ॐ एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ॐ
सूत्रभाष्यम्
।। ॐ एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ॐ ।। ७ ।।
‘स वा एष एतस्मान्मर्त्याद्विमुक्तश्चिन्मात्रीभवत्यथ तेनैव रूपेणाभिपश्यत्यभि-शृणोत्यभिमनुतेऽभिविजानाति तामाहुर्मुक्तिः’ इति सौपर्णश्रुतौ चिन्मात्रेणाप्युपन्यासा-ज्जैमिन्युक्तस्य च भावादुभयत्राप्यविरोधं बादरायणो मन्यते । नारायणाध्यात्मे च–
‘मर्त्यं देहं परित्यज्य चितिमात्रात्मदेहिनः ।
चितिमात्रेन्द्रियाश्चैव प्रविष्टा विष्णुमव्ययम् ।।
तदङ्गानुगृहीतैश्च स्वाङ्गैरेव प्रवर्तनम् ।
कुर्वन्ति भुञ्जते भोगांस्तदन्तर्बहिरेव वा ।।
यथेष्टं परिवर्तन्ते तस्यैवानुग्रहेरिता’ इति ।। ७ ।।
।। इति चितिमात्राधिकरणम् ।। ५ ।।
तत्त्वप्रदीपिका
उभयत्रापि प्रमाणसद्भावाच्चिन्मात्रकेन स्वदेहेन ब्रह्मदेहेन च साहित्येन भोगाविरोधं भगवान् बादरायणो मन्यते । साहित्यमनुग्राह्यानुग्राहकभावेन । उक्तं प्रागेव जीवानां सामान्यतः पारतन्त्र्यम् । तत् आमुक्तेरेवेति शङ्का मा भूदित्ययं निर्णयः । प्रत्यक्षत एव सिद्धो मुक्तानां भगव-न्नियतो भोग इति च प्रदर्शनाय ।।
तत्त्वप्रकाशिका
नैतौ परिहारावुपपन्नौ देहभावाभावयोर्विरुद्धत्वाद्वस्तुविकल्पासम्भवादित्याशङ्कां परिहरत्सूत्र-मुपन्यस्य व्याचष्टे ।। एवमपीति ।। नैतयोः पक्षयोर्विरोधोऽस्ति । औडुलोमिनोक्तस्य चिन्मात्रेण भोगस्य जैमिन्युक्तस्य च ब्राह्मेण देहेन भोगस्य प्रामाणिकत्वात् । प्रामाणिके च विरोधाभावात् । न चौडुलोमिमते प्रमाणाभावोऽनुक्तत्वादिति वाच्यम् । ‘स वा एषः’ इति श्रुतौ तदुपन्यासादिति भगवान् बादरायणो मन्यत इति भावः । अविरोधप्रकारं स्मृत्या दर्शयति ।। नारायणेति ।। अतो मुक्तौ भोगसम्भवाद्युक्तं पुरुषार्थत्वमिति सिद्धम् ।।
गुर्वर्थदीपिका
जैमिन्युक्तस्य च भावादित्यत्र जैमिन्युक्तस्य बाह्यदेहपरित्यागस्य भगवदङ्गाश्रितनिजदेहेन भगवता सहभोगस्य च सद्भावादित्यर्थः । एवं तर्ह्युभयमतेऽपि चिन्मात्रदेहसद्भावे जैमिन्यौडुलोमि-मतयोः को विशेष इति चेन्न । स्मृत्युक्तप्रकारेण हरिदेहे स्थित्वा स्वचिन्मात्रदेहेन भोगोऽस्तीति जैमिनिमतम् । बहिरपि चिन्मात्रदेहेन भोगोऽस्तीत्यौडुलोमिमतमिति विशेषसद्भावात् । न चैवं परस्परविरोधः शङ्क्यः । जैमिनिमतस्य सायुज्यदशाकालीनभोगविषयत्वात् । औडुलोमिमतस्य च सायुज्यभाजामेव कादाचित्कबहिर्भोगविषयत्वात्सालोक्यादिमुक्तिविषयत्वाच्च न विरोधः ।
भावबोधः
अनुक्तत्वादिति ।। ‘सर्वं वा एतत्’ इति श्रुतौ मुक्तस्य चिच्छरीरमात्रोक्तावपि तस्य भोग-कारणत्वानुक्तेरित्यर्थः ।। स वा एष इति श्रुताविति ।। उपलक्षणं चैतत् । कथं मुक्तस्य चिन्मात्र एव देहो भवतीत्यादिन्यायविवरणोदाहृतश्रुतावित्यपि द्रष्टव्यम् ।। स्मृत्या दर्शयतीति ।। स्मृतौ ‘मर्त्यं देहं परित्यज्य चितिमात्रात्मदेहिनः’ इत्यनेन जैमिनिमतस्य नश्वरदेहाभावाभ्युपगमरूपत्वेन व्यवस्थयाविरोधपरिहारप्रकारस्योक्तत्वादिति भावः । ‘सायुज्यभाजां भगवत्प्रवेशो न भोगस्य गच्छामि’ इति श्रुत्युक्तरीत्या तदाशासितत्वेन तथा भोगस्य बहिर्भोगापेक्षया प्राथम्यप्राधान्य-बाहुल्यादिना चाभ्यर्हितत्वेनाद्ये सूत्रे तत्र प्रमाणोक्तिः । द्वितीये तदनुग्राह्यतया कादाचित्क-बहिर्भोगकारणतया च ब्राह्मदेहापेक्षयाऽप्रधानजीवस्वरूपचितिमात्रदेहोक्तिः । तृतीये चिन्मात्रदेहस्य भोगकारणत्वे प्रमाणविशेषोक्तिपूर्वकं मुनिमतयोः स्वमतत्वोक्त्याऽविरोधोक्तिरिति सूत्रक्रमः ।।
भावदीपः
नैताविति ।। पूर्वयोगद्वयोक्तावित्यर्थः । उभयत्राप्यविरोधमित्यंतभाष्यं व्युत्क्रमेण व्याचष्टे ।। नैतयोरिति ।। चिन्मात्रेणेत्यनन्तरं भोगस्येति शेषमुपेत्य चिन्मात्रेण भोगस्य जैमिन्युक्तस्य भावात् प्रमाणभावादित्यर्थमुपेत्य व्याचष्टे ।। औडुलोमिनेति ।। हेतोरप्रयोजकत्वं निराह ।। प्रामाणिके चेति ।। श्रुतौ चिन्मात्रेण भोगस्योपन्यासादित्यंशं व्याचष्टे ।। न चेति ।। स वा एष एतदिति श्रुते-र्भाष्यकृतैवोक्तत्वेन सूत्रेऽनुक्तिमभिप्रेत्योक्तमनुक्तत्वादिति । प्रमाणस्येति शेषः । एवं चात्र सूत्रे उपन्यासादित्युक्तिर्युक्तेति भावः ।। अत इति ।। ब्राह्मदेहस्य तदन्यचिन्मात्रदेहस्य च भावादित्यर्थः ।।
वाक्यार्थमुक्तावली
विरुद्धत्वादिति ।। ननु स वा एष ब्रह्मनिष्ठ इदं शरीरं मर्त्यमतिसृज्येति मर्त्यशरीरा-भावस्तत्रोक्तः । अत्र तु चिन्मात्रदेह उक्तः । कुतो विरोध इति चेत् मर्त्यशरीरातिरिक्तचिन्मात्र-शरीरस्यैवाप्रामाणिकत्वेन शरीरं नास्ति शरीरमस्तीत्येव प्राप्तत्वाद्भाष्यकारैरुपन्यस्तप्रमाणस्य मुक्तस्य चिन्मात्रीभावविषयत्वेऽपि चिन्मात्रशरीराविषयत्वादिति भावः । सूत्रे एवंशब्दः प्रकृत-चिन्मात्रविग्रहकरणकभोगपरः । अपिशब्दः पूर्वसूत्रे सामान्येन प्रवृत्तभाष्योदाहृतोद्दालकश्रुति-समुच्चयार्थः । अन्यथा भाष्ये उद्दालकश्रुत्युदाहरणस्योत्सूत्रत्वप्रसङ्गात् । यद्वा जैमिन्युक्त-माध्यन्दिनायनश्रुत्या इहोदाह्रीयमाणसौपर्णश्रुतिसमुच्चयार्थः । पूर्वभावादित्यस्य पूर्वोक्तेन ब्राह्मेण देहेनैव भोगो न मर्त्यदेहेनेत्यत्रापि भावात्प्रमाणभावादित्यर्थः । यद्वा पूर्वोक्तस्य ब्राह्मेणैव देहेन भोगस्य भावात्सत्वात् । सत्वं च प्रामाणिकत्वमिह विवक्षितमिति प्रामाणिकत्वादित्यर्थ इत्याभिप्रेत्य व्याचष्टे ।। नैतयोरित्यादिना ।। स्मृत्येति ।। अपिशब्दगृहीतयेति शेषः । अत्राद्ये सायुज्य-भाजामपेक्षितस्य ब्राह्मेण देहेन भोगस्य तदितरदेहाभावस्य चोक्तिः । द्वितीये तदङ्गानुगृहीतस्वाङ्गै-र्भोगोक्तिः । तृतीयेऽविरोधसमर्थनमिति सूत्रक्रमः ।
तत्त्वसुबोधिनी
स्मृत्या दर्शयतीति ।। स्मृतौ ‘मर्त्यं देहं परित्यज्य चितिमात्रात्मदेहिनः’ इत्यनेन जैमिनि-मतस्य नश्वरदेहाभावावगमरूपत्वेन औडुलोमिमतस्य चिन्मातृदेहाभ्युपगमरूपत्वेन व्यवस्थयाऽ-विरोधप्रकारस्य उक्तत्वादिति भावः । अत्र आद्ये सूत्रे भगवत्प्रवेशेन भोगे प्रमाणोक्तिः । द्वितीये जीवस्वरूपचितिमात्रदेहोक्तिः । तृतीये मुनिमतयोः स्वमतोक्त्या अविरोधोक्तिरिति सूत्रक्रमः ।
वाक्यार्थविवरणम्
वस्त्विति ।। एकस्मिन्नेव मुक्ते देहित्वादेहित्वरूपविरुद्धधर्मद्वयालिङ्गितत्वासम्भवादित्यर्थः ।। अनुक्तत्वादिति ।। सर्वं वा एतदिति श्रुतौ चिन्मात्रदेहोक्तावपि तेन भोगानुक्तेः चिन्मात्रदेहेन भोगे प्रमाणाभाव इत्यर्थः ।। तदुपन्यासादिति ।। तेन चिन्मात्रदेहेन भोगोपन्यासादित्यर्थः ।
वाक्यार्थमञ्जरी
वस्तुविकल्पेति ।। वस्तुनि मुक्ते देहवत्वतद्राहित्यरूपद्वैविध्यायोगात् ।। ॐ एवमप्युपन्यासा-त्पूर्वभावादविरोधं बादरायणः ॐ ।। एवमपि चिन्मात्रदेहत्वेन भोगान् भुङ्क्ते इत्येवंप्रकारेणाप्युप-न्यासात्, स वा एष इति श्रुत्युक्तत्वात्, पूर्वभावात्पूर्वस्य जैमिन्युक्तस्य देहान्तरत्यागेन ब्राह्मेण देहेन सत्वस्य भावात् ब्रह्मणीति श्रुतिसिद्धत्वेन सत्वादविरोधं जैमिन्यौडुलोमिमतयोर्मर्त्यामर्त्यदेह-भावाभावाभ्युपगमेन विरोधाभावं बादरायणो मन्यत इति भावः ।।
।। इति चितिमात्राधिकरणम् ।। ५ ।।