ॐ तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॐ ।। १७
९. हृदयाग्रज्वलना(तदोकोऽ)धिकरणम्
सूत्रभाष्यम्
ॐ तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॐ ।। १७ ।।
उत्क्रान्तिकाले हृदयस्याग्रे ज्वलनं भवति । ‘तस्य हैतस्य हृदयस्याग्रं प्रद्योतत’ इति श्रुतेः । तत्प्रकाशितद्वारो निष्क्रामति । विद्यासामर्थ्यात् ।
‘यं यं वाऽपि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
तं तमेवैति कौन्तेय सदा तद्भावभावितः’ ।।
इति स्मृतेर्विद्याशेषगत्यनुस्मरणयोगाच्च ।
‘आचार्यस्तु ते गतिं वक्ता’ इति हि लिङ्गम् ।
‘हृदिस्थेनैव हरिणा तस्यैवानुग्रहेण तु ।
उत्क्रान्तिर्ब्रह्मरन्ध्रेण तमेवोपासतो भवेत्’ इति चाध्यात्मे ।
‘शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका ।
तयोर्ध्वमायन्नमृतत्वमेति विष्वगन्या उत्क्रमणे भवन्ति’ इति च ।।
तत्त्वप्रदीपिका
तदोकोऽग्रज्वलनमित्यादि सूत्रम् ।। यदा वागादीनां लयः तदोत्क्रान्तिकाले तस्य विदुषो जीवस्य हृदयाग्रज्वलनं भवति । ‘प्रद्योतः’ प्रभा प्रादुर्भवति । सर्वेषां च विदुषां भुवि जाता-नामुत्क्रान्तेः पश्चात्तनस्य मोक्षस्य तदपेक्षाभावात् तच्छब्देन परामर्शोपपत्तिः । अपि च देवता-नामुत्तरोत्तरविलयध्यानपूर्वकं तद्विलयपर्यवसानस्थानस्य परब्रह्मणो ध्यानमुत्क्रमिष्यतः कर्तव्यमिति श्रुतिस्मृतिगतिपर्यालोचनया गम्यते । गत्यनुस्मृतिवदेव गतेः पश्चाद्भाविनश्च मोक्षस्य स्वबिम्बभूत-देवतापरम्परापरस्परप्रवेशाविनाभूतत्वात् । तच्च नित्यं तत्प्रतिपत्त्यभ्यासवत एव सुकरतरं भवतीति तदर्थोऽभ्यासः कार्यः । तदर्थं तत्स्वरूपपरिज्ञानाय तद्विलयप्रकारपरीक्षा कर्तव्येति साऽत्र प्रकृता । तद्भावनावतस्तस्य तदोत्क्रान्तिकाल इति युक्त एव तच्छब्दः । अतो नैतदाशङ्कनीयम्, गतेः पश्चाद्भावित्वात्प्रवेशस्य गतिं भोगं चान्तरा वक्तव्यः प्रवेश इति । उक्तन्यायेनात्राभिधाने प्रयोजनप्रतिलम्भात् । तदिहोत्क्रान्तिः किमितरवदेव विदुषोऽप्यथवा विशिष्टेति संशये प्राप्ते प्रारब्धकर्मभोगान्तर्भूतत्वादुत्क्रान्तेः, तस्य गुरुणाऽज्ञानिष्विव ज्ञानिष्वप्यचाल्यत्वात्, स्वकीय-फलदाने तस्याविशेष एवान्येभ्य इति, अत आह । तस्य ज्ञानिन उत्क्रान्तिकाले हृदयाग्रज्वलनं भवतीति सप्रमाणकम् । न चाप्रारब्धकर्मनिवृत्तेः ज्ञानफलोदयोपरोध इति वाच्यम् । जीवन्मुक्त्यवस्थाभावप्रसङ्गात् । उदयात्प्रभृत्येव फलदं ज्ञानं, तथा च ज्ञानसामर्थ्यमुक्तम् ।।
तत्त्वप्रकाशिका
अत्र देवानां मोक्षमुक्त्वा मनुष्याणां मुक्त्यर्थं देहोत्क्रमणस्याज्ञमरणविलक्षणत्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथा ज्ञानस्यातिशयासिद्धेः साधनीयमेतत् । देवानामन्योन्यप्रवेशेन देहलयो भवतीत्युक्तम् तेनेतरज्ञानिनां देहादुत्क्रमणं सिध्यति । तज्ज्ञानिनां देहादुत्क्रमणं विषयः । किं पृथग् जनमरणवदेव भवत्युत वैलक्षण्येनेति सन्देहः । मरणत्वं ज्ञानिसम्बन्धित्वं च सन्देहबीजम् । पृथग्जनमरणवदेवेति पूर्वः पक्षः । तस्याप्यन्यमरणवत्प्रारब्धनिबन्धनत्वात् । न च तदा प्रारब्धा-भावः तस्य देहत्यागाद्यवसानत्वात् । न च सत्यपि प्रारब्धकर्मणि विलक्षणं ज्ञानिमरणं विशेष-कारणाभावात् । अतो ज्ञानिमरणस्यान्यमरणाविशिष्टत्वान्न ज्ञानस्य सामर्थ्यातिशय इति । सिद्धान्त-यत्सूत्रमुपन्यस्य व्याचष्टे ।। तदिति ।। न ज्ञानिमरणस्याज्ञमरणाविशिष्टता । अस्त्येव विशेषः । यत उत्क्रान्तिकाले भगवदोकसो हृदयस्याग्रं प्रकाशत इत्यर्थः । तत्कुत इत्यत आह ।। तस्येति ।। हृदयाग्रप्रकाशनेऽपि ज्ञान्युत्क्रमणस्यान्यमरणस्य को विशेष इत्यत आह ।। तदिति ।। यतो ज्ञानी तेन प्रकाशेन प्रकाशितनाडीद्वारः सन् देहान्निष्क्रामति न तु तथाऽज्ञानी । अतोऽस्ति विशेष इति भावः । ननु ज्ञानिनः प्रारब्धकर्मवतः कथमयं विशेष इत्यत आह ।। विद्येति ।। प्रारब्धकर्म-सद्भावेऽपि भगवत्साक्षात्कारसामर्थ्याद्विशिष्टोत्क्रान्तिर्ज्ञानिनो युज्यते । ज्ञानस्य स्वोदयमारभ्यैव फलप्रदत्वादिति भावः । तदुक्तम् ।
प्रारब्धकर्मशेषस्तु विरजातरणावधिः ।
स्वोदयात्फलदं ज्ञानमादेहं कर्म वा रवेः ।। इति ।
यदि ज्ञानसामर्थ्यादेवमुत्क्रमणं भवति तर्हि ज्ञानिनः प्रथममरण एवैवं किं न स्यादित्यत आह ।। यं यमिति ।। न केवलं ज्ञानसामर्थ्येनैवंविधोत्क्रमणं येनातिप्रसङ्गः किं नाम स्वहृदयमारभ्य या ब्रह्मपर्यन्ता गतिस्तस्याः शरीरत्यागकालेऽनुस्मरणाच्च । न चैवं सति ज्ञानिनामुत्क्रमणं ज्ञानफलं न भवति । गत्यनुस्मरणस्य ज्ञानशेषत्वात् । न हीति कर्तव्यतामपेक्षमाणो हेतुरहेतुर्भवति । गत्यनुस्मृतिश्च कर्मावसानसमय एव न मरणान्तरे ।
ज्ञानिनां कर्मयुक्तानां कायत्यागक्षणो यदा ।
विष्णुमाया तदा तेषां मनो बाह्यं करोति हि ।। इति स्मृतेः ।
गत्यनुस्मरणं तत्प्राप्तिकारणमित्येव कुतः । ‘यं यं वापि’ इति स्मृतेरेवेति भावः । ननु तथाऽपि गत्यनुस्मरणं तत्प्राप्तिकारणमिति न विशेषप्रमाणमित्यत आह ।। आचार्यस्त्विति ।। यदि गतिस्मरणमन्तरेणैव तत्प्राप्तिः स्यात्तर्ह्याचार्यस्तु ते गतिं वक्तेति स्मरणार्थं गतिश्रवणं व्यर्थं स्यात् । अतः स्मरणार्थं गतिश्रवणलिङ्गेनास्ति गतिस्मरणस्य तत्प्राप्त्यर्थत्वमिति ज्ञायत इति भावः । ननु किं ज्ञानसामर्थ्येन गत्यनुस्मरणयुक्तेन स्वतन्त्रेणैवमुत्क्रमणं भवति । नेति ब्रूमः । किं तर्हि ज्ञानादिना प्रसन्नस्य भगवतोऽनुग्रहेणैवेत्याह ।। हृदीति ।। हरिणा सह प्रकाशितनाडीद्वारो निष्क्रामतीत्युक्तम् । तत्र नाड्यामपि विशेषोऽस्तीति भावेनाह ।। शतमिति ।। विष्वगुत्क्रमणे लोकान्तरगमनार्थम् ।।
गुर्वर्थदीपिका
तस्य देहत्यागाद्यवसानत्वादित्यत्र आदिपदेनार्चिरादिमार्गेण गमनं विरजायां लिङ्गभङ्गश्च सङ्गृह्यते । विरजानद्यवगाहनविरहितानामधमजीवानां प्रारब्धकर्मावसाने सति लिङ्गदेहभङ्गस्तु स्वपरिपाकदशायामहेस्त्वगिव स्वस्वसाधनपरिपूर्तौ स्वत एव निवर्तत इति विवेको द्रष्टव्यः । प्रथम-मरण एवेत्यत्र यस्मिञ्जन्मनि ज्ञानोदयस्तस्मिन्नेव जन्मनि मरणे जन्मान्तरेषु मरणेऽपि विष्ण्विच्छया मनोव्याक्षेपे सत्यर्चिरादिस्मरणाभावान्नार्चिरादिमार्गेण गमनम् । न वा ब्रह्मलोकः । किं त्वन्तरिक्षे स्वर्गादिलोकेष्वपि वा प्रारब्धकर्मानुभवन्तस्तिष्ठन्ति । यदा तु प्रारब्धकर्मणां परिपाककालस्तदा हर्यनुग्रहेण मार्गस्मरणसद्भावाद्ब्रह्मनाड्योत्क्रम्यार्चिरादिमार्गेण गत्वा किञ्चित्कालं चतुर्मुखलोके विष्णुलोके वा स्थित्वा परान्तकाले ब्रह्मणा सह मुक्तिं प्राप्नुवन्ति । अतः प्रथममरणेऽर्चिरादि-गमनाभावं मनसि निधायाऽऽक्षेप इति ज्ञेयम् । विष्वगुत्क्रमणे लोकान्तरगमनार्थमित्यस्यान्या नाड्यः विष्वक् परित उत्क्रमणे सति लोकान्तरगमनार्थं भवन्तीति श्रौतकर्तृपदेन श्रौतक्रियया च योजना ।
भावबोधः
अनन्तरसङ्गतिं दर्शयन् विषयमाह– देवानामन्योन्येति । किमिति । अत्र ज्ञानिनां मोक्षार्थं देहादुत्क्रमणमज्ञमरणसदृशमुत तद्विलक्षणमिति चिन्ता । तदर्थमपरोक्षज्ञानं गत्यनुस्मृतिसहकृतं हृदिस्थहर्यनुग्रहद्वारा हृदयाग्रज्वलनादिजनकतया विशिष्टोत्क्रमणहेतुर्न भवत्युत भवतीति । तदर्थं रश्मीनां सहकारित्वं न सम्भवत्युत सम्भवतीति । तदर्थं रात्रौ पर्यवसितकर्मणां रात्रौ रश्म्यभावेन विशिष्टोत्क्रमणाभावान्मोक्षाभावः । तदुत्क्रमणस्य वैलक्षण्यं वेति मोक्षाभाववैलक्षण्यापत्तिः प्राप्नोत्युत न प्राप्नोतीति । तदर्थं दिवैवादित्यरश्मिग्राहकप्रत्यक्षानुसारेण नाडीनामहन्येवादित्यरश्मि-सम्बन्धोऽङ्गीकार्य उत ‘संसृष्टा वा एते रश्मयश्च नाड्यश्च’ इति श्रुत्यनुसारेण रात्रौ बाह्यादित्य-रश्म्यभावेऽपि अन्तर्गतादित्यरश्मिभिः नाडीनां सम्बन्धमादाय यावद्देहमहोरात्रं नाड्यादित्यर-श्मिसम्बन्धोऽङ्गीकार्य इति । तदर्थं ज्ञानिनां मोक्षार्थमुत्क्रमणं रात्रौ नास्त्युतास्तीति । तदर्थं ‘दक्षिणे मरणाद्याति’ इति स्मृतेः कालविशेषपरत्वमुत दक्षिणायनादिसंज्ञकरश्मिविशेषपरत्वमिति । तदर्थं तत्र विशेषप्रमाणं नास्त्युतास्तीति । विशेषप्रमाणाभावे स्मृतेः कालपरत्वेन प्रमाणाभावेन च ज्ञानिनां मोक्षार्थं रात्रावुत्क्रमणासिद्धेः दिवैवादित्यरश्मिविषयकप्रत्यक्षानुसारेण दिवस एव नाडीरश्मिसम्बन्धस्याङ्गीकार्यत्वे रात्रौ पर्यवसितकर्मणां मोक्षाभावतदुत्क्रमणावैलक्षण्यान्यतरप्राप्त्या रश्मीनां सहकारित्वासम्भवे हृदयाग्रज्वलनादिजनकतयाऽपरोक्षज्ञानस्य विशिष्टोत्क्रमणहेतुत्वासम्भव इति पूर्वपक्षे फलफलिभावः ।
‘उत्तरं दक्षिणमिति त एव तु निगद्यते’ ।। इति विशेषप्रमाणसद्भावे तु ‘दक्षिणे मरणात्’ इत्यादिस्मृतेः तत्संज्ञकरश्मिविशेषपरत्वेन तद्विरोधाभावात्, ‘न तु कालविशेषोऽस्ति ज्ञानिनाम्’ इति प्रमाणबलेन ज्ञानिनां रात्रावप्युत्क्रमणसिद्धौ मोक्षार्थं ज्ञान्युत्क्रमणस्य रश्म्यनुसारित्व-ग्राहकमहर्लोकादिगन्तारः (रात्रावप्युत्क्रमणे) ‘उत्तरायणरश्मिभिः’ इति प्रमाणबलेन ‘संसृष्टा वा’ इति श्रुत्यनुसारेण रात्रावपि नाडीनामन्तर्गतादित्यरश्मिसम्बन्धस्य यावद्देहमहोरात्रमङ्गीकार्यत्वे, रात्रौ पर्यवसितकर्मणामपि मोक्षार्थमुत्क्रमणस्य रश्म्यनुसारित्वे सिद्धे तेषां मोक्षाभावतदुत्क्रमणा-वैलक्षण्यान्यतरप्राप्त्यभावेन रश्मीनां सहकारित्वसम्भवे युक्तमेवापरोक्षज्ञानस्य हृदयाग्र-ज्वलनादिजनकतया विशिष्टोत्क्रमणहेतुत्वमिति सिद्धान्ते फलफलिभावः । प्रारब्धकर्मशेषत्वात् उत्क्रान्तावविशेषो ज्ञानिन इति न्यायविवरणोक्तयुक्तिमाह– तस्याप्यन्यमरणवदित्यादिना ।
ज्ञानोदयानन्तरं सर्वदा ज्ञानफलस्यानुकृतेरिति न्यायविवरणानुसारेण विद्यासामर्थ्यादिति भाष्यं व्याचष्टे– प्रारब्धकर्मसद्भावेऽपीत्यादिना ।। स्वोदयमारभ्यैवेति । न तु लिङ्गभङ्गादिमात्र-फलकमित्यर्थः । ननु किं प्रारब्धकर्मसद्भावमङ्गीकृत्य ज्ञानसामर्थ्येनैव विशिष्टोत्क्रमणोपपादानेन सञ्चितस्येव प्रारब्धस्यापि ज्ञानेनेव विनाशमङ्गीकृत्य ज्ञानसामर्थ्येनैव विशिष्टोत्क्रमणं कुतो नोपपद्यत इत्याशङ्कां परिहरन् ज्ञानस्य स्वोदयमारभ्य फलदत्वे न्यायविवरणोदाहृतं प्रमाणमाह– तदुक्त-मिति ।। कर्मदेहमारभ्य फलदमिति सम्बन्धः । स्वोदयादिति ल्यब्लोपनिमित्ता पञ्चमी । स्वोदय-मारभ्येत्यर्थः । अधिकारिभेदेन व्यवस्थितविकल्पोऽयम् । अत्र प्रारब्धकर्मणः फलदत्वोक्त्या ज्ञानिनामपि तत्सद्भावोऽवगम्यते । ननु यदि कर्म आ देहमा रवेर्वा फलदं तर्हि तदनन्तरमेव लिङ्गभङ्ग स्यात् । न चैवम् । ‘ब्रह्मणा सह भिधत्ते’ इति प्रमाणबलेन तदनीं लिङ्गभङ्गाभावादित्यत उक्तम्– प्रारब्धकर्मशेषस्त्विति । सूर्यादौ निःशेषतया कर्मनाशाङ्गीकारान्नोक्तदोष इति भावः ।। हरिणा सहेति ।। तस्यैवानुग्रहेणेत्युक्तत्वान्न तृतीयायाः करणार्थत्वमिति भावः ।
भावदीपः
अत्रेति ।। समर्थनादित्यनेनान्वयः । पूर्वतनलयपेटिकयाऽस्यानन्तरसङ्गतिमाह ।। देवानां मोक्षमुक्त्वेति ।। मुक्त्यर्थमिति ।। भगवत्प्राप्तिरूपमोक्षार्थमित्यर्थः । तेन शास्त्रसङ्गत्युपपादनं बोध्यम् । ननु देवेभ्योऽन्येषामुत्क्रमणमस्तीत्येतदविचार्य तस्येतरवैलक्षण्यरूपधर्मचिन्तनं अभित्ति-चित्रायत इत्यत आह ।। देवानामिति ।। उक्तमिति ।। वाङ्मनसीत्यादिना इतरज्ञानिनामिति ।। एतच्च बाहुल्याभिप्रायम् । प्रत्यक्षोपदेशादित्यत्र भाष्ये केचिदत्रैव मुच्यन्ते नोत्क्रामन्तीति वक्ष्यमाणत्वात् ।। तदिति ।। एवमर्थात्सिद्धमित्यर्थः ।। पृथग्जनेति ।। पामरेत्यर्थः । पामरस्तु पृथग्जन इत्यमरोक्तेः । प्रारब्धकर्मशेषवत्त्वादुत्क्रान्तावविशेषो ज्ञानिन इत्यन्यत्रोक्तप्रतिज्ञाहेतू व्यनक्ति ।। पृथग्जनमरणवदेवेति ।। पृथग्जनानामिव ज्ञानिनामपि मरणमित्यर्थः । शेषपदतात्पर्यं व्यनक्ति ।। न चेत्यादिना ।। देहत्यागादीत्यादिपदेन रविमण्डलप्राप्त्यादिग्रहः । विद्यासामर्थ्या-दित्येतद्व्यावर्त्यं शङ्कापूर्वं व्यनक्ति ।। न च सत्यपीत्यादिना ।। अत इति ।। प्रारब्धनिमित्त-कत्वाद्विशेषकारणाभावाच्चेत्यर्थः ।
न चाविशेष इत्यन्यत्रोक्तप्रतिज्ञामेवोक्त्वा तत्र हेतुत्वेन भाष्यं योजयति ।। न ज्ञानीति ।। फलितार्थमाह ।। अस्त्येवेति ।। तदोकत इत्यस्य हृदयस्येति फलितार्थोक्तिपरमिति भावेनाह ।। भगवदिति ।। उत्क्रान्तिकाल इत्यत्र लब्धस्योक्तिरिति भावः । तत्वप्रदीपे तु तदेत्यपि विच्छेदोप-गमेनोत्क्रान्तिकाल इत्यर्थोक्तिः । न चैवं तदोकोग्रेत्यादिनिर्देशापत्तिरिति शङ्का । ओमाङोश्चेति चकारेणान्यत्रापि पररूपत्वोपगमादित्याहुः ।। कुत इति ।। हृदयाग्रज्वलनं कुतो मानादित्यर्थः । प्रागुक्तशङ्कानिरासकतया हेत्वंशं व्याचष्टे ।। नन्वित्यादिना ।। ननु सति प्रारब्धकर्मणि कथं विद्यासामर्थ्यं कार्यकारीत्यतो ज्ञानोदयानन्तरं सर्वदा ज्ञानफलस्यानुवृत्तेरित्यन्यत्रोक्तभावमाह ।। ज्ञानस्येति ।। तदिति ।। प्रारब्धकर्मशेषसत्त्वं तथापि ज्ञानस्य फलदत्वमित्येतदुक्तम् । न्यायविवरणोक्तश्रुतावित्यर्थः । कर्म आदेहं आरवेर्वा फलदमित्यर्थः । स तेजसि सूर्ये सम्पन्न इत्यादेः । योगाच्चेति चशब्दार्थं व्यञ्जयन् व्युत्क्रमेण भाष्यं व्याचष्टे ।। न केवलमिति ।। एवंविधेति ।। प्रकाशितनाडीद्वारतयोत्क्रमणमित्यर्थः ।। ज्ञानशेषत्वादिति ।। ज्ञानेन फलजननेऽपि अस्योपकारकत्वरूपतदितिकर्तव्यतारूपत्वाद्दर्शपूर्णमासादिना फले जनयितव्ये प्रयाजादिरिवेत्यर्थः । अस्तु गतिस्मृतिरप्याद्यमृतावित्यत आह ।। गतीति ।। इति स्मृतेरिति ।। द्वितीये गीताभाष्योक्त-गारुडस्मृतेरित्यर्थः । तत्र बाह्यमित्यस्येश्वरान्यविषयमित्यर्थत्वेऽपि गतेरीश्वरपर्यन्तत्वाद्भवतीय-मुक्तार्थसंवादिनीति भावः ।। स्मृतेरेवेति ।। सा चाष्टमे गीताभाष्य एव व्याख्यातेति भावः । आचार्यस्तु सत्यकामस्तु । ते उपकोसलायेत्यग्नीनां वाक्यं व्यक्तमेतदन्तर उपपत्तेरित्येतद्विषयवाक्ये । हरिणेति सहयोगे तृतीया । तेन तस्यैवानुग्रहेणेत्यपुनरुक्तिरिति भावेनाह ।। हरिणा सहेति ।। नाड््यामपि विशेषोऽस्तीति ।। अत्रावान्तरविशेषस्तु षष्ठे बृहद्भाष्ये चतुर्थब्राह्मणे
देवलोके चिरं रत्वा यस्तु मुक्तिं व्रजिष्यति ।
स तु तद्देवताद्वारेणोत्क्रामति न संशयः ।।
विष्णोर्लोकं परं गच्छन्नुत्क्रामेन्मूर्ध्न एव तु ।
तथैव ब्रह्मणो लोकं सुषुम्नाया विभेदतः ।। इत्युक्तेर्बोध्यः ।
अभिनवचन्द्रिका
मुक्त्यर्थमिति ।। मनुष्याणां मुक्त्यर्थं जायमानस्य देहोत्क्रामस्याऽपरोक्षज्ञानाऽतिशय-सिद्धयेऽज्ञमरणविलक्षणत्वसमर्थनादित्यर्थः ।। अन्योन्यप्रवेशेनेति ।। उत्तमोत्तमप्रवेशेनेत्यर्थः ।। देहादुत्क्रमणं विषय इति ।। चरमोत्क्रमणं विषय इत्यर्थः ।। तस्यापीति ।। चरममरणस्यापि ज्ञानिसम्बन्धिमरणान्तरवत्प्रारब्धनिबन्धनत्वादित्यर्थः । इदमुक्तं भवति । ज्ञानिनस्तावन्नैकमेव मरणं किन्तु बहूनि मरणानि । तत्र चरममरणव्यतिरिक्तानि मरणानि अज्ञमरणव्यतिरिक्तानि मरणानि । अज्ञमरणवदेव भवन्ति । तत्र च ज्ञानिप्राचीनमरणवत् अज्ञमरणवदेव प्रतिपत्तव्यमिति ।। न च सत्यपीति ।। चरममरणदशायां ज्ञानिपूर्वमरणदशायामिव प्रारब्धकर्मणि सत्यपि अज्ञमरणाद्विलक्षणमेव ज्ञानिचरममरणं, न तु पूर्वमरणवदज्ञमरणसदृशमिति न वाच्यमित्यर्थः ।। विशेषकारणेति ।। पूर्वं मरणाच्चरममरणस्य विशेषे कारणाऽभावात्कार्यवैलक्षण्यमनुपपन्नमिति भावः ।। तत्कुत इति ।। कुतः प्रमाणादित्यर्थः । तर्हि विरजातरणात्प्राक् ज्ञानं सर्वथा फलप्रदं न भवतीत्यागतमित्यत आह – स्वोदयादिति ।। स्वोदयमारभ्यैव ज्ञानं फलप्रदं न तु प्रारब्धकर्मणा प्रतिबद्धं सत् सर्वथा कार्याक्षममित्यर्थः । तर्हि ज्ञानेन प्रतिबद्धं कर्म सर्वथा न कार्यक्षममिति प्राप्तमित्यतो नेत्याह – आदेहमिति ।। प्रारब्धकर्म केषाञ्चिदादेहं फलप्रदं केषाञ्चिद्रविप्राप्तिपर्यन्तम् । उपलक्षणमेतत् । केषाञ्चिद्वैश्वानरपर्यन्तम्, अन्येषां द्युनदीपर्यन्तम् । एषु स्थानेषु अधिकारिभेदेन सर्वं दुष्कर्म क्षीयते । ततःपरं केवलपुण्यप्रारब्धयुक्तस्य शिंशुमारप्राप्तिरिति ज्ञेयम् ।। लोकन्तर-गमनार्थमिति ।। देवलोके चिरं रत्वा यस्तु मुच्यते तस्य नाड्यन्तरेणोत्क्रमणमिति भावः । तदुक्तं ‘देवलोके चिरं रत्वा यस्तु मुक्तिं व्रजिष्यति । स तु तद्देवताद्वारेणोत्क्रामति न संशयः ।। विष्णोर्लोकं परं गच्छन्नुत्क्रामेन्मूर्ध्न एव तु । तथैव ब्रह्मणो लोकं सुषुम्नायाविभेदतः’ इति । नाड्यन्तस्तमसैव गमनं स्यादिति । ततश्चातिवैलक्षण्यापादकत्वलक्षणं महामाहात्म्यं न स्यादिति शेषः । एतेन नाड्यन्तस्तमसैव गमनं नाऽनिष्टं, द्वारमारभ्य प्रकाशसद्भावेन ज्ञानिमरणस्य वैलक्षण्यसम्भवेन तदविघातकत्वादिति निरस्तम् । यदनन्तकालसम्बद्धं तदुच्यते – सर्वदेति ।। यथाऽऽकाशः सर्वदा, वेदाः सर्वदेति । यदसार्वकालिकमपि कालीवशेषे नियमेनास्ति तदप्युच्यते – सर्वदेति ।। तद्यथा शुश्रूषमाणं विनीतं शिष्यमाह, अलं सेवया भुङ्क्ष्वेति ।। स गुरुमाह मम भोजनं सर्वदाऽस्ति भवत्सेवैव दुर्लभेति । यदपि यावद्देहभावि तदप्युच्यते – सर्वदेति ।। तद्यथा सर्वदा अयं साधुरिति । एवं च ‘सर्वदा सम्बन्धात्’ इति भाष्यस्य त्रेधाऽप्यर्थसम्भवं मनसि कृत्वा पृच्छति – नाडीरश्मिसम्बन्ध इति ।। एतेन देहपातपूर्वकालीन इति द्वितीयकल्पाऽ-प्रसक्तिरिति निरस्तम् ।।
वाक्यार्थमुक्तावली
मुक्त्यर्थं देहोत्क्रमणस्येति ।। चरमदेहोत्क्रमणस्येत्यर्थः ।। अज्ञमरणेति ।। शरीरान्तरा-रम्भककर्मक्षयरहिता अज्ञाः ज्ञानपरिपाकाभावात् तन्मरणविलक्षणत्वसमर्थनादित्यर्थः । एवमुत्तरत्र ज्ञान्यज्ञानिशब्दार्थो विवक्षणीयः ।। अन्यथेति ।। चरममरणस्याप्यन्यमरणविलक्षणत्वाभावे विशिष्टोत्क्रान्त्यहेतुत्वेन ज्ञानस्यातिशयासिद्धेरित्यर्थः । ज्ञानिनां देहानुत्क्रमणस्य पूर्वमप्रस्तुतत्वा-त्तस्य कथमन्यमरणवैलक्षण्यविचारावसर इत्यत आह ।। देवानामिति ।। पूर्वाधिकरणद्वये मुक्तौ ब्रह्मप्रवेशित्वेनेश्वराधीनसत्यकामत्वेन मानुषाणामपि प्रकृतत्वात्तेषामेवेह चरमोत्क्रान्तिविचारा-दनन्तरसङ्गतिः । उक्तं च तत्वप्रदीपे । सर्वाणि दैवतानीति । समग्रदेवताभाग एव सङ्गृहीतो वेदितव्यः । वर्णाश्रमाचाररुता मनुष्या धर्मं मनुं सोऽपि समेति काले इति चेति ।। किमिति ।। चरमशरीरोत्क्रमणं किं तत्पूर्वशरीरोत्क्रमणवदेव भवत्युत वैलक्षण्येनेति चिन्ता । तदर्थं सत्यपि प्रारब्धकर्मशेषे चरममरणस्येतरमरणवैलक्षण्ये विशेषकारणं नास्त्युतास्तीति ।। विद्यासामर्थ्यादिति सूत्रखण्डव्यावर्त्यं कृतशेषतेत्युक्तन्यायं दर्शयन् पूर्वपक्षयति ।। तस्यापीत्यादिना ।। सूत्रे तदिति भिन्नं समस्तं च पदम् । आद्ये उत्क्रान्तिकाल इति भाष्यं ज्ञापकम् । द्वितीये हार्दानुगृहीतः हृदयस्थेन हरिणेति सूत्रस्मृती ज्ञापिके इति भावेन व्याचष्टे ।। उत्क्रान्तीति ।। तानि पर इति भगवतः प्रस्तुतत्वात्तच्छब्देन परामर्श इति भावः । ननु प्रारब्धकर्मसद्भावात्कथं विशिष्टोत्क्रान्तिरित्यतो शश्वदनुप्रवृत्तिरित्युक्तन्यायं प्रदर्शयन् तात्पर्यमाह ।। ज्ञानस्येति ।। अन्यथा जीवन्मुक्त्यवस्था-भावप्रसङ्ग इति भावः । प्रारब्धसद्भावे तस्य विशिष्टोत्क्रान्त्यप्रतिबन्धकत्वे च प्रमाणमाह ।। तदुक्तमिति ।। प्रारब्धकर्मशेषस्त्वित्यस्यायमर्थः । लिङ्गशरीरापादकप्रारब्धकर्मशेषः विरजानदी-तरणावधिः वैकुण्ठपरिखारूपलक्ष्म्यात्मकविरजायाः गुणत्रयात् परतो गमने सति तत्र तरणे स्नानावधिकः ज्ञानं अपरोक्षाख्यं स्वोदयमारभ्य कर्मक्षयादिफलप्रदं कर्मलिङ्गदेहापादकातिरिक्तं जन्ममरणदुःखादिहेतुभूतं प्रारब्धं कर्म भोगोपमर्दाभ्यामवशिष्टम् । आदेहं चरमदेहपर्यन्तम् आरवेः रविमण्डलपर्यन्तं वा । अधमानामादेहं, उत्तमानामारवेरिति योज्यम् । उपलक्षणमेतत् ।
वैश्वानरे द्युनद्यां वा सूर्ये वा देह एव वा ।
विधूय सर्वपापानि याति किंस्तुघ्न केशवम् ।।
इति भागवततात्पर्योक्तमप्युत्तमाधिकारानुसारेणेति ज्ञेयम् । न चावश्यभोक्तव्यत्वाद्विरोधः । ‘आरब्धयोश्च नाशः स्यादल्पयोः पुण्यपापयोः’ इत्युक्तत्वादास्तां विस्तरः ।। अनुस्मरणाच्चेति ।। अनुस्मृत्याख्योपायादिति सूत्रखण्डार्थ इति भावः ।। कर्मावसानसमय एवेति ।। चरमशरीरा-रम्भककर्मावसानसमय एवेत्यर्थः ।। तत्प्राप्तिसमय एवेति ।। हृदयमारभ्य ब्रह्मपर्यन्तमनुस्मृत-गतिप्राप्तिकारणमित्येतत्कुतः प्रमाणादित्यर्थः । ननु किं ज्ञानसामर्थ्येनेति गत्यनुस्मरणयुक्तेनापरोक्ष-ज्ञानसामर्थ्येनैवोत्क्रमणं भवत्युत ज्ञानमनपेक्ष्य स्वातन्त्र्येण हरिणैवमुत्क्रमणं भवतीति शङ्काभि-प्रायः । पक्षद्वयमपि नेत्याह ।। नेति ब्रूम इति ।। सहयोगे तृतीयेत्याह ।। हरिणा सहेति ।। एतेन हार्दानुगृहीत इत्यस्य हार्देन साकं हार्देनानुगृहीत इत्यर्थ उक्तो भवति ।। नाड्यामपि विशेष इति ।। एकशतनाडीषु शताधिकया सुषुम्नयेति सूत्रखण्डार्थ इति भावः ।। लोकान्तरेति ।।
देवलोके चिरं रत्वा यस्तु मुक्तिं गमिष्यति ।
स तु तद्देवताद्वारेणोत्क्रामति न संशयः ।।
इति वचनात्तेषां नाड्यन्तरेणोत्क्रमणमिति भावः । सूत्रार्थस्त्वतिरोहितः ।
तत्त्वसुबोधिनी
अनन्तरसङ्गतिं दर्शयन् विषयमाह ।। देवानामन्योन्येति ।। तदा मरणकाले । विद्या-सामर्थ्यादिति भाष्यं व्याचष्टे । प्रारब्धकर्मसद्भावमङ्गीकृत्य ज्ञानसामर्थ्येनैव विशिष्टोपक्रमण-प्रतिपादनेन संचितस्य प्रारब्धस्यापि ज्ञानेन विनाशमङ्गीकृत्य विशिष्टोपक्रमणं तु तान्नोपपद्यते इत्याशङ्कां परिहरन् ज्ञानस्य स्वोदयमारभ्य फलदत्वे न्यायविवरणोदाहृतप्रमाणमाह ।। तदुक्त-मिति ।। स्वोदयादिति ल्यब्लोपनिमित्ता पञ्चमी । स्वोदयमारभ्येत्यर्थः । कर्म प्रारब्धं आदेहं वा आरवेर्वा फलदमित्यर्थः । एतद्देहशतपर्यन्तं वा रविलोकप्राप्तिपर्यन्तं वेत्यर्थः । अधिकारिभेदेन व्यवस्थितविकल्पोऽयम् । उपलक्षणमेतत् । वैश्वानरे द्युनद्यां वा सूर्ये वा देह एव वा ।। विधूय सर्वपापानि इत्यादिप्रमाणोक्तमपि ग्राह्यम् । अत्र प्रारब्धकर्मणः फलदत्वोक्त्या ज्ञानिनामपि तत्सद्भावोऽवगम्यते । ननु यदि कर्म आदेहमारवेर्वा फलदं तर्हि तदनन्तरमेव लिङ्गभङ्गः स्यात् । न चैवं ब्रह्मणा सह भिद्यते इति वक्ष्यमाणत्वेन तदा लिङ्गभङ्गाभावादित्यत उक्तम् । प्रारब्ध-कर्मशेषस्त्विति ।। न वयं सूर्यादौ निःशेषप्रारब्धविनाशं ब्रूमः । येन प्रमाणविरोधः स्यात् । किं तु सविशेषमेव । तच्छेषस्तु विरजातरणावधिः । तत्र लिङ्गभङ्गस्तु विद्यत एव । अन्यथा शरीराव-स्थानस्य निर्भिन्नबन्धनत्वापत्तेः । ननु गत्यनुस्मृतिसापेक्षत्वात् ज्ञानस्य न विशिष्टोपक्रमणार्थत्व-मित्यत आह ।। न हीति ।। हरिणा सहेति ।। तस्यैवानुग्रहेणेत्युक्तत्वात् । न तृतीयायाः करणार्थत्वमिति भावः ।
वाक्यार्थविवरणम्
पृथग्जनः मूर्खजनः ।। विशिष्टेति ।। विलक्षणेत्यर्थः ।। प्रथममरणमिति ।। यस्मिन् जन्मन्य-परोक्षज्ञानमुत्पन्नं तद्देहपातरूपं तत् प्रथममरणमेवेत्यर्थः ।। एवमेवेति ।। तदोकोऽग्रज्वलन-मित्युक्तप्रकारेणेत्यर्थः । ज्ञानफलं न भवतीति । किन्तु गत्यनुस्मरणफलमेवेत्यर्थः । उत्तरमाह ।। गत्यनुस्मरणस्येति ।। ज्ञानशेषत्वात् ।। ज्ञानसहकारित्वात् ।। कारणमिति ।। कारणमित्यत्र उत्तरवाक्यमवतारयति ।। प्रकाशितेति ।।
वाक्यार्थमञ्जरी
पृथग्जनेति ।। अज्ञजनेत्यर्थः ।। उत्क्रान्तिकाले तदोकसः भगवद्गेहरूपस्य हृदयस्याग्रे ज्वलनं प्रभा प्रादुर्भवति ततोऽधिकारी तत्प्रकाशितद्वारस्तेन प्रकाशेन प्रकाशितनाडीद्वारवान् हार्देन हृद्गतेन परमात्मनाऽनुगृहीतोऽनुगृहवानेव विद्यासामर्थ्यादपरोक्षज्ञानशक्त्या तच्छेषगत्यनुस्मृतियोगात्तस्याः विद्यायाः शेषाङ्गभूतायाः हृदयमारभ्य ब्रह्मप्राप्तिपर्यन्तायाः गतेः अनुस्मृतिरनुस्मरणं तद्योगा-त्तत्साहित्यात् शताधिकया शतनाडीतो अधिकया सुषुम्नाख्यनाड्या देहान्निर्यातीत्यर्थः ।। स्वोदय-मारभ्यैवेति ।। न तु लिङ्गदेहभङ्गमारभ्यैवेत्यर्थः । कर्म प्रारब्धम्, आदेहमारवेर्वा फलदमिति सम्बन्धः ।। ज्ञानफलं न भवतीति ।। गत्यनुस्मरणफलत्वादिति भावः । इति स्मृतेः गीताभाष्यो-दाहृतायाः ।। न विशेषप्रमाणमिति ।। उदाहृतस्मृतौ गतिवाचकशब्दाभावादिति भावः ।।