥ वादीति ॥ वाच्यत्वा-वाच्यत्ववादीत्यर्थ । तद्ब्रह्म । न हीति । वचनवृत्त्या लब्धस्य मुख्यार्थत्वादिति भाव । प्रकृतोप-योगायाह ॥ तदविषयश्र्चेति ॥ शब्दत्वगाद्यविषय इत्यर्थ । एतदुपपादनायैव गुणराहित्यकथनमिति भाव । प्रोवाचेत्यनेन वचनप्राप्त्या अवचनेनेत्येतद्य्वाहतमित्यत आह ॥ वचनवृत्तिं विनेति ॥ उपदिदेशेति ॥ विष्णुमिति शेष । यच्छ्रोत्रेणेत्यत्र यच्छब्दार्थब्रह्मण कर्तृत्वे येन श्रोत्रमिदं श्रुतमित्यनेन व्याहतमित्यत आह ॥ पुरुष इति ॥
"अत्रोदाहृतवाक्यार्थविशेषो लिख्यते मया ।
पूर्वपक्षोत्थितिर्ज्ञेया प्रतीतार्थानुसारत ।
अत्रायं भाष्योदाहृतश्रुत्यर्थ । वाच सवेऽपि शब्दा मनसा सह अप्राप्य साकल्येनाविषयीकृत्य यत आनन्दरूपाद् ब्रह्मणो निवर्तन्ते तं ब्रह्मस्वरूपानन्दं विद्वान्न वेत्तीत्यन्वय । यद् ब्रह्म अशब्दं प्राकृतशब्दरहितं साकल्येन तदप्रतिपाद्यं तद्ग्राहिश्रोत्रागोचरं तद्ग्राहिरसनागोचरं नित्यं नाशरहितम् अगन्धवत् प्राकृतगन्धवत् न भवति तद्ग्राहिघ्राणागोचरं च तदित्यन्वय । अस्पर्शं प्राकृतस्पर्शरहितं तद्ग्राहिस्पर्श-नेन्द्रियागोचरञ्च । अव्ययं ह्रासरहितम् । अरसं प्राकृतरसरहितम् । यद् ब्रह्म वाचा वागिन्द्रियेण अनभ्युदितम् अभि साकल्येन नोक्तं येन ब्रह्मणा वाक् वागुपलक्षितं सर्वं जगत् । अभ्युद्यते अभि साकल्येन वागिन्द्रियेणोच्चार्यते तदेव ब्रह्म त्वं विद्धीत्यन्वय । पुरुषो यद् ब्रह्म श्रोत्रेण साकल्येन न श़ृणोति येन च ब्रह्मणा इदं श्रोत्रोपलक्षितं जगत्साकल्येन श्रुतं श्रवणादिविषयीकृतं तदेव ब्रह्म त्वं विद्धीत्यन्वय इति ॥ त्रयीति ॥ स्त्रीशूद्रब्रह्मबन्धूनां त्रयी न श्रुतिगोचरा इति प्रथमस्कन्धे प्रयोगादिति भाव । त्रयी श्रुति श्रुतिगोचरा न श्रवणविषयीभूता न । उपलक्षणमेतत् । सुधोक्तरीत्या शब्दानां गवां ज्ञानानां चरश्र्चरणं वृत्तिर्यस्मिन् तच्छब्दगोचरमिति व्यधिकरणबहुव्रीहिं वा चरश्र्चरणमस्यास्तीति मत्वर्थीयाच्प्रत्ययान्तत्वं वा आश्रित्य शब्दगोचरमित्यस्य साधुत्वं द्रष्टव्यम् । तेनाप्राप्य मनसा सहास्पर्श-मित्यादिश्रुतौ यदज्ञेयत्वमभिप्रेतं तदपि सङ्गृहीतं भवति । अन्यथा तदंशोदाहरणं न स्यात् । अत एव भाष्ये अवाच्यत्वादिकमित्यादिशब्द, तदवतारिकाग्रन्थे अवाच्यत्वाज्ञेयत्वाभिधायकेति टीकावचनम्, अतर्क्यमज्ञेयमित्यादिप्रमाणोदाहरणं च सङ्गच्छते । न च ज्ञेयत्वसमर्थनमसङ्गतमिति वाच्यम् । ईक्षणीयत्वहेतोरसिद्धिपरिहारार्थत्वात् । अत एवेक्षणीयत्वासिद्धिपरिहारकत्वेन गौणश्र्चेन्नात्मशब्दादिति सूत्रं न च गौण आत्मा दृश्य इत्यादिना भाष्येण व्याख्यातमिति बोद्धव्यम् ।
ॐ ईक्षतेर्नाशब्दम् ॐ ॥ तद् ब्रह्म अशब्दम् अवाच्यं न किं तु वाच्यमेव ईक्षते पुरुषमीक्षत इति कर्मत्वव्यपदेशादित्यर्थ । श्रुतिप्राप्तं आपापत इति शेष । हिरण्यगर्भोपदेशेनेति ॥
""प्रणवेन हरिं ध्यायन् ब्रह्मलोकं समेत्य च ।
ज्ञानं चतुर्मुखात्प्राप्य मुच्यते नात्र संशय’’
इति षश्र्नभाष्योक्तेरिति भाव । पौनरुक्तिपरिहाराय विज्ञायेत्येतद्य्वाचष्टे ॥ परोक्षत इति ॥ ईक्षणीयत्वं ज्ञेयत्वम् । ईक्षणस्य ज्ञानस्य । प्रत्यक्षादिनापीति ॥ अतोऽन्यथाप्युपपत्तिरिति भाव । उक्तरीत्या शास्त्रयोनित्वादित्युक्तरीत्या ॥ प्रत्यक्षाद्यवेद्यत्वे सतीति ॥ आगमाननुसारिप्रत्यक्षाद्यवेद्यत्वे सतीत्यर्थ । तेनागमानुसारिप्रत्यक्षादिवेद्यत्वाद्विशेषणासिद्धिरिति निरस्तम् ॥ ईक्षणीयत्वान्यथानुपपत्त्येति ॥ प्रमाविषत्वान्यथानुपपत्त्येत्यर्थ । तेन भ्रान्तिविषयत्वेनान्यथासिद्धिरिति निरस्तम् । "औपनिषदत्वात्’ इति वाक्यमेवमर्थापत्तिपरत्वेन व्याख्याय परिशेषपरत्वेनापि व्याचष्टे ॥ परिशेषप्रमाणेन वेति ॥ प्रमाणेनेति ॥ भ्रान्तेरज्ञानानिवर्तकत्वेन प्रमाणेन मोक्षजनकेक्षणासम्भवादिति भाव ॥ अवाच्ये वृत्त्यन्तरेति ॥ अवाच्येऽपि लक्षणाङ्गीकारेऽनवस्था वक्ष्यत इति भाव । अनेनावचनेनैतत्प्रकारान्तरेण योजितम् ॥ प्राबल्यमिति ॥ तेषु त्रिष्वक्षादिकरणेषु मध्ये यदागमस्य प्राबल्यमुक्तं तज्जात्यैव स्मृतम् उत्सर्गेणैव स्मर्तव्यमित्यर्थ ॥ श्रुतिस्मृती चाहेति ॥ श्रुतावाङा साक्षाद्वाच्यत्वोक्ते स्मृतौ कर्मादीनामपि वेद्यत्वादहमेवेत्यवधारणानुपपत्त्या तदुपपत्तयेऽन्येषां मुख्यतया वेद्यत्वेऽपि हरे परममुख्यवृत्त्या वेद्यत्वस्य वक्तव्यत्वात्तस्य च वाच्यत्वं विनाऽयोगात्तत्सिद्धिरिति भाव । भाष्ये वेदान्तकृत् वेदनिर्णायकब्रह्ममीमांसा-कर्ता । यत्प्रति यत्प्रीत्यर्थम् ।
विवृति
वाच्यत्वसमर्थनादिति ॥ उपलक्षणमेतत् । सकलशास्त्रप्रतिपाद्यत्वसमर्थनादित्यपि द्रष्टव्यम् । आद्यसूत्रे ब्रह्मशब्देन जीवादिव्यावर्तक गुणपूर्तिलक्षणत्वेन सूचयित्वा, द्वितीये तस्य गुणपूर्तिवाचित्वसिद्धये जीवपरता निरासाय कारणता जिज्ञास्यब्रह्मलक्षणत्वेनोक्ता । तृतीये पूर्तिकारणतयोरतिव्याप्तिपरिहाराय शास्त्रं प्रमाणीकृत्य चतुर्थे तयोर्विष्ण्वैकनिष्ठत्वाय शास्त्रस्यान्यपरतां निषिध्य सर्वशास्त्रस्य शब्दप्रवृत्तिनिमित्त-सर्वगुणपूर्तिसिद्धये, वचनवृत्या, सर्वशास्त्रतात्पर्यविषयतायां चोक्तायां संशब्दार्थस्य वाच्यत्वस्य कात्स्नर्यस्य चेहाक्षिप्य समर्थनादनन्तरसङ्गति । एवं वाच्यत्वोपपादकेऽस्मिन्नधिकरणे सकलवेदार्थत्वसमर्थनपरस्य गतिसूत्रस्यान्तर्भाव संशब्दार्थाक्षेपसमाधानरूपत्वज्ञापनार्थमेव कृत । पृथक्करणे तु वाच्यत्वसमर्थनपरत्वा-भावादधिकरणान्तरत्वप्रतीतिप्रसङ्गात् । ननु रुद्रादिशब्दयुक्तवेदवाक्येषु उपक्रमादिलिङ्गबलाद्विष्णुरेव प्रतिपाद्य इत्युक्तं, न तु विष्णोर्वेदमुख्यार्थत्वं यत्सिध्यर्थं वाच्यत्वसमर्थनं सङ्गतं स्यादित्यत आह ॥ उपक्रमादिभिरिति ॥ उपलक्षणं चैतत् । संशब्देन विष्णोर्मुख्यार्थत्वस्याप्युक्तत्वादिति बोध्यम् । शब्दावाच्यत्वेऽप्यस्तु शास्त्रमुख्यार्थत्वमित्यत आह ॥ न हीति ॥ उपदिदेशेति ॥ विष्णुमिति शेष । तथा च न व्याहतिरिति भाव । न तच्छब्दगोचरमिति युक्तमिति ॥ उपलक्षणं चैतत् । शब्दानां गवां ज्ञानानां चर चरणं, वृत्ति, यस्मिन् तच्छब्दगोचरमिति व्यधिकरणबहुव्रीहिं वा, चरश्र्चरणमस्या-स्तीति मत्वर्थीयाच्प्रत्ययान्तत्वं वाऽऽश्रित्य शब्दगोचरमित्यस्य साधुत्वं द्रष्टव्यम् । ततश्र्च यतो वाच इत्यादिश्रुतौ मनसा सहेत्यदृश्यत्वस्याप्युक्तत्वादीक्षणीयमसिद्धमिति पूर्वपक्ष्यभिप्राय ।
सूत्रे वाच्यमित्येव वक्तव्ये नाशब्दमिति वचनं "द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत’ इति वचनादवधारणार्थमित्यभिप्रेत्योक्तम् । वाच्यमेवेति ॥ पूर्वमर्थापत्तिपरतया व्याख्यातं इदानीं परिशेषप्रमाणपरतया व्याचष्टे ॥ परिशेषप्रमाणेन वेति ॥ यद्यपि स्वमतेऽर्थापत्तिपरिशेषयोरनुमानता, तथाऽपि तयोर्भेदमुपेत्य वाऽनुमानत्वावान्तरभेदमाश्रित्य वा पक्षान्तरोक्ति ॥ प्रमाणेनेति ॥ भ्रान्तेरविद्या-निवर्तकत्वाभावेन प्रमाणाभासेन मोक्षजनकेक्षणासम्भवादिति भाव । अवचनेनेत्येतद्वचनेतरप्रमाणेनेति व्याख्याय प्रकारान्तरेण व्याख्याति ॥ वृत्यन्तरायोगेनेति ॥ न हि ईक्षतेरिति धातुनिर्देश तत्र विवक्षितशब्दमात्रस्य वाच्यत्वे हेतुत्वाभावात् तदर्थ ईक्षणरूपोऽनेन लक्ष्यते । तथाचासम्बद्धस्यान्य-सम्बन्धिनो वेक्षणस्य हेतुत्वासम्भवाद्ब्रह्मसम्बन्धिन एव तस्य हेतुत्वम् । वक्तव्यं सम्बन्धश्र्च न कर्तृत्वादिरूप श्रुत्यननुगमात् वाच्यत्वसाधकत्वाभावाच्च । तथाचेक्षणं ब्रह्मकर्मकमेव हेतुत्वेन वाच्यं तदपि नयुक्तं, तथात्वे, ब्रह्म, वाच्यं, तत्कर्मकेक्षणादिति वैय्यधिकरण्यं स्यात् । तस्मात् ईक्षणकर्मत्वमेव हेतुतया विवक्षितमित्यन्यथानुपपत्या, ईक्षणीयत्वं लभ्यत इति न कोऽपि दोष इति भाव ॥ श्रुतिस्मृती चाहेति ॥ श्रुतावामनन्तीति साक्षाद्वाच्यत्वोक्ते स्मृतौ चाहमेवेत्यवधारणोपपत्तये मुख्यतया वेद्यत्वस्य विवक्षणीयत्वात्तस्य च वाच्यत्वं विनाऽयोगात्सर्ववेदलक्षणाया अयोग्यत्वाच्च वाच्यत्वसिद्धिरिति भाव । ननु सर्वस्यापि वेदस्य ब्रह्मस्वरूपप्रतिपादकत्वे धर्मादिसिद्धिर्न स्यात्, प्रतिपादकाभावादित्यत आह ॥ वेदा इति ॥ तथा च वेदस्य धर्मादिप्रतिपादकत्वान्न तदसिद्धि । न च तथात्वे विष्णुप्रतिपादकत्वायोग, स्वातन्त्र्येणैव विष्णुज्ञानार्थं तत्प्रतिपादनादिति भाव । यद्वा पदसमन्वयाभिप्रायेण सर्वे वेदा इति वाक्यसमन्वयाभिप्रायेण तपांसीति । तथा च मुखतो धर्मादिप्रतिपादकत्वेऽपि वाक्यतात्पर्यं विष्णावेवेति भाव ।