ॐ अविभागो वचनात् ॐ
८. अविभागाधिकरणम्
सूत्रभाष्यम्
ॐ अविभागो वचनात् ॐ ।। १६ ।।
‘एते देवा एतमात्मानमनुविश्य सत्याः सत्यकामाः सत्यसङ्कल्पा यथानिकाममन्तर्बहिः परिचरन्ति’ इति गौपवनश्रुतिः । तत्परमेश्वरकामाद्यविभागेनैव तेषां सत्यकामत्वम् । ‘कामेन मे कामः आगाद्धृदयाद्धृदयं मृत्योरिति वचनात् ।
‘मुक्तानां सत्यकामत्वं सामर्थ्यं च परस्य तु ।
कामानुकूलकामत्वं नान्यत्तेषां विधीयत’ इति ब्राह्मे ।।
।। इति अविभागाधिकरणम् ।। ८ ।।
तत्त्वप्रदीपिका
तेषां मुक्तानां वक्ष्यमाणस्यादुःखानन्दभोगविशेषस्योपपत्त्यर्थं सत्यकामत्वमभिस्पृहणीयम्, श्रूयते च, तथा च परमेशितुरन्येषां च सत्यकामत्वे विरोधप्राप्तिमाशङ्क्यमानां परिहर्तुमाह– अविभागो वचनात् ।। परमेश्वरकामसङ्कल्पाविभागेनैव मुक्तानां सत्यकामत्वं सत्यसङ्कल्पत्वं च । विषय-भेदादविभाग उच्यते । यथा ह्यैकमत्यादिव्यवहारो लोके च । अत ईश्वरस्य यं यं प्रति यथा यथाऽभीष्टं भवति तस्य तस्य स्वात्मानमन्यं प्रति च तथा तथाऽभीष्टं भवतीत्येतत्सत्यकामत्वं मुक्तानामतो न विरोधः । ‘कामेन मे काम आगाद्धृयाद्धृदयं मृत्योः’ इति लुङर्थे लोटः प्रार्थनात्मकत्वात् । ‘यदमीषामदः प्रियम् । तदैतूपमामभि’ इति वाक्यशेषाच्च । यदमीषां सर्वसंहारकभगवत्प्रमुखानां देवानां प्रियं तन्मां प्रति प्रियमभ्युपैत्वित्यर्थः । न चात्र मुक्तानां परमाभेदोऽभिप्रेतः । प्रवेशवचनात् । न हि प्रविष्टः प्रवेशस्थानं भवति । न च मुक्तौ प्रवेश एवासिद्ध इति युक्तम् । बहुप्रमाणप्रसिद्धि-प्रतिपादनात् । वागादिशब्दानां चाभिमानिदेवेषु वेदव्यवहारतो मुख्यवृत्त्यभ्युपगमात् । अभिमानि-व्यपदेशस्त्विति प्रागेव प्रसाधितत्वाच्च । निर्विशेषब्रह्माभेदे मुच्यमानस्योत्क्रान्तिगत्युक्तिविरोधश्च । न च सा सगुणमुक्तिविषयेत्यादरणीया । निर्गुणमुक्तेस्तमोगतिव्यतिरेकेणाभावात् । ‘न तस्य प्राणा उत्क्रामन्ति’ इति प्रविष्टविषयम् । न च प्रवेशे दुःखाशङ्का । देहसम्बन्धादिहेतुकं दुःखलेशममृष्यतो मुक्तस्थानं चानुबुभूषतोऽपरोक्षीकृतस्वात्मभूतचिदानन्दात्मकदेहेन्द्रियादिमतस्तस्य चिच्छरीरेन्द्रिय-प्राणविलयस्य चिरात्प्रतीक्षितस्याहिनिलयनीनिरासवत्सुखरूपत्वात् ।
तत्त्वप्रकाशिका
अत्र देवानां मुक्तौ भगवदधीनत्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथा भगवतः सर्वोत्तमत्वहानिप्रसङ्गात्समर्थनीयमेतत् । देवा एव प्रकृता विषयः । किं मुक्तौ स्वतन्त्रा वर्तन्त उतास्वतन्त्रा इति सन्देहः । मुक्तत्वं स्वातन्त्र्यस्य भगवद्धर्मत्वं च सन्देहबीजम् । स्वतन्त्रा एव वर्तन्त इति पूर्वः पक्षः । मुक्तत्वादेव । अस्वातन्त्र्ये संसारिवद्दुःखादिप्राप्तेः । ‘एते देवाः’ इति सायुज्यं प्राप्तानां देवानां सत्यकामत्वादिश्रुतेश्च । न हि परतन्त्रेषु सत्यकामत्वादि सम्भवति । अतो मुक्तानामपि स्वातन्त्र्यात्परमात्मनः सर्वोत्तमत्वोक्तिर्विरुद्धेति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। अविभाग इति ।। परमात्माधीना एव मुक्ता न तु स्वतन्त्राः । न चैवं श्रुत्यादिविरोधः । श्रुतिर्यत्सत्यकामत्वं वक्ति तत्तेषां सत्यकामत्वं परमेश्वरेच्छानुसारेणैवेत्यङ्गीकारात् । अत एव न दुःखादिप्राप्तिः । यदा खलु भगवदिच्छाननुसारेणेच्छति तदा तदलाभेन दुःखादि स्यात् । मुक्तास्तु भगवत्कामानुसारेणैव कामयन्तेऽतो भगवत्कामनिमित्तेन मुक्तकामानन्तरमेव कामितप्राप्तेर-स्वतन्त्राणामपि सत्यकामत्वाददुःखित्वाद्युपपन्नमिति भावः । सत्या नित्याः । सत्यकामत्वश्रुतेः कुतोऽमुख्यार्थतेत्यत आह ।। कामेनेति ।। मृत्योः कामेनेच्छया मे कामः कामितमागात् । आगतं तदिच्छानन्तरप्राप्तत्वात् । कथमीश्वरेच्छया ममेच्छा भगवदिच्छानुसारिणीत्यर्थः । अत्र स्मृतिं चाह ।। मुक्तानामिति ।। सामर्थ्यं चेश्वराधीनमिति शेषः । अतो मुक्तानामस्वातन्त्र्याद्विष्णोरेव सर्वोत्तमत्वमिति सिद्धम् ।।
भावबोधः
भगवदधीनत्वसमर्थनादिति । यदुक्तं पूर्वाधिकरणे भगवत्प्रतिबिम्बत्वेन देवानां भगवति लय इति तदयुक्तम्, तेषां मुक्तत्वादिना स्वतन्त्रत्वात्तदधीनत्वरूपतत्प्रतिबिम्बत्वस्यैव अयोगादित्याक्षेपो-त्थानादनन्तरसङ्गतिरिति भावः । अत एवोपासनासम्बन्ध्यर्थप्रतिपादकानां ‘‘व्यतिहारो विशिंषन्ति हीतरवत्’’ इत्यादीनां उपासनापादेऽन्तर्भाववत्, भगवल्लीनदेवानां भगवदधीनत्वप्रतिपादकस्याप्यस्य पादेऽन्तर्भावो युक्त एव । अत एव वक्ष्यति– देवा एव प्रकृता इति ।। किमिति ।। अत्र भगवल्लीनत्वेन प्रकृता देवाः किं मुक्तौ स्वतन्त्रा उत भगवदधीना इति चिन्ता । तदर्थं तेषां मुक्तत्वसत्यकामत्वादिकं स्वातन्त्र्यसाधकं भवत्युत न भवतीति । तदर्थं सत्यकामत्वादिकं किमीश्वर इव मुख्यं उत ईश्वरकामाद्यनुसारित्वादिरूपममुख्यमिति । तदर्थं तेषां विवक्षितसत्यकामत्वे दुःखप्राप्तिर्न भवत्युत भवतीति ।। मुक्तत्वादेवेति ।। अनेन सत्यसङ्कल्पादेरिति न्यायविवरणे आदिपदेन मुक्तत्वं ग्राह्यमित्युक्तं भवति ।। अस्वातन्त्र्य इति ।। अनेन संसारसमानर्धमत्वं मुक्तेः इति न्यायविवरणांशो व्याख्यातः ।। सत्यकामत्वादिश्रुतेश्चेति ।। अनेन सत्यसङ्कल्पत्वादेरिति न्यायविवरणोक्तसत्यसङ्कल्पत्वहेतोरसिद्धिः परिहृता भवति । श्रुतिर्यत्सत्यकामत्वं वक्तीति । ‘तत्’ इत्यतः पूर्वं भाष्ये शेषोक्तिरियम् । तत्परमेश्वरकामाद्यविभागेनेति भाष्यव्याख्यानपरेणानेन सत्य-सङ्कल्पत्वादेः ईश्वरसङ्कल्पाद्यनुसारित्वनियम इति न्यायविवरणांशस्यापि तात्पर्यमुक्तं भवति । नन्वेवं सत्यस्वातन्त्र्यापातेन दुःखादिप्राप्त्या संसारसमानधर्मत्वं मुक्तेरिति न्यायविवरणेऽभिहितमित्यत आह– अत एवेति ।। सत्यसङ्कल्पत्वादेः ईश्वरसङ्कल्पाद्यनुसारित्वनियमादेवेत्यर्थः । कृतार्थत्वेनैव विशेषोपपत्तेरिति न्यायविवरणं विवृण्वन्, अत एवेत्युक्तमेव दर्शयति– यदा खल्वित्यादिना ।। मुक्तास्त्वित्यादिना कृतार्थत्वेनेत्येतत् मुक्तत्वेनेति अस्वतन्त्राणामपीत्यनेन अवधारणं, स्वातन्त्र्यादिव्यावर्तकमिति अदुःखित्वाद्युपपन्नमित्यनेन विशेषोपपत्तेरित्येतत् दुःखाभाव-सत्यसङ्कल्पत्वादिविशेषोपपत्तेरिति व्याख्यातं भवति । स्वकामितागमनमीश्वरेच्छया कथमित्यत आह– तदिच्छानन्तरमिति ।। स्वकामितागमने स्वेच्छाया एव कारणत्वादीश्वरेच्छायाः कथं कारणत्वमित्याक्षिपति– कथमिति ।। तदुत्तरत्वेन हृदयाद्धृदयं मृत्योरित्येतद्व्याख्याति – ईश्वरेच्छया ममेच्छेति । तात्पर्यमाह– भगवदिच्छानुसारिणीति ।।
भावदीपः
भगवदित्यादि ।। एतेन पूर्वत्रोक्ततदधीनत्वरूपभगवत्प्रतिबिम्बत्वाक्षेपसमाधिरूपत्वादस्य पूर्वानन्तर्यमिति सूचितम् ।। सर्वोत्तमत्वेति ।। तथा च व्यतिहारादिनयोक्तार्थो न युक्त इति भावः ।। भगवद्धर्मत्वं चेति ।। तदनन्यत्वादिनयसिद्धत्वात्तस्येति भावः । मुक्तानामिति भाष्य-सूचितहेतुमाह ।। मुक्तत्वादिति ।। हेतोरप्रयोजकत्वनिरासार्थं सत्यसङ्कल्पत्वादेरीश्वरसङ्कल्पानु-सारित्वनियमे संसारसमानधर्मत्वं मुक्तेरित्यन्यत्रोक्तं तात्पर्यतो विपक्षबाधकत्वेन विवृणोति ।। अस्वातन्त्र्य इति ।। हेतूच्छित्तिरेव बाधिकेत्यर्थः । एत इत्यादिभाष्यसूचितहेत्वन्तरमाह ।। एत इति ।। भाष्योक्तश्रुतेश्चेत्यर्थः । हेतोरप्रयोजकत्वं निराह ।। न हीति ।। अत इति ।। मुक्तत्वा-त्सत्यकामत्वादिमत्त्वाच्चेत्यर्थः । सङ्गतत्वलाभाय प्रागुक्तश्रुतियुक्तिनिरासकतया सूत्रभाष्ये व्याकुर्वन् फलितार्थं तावदाह ।। परमात्मेति ।। श्रुत्यादीत्यादिपदेन मुक्तत्वयुक्तिः । श्रुतिः एत इत्यादि-श्रुतिः । भाष्यं योजयति ।। श्रुतिर्यदित्यादिना ।। प्रागुक्तविपक्षबाधकमपि निराह ।। अत एवेति ।। एतदेव व्यनक्ति ।। यदेत्यादिना ।। अमुख्यार्थतेति ।। भगवत्कामनिमित्तेन मुक्तकामानंतरमेव कामितप्राप्तिमत्त्वादिरूपामुख्यार्थतेत्यर्थः । हृदयादिश्रुतिशेषमवतार्य व्याचष्टे ।। कथमिति ।। फलितार्थमाह ।। भगवदिति ।। अत्रेति ।। सत्यकामत्वश्रुतेरमुख्यार्थत्व इत्यर्थः ।। अत इति ।। श्रुतियुक्त्योरन्यथोपपत्त्या पारतन्त्र्याविरोधकत्वादित्यर्थः ।
अभिनवचन्द्रिका
शास्त्रादिसङ्गतिरिति ।। शास्त्रेणाऽन्तर्भावलक्षणा, अध्यायपादाभ्यां प्रासङ्गिकी सङ्गतिरित्यर्थः ।। किं मुक्तौ स्वतन्त्रा इति ।। यद्यपि मुक्तानां श्रूयमाणं सत्यकामत्वं किं मुख्यं, अथ भगवत्कामानुसारित्वादमुख्यमिति संदेहः । मुख्यमेवेति पूर्वःपक्ष इत्यादिवक्तव्यम्, सूत्रे ‘अविभाग’ इति तस्यैव साध्यत्वोक्तेः, भाष्ये ‘परमेश्वरकामाद्यविभागेनैव तेषां सत्यकामत्वम्’ इत्युक्तेश्च, तथापि स्वतः सत्यकामत्वं स्वातन्त्र्यमेव नान्यदिति द्योतनाय स्वतन्त्रा इत्याद्युक्तम् । श्रुतिं चाह – एते देवा इति ।। सत्यकामत्वस्वातन्त्र्ययोरभेदात्स्वातन्त्र्यसिद्धये सत्यकामत्वश्रुत्युदाहरणं युक्तमिति बोध्यम् । संसारिष्वविद्यामानानियमेन भगवदिच्छया कामितप्राप्तिः कथं मुक्तानां स्यात् । भगवत्सङ्कल्पवैपरीत्येन कामनासम्भवादित्याक्षिपति – कथमिति ।। उक्ताऽऽशङ्कानिवर्तकत्वेन ‘हृदयाद्धृदयं मृत्योः’ इत्यंशं व्याचष्टे – ईश्वरेच्छाया इति ।।
पूर्वपक्षस्तु मुक्ताः स्वतन्त्राः न पराधीनाः मुक्तत्वात् । ‘एते देवा’ इति सायुज्यभाजां सत्यकामत्वश्रुतेश्च । अतो मुक्तानां स्वातन्त्र्यात्, परमेश्वरस्य सर्वोत्तमत्वोक्तिर्विरुद्धेति ।
सिद्धान्तस्तु परतन्त्रा एव मुक्ताः । मुक्तत्वात् । न हि स्वतन्त्रस्य संसारो युज्यते । यतो मुक्तिर्नाम स्यात् । नापि मुक्तौ स्वातन्त्र्ये मुक्तिर्नाम घटते । न हि प्रेक्षापूर्वकारिणो निगडबद्धं स्वाधीनं सन्तं मुक्तौ स्वातन्त्र्यसम्भवे मोचयन्ति । अपि तु मुक्तावपि स्वाधीनमेव । येनेह मुक्तौ स्वतन्त्रान् प्रेक्षापूर्वकारी परमेश्वरो मोचयतीति प्रतिपद्येमहि । न च श्रुतिविरोधः । श्रुत्या परमेश्वर-कामानुसारिकामित्वरूपपारिभाषिकसत्यकामत्वस्यैवाऽभिधानात् ‘कामेन मे काम आगात्’ इति श्रुतेः । ‘मुक्तानां सत्यकामत्वम्’ इति स्मृतेश्च । अतो मुक्तानां स्वातन्त्र्याभावात्परमेश्वरस्यैव सर्वोत्तमत्वमिति सिद्धम् ।।
वाक्यार्थमुक्तावली
भगवदधीनत्वसमर्थनादिति ।। यदुक्तं पूर्वाधिकरणे भगवत्प्रतिबिम्बत्वेन देवानां तत्र लय इति तदयुक्तम् । तेषां मुक्तत्वादिना स्वतन्त्रत्वात्तदधीनत्वरूपतत्प्रतिबिम्बत्वस्यैवायोगादित्याक्षेपोत्थाना-दनन्तरसङ्गतिरिति भावः । न चात्र लयानिरूपणात् पादानन्तर्भाव इति वाच्यम् । लयाक्षेप-समाधानार्थत्वेन पादप्रवेशसम्भवात् । उपासनासम्बन्ध्यर्थानां व्यतिहारो विशिंषन्तीत्यादीना-मुपासनापादेऽन्तर्भाववद्भगवति लयाक्षेपसमाधायकस्याप्यत्रान्तर्भाव एवेति । यद्वा तेषां मुक्तानां वक्ष्यमाणस्यानन्दविशेषभोगस्योपपत्यर्थं सत्यकामत्वमुच्यमानमाशङ्क्य परिहर्तुमाहेति तत्व-प्रदीपोक्तेः । सत्यकामत्वादिकं मुक्तानां किं स्वतन्त्रमुत भगवदिच्छापरतन्त्रमिति प्रसङ्गाच्चिन्त्यत इति न्यायभास्करोक्तेश्च प्रासङ्गिकमिदमधिकरणम् ।। किमिति ।। देवाः किं मुक्तौ स्वतन्त्रा उत परतन्त्रा इति चिन्ता । तदर्थं परतन्त्रत्वे श्रुतं सत्यकामत्वादि न सम्भवत्युत सम्भवति । मुक्तत्व-मप्रयोजकमित्याशङ्क्य सिद्धान्ते मुक्तानां भगवदिच्छानुसारेणेच्छोक्त्याऽवच्छेद्यं समानधर्म इत्युक्त-न्यायं व्यनक्ति ।। अस्वातन्त्र्य इति ।। अविभाग इति सूत्रनिरस्यं तमेव न्यायं प्रकारान्तरेण व्यनक्ति ।। एते देवा इति ।। तथा च सत्यकामत्वादिना भगवत्समानधर्मत्वान्न पारतन्त्र्यमिति भावः ।। श्रुत्यादिविरोध इति ।। भाष्योदाहृतश्रुतिविरोधः । आदिपदेन मुक्तत्वहेतुविरोध-स्तदनुग्राहकदुःखादिप्राप्तिरूपतर्कविरोधश्चेत्यर्थः । भाष्ये गौपवनश्रुतिरित्यनन्तरं तदित्यतः पूर्वमध्याहरति श्रुतिर्यत्सत्यकामत्वं वक्तीति । श्रुतिरित्यतः परं यत्सत्यकामत्वं वक्तीत्यध्याहार इत्यर्थः । भाष्ये परमेश्वरकामादीत्यादिपदेन सङ्कल्पपरिग्रहः । सत्यकामत्वमिति सत्यसङ्कल्प-स्याप्युपलक्षणम् । अविभागेनेत्यस्य तात्पर्यमनुसारेणेति ।। अत एवेति ।। परमेश्वरेच्छानुसारेणैव मुक्तानामिच्छातश्च फलाव्यभिचार इत्यङ्गीकारादेवेत्यर्थः । अदुःखित्वादीत्यादिपदेन मुक्तत्वं गृह्यते ।। अस्वतन्त्राणामपीति ।। मुक्ता इति ।। एतेन कृतार्थतेति न्यायोऽप्यविभागोपपादकत्वेन विवृतो भवति । अस्वतन्त्राणामपि सत्यकामत्वसम्भवेन मुक्तत्वमप्रयोजकमिति भावः । सूत्रे पूर्वपक्षिणा स्वातन्त्र्योपपादकसत्यकामत्वे एते देवाः सत्यकामा इति श्रुत्युदाहरणात् बुध्द्युपस्थापितत्त्वात् प्रस्तुतदेवादिमुक्तानां सत्यकामादेरिति सम्बध्यते । तथा च मुक्तानां सत्यकामादेरीशेच्छादितोऽ-विभागः विभागो व्यभिचारः अविभागोऽव्यभिचारः ईशेच्छां विनाऽभाव इति यावत् ।
यद्वा विभागो विसंवादः अविभागोऽविसंवादः । तत्काम्यकामितेति यावत् । यद्वाऽविभागोऽ-भेदस्तादात्म्यं बाधितमिति विषयैक्यं लक्ष्यते न काम्यकामितेति यावत् । तदुक्तं न्यायभास्करे । यदि भगवन्मुक्तयोरन्यतरकामेनान्यतरकामो विभागेन विसंवादेन स्यात्तर्ह्यविभाग इति । तत्त्वप्रदीपे च परमेश्वरकामसङ्कल्पाविभागेनैव मुक्तानां सत्यकामत्वं सत्यसङ्कल्पत्वं च विषयाभेदादविभाग उच्यत इति । आद्योऽर्थस्तु टीकातः स्पष्टं ज्ञायते ।। अमुख्यार्थतेति ।। अस्वातन्त्र्येण सत्य-कामत्वरूपामुख्यार्थतेत्यर्थः ।। त्वदिच्छेति ।। कामितस्य तवेच्छानन्तरं प्राप्तत्वात् कथमीश्वरे-च्छयाऽऽगतमिति त्वयोच्यत इति प्रश्नाभिप्रायः । तत्परिहाराय हृदयात् हृदयमित्येतद्व्याचष्टे ।। ममेच्छा भगवदिच्छानुसारिणीति ।। इच्छानुसारित्वमिच्छासमानविषयत्वं चेह विवक्षितम् । तदिच्छेति क्वचित्पाठः । तत्रैवं योज्यम् । मृत्योः कामनाऽऽगतत्वमित्येतत्कुत इत्यत आह ।। तदिच्छेति ।। स्वकामितागमने स्वकामस्यैव हेतुत्वात् कथमीश्वरेच्छायाः कारणत्वमित्याक्षिप्य कथमिति तदुत्तरत्वेन हृदयात् हृदयमित्येतत् व्याख्याति ।। ईश्वरेच्छा ममेच्छेति ।। तात्पर्यार्थमाह ।। भगवदिति ।।
तत्त्वसुबोधिनी
भगवदधीनत्वसमर्थनादिति । यदुक्तं पूर्वाधिकरणे भगवत्प्रतिबिंबत्वेन देवानां भगवति लय इति तदयुक्तम् । तेषां मुक्तत्वादिना तदधीनत्वरूपतत्प्रतिबिंबत्वस्यैवायोगादिति आक्षेपोत्थाना-दनन्तरसङ्गतिरिति भावः । अत एवोपाधिसम्बन्ध्यर्थप्रतिपादकानामुपासनेऽन्तर्भाववत् भगवल्लीन-देवानां भगवदधीनत्वप्रतिपादकस्याप्यस्यात्र पादेऽन्तर्भावो युक्त एवेति ध्येयम् । श्रुतिर्यत्सत्यकामत्वं वक्तीति तदित्यतः पूर्वं भाष्ये शेषोक्तिरियम् । नन्वेवं च स्वातत्र्यापातेन दुःखादिप्राप्त्या संसार-समानधर्मत्वं मुक्तेरित्युक्तमित्यत आह ।। अत एवेति ।। तस्य सङ्कल्पत्वादेरीश्वरसङ्कल्पाद्यनु-सारित्वनियमादेवेत्यर्थः । अत इति भगवत्कामलक्षणनिमित्तेन मुक्तकामानन्तरमेवेत्यर्थः । स्वकामितागमनमीश्वरेच्छया कथमित्यत आह ।। तदिच्छानन्तरप्राप्तत्वादिति ।। स्वकामितागमने स्वेच्छाया एव कारणत्वादीश्वरेच्छयाः कथं कारणत्वमित्याक्षिपति ।। कथमिति ।। तदुत्तरत्वेन हृदयाद् हृदयं मृत्योरित्येतद्व्याख्याति । ईश्वरेच्छया ममेच्छेति ।। तात्पर्यमाह ।। भगवदिच्छानु-
सारिणीति ।। स्मृतिस्थसामर्थ्यं चेत्यस्यानन्वयात् तदर्थं शेषं पूरयति ।। सामर्थ्यं चेश्वराधीनमिति ।।
वाक्यार्थविवरणम्
मृत्योः । मारकस्य भगवतः । स्वकामितागमनं कथमीश्वरेच्छयेत्यत आह ।। तदिच्छानन्तर-मिति ।। ईश्वरेच्छायाः कारणत्वमाक्षिपति ।। कथमिति ।। तदुत्तरत्वेन ‘हृदयाद्धृदयं मृत्योः’ इत्येदद्व्याख्याति ।। ईश्वरेच्छया ममेच्छेति ।। तत्तात्पर्यमाह ।। भगवदिति ।।
वाक्यार्थमञ्जरी
मुक्तानां सत्यकामत्वादेरीशेच्छातोऽविभागोऽपृथक्त्वं तदनुसारित्वमिति यावत् कुतः । ‘कामेन मे काम आगात्’ इति वचनादित्यर्थः ।। अत एवेति ।। सत्यसङ्कल्पत्वादेरीश्वरसङ्कल्पानुसारित्व-नियमादेवेत्यर्थः । तदेव विवृणोति यदेति ।। सत्या नित्या इति ।। सदातनं सत्यमिति नित्यमे-वोच्यते बुधैरित्युक्तेरित्यर्थः । स्वकामितागमनमीश्वरेच्छया कथमित्यत आह ।। तदिच्छानन्तर-मिति ।। स्वकामितागमने स्वेच्छाया एव कारणत्वादीश्वरेच्छायाः कथं कारणत्वमित्याक्षिपति ।। कथमिति ।। तदुत्तरत्वेन हृदयाद्धृदयं मृत्योरित्येतद्व्याख्याति ।। ईश्वरेच्छाया इति ।। तात्पर्यमाह ।। भगवदिच्छेति ।।
।। इति अविभागाधिकरणम् ।। ८ ।।