ॐ रचनानुपपत्तेश्च नानुमानम् ॐ
अथ द्वितीयः पादः
१. रचनानुपपत्त्यधिकरणम्
सूत्रभाष्यम्
‘इतरेषां चानुपलब्धेः’ (ब्र.सू.२-१-२) इति सामान्यतो निराकरणं समयानां कृतम् । विशेषतो निराकरोत्यस्मिन्पादे ।
अचेतनप्रवृत्तिमतंप्रथमतो निराकरोति–
।। ॐ रचनानुपपत्तेश्च नानुमानम् ॐ ।। १ ।।
अचेतनस्य स्वतःप्रवृत्त्यनुपपत्तेर्नानुमानपरिकल्पितंप्रधानं जगत्कर्तृ । चशब्देनप्रमाणाभावं दर्शयति ।
सत्तर्कदीपावली
जगज्जन्मादिकर्तरि नारायणे सर्ववेदप्रतिपादिते पूर्वोद्भावितस्मृत्यादिविरोधान् पूर्वपादे परिहृत्या अस्मिन्पादे विशेषतः परपक्षनिराकरणं क्रियते । सामान्यतस्तस्मिन्निराकरणम् इतरेषां चानुप-लब्धेरित्यत्र कृतं पशुपतिकपिलकणादादिग्रन्थोक्तार्थानां केषाञ्चिद्योगानुपलम्भबाधितत्वोक्त्या तद्ग्रन्थानां अनाप्तोक्तत्वसिद्धेस्तदाह ।। इतरेषामित्यादिना ।। तत्र तावन्निरीश्वरसाङ्ख्यमतं निराकरोति ।। रचनेत्यादिना ।।
तत्त्वप्रदीपिका
प्रथमपादस्य युक्त्यविरोधप्रदर्शनपरत्वात्समयानां च सकलानां युक्त्यवष्टम्भकत्वात्तत्रैव समस्त-समयनिरसनसौलभ्यमुपलभ्यते । तच्च ‘इतरेषां चानुपलब्धेः’ इति कृतम् । ततश्च तेनास्य पादस्य पौनरुक्त्यमित्येतामाशङ्कामपाचिकीर्षताप्रपञ्च्यप्रपञ्चकभावात्मिका सङ्गतिरिह सङ्गीर्यते भगवता भाष्य-कारेण इतरेषां चानुपलब्धेरित्यादिना । तत्तदुदितदृष्टफलानुपलम्भयुक्त्या सामान्यतो निराकृताः समयाः । इह तु समूलतूलमुच्छिद्यन्तेप्रत्येकं मूलफलप्रमाणप्रत्याख्यानेन ।
तत्र साङ्ख्या मन्यन्ते । अचेतनं स्वतन्त्रंप्रधानं जगदाकारेण परिणमते । सुखदुःखमोहात्मकं चेदमुपलक्ष्यते स्त्रीपिण्डादिदृष्टान्तेन । ततस्तत्कारणेनापि त्रिगुणात्मकेन भवितव्यम् । तथा चायंप्रयोगः । विमतमचेतनकर्तृकं कार्यत्वात् । यत्र क्वचन कदाचिदचेतनं किञ्चित्स्वत एव कार्यकरं सम्पद्येतेति स्यादेव दृष्टान्तः । अपि च विमतं सुखदुःखमोहात्मककारणपूर्वकं सुखदुःखमोहात्म-कत्वात् । यद्यदात्मकं तत्तदात्मककारणपूर्वकं यथा घट इति । एतन्मतंप्रथमतो निराकरोति ।प्रधानविरोधित्वादस्य । अचेतनप्रवृत्तिवादिनां निर्विशङ्कं केवलाचेतनप्रवृत्तिं वदतःप्रधानत्वात् । स्वतन्त्रचेतनवादिनस्स्वतन्त्राचेतनवादिनि विरोधस्य चाऽत्यन्तिकत्वात् ।
ॐ रचनानुपपतेश्च नाऽनुमानम् ॐ । ‘आनुमानम्’ अनुमानपरिकल्पितं न जगत्कर्तृ । स्वतन्त्रप्रवृत्तिर्हि रचना नाम । सा च विचित्रविष्टपविषया विशिष्टचेतने सम्बोभूयमाना नैवाचेतनस्य स्यात् । चशब्देनप्रमाणाभावं दर्शयति । अचेतनं न स्वतन्त्रंप्रवर्तते, अचेतनत्वाद्घटवदिति विपर्ययेणानुमातुं शक्यत्वात् । साध्यविकलश्च परदृष्टान्तः । द्वितीयो हेतुरसिद्धः । आगमवागप्यखिलकर्तारं परमविगानेनावगमयतीति पुरस्तादेवोदीरितम् । यथा कर्तृत्वे तथा भोक्तृत्वमोचकत्वादौ चप्रमाणाभावं दर्शयति । तत्पक्षेप्रमाणाभावमेव च दर्शयति । स्वत एव ह्यप्रामाण्यं चासौ मन्यतेप्रमाणानाम् ।
तत्त्वप्रकाशिका
एतत्पादप्रतिपाद्यं दर्शयति ।। इतरेषामिति ।। सर्वविरोधानां युक्तिमूलत्वेन तद्विरोधस्य प्राबल्या-त्प््राथमपादे स निराकृतः । इतरविरोधत्रयेऽनादिकालानुवृत्तसमयविरोधस्यैवप्रबलत्वाच्छ्रुतिसमन्वयसिद्धे ब्रह्मणो जगत्कारणत्वे समयविरोधं परिहर्तुं तानस्मिन् पादे निराकरोति भगवान्सूत्रकारः । न च वाच्यमितरेषां चानुपलब्धेरिति कपिलकणादादिसमयानामुक्तानुपलब्ध्याऽनाप्तोक्तत्वेन निराकृतत्वाद् व्यर्थोऽयं पाद इति । तत्र सामान्यतो निराकृतानामत्र विशेषतो निराकरणात् । न ह्यनादिकालानु-वृत्तानांप्रतीतिसुन्दराणां तेषां सामान्यतो निराकरणेऽधिकारिणो निःशङ्काप्रवृत्तिर्भवतीति भावः । आद्याधिकरणार्थं दर्शयति ।। अचेतनेति ।। समया द्विविधाः । हैतुकपाषण्डभेदात् । वेदवादिनांप्रथमपादे निराकृतत्वात् । ‘अक्षपादकणादौ च साङ्ख्ययोगौ च हैतुकाः । बौद्धपाशुपताद्यास्तु पाषण्डा इति कीर्तिताः’ । तत्र पाषण्डेभ्योऽपि हैतुकाःप्रबलाः । युक्तिमत्त्वात् । तेषु च साङ्ख्यचार्वाक-समयस्यैवातिविरोधित्वम् । ईश्वरनिरपेक्षाचेतनप्रवृत्तिवादित्वात् । तत्र चार्वाकसमयस्याति-विरोधित्वेऽप्यतितुच्छत्वेनप्रथमं निषेध्यतायोगादादौ साङ्ख्यसमयो निराकर्तव्यः । स च द्विविधः । निरीश्वरः सेश्वरश्च । तत्र निरीश्वरस्यैवातिविरोधित्वम् । अतो निरीश्वरसाङ्ख्यमतमेवादौ निराकरोतीति भावः । अत एवात्र हरेर्जगत्कारणत्वे निरीश्वरसाङ्ख्यमतविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । विष्णुः सर्वकर्तेत्युक्तम् । तत्र च साङ्ख्यमतविरोधे लक्षणासम्भवप्रसङ्गादसौ निराकर्तव्य एव । अतो विष्णोः सर्वकर्तृत्वं विषयः । युक्तं न वेति सन्देहः । समयविवादः सन्देह-बीजम् । न युक्तमिति पूर्वः पक्षः ।प्रकृतेरेव महदादिकारणत्वात् । भवितव्यं खलु कार्येण स्वसदृशकारणवतैव । अन्यथाऽतिप्रसङ्गात् । न हीश्वरस्य महदादिसारूप्यमीश्वरवादिभिरभ्युपेयते । न चप्रकृतिप्रारकत्वेनेश्वरोऽङ्गीकर्तव्यः । केवलप्रकृतेरेव कर्तृत्वाभ्युपगमात् । न चान्यदीश्वराङ्गीकारेप्रयोजनं पश्यामः । अतःप्रकृतेरेवाशेषकर्तृत्वान्नेश्वरस्य कर्तृत्वं वास्तीत्युक्तमयुक्तमिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। रचनेति ।। न कार्यं स्वसदृशकारणवत् कार्यत्वादित्यनुमानेन कारणतया कल्पितंप्रधानं जगत्कर्तृ । स्वतःप्रवृत्तिमदेव हि कर्तृ भवति । न चप्रधानस्य स्वतःप्रवृत्तिर्युक्ता अचेतनत्वाद् घटवत् । अतो युक्तं विष्णोर्जगत्कारणत्वमिति भावः । प्रामाणिकंप्रधानस्य जगत्कारणत्वं न युक्त्या निराकर्तुं शक्यमित्यत आह ।। चशब्देनेति ।। प्राचीनमनुमानं तु कारणत्वमात्रसाधकं नप्रकृतोपयोगि । स्वतःप्रवृत्तिसाधकं तुप्रमाणं नास्त्येवेति भावः ।
गुर्वर्थदीपिका
चेतननिरपेक्षपात्रस्थाचेतनपयस एव रात्रौ दध्याकारेण परिणामदर्शनाज्जगदुपादानप्रकृतेरेव कर्तृत्वमिति भावेनाह केवलप्रकृतेरिति ।। ‘न कार्यम्’ इत्यत्रोक्तनञो जगत्कर्तृ नेति सम्बन्धः । कारणत्वमात्रसाधकमित्यत्रप्रकृतेरिति शेषः । सर्वं कारणं स्वसदृशमिति तु घटादावप्यभावाद् दृष्टान्तविकलम् । मातुः पुमपत्येन सता वक्तुमशक्यं च । यत्किञ्चित्कारणस्य स्वसदृशत्वसाधनेप्रकृत्याख्यस्य स्वसदृशोपादानस्यास्माभिरप्यङ्गीकृतत्वात् सिद्धसाधनम् । तेन च मृदादिवत्कर्तृ-त्वासिद्धेःप्रकृतानुपयुक्तं चेत्यर्थः ।
भावबोधः
इतरविरोधत्रये अनादिकालानुवृत्तसमयविरोधस्येति ।। अपौरुषेयवेदापेक्षया समयानां दौर्बल्यशङ्कानिरासायोक्तम्– अनादिकालानुवृत्तेति ।। अत एव सुधायाम् ।
‘अनादिकालतो वृत्ताः समया हिप्रवाहतः’
इत्यनुव्याख्यानमेवं व्याख्यातम् । ‘नन्वेवमुभयोरपि अनादिकालानुवृत्तत्वेन साम्यात् समय-विरोधस्य कथं प्राबल्यमिति चेत्, न समयपदेनैव समूलस्यात्यन्तभ्रमहेतुत्त्वेन तत्वज्ञानादि-विरोधित्वस्य च श्रुतिविरोधापेक्षया तद्विरोधस्य प्राबल्यहेतोः सूचितत्वात्’ इति । तत्र सामान्यतो निराकृतानामिति ।। अनेन पूर्वपादेनास्य पादस्यप्रपञ्च्यप्रपञ्चकभावलक्षणा सङ्गतिरित्युक्तं भवति । वैदिकसमयस्यापि तृतीयस्य सत्त्वात् कथं द्वैविध्यमित्यत आह– वेद-वादिनामिति ।। वेदावष्टम्भेन पूर्वपक्षं कुर्वताम्, ‘असदिति चेत्’ इत्यादौप्रथमपादे निराकृतत्वा-दित्यर्थः । यद्यप्यत्रप्रतिक्षेप्यवैशेषिकादीनां वेदप्रामाण्यवादित्वेन वैदिकत्वमस्त्येव । तथापि न वेदप्रामाण्यवादित्वं वैदिकत्वम्, किं तु तत्प््राधानत्वं वैशेषिकादीनां तु हेतुप्रधानत्वमेवेति न वैदिकत्वमिति भावः ।। युक्तिमत्त्वादिति ।। यद्यपि चार्वाकमते युक्तिर्नप्रमाणम्; तथापि लोकव्यवहारोच्छेदभिया धूमादिज्ञानानन्तरं वह्न्यादिज्ञानं सम्भावनारूपम् । संवादेन च तस्य प्रामाण्याभिमान इत्यङ्गीकृतत्वेन तस्यापि युक्तिमत्त्वादिति भावः ।। युक्तं न वेतीति ।। अत्र विष्णोः सर्वकर्तृत्वं किं न युक्तमुत युक्तमिति चिन्ता । तदर्थं निरीश्वरसाङ्ख्यसमयः श्रुत्युक्तजग-त्कर्तृत्वबाधनक्षमो भवत्युत नेति । तदर्थं महदादिकं स्वसदृशकारणजन्यं कार्यत्वादिति तत्परि-कल्पितमनुमानं किमनाभासमुतप्रधानम्, न स्वतःप्रवृत्तिमदचेतनत्वादित्याद्यनुमानबाधितत्वेना-भासमिति । तदर्थमचेतनत्वहेतोः पयोऽम्ब्वयस्कान्तादौ व्यभिचारोऽस्त्युत नास्तीति । तदर्थं पयोऽम्ब्वादेश्चेतनाधीनप्रवृत्तिमत्त्वेप्रमाणं नास्त्युतास्तीति ।। अनुमानेन कारणतया कल्पित-मिति ।। अनेन सूत्रे आनुमानमिति पदविभागमभिप्रात्यानुपरिकल्पितमिति भाष्येऽभिहितमित्युक्तं भवति ।
भावदीपः
वक्ष्यमाणभाष्येणैव पदार्थज्ञानसम्भवादादौ तत्प््रादर्शनं व्यर्थमित्यतः सङ्गत्यर्थत्वेन सार्थक्य-मुपेत्य तथैव व्याचष्टे ।। सर्वेति ।। न विलक्षणत्वनयसिद्धनित्यनिर्दोषभाववेदविरोधतोऽपि साङ्ख्यादिसमयानां कुत आदौ निरास इत्यत आह ।। अनादीति ।। ‘अनादिकालतो वृत्ताः समया हिप्रवाहतः । न चोच्छेदोऽस्ति कस्यापीत्याद्यनुभाष्योक्तेः’ इति भावः । उक्ताहाने-स्तन्निरासो व्यर्थ इत्यत आह ।। श्रुतीति ।। कर्माकाङ्क्षां पूरयति ।। तानिति ।। विशेषतो निराकृतिर्व्यर्थेत्यत आह ।। न हीति ।।प्रथमतो निराकृतावचेतनपदसूचितं हेतुं वक्तुमाह ।। समया इति ।। ननु वेदवादरतो न स्यान्न पाषण्डी न हैतुकीति समयत्रैविध्यस्य एकादश-स्कन्धोक्तेः कथं द्वैविध्यमित्यतोऽत्रपादे निराकार्यत्वाशयेनेति भावेनाह ।। वेदवादिनामिति ।। वेदेन सह वादो यो वेदवाद इतीरितः । तर्केण वेदस्यान्यार्थकल्पनं तद्विदो विदुरित्येकादशस्कन्ध- तात्पर्योक्तलक्षणवेदवादिनामित्यर्थः । हैतुकादयः के इत्याकाङ्क्षायां द्वितीये गीतातात्पर्योक्त-नारदीयस्मृत्या दर्शयति ।। अक्षपादेति ।। साङ्ख्यचार्वाकेति ।। चार्वाकस्याहैतुकत्वेऽपि अचेतन-प्रवृत्तिवादित्वसाम्यात्साङ्ख्यमते तन्निरास इति भावः ।। निरीश्वरेति ।। यद्यपि द्वितीयनयनिरस्यं साङ्ख्यमतं सेश्वरं तथापि तेनेश्वरस्य स्वातन्त्र्यास्वीकारेण निरीश्वरवादप्रायत्वादीश्वरनिरपेक्षे-त्युक्तम् ।। अतिविरोधित्वेऽपीति ।। अदृष्टमात्रानभ्युपगमादिति भावः ।। अतिविरोधित्वमिति ।। ईश्वराख्यविशेषस्यैवानभ्युपगमादिति भावः ।। अत एवेति ।। तन्मतस्यातिविरोधित्वेन तन्निराकरणस्यावश्यकत्वादेवेत्यर्थः । चिन्तायाः पूर्वसङ्गतिसाफल्ये वक्ति ।। विष्णुरिति ।। अतः सङ्गतिफलयोर्भावादित्यर्थः ।। समयेति ।। सांख्यवैष्णवसमयविवाद इत्यर्थः । अत्र न्यायविवरणे उक्तविरोधिनस्तत्तत्समयसिद्धाः पूर्वपक्षन्यायास्तद्विरोधिनोऽन्य इतिप्रसिद्धमेवेत्युक्त्या एतत्पादीय- न्यायविवरणाभावात् ।
वत्सविवृद्धिनिमित्तं क्षीरस्य यथाप्रवृत्तिरज्ञस्य ।
पुरुषस्य विमोक्षनिमित्तं तथाप्रवृत्तिःप्रधानस्य ।।
इति साङ्ख्यकारिकाविवरणपरेणाचेतनस्य कर्तृत्वं स्वातन्त्र्येण निगद्यत इत्यनुव्याख्याने नोक्ततन्मतानुरोधेनानुमानपरिकल्पितंप्रधानं जगत्कर्तृ इति भाष्यं विवृण्वन्पूर्वपक्षमाह ।।प्रकृते-रिति ।। अत्रानुमानमाह ।। भवितव्यमिति ।। अनेन महदादिकं स्वसदृशकारणकं कार्यत्वात् घटवदित्यनुमानमुक्तं ध्येयम् । वृश्चिकताण्डुलीयकादावपि तद्देहस्य स्वसदृशकारणकत्वमस्त्येवेति भावः । विपक्षे बाधकमाह ।। अन्यथेति ।। अतिप्रसङ्गादिति ।। तन्त्वादिनापि घटाद्युत्पत्ति-प्रसङ्गादित्यर्थः । सिद्धसाधनतां निराह ।। न हीति ।। नन्वीश्वराभावे कस्यापिप्रवृत्त्ययोगेनप्रकृतेः कारणत्वमेव न स्यादिति तर्कपराहतिरिति भावेनाशङ्क्य निराह ।। न चेति ।। कर्तृत्वेति ।। स्वत एवप्रवृत्तिमत्त्वरूपकर्तृत्वाभ्युपगमादित्यर्थः ।। अत इति ।। ईश्वराङ्गीकारस्य निष्फलत्वादित्यर्थः । आकाङ्क्षाक्रमेण भाष्यं व्याचष्टे ।। न कार्यमिति ।। उक्तसाध्ये भाष्योक्त-हेतोरप्रयोजकत्वनिरासाय व्यतिरेकव्याप्तिमाह ।। स्वतःप्रवृत्तिमदेवेति ।। स्वतन्त्रः कर्तेति स्मरणादिति भावः । भाष्यस्थहेतोः पक्षधर्मतामाह ।। न चेति ।। अचेतनस्येति हेतुगर्भं मत्वाऽह ।। अचेतनत्वादिति ।। अत इति ।।प्रकृतेरेव कर्तृत्वमित्यस्यायोगादित्यर्थः । कार्यत्वमेव मानमित्यत आह ।। प्राचीनमिति ।। नास्त्येवेति ।। दृष्टान्ताभावात् पयोऽम्ब्वादेस्तु निरसिष्यमाणत्वादिति भावः । एतेनानुमानं न मानं विवक्षितार्थसाधकतया अनुमानरचनाया अनुपपत्तेरिति सूत्रस्यार्थान्तरमुक्तं भवति ।
अभिनवचन्द्रिका
एतत्पादर्थमिति ।। ‘अध्यायस्यैकार्थत्वात् पादभेदः किंनिबन्धन इत्यत’ इति वर्तते । तस्य ‘एतत्पादार्थं दर्शयति’ इत्यनेन सम्बन्धः ।। आद्याधिकरणार्थमिति ।। ‘पादस्यैकार्थत्वा-दधिकरणभेदः किं निबन्धन इत्यत’ इति शेषः ।। साङ्ख्ययोगाविति ।। उपलक्षणमेतत् । चार्वाक इत्यपि ग्राह्यम् । यद्यपि चार्वाकः प्रत्यक्षमात्रप्रामाण्यवादित्वान्न हैतुकः, तथापि पररीति-मवलम्ब्य स्वशास्त्रे बहुयुक्त्युपन्यासात् सोऽपि हैतुकेषु सङ्ग्राह्य इति बोध्यम् ।। अत एवेति ।। अस्यैव विवरणं हरेर्जगत्कारणत्वे निरीश्वरसाङ्ख्यमतविरोधपरिहारादिति ।। प्रकृतेरेव महदादि-कारणत्वादिति ।। कर्तृविरहितायाः प्रकृतेः महदादिकारणत्वादित्यर्थः । कर्तृविरहितायाः प्रकृतेः कारणत्वं वक्तुं कारणत्वमात्रसाधकमनुमानं तावदाह– भवितव्यं खल्विति ।। कार्यस्य स्वसदृशकारणकत्वनियमेऽपि ईश्वर एव कारणमस्त्वित्यत आह– न हीति ।। न चेति ।। प्रेरकत्वमिह कार्योन्मुखीकरणम् ।। केवलप्रकृतेरेवेति ।। केवलायाः प्रकृतेः कार्योन्मुखत्वस्य समयकर्तृभिरभ्युपगमादित्यर्थः ।। अशेषकर्तृत्वादिति ।। अशेषकार्योन्मुखत्वादित्यर्थः । एतेन ज्ञानादिमत्त्वरूपत्वादचेतनस्य कर्तृत्वाभिधानमयुक्तमिति परास्तम् ।। जगत्कर्त्रिति ।। स्वत एव कार्योन्मुखमित्यर्थः ।। कर्तृ भवतीति ।। स्वतः कार्योन्मुखं भवतीत्यर्थः । कर्तैव खलु स्वतःप्रवृत्तिमत्त्वात् स्वतःकार्योन्मुखः, अन्यत्तु उपादानादिकं प्रयत्नविधुरत्वात् कर्त्रधीनतया कार्योन्मुखमिति भावः ।
वाक्यार्थमुक्तावली
एतत्पादार्थमिति ।। अध्यायस्यैकार्थत्वात् भेदः किं निबन्धनः इत्यत एतत्पादार्थं दर्शयतीत्यर्थः । अपौरुषेयवेदापेक्षया समयानां दौर्बल्यशङ्कां निराह ।। अनादीति ।। तदुक्त-मनुव्याख्याने– ‘अनादिकालतो वृत्ताः समया हिप्रवाहत’ इति । उभयोरप्यनादित्वसाम्येऽपि अज्ञानदशायामेव वेदविरोधस्फुरणात् । समयविरोधस्य विमर्शदशायामपि प्राप्तेः । बहुजन-परिगृहीतत्वात् प्राज्ञैः कपिलादिभिःप्रवर्तितत्वाच्च प्राबल्यम् ।। विशेषत इति ।। सामयिकत-त्तत्प््रामेयेषु दृढयुक्तिविरोधस्य विशिष्योक्त्याप्रपञ्च्यतेऽस्मिन्पादे इति पूर्वपादेनप्रपञ्च्यप्रपञ्चक-भावलक्षणा सङ्गतिरुक्ता भवति । भाष्येप्रथमत इत्यस्यप्रथमभागे केषुचिदधिकरणेष्विति भ्रमं वारयति ।। आद्य इति ।। पादस्यैकार्थत्वात् अधिकरणभेदः किंनिबन्धन इत्यत इति पूरणीयम् । ननु ‘वेदेन सह वादो यो वेदवाद इतीरितः । तर्केण वेदस्यान्यार्थकल्पनं तद्विदो विदुः’ ।। इत्युक्तलक्षणाः वेदवादिनोऽपि ‘वेदवादरतो न स्यान्न पाषण्डी न हैतुकी’ इति पाषण्डादि-वन्निषिद्धत्वात् त्रिविधा इति वक्तव्यं, कथं समयद्वैविध्यमित्यत आह ।। वेदवादिनामिति ।। ‘भोक्त्रापत्तेः’ इत्यादिना निराकृतत्वादित्यर्थः ।। तेषु च साङ्ख्यचार्वाकसमयस्येति ।। यद्यपि चार्वाकमते युक्तिर्नप्रमाणं तथापि लोकव्यवहारभिया धूमादिज्ञानानन्तरं वह्न्यादिज्ञानं सम्भावनारूपं जायते, संवादेन च प्रामाण्याभिमान इति तैरङ्गीकृतत्वेन पररीतिमवलम्ब्य स्वग्रन्थे बहुयुक्त्युपन्यासाच्च हैतुकत्वं बोध्यम् ।। ईश्वरनिरपेक्षेति ।। यद्यपि सेश्वरोऽप्यस्ति साङ्ख्यः । तथापि तेनेश्वरस्यास्वातन्त्र्याङ्गीकारेण निरीश्वरवादप्रायत्वादीश्वरनिरपेक्षेत्युक्तम् ।। अतितुच्छ-त्वेनेति ।।प्रत्यक्षैकप्रमाणबाधित्वादिति भावः ।। अत एवेति ।। एवमधिकरणोपाधेर्भाष्ये उक्तत्वादेवेत्यर्थः । सर्वधर्मोपपत्तेरिति गुणपूर्तिव्युत्पादनमयुक्तम् । धर्मिण ईश्वरस्यैवाभावात् । इत्याक्षेपादनन्तरसङ्गतिरिति भावः ।। युक्तमिति ।।
अत्र विष्णोः सर्वकर्तृत्वरूपं कार्यं स्वसदृशकारणवत् कारणत्वात् (कार्यत्वात्) इति सामयिकानुमानविरोधादयुक्तमुत युक्तमिति चिन्ता । तदर्थमनुमानं विपक्षे तर्कसाहाय्यादना-भासमुत चेतनत्वानुमानबाधितत्वादाभासमिति । तदर्थं चेतनत्वहेतोः पश्वादौ व्यभिचारोऽस्ति न वेति । अनुमानमिति सूत्रपदनिरसनीयपूर्वपक्षमाह ।। भवितव्यमिति ।। अनेन महदादि-स्वसदृशकारणकं कार्यत्वात् घटवदिति अनुमानमुक्तम् बोध्यम् । वृश्चिकताण्डुलीयकादावपि तद्देहस्य स्वसदृशकारणकत्वमस्त्येवेति भावः । विपक्षे बाधकमाह ।। अन्यथेति ।। गर्दभात् पर्वतोत्पत्तिः स्यादिति भावः । ननु वस्तुत्वेनेश्वरस्य कार्यसारूप्यमस्त्येवेति सिद्धसाधनतेति चेन्न, आत्यन्तिकसादृश्यस्य विवक्षितत्वात् । न च तत्प््रालयेऽस्तीत्याह ।। न हीति ।। नन्वीश्वराभावे कस्यापिप्रवृत्यभावेनप्रकृतेः कार्योन्मुखीभावायोगात् कारणत्वमेव न स्यादिति तर्कपराहति-रित्यत आह ।। न चेति ।। स्वत एवप्रवृत्तिमत्वरूपकर्तृत्व इत्यर्थः ।
अत्र सूत्रे आनुमानमनुमानमिति च पदच्छेदः । जगत्कर्त्रिति शेषः । रचनेति स्वतःप्रवृत्तिरुच्यते ।। अनुपपत्तेरिति ।। उपपत्तिविरुद्धत्वादित्यर्थः । उपपत्तिश्चाचेतनत्वमितिप्रवृत्तं भाष्यं व्याचष्टे ।। न कार्यमिति ।। ननु परेण जडस्य कर्तृत्वं न ज्ञानेच्छाप्रयत्नरूपमङ्गीकारार्हम् । किन्तु स्वतःप्रवृत्तिरूपम् । तत्कथं स्वतःप्रवृत्यनुपपत्या कर्तृत्वाभावसाधनं साध्यावैशिष्ट्यप्रसङ्गात् इत्यत आह ।। स्वतःप्रवृत्तिमदेवेति ।। स्वतन्त्रः कर्तेति स्मरणादिति हिशब्दार्थः । नास्माभिः स्वतःप्रवृत्यभावेन कर्तृत्वाभावंप्रसाध्यासिद्धिवारणायाचेतनत्वेन स्वतःप्रवृत्यभावसाधनं क्रियते । किन्तु स्वतःप्रवृत्तिर्हि कर्तृत्वम् ।प्रधानस्य च परेण सिषाधयिषितायाः कर्तृत्वरूपाया रचनायाः स्वतःप्रवृत्तेरचेतनत्वानुमाने विरोधेनानुपपत्तेर्नानुमानपरिकल्पितंप्रधानं जगत्कर्त्रिति साक्षादेव अचेतनत्वेन स्वतःप्रवृत्यपरपर्यायकर्तृत्वायोग उच्यत इति भावः । एतेनाकर्तृत्वं साध्यं स्वतःप्रवृत्यभावो हेतुः । तदसिद्धिवारणायाचेतनत्वादिति हेतुः, स्वतःप्रवृत्तिमदेव हीति टीकावाक्यं आद्यानुमानस्य व्यतिरेकव्याप्तिप्रदर्शनपरमिति केषाञ्चित् व्याख्यानं निरस्तम् ।। प्रामाणिक-मिति ।। साङ्ख्याचार्यवचनेन, ऋषिंप्रसूतं कपिलमित्याद्यागमावगतयोगिप्रत्यक्षेणाजामेका-मित्यादिश्रुत्या कार्यत्वादित्यनुमानेन च प्राप्तमित्यर्थः । साङ्ख्याचार्यवचनस्येतरेषाञ्चानुपलब्धे-रित्यनाप्तमूलकत्वात् । ऋषिंप्रसूतमित्यादेः ईश्वरावतारकपिलपरत्वात् । श्रुतेरन्यार्थत्वादिति भावः । तथा च न केवलंप्रधानस्य कर्तृत्वरूपस्वतःप्रवृत्तेरुपपत्तिविरुद्धत्वात् किन्त्वप्रामाणिक-त्वाच्च नानुमानकल्पितं जगत्कर्त्रिति सूत्रार्थ उक्तो भवति ।
ननु महदादिकं सजातीयकारणकं कार्यत्वादित्याद्यानुमानस्य सत्वात् कथंप्रमाणाभाव इत्यत आह ।। प्राचीनमिति ।। स्वतःप्रवृत्तीति ।। पराभिलषितकर्तृत्वेत्यर्थः । एतेन नानुमानंप्रमाणं तस्य स्वतःप्रवृत्यनुपपादकत्वेनप्रकृतानुपयोगित्वादिति वृत्यन्तरमुक्तं ज्ञेयम् ।
तत्त्वसुबोधिनी
पूर्वपादप्रतिपाद्यकथनपूर्वकं एतत्पादप्रतिपाद्यमाह ।। सर्वेति ।। इतरविरोधत्रय इति ।। अपौरुषेयवेदापेक्षया समयानां दौर्बल्यशङ्कानिरासायोक्तमनादिकालानुवृत्तेति ।। अत्रप्रवाहतोऽ-नादित्वं समयानां अभिप्रातम् ।प्रवाहत इत्यन्योक्तेरित्यवधेयम् । न चैवमनादिकालानुवृत्तत्त्व-स्योभयत्राप्यविशेषात् कथं समयविरोधस्य वेदविरोधात् प्राबल्यमिति वाच्यम् । समयपदेनैव समूलत्वस्यात्यन्तश्रमहेतुत्वेन तत्त्वज्ञानातिविरोधित्वं श्रुतिविरोधापेक्षया तद्विरोधस्य प्राबल्यहेतोः सूचितत्वादिति ।। तत्र सामान्यत इति ।। अनेन पूर्वपादेनास्य पादस्यप्रपञ्च्यप्रपञ्च्यक-भावलक्षणा सङ्गतिरित्युक्तम् भवति । ननु सामान्यनिराकरणेनैवालम्, किं विशेषनिराकरणे-नेत्यत आह ।। न हीति ।। ननुप्रथमतः निरीश्वरवादिनां समयनिराकरणे किं निमित्तमित्यतः तद्वक्तुं समयद्वैविध्यमाह ।। समया इति ।।
ननु वैदिकसमयस्यापि तृतीयस्य सत्त्वात् कथं द्वैविध्यमित्यत आह ।। वेदवादिनामिति ।। वेदावष्टम्भेन पूर्वपक्षं कुर्वतां असदिति चेदित्यादौप्रथमपादे निराकृतत्त्वादित्यर्थः ।। हैतुकपा-षण्डान् सङ्ग्रहश्लोकेनाह ।। अक्षपादेति ।। बौद्धपाशुपतौ आद्यौ येषां चार्वाकादीनामिति विग्रहः । नन्वाद्याधिकरणषट्के पाषण्डनिरासः एव किन्न क्रियते इत्यत आह ।। तत्रेति ।। यद्यप्यत्रप्रतिक्षेपवैशेषिकादीनां वेदप्रामाण्यवादित्वेन वैदिकत्वं अस्त्येव, तथापि न वेदप्रामाण्यवादित्वं किन्तु तत्प््राधानत्वम् । वैशेषिकादीनां तु हेतुप्रधानत्वमेवेति न वैदिकत्त्वमिति भावः । प्राबल्ये हेतुमाह ।। युक्तिमत्वात् ।। तेष्विति ।। हैतुकपाषण्डेष्वित्यर्थः । अतिविरोधित्वे हेतुमाह ।। ईश्वरेति ।। चार्वाकस्य चेतनमात्रनिरपेक्षदेहप्रवृत्तिवादित्वेन न तत्रासिद्धिरिति भावः । तर्हि चार्वाकसमयः एवप्रथमतः किं न निराक्रियते इत्यत आह ।। तत्रेति ।। उपलक्षणमेतत् । इतरेषां चानुपलब्धेरिति न्यायसञ्चारविषयत्वेनेत्यपि दृष्टव्यम् । साङ्ख्यसमयो हि केवला-चेतनकर्तृकत्वचेतनसहिताचेतनकर्तृकत्वाभ्यां द्वेधा । द्वितीयोऽपि गुणभूतेश्वरानुगृहीतप्रधान-कर्तृकत्वेन जीवसहितप्रधानकर्तृकत्वेन चेति द्विधा इत्याशयेन विभागमाह ।। स च द्विविध इति ।। तत्र केवलाचेतनकर्तृकत्वमते स्वतन्त्रचेतनकर्तृकत्वस्यात्यन्तविरोधिचेतनरूपविशेषस्यैवा-नङ्गीकारात् । अत आद्येऽधिकरणे । तथा च सर्वधर्मोपपत्तिरित्युक्तं पूर्णगुणत्वं नेश्वरस्य युक्तम् तस्यैवाभावात् इत्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः ।। अत एवेति ।। केवलाचेतन-प्रवृत्तिमत्त्वस्य निराक्रियमाणत्वादेवेत्यर्थः । नप्रकृतेर्महदादिकारणत्वं साधकाभावादित्यत आह ।। भवितव्यं चेति ।। कार्यं स्वसदृशकारणवत् कार्यत्वात् घटवत् इत्यनुमानमेव साधकमिति भावः ।। अन्यथेति ।। कार्यस्य स्वसदृशकारणवत्त्वानङ्गीकारे मृत्पिण्डस्य पटकारणत्वं स्यात् इत्यतिप्रसङ्गादित्यर्थः । नन्वीश्वरस्यापि अस्ति महदादिसारूप्यमत आह ।। न हीति ।। अनुमानेनेति ।। एवं च सूत्रे अनुमानमिति पदविभागे अनुमानपदकल्पितमिति व्याख्यातम् । कुतो न जगत्कर्तृत्वंप्रधानस्येत्यत आह ।। स्वतः इति ।। प्रामाणिकमिति महदादिकं सकारणकं कार्यत्वात्, महदादिकं, स्वतन्त्रजडजन्यं इत्यादिप्रमाणसिद्धमित्यर्थः ।। नप्रकृतोपयोगीति ।। सिद्धसाधनत्वादिति भावः । नास्त्येवेति ।। दृष्टान्ताभावादिति भावः ।।
वाक्यार्थविवरणम्
अन्यथेति ।। कार्यस्य स्वसदृशकारणजन्यत्वानङ्गीकारे रासभादपि घटोत्पत्तिः स्या-दित्यर्थः । ‘स्वतन्त्रवृत्ती रचना सा चैवाऽचेतने कुतः । इत्यनुव्याख्यानं हृदि निधायाह ।। नप्रधानस्येति ।। कारणत्वमात्रेति ।। तथा चप्रधानस्योपादानकारणत्व-मङ्गीकुर्वतामस्माकमिष्टमेवेत्याशयः ।।प्रकृतेति ।। स्वातन्त्र्येणप्रवृत्तिसाधकं न भवतीति भावः ।
वाक्यार्थमञ्जरी
इदानीं समयविरोधनिराकरणे निमित्तमाह ।। सर्वविरोधानामिति ।। इदानींतनसमयानां कथमपौरुषेयश्रुतिसिद्धजगत्कर्तृत्वविरोधित्वमित्यत उक्तम् ।। अनादीति ।।प्रवाहतो अना-दीत्यर्थः । वैदिकसमयस्य तृतीयस्य सत्वात्कथं द्वैविध्यमित्यत आह ।। वेदवादिनामिति ।। वेदावष्टम्भेन पूर्वपक्षं कुर्वतां असदित्यादौप्रथमपादे निराकृतत्वादिति भावः । अक्षपादेति नारदीयस्मृतिः तेषु हैतुकेषु ।। अतिप्रसङ्गेति ।। रक्ततन्तुना शुक्लपटोत्पत्तिरूपेत्यर्थः । साङ्ख्यानुमानपरिकल्पितंप्रधानं न कर्तृ कुतः रचनानुपपत्तेः जडस्य रचयितृत्वानुपपत्तेः तत्र मानाभावाच्चेत्यर्थः ।। कारणत्वमात्रसाधकमिति ।। उपादानत्वेनाप्युपपत्तेरिति भावः ।