ॐ अभावं बादरिराह ह्येवम् ॐ
८. उभयविधभोगाधिकरणम्
सूत्रभाष्यम्
।। ॐ अभावं बादरिराह ह्येवम् ॐ ।। १० ।।
चिन्मात्रं विनाऽन्यो देहस्तेषां न विद्यत इति बादरिः ।
अशरीरो वाव तदा भवत्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतो याभ्यां ह्येष उन्मथ्यत’ इत्येवं कौण्ठरव्यश्रुतावाह हि ।।
तत्त्वप्रदीपिका
मुक्तानां प्राकृतदेहोऽस्ति वा न वेत्याकाङ्क्षायामुच्यते– अभावं बादरिराह ह्येवम् ।। स्वतः प्राकृतदेहस्याभावं बादरिः । अवरेषामिच्छयाऽपि न भवतीति च । तेषामिच्छाया एवाभावात् । भोगस्याल्पीयस्त्वेन तदर्थं शरीरान्तरस्यानपेक्ष्यत्वात् । ‘न प्रियाप्रिये स्पृशत’ इत्यत्र प्राकृत-प्रियास्पृष्टिरभिप्रेता । ‘याभ्यां ह्येष उन्मथ्यत’ इति वाक्यशेषात् । तेन ह्यनित्यत्वादिनोन्माथो भवति । अन्यथा बहुप्रमाणविरोधाच्च ।।
तत्त्वप्रकाशिका
अत्रेश्वरप्राप्तानां मुक्तानां भोगानुपपत्तिनिवारणादस्ति शास्त्रादिसङ्गतिः । भोगानुपपत्तौ मुक्तेरपुरुषार्थत्वप्रसङ्गान्निवारणीयमेतत् । प्रकृतो मुक्तभोग एवात्र विषयः । युज्यते न वेति सन्देहः । वादिविवादः सन्देहबीजम् । न मुक्तानां भोगो युज्यत इति पूर्वः पक्षः । तथा हि । किं मुक्तानां बाह्यदेहो विद्यते न वा । आद्येऽपि तत्राऽभिमानोऽस्ति न वा । नेति पक्षे सुप्तस्येव भोगासम्भवः । अस्ति चेद् दुःखादिप्रसङ्गः । देहिनो दुःखादिनियमदर्शनात् । ‘न ह वै सशरीरस्य सतः प्रियाप्रिय-योरपहतिरस्ति’ इति श्रुतेश्च । द्वितीये भोगासम्भवः । न हि शरीररहितस्य भोगो दृष्टचरः । न च चिच्छरीरेण भोगोपपत्तिः । तस्य सुप्त्यादौ विद्यमानस्यापि भोगायतनत्वादर्शनात् । न च ब्राह्मेण देहेन तदुपपत्तिः । सायुज्यभाजां कथञ्चिदुपपत्तावपि तदन्येषामनुपपत्तेः । अतः कथमपि मुक्तानां निर्दुःखभोगायोगादपुरुषार्थत्वं मुक्तेरिति । सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ।। अभावमिति ।। युक्त एव मुक्तानां भोगः । न चोक्तविकल्पावकाशः । चिन्मात्रदेहं विनाऽन्यदेहाभावस्याङ्गीकारात् । तदभावेऽपि भोगसम्भवादिति बादरिराचार्यो मन्यत इति भावः । मुक्तस्य देहाभावः कुत इत्यत आह ।। अशरीर इति ।।
गुर्वर्थदीपिका
तदभावेऽपि भोगसम्भवादित्यत्र सौप्तचिद्देहवदनावृतत्वेन भोगसम्भवादित्यर्थः । यद्यपि चिन्मात्रदेहेन प्राग्भोगस्साधितस्तथाऽपि सुप्तौ बाह्यदेहाभिमानाभावे चिन्मात्रदेहेनापि भोगादर्शना-न्मुक्तावपि केवलं चिन्मात्रदेहेन कथं भोग इत्यभ्यधिकाशङ्कापरिहाराय ज्योतिर्मये बाह्यलीला-विग्रहदर्शनसद्भावदर्शनाय च ‘अभावं बादरिराह ह्येवं’ ‘भावं तु जैमिनिः’ इत्यधिकरणारम्भ इति ज्ञेयम् ।
भावबोधः
मुक्तानां भोगानुपपत्तिनिवारणादिति ।। ननु एतदधिकरणं ‘ब्राह्मेण’ इत्येतदधिकरणा-नन्तरमेव स्यात् कुतो व्यवधानमिति चेत् । सत्यम् । तत्र सायुज्यभाजां भोगानुपपत्तिनिवारणम् । अत्र तु सर्वमुक्तानामिति विशेषज्ञापनार्थत्वात्, व्यवधानकरणस्य । अन्यथा एकविषयप्रतीति-प्रसङ्गात् । अत एव वक्ष्यते– सायुज्यभाजां कथञ्चिदिति ।। उक्तप्रकारेण ‘त एव’ इत्यस्य ‘सङ्कल्पादेव’ इत्यनेन सङ्गतत्वादनन्तरमेतदधिकरणमिति भावः । युज्यत इति । अत्र सर्वमुक्तानां निर्दुःखभोगो न युज्यते उत युज्यत इति चिन्ता । तदर्थं तेषां बाह्यदेहाभावो न युज्यत उत युज्यत इति चिन्ता । तदर्थं देहभावाभावपक्षयोः परस्परविरोधः उताविरोध इति । तदर्थं देहाभावभावयोः साधकबाधकाभावौ न स्त उत स्त इति । तदर्थं देहाभावे भोगो न स्यात्, देहे सति दुःखं स्यादिति बाधकतर्कयोर्मूलभूता व्याप्तिरस्ति उत नास्तीति । तदर्थं द्वितीयतर्कोपोद्बलकतयोक्ता ‘‘न ह वै सशरीरस्य’’ इति श्रुतिः किं निरवकाशोत कर्मारब्धदेहविषयतया सावकाशेति । तदर्थं मुक्तानां देहसद्भावेऽपि दुःखाभावे प्रमाणं नास्ति उतास्तीति । तदर्थं ‘तीर्णो हि’ इति श्रुतिः किं स्वर्गस्थविषयोत मुक्तविषयेति । देहभावे तत्कार्यदुःखादि तदभावे भोगासम्भव इति न्याय-विवरणोक्तयुक्तिमाह– तथा हीत्यादिना ।। नेतिपक्ष इति ।। अनेन तदभाव इति न्यायविवरणं देहाभिमानाभाव इति व्याख्यातं भवति ।। अस्ति चेदिति । अनेन देहभाव इत्येतद्देहाभिमानभाव इति व्याख्यातं भवति ।। द्वितीये भोगासम्भव इति ।। अनेन देहाभाव इत्येतद्देहाभिमानाभाव इति व्याख्यातं भवति । ‘ब्राह्मेण’ इत्यनेन गतार्थताशङ्कापरिहारायाभ्यधिकाशङ्कामाह– न च चिच्छरीरेणेत्यादिना ।। कथञ्चिदुपपत्ताविति ।। सायुज्यभाजामपि कदाचिद्बहिर्भोगाङ्गीकारेण तदोपपत्त्यभावात् कथञ्चिदित्युक्तम् ।
भावदीपः
भोगानुपपत्तिनिवारणादिति ।। प्राक्तद्देहभावाभावाभ्यां भोगायोगशङ्कायां तन्निवारणा-दित्यर्थः । तेन ब्राह्मेणेत्यनेनापौनरुक्त्यम् । तत्र देहसामान्यभावाभावप्रयुक्तभोगानुपपत्तिशङ्काया एव निरासादत्र पुनः स्वरूपदेहान्यदेहभावाभावप्रयुक्तभोगायोगशङ्कानिरासादिति । एतेन पूर्वक्लृप्त-स्वोत्तमादन्योऽधिपतिर्नेति चिन्तायां तर्हि क्लृप्तस्वरूपदेहादन्योऽपि देहो नास्ति उतास्तीति इह चिन्तनात्पूर्वसङ्गतिरपि सिद्धा । सूत्रादौ देहाभावभावपरोक्तिरुभयथा भोगोपपत्त्यर्थमेवेति दर्शयन् विषयाद्याह ।। मुक्तभोग एवेति ।। देहभावे तत्कार्यदुःखादिस्तदभावे भोगासम्भव इत्यन्यत्रोक्तं व्यनक्ति ।। किमित्यादिना ।। देहभावे दुःखादिप्रसङ्गः कुत इत्यतो व्याप्तिदृष्टिश्रुतिभ्यामित्याह ।। देहिन इति ।। अपहतिरपगम इत्यर्थः । अष्टमे छन्दोगश्रुतेश्चेत्यर्थः । आह च तन्मात्रमित्यनेनोक्तं दोषपरिहारमाशङ्क्य निराह ।। न चेति ।। तस्य सुप्त्यादाविति ।। सुप्तिप्रलययोः स्वरूप-देहभावेऽपि स्रक्चन्दनादि विषयभोगादर्शनादित्यर्थः । ब्राह्मेण जैमिनिरित्यनेन गतार्थत्वमाशङ्क्य निराह ।। न चेति ।। बहिर्भोगाभावं मत्वोक्तं कथञ्चिदिति ।। अत इति ।। बाह्यदेह-भावाभावयोर्दोषभावादित्यर्थः ।। उक्तशङ्कानिरासकतया भाष्यं व्याचष्टे ।। युक्त एवेति ।। तदभावेऽपि बाह्यदेहाभावेऽपि । स्वरूपदेहेन भोगसम्भवादित्यर्थः । न च सुप्त्यादौ व्यभिचारः । तदापि स्वरूपसुखानुभवभावात् । विषयभोगाभावस्तु विषयाभावादेवोपपन्नः । मुक्तौ तु सङ्कल्प-मात्रादेव विषयलाभः श्रुत्यैवोपपादितः । विवरिष्यते चैतत्तन्वभाव इत्यत्रेति भावः ।। देहेति ।। बाह्यदेहाभाव इत्यर्थः ।।
अभिनवचन्द्रिका
यथा खलु द्वादशाहेति ।। अत्र क्रतुरित्यहीन उच्यते । अहीनत्वं च अहर्गणसाध्यक्रतुत्वम् । यथा ‘द्वादशाहमृद्धिकामा उपेयुः’ इत्युपेयचोदने ‘य एवं विद्वांसः सत्रमुपयन्ति’ इति चोपेयचोदने द्वादशाहस्य सत्रत्वं बहुकर्तृकत्वात् गम्यते । एवं तस्यैव द्वादशाहेन ‘प्रजाकामं याजयेत्’ इति यजति चोदनेन एककर्तृकत्वात् ‘द्विरात्रेण यजति’ इत्यादिनेव अहीनत्वं गम्यत इति तदुभयं द्वादशाहस्याऽविरुद्धं तथा मुक्तस्य सशरीरत्वम् अशरीरत्वं च प्रामाणिकत्वादविरुद्धमिति भावः । ननु ‘भावे जाग्रद्वत्’ इति सूत्रमनारम्भणीयम् । शरीरभावे, भोगासम्भवस्याऽनापादितत्वेन तदुपपादनवैयर्थ्यादित्यत आह– वक्ष्यमाणेति ।। ‘प्रदीपवदावेशस्तथा हि दर्शयतीति वक्ष्यमाणप्रस्तावायेत्यर्थः । ननु तत्प्रकाशयन्त इति व्यर्थमित्यत आह – तत्प्रकाशयन्त इति ।। सूत्रे प्रदीपदृष्टान्तग्रहणस्यापि प्राय उच्यत इत्यर्थः । अत्र गुणसूत्रम् – ‘स्वाप्यय-सम्पत्योरन्यतरापेक्षमाविष्कृतं हीति । ‘तीर्णो हि’ इति वाक्यं सुप्तिमोक्षयोरन्यतरापेक्षम् । अन्यतरप्रतिपादकं, हि यस्मात् अत्र पिताऽपिता भवति’इत्याविष्कृतम्’ इति सूत्रार्थः । श्रुतेस्तावदर्थद्वयम् एकस्यां योजनायां स्वाप्ययपरत्वं, योजनान्तरे तु संपत्तिपरत्वम् इत्यन्यतराऽ-पेक्षत्वमिति भावः । एतेन सम्पत्तिपरत्वस्यैव वक्तव्यत्वात् अन्यतरापेक्षमिति सन्दिग्धत्वकथनं अयुक्तमिति परास्तम् ।
पूर्वपक्षस्तु न मुक्तनां भोगो युज्यते । देहभावाभावयोर्विरोधात् । तथा हि मुक्तस्य बाह्यदेहो विद्यते न वा । नाद्यः दुःप्रखसङ्गात् । द्वितीये भोगाऽसम्भवः अशरीरिणो भोगायोगात् । न च चिच्छरीरेण भोगोपपत्तिः । सुप्त्यादौ विद्यमानस्यापि तस्य भोगायतनत्वाऽदर्शनात् । न च ब्राह्मणदेहेन तदुपपत्तिः । परदेहस्य परं प्रति भोगायतनत्वायोगात् । अतः कथमपि मुक्तानां निर्दुःखभोगायोगात् अपुरुषार्थत्वं मुक्तेरिति ।
सिद्धान्तस्तु युक्त एव मुक्तानां भोगः । चिन्मात्रदेहसद्भावात् । न च तस्य सुप्तावदर्शनात् भोगायतनत्वासम्भवः । अज्ञानाद्यावृतत्वेन तदा भोगायतनत्वाभावेऽपि अज्ञाननिवृत्त्यनन्तरं तत्सम्भवात् । तर्हि प्रतिबद्धं कारणं कार्यं न जनयतीत्येतावता तदपगमेऽपि कार्यं न जनयतीति सांप्रतम् । न च दुःखप्रसङ्गः । बाह्यदेहाभावात् । ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत’ इति आम्नानादिति बादरिराचार्यो मन्यते । तथा युक्त एव मुक्तानां भोगः बाह्यदेहस्य सद्भावात् ।
न च तत्र प्रमाणाभावः । ‘चिता वा चिता वा नित्येन वाऽथानन्दीभवति’ इति विकल्पाम्नानात् इति जैमिनिराचार्यो मन्यते । पक्षद्वयेऽपि प्रमाणसद्भावात् मुक्तानां बाह्यदेहो विद्यते न विद्यत इति भगवान्बादरायणो मन्यते । न च शरीरभावाभावयोरसम्भवः । द्वादशाहपरिसमाप्यस्य यागस्य इच्छया शरीरभावाभावयोरुपपत्तेः । न च शरीराभावदशायां भोगाभावः, शरीराभावेऽपि स्वप्नवदुपपत्तेः । ननु शरीरदशायां जाग्रद्वत् मुक्तनां बाह्यदेहेन भोगोऽभिमतः । एवं च सति दुःखमपि प्राप्नातीति चेन्न यथा प्रदीपो दीपिकां प्रविश्य तस्थं तैलाद्येव भुङ्क्ते न तु कार्ष्ण्यम् । एवं बाह्यशरीरमनुप्रविष्टोऽपि मुक्तः तत्र सुखमेव भुङ्क्ते, न तु दुःखं ‘तीर्णो हि तदा सर्वान् । शोकान् हृदयस्य भवति’ इति श्रुतेः । नन्वियं श्रुतिः स्वर्गादिस्थविषयेति न मुक्तानां दुःखाभावे प्रमाणमिति चेत्, अस्य वाक्यस्य सुप्तिमुक्तिविषयत्वात् ‘अत्र पिताऽपिता भवति अनन्वागतं पुण्येनाऽनन्वागतं पापेन’ इत्याद्याविष्कृतत्वात् । अतो मुक्तानां निर्दुःखभोगानुभवो युक्त एवेति उपपन्नं मोक्षस्य पुरुषार्थत्वमिति सिद्धम् ।।
वाक्यार्थमुक्तावली
भोगानुपपत्तीति ।। सङ्कल्पादेवेति सूत्रे साक्षादुक्तहेतोरतिशक्यत्वात् तदोकस्त्वास्तदोषत्वरूप-पूर्वपक्षसिद्धान्तन्यायैक्याच्चात एवेत्यधिकरणस्य सङ्कल्पाधिकरणत्वादानन्तर्यम् । अत्र तु द्वादशाह-वदिति मुक्तसङ्कल्पानुसारेणैवोभय विधदेहानुपपत्तिनिवारणादत एवेत्यधिकरणानन्तर्यमित्यनन्तर-सङ्गतिरिति भावः ।। युज्यत इति ।। मुक्तानां भोगो न युज्यत उत युज्यत इति चिन्ता । तदर्थं तेषां बाह्यदेहभावाभावो नोपपद्यत उतोपपद्यत इति । तदर्थं देहभावाभावयोः परस्परविरोध उताविरोध इति । अभावं बादरिराह ह्येवम् । तन्वभावे इति सूत्रनिरस्यं समस्तकार्यमित्युक्त-पूर्वपक्षन्यायं सम्यगस्तं निरस्तभोगलक्षणं कार्यं स्यादिति विवृणोति ।। नेति पक्ष इति ।। भावं जैमिनिर्विकल्पाम्नानात् भावे जाग्रद्वदिति सूत्रनिरस्यसमस्तकार्यमित्युक्तन्यायं व्यनक्ति ।। नेति पक्ष इति ।। देहोऽस्त्यभिमानो नास्तीति पक्षे सम्यगस्तं निरस्तं भोगलक्षणं कार्यं स्यादित्यर्थः । प्रदीपवदावेश इति सूत्रनिरस्यं तमेव न्यायं प्रकारान्तरेण व्यनक्ति ।। अस्ति चेदिति ।। देह अभिमानश्चास्ति चेद्दुःखाज्ञानश्रमादिकं अस्तमभिमानकार्ये स्यादित्यर्थः । तर्कस्य व्याप्तिग्राहकं साक्षिप्रत्यक्षमाह ।। देहिन इति ।। आगममप्याह ।। न ह वा इति ।। अभावं बादरिः तन्वभाव इति सूत्रनिरस्यं तमेव न्यायं व्यनक्ति ।। द्वितीय इति ।। यदि देह एव नास्ति तर्हि सत्वमस्तं निरस्तं कार्यं भोगलक्षणं प्रसज्येतेत्यर्थः । चितिमात्रेणेत्यनेन गतार्थतामाशङ्क्य निषेधति ।। न च चिच्छरीरेणेति ।। ब्राह्मेणेत्यनेनापि गतार्थतां प्रतिषेधति ।। न च ब्राह्मेणेति ।। कथञ्चि-दुपपत्तावपीति ।। सायुज्यभाजामपि कदाचिद्बहिर्भोगाङ्गीकारेण तदा भोगोपपत्यभावात् कथञ्चि-दित्युक्तम् । सूत्रे तन्वभाव इत्यतस्तनोरित्याकृष्यते । चितिमात्रेणेत्यनुकृष्यते । विनेति शेषः । तथा च चितिमात्रदेहं विना तनोरभावं एवं एवमपि देहाभावेऽपि एवमेवं भावं मुक्तानां भोगसम्भवं च बादरिराह । मुक्तस्य देहाभावः कुतः प्रमाणादित्यत उक्तमाहेति । हि यस्मादेवं मुक्तस्य शरीराभाव इत्येवं कौण्ठरव्यश्रुतिराह तस्मादिति सूत्रार्थमभिप्रेत्य व्याचष्टे ।। मुक्त एवेत्यादिना ।। वावेत्यवधारणे । प्रियाप्रिये सुखदुःखे । उन्मथ्यते नीचोच्चतालक्षणविक्रियां लभते ।।
तत्त्वसुबोधिनी
मुक्तानां भोगानुपपत्तिनिवारणादिति ।। न चास्याधिकरणस्य ब्राह्मणेत्येतदधिकरणानन्तर्यमेव भवेत् कुतो व्यवधानमिति वाच्यम् । तत्र सायुज्यभाजां भोगानुपपत्तिनिवारणम् । अत्र तु सर्वमुक्तानामिति विशेषज्ञापनार्थत्वात् व्यवधानकरणम् । अन्यथा एकविषयत्वप्रतीतिप्रसङ्गात् । देहिनो दुःखादिनियमादित्यत्र श्रुतिमाह ।। न ह वा इति ।। चितिमात्रेण तदात्मकत्वादित्यनेन गतार्थत्वमाशङ्कते न चेति ।। ब्राह्मेणेत्यनेनास्य गतार्थताशङ्कापरिहाराय अभ्यधिकाशङ्कामाह ।। न च ब्राह्मेण देहेनेति ।। कथञ्चिदुपपत्ताविति ।। सायुज्यभाजामपि कथञ्चिद्बहिः भोगाङ्गीकारेण तदुपपत्यभावात् कथञ्चिदित्युक्तम् ।
वाक्यार्थविवरणम्
भोगानुपपत्तिरिति ।। भोगाङ्गीकारे या प्राप्ता अनुपपत्तिरित्यर्थः ।। अपहतिरिति ।। प्रियाप्रियाभाव इत्यर्थः ।। भोगायतनत्वेति ।। स्त्रीसम्भोगाद्यायतनत्वेत्यर्थः । सायुज्यभाजामपि कदाचिद्बहिर्निगत्य भोगाङ्गीकारात् । तदोपपत्त्यभावात् कथञ्चिदित्युक्तमिति मन्तव्यम् ।
वाक्यार्थमञ्जरी
देहिनः देहाभिमानवतः ।। न ह वै सशरीरेति ।। शरीराभिमानवन्तं प्रियाप्रिययोः सुखदुःखयोः अपहतिरसम्बन्धो नास्तीत्यर्थः । सायुज्यभाजामपि कदाचिद्बहिर्भोगाङ्गीकारेण तदानीं ब्रह्मदेहेनोत्पत्त्यभावात् कथञ्चिदित्युक्तम् ।। ॐ अभावं बादरिराह ह्येवं ॐ ।। अभावं मुक्तस्य चिन्मात्रदेहादन्यदेहाभावं बादरिर्मन्यते कुतः हि यस्मादशरीरो वावेति श्रुतिरेवमाहेत्यर्थः ।।