ॐ सर्वधर्मोपपत्तेश्च ॐ

११. अथ सर्वधर्मोपपत्त्यधिकरणम्

सूत्रभाष्यम्

अवशिष्टैरुपसंहरति ।

।। ॐ सर्वधर्मोपपत्तेश्च ॐ ।। ३८ ।।

गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवात्र शङ्का ।

 चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीता’ इति सर्वगुणोपपत्तिश्रुतेश्च ।।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये

द्वितीयाध्यायस्य प्रथमः पादः ।।

सत्तर्कदीपावली

अवशिष्टशङ्कोद्धारेण पादार्थमुपसंहरत्सूत्रमुपन्यस्य व्याचष्टे ।। सर्वधर्मोपपत्तेरित्यादिना ।। चिन्त्या अचिन्त्याश्च गुणाः विष्णौ वेदे सन्तीत्यर्थः । तदुक्तम् । ‘यदधीना गुणाश्चैव दोषा अपि च सर्वशः । गुणास्तस्य कथं न स्युः स्युर्दोषाश्च कथं पुनः’ इति ।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यकृतब्रह्मसूत्रभाष्यटीकायां

सत्तर्कदीपावल्यां श्रीपद्मनाभतीर्थभट्टारकविरचितायां द्वितीयाध्यायस्य प्रथमः पादः ।

तत्त्वप्रदीपिका

वेदे श्रुता गुणा लोके विरुद्धा अपि देवे सन्ति । न च तेषां विरुद्धतया मिथ्यात्वमाशङ्कनीयम् । अश्रुता अपि ततश्चिन्त्याः सन्ति । न च यावन्तश्चिन्तयितुं शक्यन्ते रमादीनां तावन्त एव । किन्तु अचिन्त्याश्च तथैव सन्ति, यथा श्रुताश्चिन्त्याश्च । न च देवे दोषाः श्रुताः नापि चिन्त्याः सन्ति । किं पुनरचिन्त्याः । अज्ञैर्हि श्रुता इति प्रतीताः, न तु ज्ञानिनामिति सर्वगुणोपपत्तिश्रुतेः कयाऽपि विधया दोषलेशस्पर्शानुपपत्तिश्रुतेश्च निखिलगुणगणपरिपूर्णो निर्दोषो नारायणः सर्वकारणमिति सिद्धम् ।

यत्तु मन्यन्ते, यद्यपि स्रष्टृत्वादयो धर्मा ब्रह्मणः सन्ति, तथाऽप्यनुपपद्यमानत्वेन मायामया न सत्या इति तदप्येतेन परिहृतम् । प्रमाणदृष्टत्वमेव ह्युपपत्तिः । न ततोऽन्योपपत्तिरन्वेषणीया । उक्ता चोपपत्तिरतः सत्या इत्यभिप्रायः ।

।। इति तत्त्वप्रदीपिकायां द्वितीयाध्यायस्य प्रथमः पादः ।।

तत्त्वप्रकाशिका

सर्वेषां युक्तिविरोधानां परिहृतत्वात्किमुत्तरसूत्रेणेत्यतस्तात्पर्यमाह ।। अवशिष्टैरिति ।। विशिष्य प्रतिपादितेभ्यः स्रष्टृत्वादिगुणेभ्योऽवशिष्टैः सर्वगुणैः प्रतिपादितैरुपसंहरति । किमुक्तं भवति । उक्तावशिष्टान् सर्वगुणान् युक्तिविरोधपरिहारेण समर्थ्य विष्णोः पूर्णगुणत्वं निगमयत्यत्र सूत्रकर्ते-त्यर्थः । अत एवात्र विष्णोः पूर्णगुणत्वे युक्तिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । समस्तगुण-सम्पूर्णो विष्णुरित्युक्तम् । तस्य च युक्तिविरुद्धत्वे पूर्वाध्यायो बाधितः स्यात् । अतोऽसौ परिहर्तव्यः । विष्णोर्गुणपूर्णत्वं विषयः । युक्तमयुक्तं वेति सन्देहः । पूर्वाध्यायोऽन्यत्रादर्शनं च सन्देहबीजम् । न युक्तमिति पूर्वः पक्षः । सर्वचेतनानामपूर्णत्वनियमात् । अस्यापि चेतनत्वेनापूर्णताया अवश्यं भावित्वात् । अन्यथातिप्रसङ्गादिति प्राप्ते सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ।। सर्वेति ।। नायुक्तं विष्णोः पूर्णत्वम् । तस्य चेतनत्वेऽपि स्वातन्त्र्यादिना सर्वगुणोपपत्तेः । स्वातन्त्र्यादिमतः पूर्णगुणत्वनियमात् । न केवलं युक्त्या सर्वधर्मोपपत्तिः किं तर्हि ‘गुणाः श्रुताः’ इति सर्वधर्मो-पपादकश्रुतेश्चेति भावः । सुविरुद्धा लोकदृष्ट्या । अश्रुता अपि रमादिचिन्त्यास्तदचिन्त्याश्चेत्यर्थः । अतो विष्णोः सर्वगुणपूर्णत्वे युक्तिविरोधगन्धाभावादुक्तं सर्वमुपपन्नमिति सिद्धम् ।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्ब्रह्मसूत्रभाष्यस्य

टीकायां श्रीमज्जयतीर्थमुनिविरचितायां तत्त्वप्रकाशिकायां द्वितीयाध्यायस्य प्रथमः पादः ।।

गुर्वर्थदीपिका

अवशिष्टैः सर्वगुणैरित्यत्र आनन्दादिसर्वगुणैरित्यर्थः । अन्यथातिप्रसङ्गादित्यत्र सकल-चेतनेष्वदृष्टं पूर्णत्वमीश्वराख्यचेतनेऽङ्गीक्रियते चेत्तेष्वदृष्टजडत्वानित्यत्वादेरप्यङ्गीकारप्रसङ्ग इत्यर्थः । यद्वा सकलस्वजातीयेभ्यः एकस्य वैलक्षण्याङ्गीकारे काचिद्गौः सास्नादिरहिताऽपि स्यादित्यर्थः । स्वातन्त्र्यादिमतः पूर्णगुणत्वनियमादित्यनेन सार्वज्ञादिगुणानां स्वमहिमसम्पादकत्वात्तत्प््रोप्सुस्ताव-द्भगवान्, स्वातन्त्र्यात्तत्र समर्थश्च । अतः सकलगुणप््रोप्सुत्वे सति तत्र समर्थत्वात् सकलशुभगुणवान् हरिरिति युक्तिं सूचयन् उपपत्तेर्भगवान् सर्वधर्मा भवत्येवेति सूत्रयोजनां दर्शयति । उपपद्यत अनेनेत्युपपत्तिरिति व्युत्पत्तिं मनसि निधायार्थान्तरमाह न केवलमिति ।। अश्रुता अपि इत्यत्र सन्तीति शेषः ।

।। इति श्रीमत्कविकुलतिलक श्रीमद्वादिराजतीर्थमुनिविरचितायां तत्वप्रकाशिकाव्याख्यायां

गुर्वर्थदीपिकायां द्वितीयाध्यायस्य प्रथमः पादः ।।

भावबोधः

उपसंहरतीत्यधिकरणतात्पर्ये वक्तव्ये सौत्रसर्वपदानुरोधेन भाष्ये अवशिष्टैरित्युक्तम् । प्रकरण-वशात् विशिष्य प्रतिपादितेभ्य इति लभ्यते ।

ननु प्रतिपादनं विनोपसंहाराभावात् कथमवशिष्टैः सह विशिष्य प्रतिपादितानामुपसंहार इत्यतः प्रतिपादितैरित्युक्तम् । अवशिष्टत्वादेव पूर्वं प्रतिपादनाभावात् कथं प्रतिपादितत्वमित्य-तस्तात्पर्यमाह किमुक्तं भवतीत्यादिना ।। पूर्वगुणत्वमिति ।। तथा चावशिष्टगुणानां प्रतिपादन-पूर्वकं तैः सह विशिष्य प्रतिपादितगुणानुपसंहरतीति भाष्याभिप्राय इति भावः । साधके जगज्जन्मादिकर्तृत्वे, एवं युक्तिविरोधं निरस्येदानीं तत्साध्ये ब्रह्मशब्दार्थपूर्णगुणत्वे युक्तिविरोध-परिहारादनन्तरसङ्गतिरिति चोक्तं भवति । चेतनत्वस्य विरोधियुक्त्यन्तरोपलक्षकत्वेनानुव्याख्याने ‘बहुयुक्तयः’ इत्यनेनेदमपि सङ्गृहीतम् ।

नन्वेवमारम्भणाधिकरण एव बहुयुक्तिविरोधपरिहारस्य उपलक्षणत्वेन कृतत्वादेतदधिकरण चतुष्टयस्य तेनैव गतार्थतेति चेत्, ;

मानमेयविशेषेण पुनरुक्तिर्न जायते’

इत्युक्तन्यायेन ‘विकरणत्वात्’ इति सूत्रगतार्थत्वस्येवास्यापि समाधेयत्वात् । मानमेय-विशेषश्च भाष्यटीकादावेव तत्र तत्रोक्त इति ।। युक्तमयुक्तं वेति ।। अत्र विष्णोर्गुणपूर्णत्वं युक्तिविरुद्धमुत नेति चिन्ता । तदर्थं चेतनत्वयुक्तिः किमनाभासा उत श्रुतियुक्तिबाधितत्वेना-स्वातन्त्र्योपाधिग्रस्तत्वेन चाभासेति । तदर्थमपूर्णत्वस्यास्वातन्त्र्येण व्याप्तिर्नास्त्युतास्तीति । सर्वे चेतना अपूर्णा इति न्यायविवरणं व्याचष्टे– स्वातन्त्र्यादिमत इति ।। स्वातन्त्र्यपूर्णगुणत्व-योर्व्यतिरेकव्याप्तौ ‘अपूर्णोऽयं जीवसङ्घोऽस्वतन्त्रः’ इति न्यायविवरणोदाहृता श्रुतिर्द्रष्टव्या ।। श्रुतेश्चेति ।। अनेन सौत्रः ‘च’ शब्दः श्रुतिसमुच्चायकतया भाष्ये व्याख्यात इत्युक्तं भवति ।। रमादिचिन्त्या इति ।। आदिपदेन विरिञ्चग्रहणम् । तस्यापि श्रुत्यनुक्तभारताद्युक्तगुणचिन्तयि-तृत्वादिति भावः । अत्राद्यं स्मृतिविरोधनिरासकमेका पेटिका । तदुत्तरमधिकरणद्वयं वेदप्रामाण्य-युक्तिविरोधनिरासकत्वेनैका पेटिका । तत्राद्ये युक्तिमात्रविरोधनिरासः । द्वितीये– दृढयुक्ति-विरोधनिरास इति । तदुत्तरमधिकरणद्वयं जगत्कर्तृत्वे श्रुत्युपसर्जनयुक्तिविरोधनिरासकतयैका पेटिका । तत्राद्ये– श्रुतिसंवादयुक्तिविरोधपरिहारः । द्वितीये श्रुतिसिद्धयुक्तिविरोधपरिहारः षष्ठं स्वातन्त्र्येण जगत्कर्तृत्वे बहुयुक्तिविरोधनिरासकमेका पेटिका । सप्तमं श्रुतिसंवादि-जीवकर्तृत्व-साधकयुक्तिविरोधस्य विस्तरेण निरासकमेका पेटिका । तत्राप्याद्यत्रिकं जगत्कर्तृत्वे बहुयुक्ति-विरोधनिरासकम् । तत्राद्ये कृत्स्नप्रसक्त्यादि युक्तिविरोधपरिहारः । द्वितीये निष्फलत्वादि-युक्तिविरोधपरिहारः । तृतीये वैषम्यादियुक्तिविरोधपरिहार इति । चतुर्थं ब्रह्मशब्दोक्तपूर्णगुणत्वे युक्तिविरोधनिरासकमिति ।

।। इति श्रीमद्रघुवर्यतीर्थ पूज्यपादशिष्यरघूत्तमयतिकृते श्रीमज्जयतीर्थपूज्यचरणविरचित

तत्त्वप्रकाशिकाभावबोधे द्वितीयाध्यायस्य प्रथमः पादः ।।

भावदीपः

सर्वेषामिति ।। ‘स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः । एवं चतुर्विधा नैव विरुध्यन्तेऽन्वयं प्रति’ इति समयपादीयानुभाष्योक्तरीत्या सर्वयुक्तिविरोधानामित्यर्थः । एतद्विवेकश्चैतत्पादान्ते चन्द्रिकायां स्पष्टः । प्रतिपादितस्यैवोपसंहार इत्यतः प्रतिपादितैरिति । आद्याध्यायेऽनन्त-शब्दसमन्वयेनेति भावः । कथं गुणानामुपसंहारे करणत्वं कथं चास्योपसंहाररूपत्वे न्यायशास्त्रे अध्यायपादयोश्चान्तर्भाव इति भावेन पृच्छति ।। किमुक्तं भवतीति ।। भावार्थमाह ।। उक्तेति ।। विरोधनिरासेन स्थापितेत्यर्थः । समर्थ्य न्यायेनोपपाद्येत्यर्थः ।। अत एवेति ।। सर्वगुणानां युक्त्यविरोधेन स्थापनत्वादेवेत्यर्थः । पूर्वसङ्गतिचिन्तासाफल्ये आह ।। समस्तेति ।। अन्यत्र चेतनान्तरे सर्वचेतना अपूर्णगुणा इति नियम इति न्यायविवरणोक्तं परम्पराहेतुतया योजयति ।। सर्वचेतनानामिति ।। चेतनत्वेनेति ।। विमतो पूर्णश्चेतनत्वाज्जीवचेतनवदिति भावः । हेतोर-प्रयोजकत्वं निराह ।। अन्यथेति ।। एवं नियमे सत्यपि चेतनत्वेनापूर्णत्वानभ्युपगमे सहचार-नियमवता हेतुना क्वाप्यर्थसिद्धिर्न स्यादित्यर्थः । योग्यसाध्यमध्याहृत्य सूत्राक्षरार्थमाह ।। नायुक्तमिति ।। न्यायविवरणोक्तं हेतुमाह ।। स्वातन्त्र्यादिनेति ।। सर्वकर्तृत्वविचित्रशक्ति-त्वादिरादिपदार्थः । स्वातन्त्र्यादि च तदनन्यत्वादिनयैः समर्थितमिति भावः । कुत इत्यतः स्वतन्त्रस्य पूर्णगुणत्वनियमादिति न्यायविवरणोक्तमाह ।। स्वातन्त्र्यादिमत इति ।। स्वतन्त्र-स्येत्युपलक्षणमिति भावः । एतेन विष्णुः पूर्णगुणः स्वतन्त्रत्वात् तत्प््रोप्सुत्वे सति तत्र शक्तत्वा-दित्याद्युपपत्तय उक्ता भवन्ति । न्यायविवरणरीत्या सर्वधर्मोपपत्तेरित्यंशं व्याख्याय सौत्रच-शब्दव्याख्यानपरतया भाष्यं व्याचष्टे ।। न केवलमिति ।। युक्त्या स्वातन्त्र्यादिनेत्यर्थः । नन्वश्रुता अपि रमादिचिन्त्यास्तदचिन्त्याश्च सन्तीत्ययुक्तम् । अनुक्तं पञ्चभिर्वेदैर्न वस्त्वस्ती-त्युक्तिविरोधादिति चेत्सत्यं सामान्यतः श्रुता विशिष्याश्रुता इत्यर्थात् । उक्तं च प्राक्टीकायां गुणा अपि सामान्यतः श्रुता एवेत्यदोष इति ।। अत इति ।। पूर्णगुणत्वस्य श्रुतियुक्तिसिद्धत्वेन चेतनत्वयुक्तेस्तद्बाधितत्वादित्यर्थः । सर्वमुपपन्नमिति फलोक्तिः ।

।। इति श्रीमद्भाष्यटीकाभावदीपे राघवेन्द्रयतिकृते द्वितीयाध्यायस्य प्रथमः पादः ।।

अभिनवचन्द्रिका

अत एवात्र विष्णोरिति ।। यद्यप्यत्र पूर्णगुणत्वं निगमयति सूत्रकारः तथापि युक्तिविरोधपरिहारेण तत् सामर्थ्यनिगमादेवेत्यर्थः ।

पूर्वपक्षस्तु– न विष्णुः सर्वगुणपूर्णः । चेतनत्वात् । अन्यथा देवदत्तादीनामपि तथात्वं स्यादिति ।

सिद्धान्तस्तु– युक्तमेव विष्णोः सर्वगुणपूर्णत्वं स्वतन्त्रत्वात् । ‘गुणाः श्रुताः सुविरुद्धाश्च देवे’ इति श्रुतेश्च । तस्माद्विष्णोः सर्वगुणपूर्णत्वे युक्तिविरोधगन्धाभावात् उक्तं सर्वमुपपन्नमिति सिद्धम् ।

।। इति श्रीमत्सत्यनिधितीर्थश्रीचरणाराधकश्रीमत्सत्यनाथयतिविरचितायां

तत्वप्रकाशिकाऽभिनवचन्द्रिकायां द्वितीयाध्यायस्य प्रथमः पादः ।।

वाक्यार्थमुक्तावली

सर्वेषामिति ।। ‘स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तय’ इत्यनुव्याख्यानोक्तोपाधिचतुष्टया-वच्छिन्नानामित्यर्थः । अवशिष्टत्वादेव पूर्वं प्रतिपादानाभावात्कथं प्रतिपादितत्वमुक्तमित्याशयेन पृच्छति ।। किमुक्तं भवतीति ।। अवशिष्टगुणानां प्रतिपादनपूर्वं तैस्सह विशिष्य प्रतिपादित-गुणानुपसंहरति ।। उक्तेति ।। पूर्णगुणत्व इति ।। पूर्वं जन्मादिसूत्रोक्ते एकैकगुणे एकैकदोषाभावे च विरोधे निरस्ते अत्र ब्रह्मशब्दार्थे सर्वगुणपूर्तौ दोषमात्राभावे च महाप्रमेये तत्तद्वाद्युत्प््रोक्षित-बहुयुक्तिविरोधो निरस्यत इत्यनन्तरसङ्गतिरप्यनेनोक्तेति ज्ञेयम् ।। युक्तमयुक्तं वेति ।। अत्र पूर्णत्वं चेतनत्वयुक्तिविरुद्धं न वेति चिन्ता । तदर्थं चेतनत्वयुक्तिर्विपक्षे बाधकतर्कसाहाय्याद्बलवती उत स्वातन्त्र्ययुक्तिश्रुतिर्बाधितेति ।। अतिप्रसङ्गादिति ।। चेतनत्वेऽपि पूर्णत्वे देवदत्तादपि तत्स्या-दित्यतिप्रसङ्गादित्यर्थः । यदि गुणी स्यात्तर्हि दोष्यपि प्रसज्येत देवदत्तवत् यदि दोषाभाववान् स्यात्तर्हि गुणाभावानपि न स्याद्व्यतिरेकेण यज्ञवदित्याद्यतिप्रसङ्गादित्यर्थः । तेन बहुयुक्तिमत्वं पूर्वपक्षस्य ज्ञेयम् ।। स्वातन्त्र्यादिनेति ।। आदिपदेन सर्वकर्तृत्वं तत्रस्थत्वे सति तत्र शक्तत्वं तज्जिज्ञासुत्वे सति तत्र शक्तत्वं च गृह्यते । एवं स्वतन्त्रस्य पूर्णगुणत्वनियमादिति न्यायविवरण-मनुसृत्य सर्वधर्मोपपत्तेरित्यंशं युक्तिकथनपरत्वेन व्याख्याय भाष्यानुसारेण सर्वधर्मोपपत्तेश्चेति विशिष्टसूत्रं व्याचष्टे ।। न केवलमिति ।। रमादिचिन्त्या इति ।। आदिपदेन विरिञ्चग्रहणम् । तस्यापि श्रुत्याद्यनुक्तसम्प््रादायागतगुणचिन्तयितृत्वादिति भावः । न च देवे दोषाः श्रुताः नापि चिन्त्याः सन्ति किं पुनरचिन्त्याः अज्ञैर्हि तथा श्रुता इति प्रतीता इत्यर्थः । सूत्रे सर्वधर्मो-पपत्तेरिति विभक्तिविपरिणामेनाप्यन्वेति । ततश्च सर्वेषां धर्माणां गुणानां दोषाभावानां च स्वातन्त्र्याद्युपपत्तिसिद्धत्वात् । उपपादकश्रुतिसिद्धत्वाच्च । सर्वधर्माणामीश्वरे उपपत्तिरेव न युक्तिविरोध इति सूत्रार्थः ।

अत्र पीठिकाचतुष्टयं ‘स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तय’ इत्यनुव्याख्यानोक्तं बोध्यम् । अवान्तरोपाधयस्तु तत्रैवोक्ता इति सर्वमनवद्यम् ।

।। इति श्रीमद्विठलाचार्यतनूजेन श्रीमत्तीर्थाचार्यचरणसेविना श्रीनिवासेन रचितायां श्रीमत्तत्वप्रकाशिकावाक्यार्थमुक्तावल्यां द्वितीयाध्यायस्य प्रथमः पादः सम्पूर्णः ।।

तत्त्वसुबोधिनी

उक्तमुपसंहरतीति ।। अधिकरणतात्पर्ये वक्तव्ये सौत्रसर्वपदानुरोधेन भाष्येऽवशिष्टैरित्युक्तम् । प्रकरणवशात् विशिष्य प्रतिपादितेभ्यः इति लभ्यते । ननु प्रतिपादनं विना उपसंहाराभावात् कथं अवशिष्टैः सह विशिष्य प्रतिपादितानां उपसंहारः इत्यतः प्रतिपादितैरित्युक्तम् ।

अवशिष्टत्वादेव पूर्वं प्रतिपादनाभावात् कथं प्रतिपादितत्वमित्यतः तात्पर्यम् आह ।। किमुक्तं भवतीत्यादिना ।। पूर्णगुणत्वमिति ।। तथा चावशिष्टगुणानां प्रतिपादनपूर्वकं तैः सह विशिष्यप्रतिपादितगुणानुपसंहरति इति भाष्याभिप्राय इति भावः । अनेनावशिष्टगुणेषु बहुयुक्ति-विरोधपरिहार एव एतदधिकरणोपाधिरिति । साधके अत्र जन्मादिकर्तृत्व एवं युक्तिविरोधं निरस्ये-दानीं तत्साध्ये ब्रह्मशब्दार्थगुणपूर्णत्वे युक्तिविरोधपरिहारादनन्तरसङ्गतिरिति भावः । न चैतदधि-करणचतुष्टयं आरम्भणाधिकरणेनैव गतार्थम् । तत्र बहुयुक्तिविरोधपरिहारस्य उपलक्षणत्वेन कृतत्वादिति वाच्यम् । विकरणत्वादिति सूत्रशेषतः तत्र चोद्यपरिहारार्थं अस्य प्रवृत्तत्वात् । विशेषश्च भाष्यटीकयोरेव तत्र तत्रोक्तः इति ।। अत एवेति ।। विष्णोरत्र गुणपूर्णत्वस्य प्रतिपाद्य-त्त्वादेवेत्यर्थः ।। अस्यापीति ।। ईश्वरः अपूर्णः चेतनत्वात् जीववत् इत्यनुमानं फलितमिति भावः ।। अन्यथेति ।। चेतनत्वेन हेतुना पूर्णत्वानङ्गीकारे जीवानामपि तन्न स्यादित्यर्थः ।। स्वातन्त्र्यादिमतः इति ।। हरिः पूर्णगुणः स्वतन्त्रत्वात् व्यतिरेकेण जीववत् । स्वातन्त्र्य-पूर्णगुणत्वव्यतिरेकव्याप्तौ ‘अपूर्णोऽयं जीवसङ्घोऽस्वतन्त्रः’ इति श्रुतिः प्रमाणमिति भावः ।। श्रुतेश्चेति ।। अनेन सौत्रश्चशब्दः श्रुतिसमुच्चायकतया भाष्ये व्याख्यातः ।। रमादिचिन्त्या इति ।। आदिपदेन विरिञ्चिग्रहणम् । तस्यापि श्रुत्यनुक्तभारताद्युक्तगुणचिन्तयित्वादिति भावः ।

।। इति श्री तत्वप्रकाशिकाविवृत्तौ पाण्डुरङ्गि आनन्दाचार्यसूनुश्रीनिवासाचार्यविरचितायां

तत्वसुबोधिन्यां द्वितीयाध्यायस्य प्रथमः पादः ।।

वाक्यार्थविवरणम्

अस्यापीति ।। तथा च विष्णुरपूर्णगुणश्चेतनत्वात् जीववत् इत्यनुमानमनेनोक्तं भवतीति ज्ञेयम् । न तु अत्राप्रयोजकतेत्यत आह ।। अन्यथेति ।। तर्हि चेतनत्वाविशेषाज्जीवानामपि पूर्णगुणत्वं स्यादित्यतिप्रसङ्गः ।। स्वातन्त्र्यादिनेति ।। तथा च पूर्वानुमाने अस्वातन्त्र्य-मुपाधिरिति भावः ।। नियमादिति ।। यथोक्तम् । ‘यदधीना गुणाश्चैव दोषा अपि हि सर्वशः । गुणास्तस्य कथं न स्युः स्युर्दोषाश्च कथं पुनः’ इति ।

।। इति श्रीनिवासतीर्थविरचिते वाक्यार्थविवरणे द्वितीयाध्यायस्य प्रथमः पादः ।।

वाक्यार्थमञ्जरी

तर्हि कथं पादसङ्गतिरिति पृच्छति ।। किमुक्तं भवतीति ।। उत्तरमाह ।। उक्तावशिष्टेति ।। अतिप्रसङ्गादिति ।। धूमसद्भावेऽपि तन्नियतवह्न्यभावप्रसङ्गादित्यर्थः । सर्वेषां धर्माणां ज्ञानानन्दादीनां ब्रह्मण्युपपत्तेरुपपत्तिसिद्धत्वाद्गुणाः श्रुताविति श्रुतिसिद्धत्वाच्चेत्यर्थः । रमा-दीत्यादिपदेन चतुर्मुखग्रहणं तस्यापि श्रुत्यनुक्तभारताद्युक्तगुणचिन्तयितृत्वादिति भावः ।

।। इति श्रीमत्तत्त्वप्रकाशिकावाक्यार्थमञ्जर्यां शर्कराश्रीनिवासविरचितायां

द्वितीयाध्यायस्य प्रथमः पादः ।।

।। इति सर्वधर्मोपपत्त्यधिकरणम् ।। ११ ।।