ॐ अत एव चोपमा सूर्यकादिवत् ॐ

१०. उपमाधिकरणम्

सूत्रभाष्यम्

।। ॐ अत एव चोपमा सूर्यकादिवत् ॐ ।। १८ ।।

यस्मादेवं परमेश्वररूपाणां मिथो न कश्चिद्भेदोऽत एव सादृश्याज्जीवस्यापि तथा स्यादिति तस्य प्रतिबिम्बत्वमुक्त्वा चशब्देन भेदं दर्शयति ।

रूपं रूपं प्रतिरूपो बभूव’ (बृ.उ.४-५-१९)

बहवः सूर्यका यद्वत्सूर्यस्य सदृशा जले ।

 एवमेवाऽऽत्मका लोके परात्मसदृशा मता’ इत्यादि ।।

अत एव भिन्नत्वतदधीनत्वतत्सादृश्यैरेव सूर्यकाद्युपमा, नोपाध्यधीनत्वादिना ।

तत्त्वप्रदीपिका

एवञ्च जीवानां परमेश्वरेण चिदानन्दलक्षणरूपत्वसादृश्याद्भेदः स्वगतश्च स्थानभेदेऽपि न स्यादित्याशङ्का स्यात् । तत्परिहाराय तस्य जीवस्य सूर्यकादिवत्प्रतिबिम्बत्वं वदन्ती भेदं दर्शयति श्रुतिः । अत एव सादृश्यादेव प्रतिबिम्बत्वमुक्त्वा भेदं दर्शयतीति तदुक्त्यैव भेदं दर्शयतीत्यर्थः । सूत्रगतेन चशब्देन भेदं दर्शयति श्रुतिरिति दर्शयति भगवान् बादरायण इत्येषोऽर्थश्चशब्देन भेदं दर्शयतीति भाष्यस्य । प्रतिबिम्बत्ववचनेनैव भेदो दर्शितो भवति । प्रतिबिम्बस्य भिन्नत्वनियमात् । बिम्बान्मिथश्च भिन्नान्येव हि प्रतिबिम्बानि दृश्यन्ते । न च प्रतिबिम्बत्वं बिम्बेऽध्यस्तम् । येन चिन्मात्रे ब्रह्मणि जीवत्वाध्यासस्य दृष्टान्तः स्यात् । प्रतिबिम्बप्रतिभानसमय एव तद्व्यतिरेकेण बिम्बोपलम्भात् । नेदं प्रतिबिम्बमिति बिम्बे प्रत्ययाच्च । न हि रजताध्यासकाले शुक्तिरियं न रजतमिति प्रतीतिः । न च तयोस्तदा भेदेन युगपद्ग्रहणम् । तस्मान्न प्रतिबिम्बप्रतीतिर्भ्रान्तिः । अपरथा बिम्बापरोक्ष्ये निवर्तेत । बिम्ब एव नेदं प्रतिबिम्बमिति च प्रतीतिः स्यात् तत्काले । न च तयोर्भेदप्रतीतिरेव भ्रान्तिर्न स्वरूपप्रतीतिरिति वाच्यम् । ऐक्यप्रत्ययस्य बाधकस्य जात्वनुदयात् । न च दर्पणादिरधिष्ठानं स्फटिक इव लोहितिम्न इति वाच्यम् । साध्यान्तर्भूतत्वात्तस्य । हन्तायमियन्तं कालं स्वच्छ एव स्फटिको दृष्टः पटुदर्शनस्यैव ममेदानीं जपाकुसुमसामीप्याल्लोहितो दृश्यत इति हि तत्र प्रतीतिः । बिम्बनिमित्तेन जन्यते चेत्, तन्नाशेऽपि न नश्येत् । निमित्तकारणनाशेऽपि कार्यस्थितेरिति चेन्न । स्पर्शज्ञानादौ व्यभिचारात् । अतो दर्पणाद्युपादानं मुखादिनिमित्तं प्रतिबिम्बमुत्पद्यत इत्यभ्युपगमे न कश्चिद्दोषः ।

रूपं रूपम्’ इत्यादेरयमर्थः । अस्य परमेश्वरस्य रूपं रूपं प्रति प्रतिबिम्बाख्यो जीवो बभूव । ‘तदस्य’ परमेश्वरस्य ‘रूपं’ ‘अस्य’ प्रतिबिम्बभूतस्य जीवस्य ‘प्रतिचक्षणाय’ । ‘इन्द्रः’ परमेश्वरः । इदि परमैश्वर्य इति धातोः । ‘इन्दो ह वै नामैष योऽयं दक्षिणेऽक्षन् पुरुषस्तं वा एतमिन्धं सन्तमिन्द्र इत्याचक्षते’ इति श्रुतेश्च । प्रसिद्धो हि दक्षिणाक्षिस्थो विष्णुः श्रुतिषु । ‘तमिन्द्रं सन्तमिन्द्र इत्याचक्षत’ इति च परमात्मप्रकरण एव मायाभिस्सामर्थ्यैरिच्छाभिर्वा बहुरूप ईयते । अस्य ह्यवतारात्मका ‘हरयो’ ‘युक्ता’ इति । ‘अयं वै हरयोऽयं वै दश च सहस्राणि बहूनि चानन्तानि’ इति ह्युपरि ।

स एव दशधा प्रोक्तो विष्णुर्मत्स्यादिरूपकः ।

शतं नारायणाद्यात्मा विश्वाद्यात्मा सहस्रकः ।

परादिरूपो बहुधा सोऽनन्तात्माऽजितादिकः’ इति नारायणश्रुतिः ।।

पृथगुपदेशात्’ ‘तद्गुणसारत्वात्तद्व्यपदेशः प्राज्ञवत्’ ‘ततो ह्यस्य बन्धविपर्ययौ’ इत्यादिषु प्रपञ्चितानि हि भिन्नत्वतदधीनत्वसादृश्यानि । अतोऽत एवेत्याह । नोपाध्यधीनत्वेन सूर्यकाद्युपमा । जीवः परस्यानुपाधिरिति पुर एव परिहृतत्वात्तस्य । आदिशब्दान्न च भेदाभावेन । भेदस्य प्रतिपादितत्वात् । न च स्थिरविनाशिनोः सूर्यसूर्यकयोरभेदसम्भव इति ।

तत्त्वप्रकाशिका

अत्र ब्रह्मप्राप्तिसाधनभक्त्यर्थं जीवाभेदनिरासादस्ति शास्त्रादिसङ्गतिः । जीवाभेदे स्वस्मिन्निव परमात्मन्यपि भक्त्ययोगात्स निराकार्यः । प्रकृता भक्तिरेव विषयः । परमात्मनि युक्ता न वेति सन्देहः । युक्तायुक्तसाधनोपदेशः सन्देहबीजम् । न युक्तेति पूर्वः पक्षः । जीवस्य परमात्मा-भिन्नत्वात् । न हि स्वस्मिन्नेव भक्तिरुपपद्यते । न चाभेदे विवदितव्यम् । जीवः परमात्मनो न भिद्यते चेतनत्वात्तदंशत्वान्मत्स्यादिवदित्यनुमानसिद्धत्वात् । मत्स्यादीनां परमात्मनश्च मिथो न भेद इति प्रागेव सिद्धम् । न च वाच्यं भेदस्य समर्थितत्वान्नाभेदो युक्त इति । सर्वचेतनसमुदाय-स्येशांशत्वेनैकैकजीवस्य परमात्मना भेदाभेदादभेदेऽपि भेदाविरोधात् । अतः परमात्मभक्तेर-युक्तत्वाद्व्यर्थं तन्महिमवर्णनमिति ।

सिद्धान्तयत्सूत्रमुपन्यस्य पूर्वपक्षं तावदनुवदति ।। अत एवेति ।। यस्मादेवं न स्थानतोऽपीत्युक्त प्रकारेणेश्वररूपाणामीश्वरस्य च मिथोऽभेदः सिद्धः । अतस्तत्सादृश्याच्चेतनत्वादेव जीवस्यापि परमात्माभेदः स्यादिति पूर्वः पक्ष इत्यर्थः । तत्परिहाराय सूर्यकादिवच्चेति पदं व्याचष्टे ।। तस्येति ।। एवं प्राप्ते सूत्रकारो जीवस्येशप्रतिबिम्बत्वहेतुं सूर्यकादिवदित्यनेन दृष्टान्तकथनेनैवोक्त्वा चशब्देन साध्यं भेदं समुच्चिनोतीत्यर्थः । इदमुक्तं भवति । जीवो ब्रह्माभिन्नो न भवति तत्प्रतिबिम्बत्वात् । यो यत्प्रतिबिम्बः स तस्मात् भिन्नो यथा सूर्यकः सूर्यादिति । जीवस्येश्वरप्रतिबिम्बत्वमेव कुत इत्यत आह ।। रूपमिति ।। इत्यादि प्रतिबिम्बत्वं दर्शयतीत्यनुषज्यते । अथ वा यस्मादेवमित्यादि सिद्धान्त एव । तथा हि । यस्मादुक्तरीत्या परमेश्वररूपांशानां ज्ञानैश्वर्यादौ न कश्चिद्विशेषः । अतो जीवस्याऽपि परमेश्वरस्वरूपांशत्वे मत्स्यादिसाम्यात्तद्वज्ज्ञानैश्वर्याद्यविशेषः स्यात् । न चैवम् । ‘अतोंऽशत्वेऽपि जीवो ब्रह्मप्रतिबिम्ब एवेति तस्य प्रतिबिम्बत्वमत एवोपमेति पदैरुक्त्वा तद्धेतुना सूर्यकादिदृष्टान्तेन भेदं चशब्देन समुच्चिनोतीति । अनेन प्राचीनानुमानस्याऽप्रतिबिम्बत्वोपाधिश्च सूचितो भवति । अभेदांश एव विवादात्तन्निरासः । भेदस्यापि सद्भावेन नैश्वर्यादीति चेन्न ब्रह्मस्वरूपानुगतेरावश्यकत्वात् । ऐश्वर्यादेश्च स्वरूपत्वान्मत्स्यादिवच्चेति युक्तिदृष्टार्थ एव श्रुतिः ।

यदुक्तं सूर्यकादिवज्जीवो ब्रह्मप्रतिबिम्ब इति तदयुक्तम् । तथा हि । किमसौ सूर्यकादि-वदुपाध्यायत्तत्वादिधर्मा न वा । आद्ये अनित्यत्वादिदोषः । द्वितीये न सूर्यकाद्युपमा सम्भवति । अतः प्रतिबिम्बत्वाभावादुक्तं तदवस्थमेवेत्यत आह ।। अत एवेति ।। न सूर्यकाद्युपमासम्भवो नाप्यनित्यत्वापत्तिः । ‘पृथगुपदेशात्’ ‘सन्ध्ये सृष्टिराह हि’ ‘तद्गुणसारत्वात्’ इत्युक्तैर्भिन्नत्वादिभिः सूर्यकाद्युपमोपपत्तेः । उपाध्यायत्तत्वादिसर्वप्रतिबिम्बधर्मानभ्युपगमेनानित्यत्वाप्रसङ्गात् । यौ हि साध्यसाधनधर्मौ विवक्षितौ तत्सद्भावेनैव दृष्टान्तदार्ष्टान्तिकयोः साम्यमन्यथा सर्वानुमानलोपात् । अत्र च भिन्नत्वं साध्यं तदधीनत्वं तत्सादृश्यं च प्रतिबिम्बपदोक्तं साधनं दृष्टान्तदार्ष्टान्तिकयोरस्तीति न कश्चिद्दोष इति भावः । अतो जीवस्य भिन्नत्वाद्युक्ता भगवति भक्तिरिति युक्तं तन्महिम-वर्णनमिति सिद्धम् ।

गुर्वर्थदीपिका

पूर्वपक्षं तावदनुवदतीति टीकोक्तेः अतः न स्थानतोऽपीत्यधिकरणे बहुस्थानगत-स्वांशानामभेदोक्तेः कारणादंशभूतजीवानामप्यंशत्वाविशेषादुपमा तदुपमा तद्वदभेद इत्यर्थः । नेति स्पष्टं निषेधाभावात्पूर्वस्यानुवादमात्रम् । तद्विरुद्धसिद्धान्तयुक्तेर्निरूपितत्वादार्थिकोऽपि नञ् ग्राह्य इति टीकाकारस्याभिप्रायः । एवं च ‘न च परमात्मना चेतनत्वन्यायसाम्येन जीवस्याप्यभेदः’ इति न्यायविवरणोक्तेः ‘न स्थानतोऽपि’ इति सूत्रान्नञावृत्त्या अत उपमेति यदुक्तं तन्नैवेति सिद्धान्ता-रम्भोऽपि ज्ञातव्यः । अतः सूत्रस्य न न्यूनता । कुत इत्याकाङ्क्षायां सूर्यकादिवदिति निदर्शनेन प्रतिबिम्बत्वाख्यहेतोरपि सूचितत्वात् चशब्देन तद्योग्याभेदाभावाख्यभेदरूपसाध्यस्यापि सूचितत्वात् ‘जीवः परमात्माऽभिन्नो न भवति तत्प्रतिबिम्बत्वात् यो यत्प्रतिबिम्बः स तस्मादभिन्नो न भवति यथा सूर्यकस्सूर्यात्’ इत्यनुमानाख्यं प्रमाणं सूत्रखण्डेन निरूपितमिति सूत्रभाष्ययोरभिप्रायः ।

प्रतिबिम्बत्वमत एवोपमेति पदैरुक्तेति वदता अत एव मत्स्यादिवत्सर्वसाम्याभावादेव उपमा अल्पोपमा प्रतिबिम्बत्वमिति यावदिति सौत्रपदानामर्थो दर्शितः । तद्धेतुनेत्यस्य तेन प्रतिबिम्ब-त्वाख्यहेतुनेत्यर्थः । ब्रह्मस्वरूपानुगतेरावश्यकत्वादित्यत्राभेदे सतीति प्रागुपस्कर्तव्यम् । मत्स्यादि-वदित्यतः परमैश्वर्यवान्जीवः स्यान्न चैवमित्युपस्कर्तव्यमिति हेतोः किञ्चित्सादृश्याख्ययुक्त्या दृष्टेऽर्थे प्रतिबिम्बत्वे । श्रुतिः जीवस्य भगवदंशत्वश्रुतिः । एवं चाभेदे ब्रह्मस्वरूपानुगतेरावश्यकत्वा-दैश्वर्यादेश्च स्वरूपत्वान्मत्स्यादिवज्जीवश्च स्यात् । न चैवमिति हेतोर्युक्तिदृष्टार्थ एव वर्तत इति योजना । नोपाध्यायत्तत्वादिनेति वदता प्रतिबिम्बत्वघटकभेदतदधीनत्वसादृश्यनिरूपणवदुपाधेः प्रागसूत्रितत्वादिति सूचितम् । एवं च अतोंऽशत्वाज्जीवस्य मत्स्याद्युपमा नेत्येका योजना । यदि मत्स्याद्युपमा जीवस्य स्यात्तर्हि तद्वदैश्वर्यादिकमपि स्यात् । न चैवम् । अतो मत्स्यादिवत्सर्वैश्वर्या-भावादुपमैव सूर्यकोपमैव न तु मत्स्याद्युपमेति द्वितीययोजना । अतो भिन्नत्वतदधीनत्वसादृश्या-नामेव प्राक् सूत्रकृतोक्तेरुपाधेरनुक्तेश्च तावतैव सूर्यकोपमा । न तूपाध्यधीनापीति सूत्रखण्डस्य तृतीया योजनिकेत्युक्तं भवति ।

भावबोधः

अत्रानन्तरसङ्गतिः प्रागेवोक्ता ।। युक्ता न वेति ।। अत्र भक्तिः परमात्मनि युक्ता न वेति चिन्ता । तदर्थं जीवस्य परमात्मना भेद उत नेति । तदर्थमभेदसाधकं चेतनत्वांशत्वानुमानमना-भासमुताभासमिति । तदर्थं भेदसाधकं जीवस्येश्वरप्रतिबिम्बत्वं नोपपद्यते उतोपपद्यत इति । तदर्थं जीवस्योपाध्यायत्तत्वादिकं प्रतिबिम्बत्वप्रयोजकं भवत्युत नेति । अतः सादृश्याज्जीवस्यापि तथा स्यादिति परमात्मना चेतनत्वसाम्येन जीवस्याप्यभेद इति भाष्यन्यायविवरणाभ्यामुक्तमनुमानमाह– जीव इति ।। दृष्टान्तस्य साध्यवैकल्यपरिहारपरस्य यस्मादेवं परमेश्वरस्वरूपाणां मिथो न कश्चिद्भेद इति भाष्याभिप्रायमाह– मत्स्यादीनामिति ।। प्रागेव ‘न स्थानतोऽपि’ इत्यत्रेत्यर्थः ।

ननु ‘पृथगुपदेशात्’ इत्यत्र भेदस्य निपुणतरं समर्थितत्वात् कथम् अभेदेन पूर्वपक्षोत्थान-मित्याशङ्क्य निषेधति– न च वाच्यमित्यादिना ।। ‘समुदायैक्यमापतेत् ।’ ‘ईशाख्या समुदाये स्यात्’ इत्यनुव्याख्यानं मनसि निधायोक्तम्– सर्वचेतनसमुदायस्येति ।। अत्रेशपरमात्मशब्दाभ्यां ब्रह्माभिप्रेतम् । परेणेशस्यापि जीववद् ब्रह्मांशत्वाङ्गीकारात् । ‘ईशाख्य’ इत्याद्यनु-व्याख्यानानुसारेण तु ईशत्वेनेत्युक्तमिति ज्ञातव्यम् । तस्य प्रतिबिम्बत्वमुक्त्वेत्यनेन सूर्यकादिवदिति पदं कथं व्याख्यातमित्यत आह– दृष्टान्तकथनेनैवेति ।। सूर्यकादिदृष्टान्तेऽभेदाभावव्याप्तत्वेन प्रतिबिम्बत्वस्य सुप्रसिद्धत्वादिति भावः ।

ननु जीवब्रह्मणोर्भेदाङ्गीकारवादिनं प्रति भेदसाधने सिद्धसाधनता स्यादित्यतः ‘न च चित्त्वादभिन्नत्वं जीवस्येशवदाप्यते’ इत्यनुव्याख्यानं मनसि निधाय प्रयोगप्रकारमाह– इदमुक्तं भवतीत्यादिना । अत एवाभेद एवांश एव विवादात्तन्निरास इति वक्ष्यति–

यत आभासतामेव श्रुतिरस्य वदत्यलम्’

इत्यनुव्याख्यानं मनसि निधाय रूपं रूपमिति भाष्यमवतार्य व्याचष्टे– जीवस्येति ।। तथा च प्रतिबिम्बत्वहेतोः श्रौतत्वेन प्राबल्यात्तेनांशत्वचेतनत्वयोर्बाध इति भावः । इत्यादीति कर्तृवाचक-पदस्य कर्मक्रियानुवर्तनेनान्वयमाह– इत्यादीति ।। यस्मादेवमित्यादिभाष्यस्य भिन्नवाक्यत्वेन पूर्वपक्षानुवादपरत्वे पूर्वपक्ष इत्यध्याहारप्रसङ्गः । प्रतिबिम्बत्वहेतोः कण्ठतोऽनुक्तिः कश्चिदित्यस्य वैयर्थ्यं विपर्ययपर्यवसानायोगेन स्यादित्यापादनानुपपत्तिश्च स्यादिति यस्मादित्यादिदर्शयतीत्यन्तं भाष्यमेकवाक्यतया योजयति– अथवेत्यादिना ।। अस्मिन्नपि पक्षे जीवस्यापि परमेश्वरस्वरूपांशत्व इत्याद्यापादकाध्याहारस्यावश्यकत्वादाद्यं व्याख्यानमिति ज्ञातव्यम् । स्यादित्यापादनबललभ्यं विपर्ययपर्यवसानं दर्शयति– न चैवमिति ।। जीवानामल्पगुणत्वेनानुभवादिप्रमाणसिद्धत्वादिति भावः । अनेनाल्पगुणत्वादिविरोध इति न्यायविवरणमुक्ततात्पर्यं भवति । भाष्ये इति शब्दात् प्राक्तनो यस्मादेवमित्यादिको ग्रन्थः सौत्रा‘तः’शब्दपरामृश्यमानार्थप्रतिपादकः । इतिशब्दस्तु सौ‘त्रातः’ शब्दोक्तहेत्वर्थकः । उपमैवेत्येवशब्दसम्बन्धः । उपमाशब्दः प्रतिबिम्बपर इत्यभिप्रेत्येति तस्य प्रतिबिम्बत्वमुक्त्वेति भाष्यं व्याचष्टे– अतः अंशत्वेऽपीत्यादिनोक्त्वेत्यन्तेन ।। प्रतिबिम्ब एवेति ‘इति’शब्दः प्रकारार्थः । चशब्देनेत्यादिभाष्यं सोपस्करं व्याचष्टे– तद्धेतुनेत्यादिना ।। स चासौ हेतुश्चेति विग्रहः ।। उपाधिश्चेति ।। अत एवांशत्वेऽपीत्य‘पि’पदेन हेतोरप्रयोजकत्वमुक्तम् ।

ज्ञानैश्वर्यादीश्वरसाम्ये जीवानां नेश्वराभेदः प्रयोजकः किं तु तद्भेदाभाव इत्याशङ्कते । भेदस्यापीति ।। ब्रह्मस्वरूपानुगतेरिति ।। मृदादिना भिन्नाभिन्ने घटादौ मृदादिस्वरूपानुगतिवत् ब्रह्माभिन्नेषु जीवेषु ज्ञानैश्वर्यादिरूपब्रह्मस्वरूपानुगतेरावश्यकत्वादित्यर्थः । किं च परेण भिन्नाभिन्नतयाऽङ्गीकृतेष्वपि मत्स्यादिषु ऐश्वर्यादिब्रह्मस्वरूपानुगतेर्दर्शनात्तद्वज्जीवेष्वपि स्यादि-त्यभिप्रेत्याह– मत्स्यादिवच्चेति ।। नन्वस्यां योजनायां युक्तित एव प्रतिबिम्बत्वहेतुसिद्धे ‘रूपं रूपम्’ इति श्रुत्युदाहरणं किमर्थमित्यत आह– युक्तिदृष्टार्थ एवेति ।। ‘अत एवोपमा’ इति सूत्रखण्डस्य व्याख्यानान्तरपरमत एव तदधीनत्वमित्यादिभाष्यं तन्निवर्तनीयाशङ्काप्रदर्शन-पूर्वकमवतारयति– यदुक्तमित्यादिना ।। ‘अथाभासा’ ‘मुख्यतः प्रतिबिम्बवत्’ ‘यदा तदोपाध्या-यत्तरूपाणां नाशिता भवेत्’ ‘यदाभास उपाध्यायत्त ईयते’ ‘उपाध्यायत्तताभावात्’ इत्यनुव्याख्यानं मनसि निधाय विकल्प्य दूषयति– किमसावित्यादिना ।। न सूर्यकाद्युपमा सम्भवतीति ।। प्रतिबिम्बमात्रस्योपाध्यायत्तता नियमात् । उपाध्यायत्तत्वाभावे तस्य दृष्टान्तत्वासम्भवः । यतस्तस्य दृष्टान्तत्वासम्भवः, अत उपाध्यायत्तत्वादिव्यापकाभावेन तत्प्रतिबिम्बत्वाभावात् । बाधाद्यभावेन यदुक्तं चेतनत्वांशत्वाभ्यां जीवानां ब्रह्माभेद इति तत्तदवस्थमेवेत्यर्थः । ‘नातिसाम्यं निदर्शन’ इत्यनुव्याख्यानं मनसि निधायाह– यौ चेति ।। भाष्ये भिन्नत्वादित्रितयोक्तेः प्रयोजनमाह– अत्र चेति ।।

भावदीपः

जीवाभेदेति ।। अस्य भेदाभेदशङ्कानिरासपरत्वेऽपि भेदे विवादाभावेन सूत्रे चशब्देनाऽभेद-निरासरूपसाध्यस्यैवोक्तत्वादभेदेत्येवोक्तम् । यद्वा भेदसहिताऽभेदनिरासादित्यर्थः । प्रतिबिम्बत्व-हेतुनेति भावः । तेन न पृथगुपदेशादित्यादिना गतार्थत्वम् । तथा न स्थानत इत्यत्र समग्ररूपेणैव नानास्थानस्थितानामीशांशानामभेदे कथिते अनित्यत्वाद्यापत्त्या रूपमेव तस्य नेति शङ्कायां च निरस्तायां अत्र पुनस्तर्ह्यंशत्वाऽविशेषाद्विश्वाद्यंशवत् जीवरूपांशानामपीशेनाऽभेदोऽस्त्विति शङ्कनाद्वा मत्स्यादिरूपेषु प्राकृतादिरूपराहित्येऽपि जीवसमुदायस्यैव ब्रह्मत्वेन जीवरूपस्वरूपांशेषु प्राकृतादिरूपवत्त्वेनाऽरूपवदित्ययुक्तम् । भेदस्यापि सत्त्वेन न स्थानतोऽपि परस्योभयलिङ्ग-मित्यप्ययुक्तमिति शङ्कनाद्वा सङ्गतिश्चेति बोध्यम् । भक्त्यर्थमित्युक्तं व्यनक्ति ।। जीवेति ।। स्वस्य परमप्रेमास्पदत्वस्य विश्वजनीनत्वेनात्मनः स्नेहपात्रत्वेऽपि भक्तेर्माहात्म्यज्ञानपूर्वकस्नेहरूपतया तस्य चाऽऽत्मन्यभावात् स्वस्मिन्निवेत्युक्तम् ।। युक्तायुक्तेति ।। पूर्ववद्व्याख्या । फलोक्तिपूर्वमभि-प्रेतहेतूक्त्या पूर्वपक्षमाह ।। न युक्तेतीति ।। अत एवोपमेति सूत्रांशविवरणपरं अत इत्यादिभाष्यम् । तत्तु न च चित्त्वादभिन्नत्वं जीवस्येशवदाप्यत इत्यनुभाष्यदिशा व्याचष्टे ।। न चेत्यादिना ।। सादृश्यशब्दार्थश्चेतनत्वात्तदंशत्वादिति । चित्त्वादित्युपलक्षणमिति भावः । एतेन न च परमात्मनो चेतनत्वन्यायसाम्येन जीवस्याप्यभेद इति न्यायविवरणेऽप्युपलक्षणं व्याख्येयमिति सूचितम् । यस्मादित्यादेरत इत्यन्तस्यार्थमाह ।। मत्स्यादीनामिति ।। प्रागेव न स्थानत इत्यत्र । चेतनत्वेन चांशत्वात्समुदायैक्यमापतेत् । अतः पृथक्त्वमुदितं समुदायांशयोर्भवेदित्यनुव्याख्यानोक्तमत्र शङ्कापूर्वकं संयोजयति ।। न च वाच्यमिति ।। पृथगुपदेशादित्यादौ समर्थितत्वात्’ इत्यर्थः ।। भेदाविरोधादिति ।। अभेदस्य स्वाभाविकत्वाद्भेदस्य चौपाधिकत्वादिति भावः । एतेन प्रकाशादि-वन्नैवं परः स्मरन्ति चेत्यादिभिः सूत्रैः अंशो नानाव्यपदेशादित्यधिकरणे जीवानां भिन्नांशत्वस्य मत्स्यादेः स्वरूपांशत्वस्य च सिद्धत्वात्कथमंशत्वेन मत्स्यादिवदभेदानुमानमिति निरस्तम् । भेदमुपेत्याभेदस्यापि मत्स्यादिरूपेष्विवाऽऽशङ्कनेन भेदाविरोधादिति । फलोक्त्या भाष्यार्थमुपसंहरति ।। अत इति ।। जीवस्य परमात्माभिन्नत्वादित्यर्थः ।।

पूर्वपक्षमिति ।। अत एवोपमेत्यंशेनोक्तमित्यर्थः । आत्मनोक्तत्वादनुवदतीत्युक्तम् । यस्मा-दित्यादिभाष्यं पूर्वपक्षोपन्यासदशायां विवृतमपि वक्ष्यमाणार्थान्तराऽसङ्कीर्णत्वायाऽक्षरशो व्याचष्टे ।। यस्मादेवमिति ।। एवमित्यस्यार्थो नेत्यादि ।। अत इति ।। अभेदस्य सिद्धत्वादित्यर्थः ।। पूर्वः पक्ष इतीति ।। सूत्रे न भेदादिति चेदित्यत इति चेदित्यनुवर्त्यमिति भावः । सौत्रचशब्दस्याऽन्वय-पूर्वमनुवादः सूर्यकादिवच्चेति । पदमिति समुदायाशयम् । पदद्वयमित्यर्थः ।। एवं प्राप्त इति ।। भाष्ये स्यादितीतिशब्दानन्तरं प्राप्त इति शेष इति सूचितम् ।। दृष्टान्तेति ।। सूर्यप्रतिबिम्बसूर्यक-दृष्टान्तकथनेनेत्यर्थः । अन्तरङ्गत्वाद् व्याप्त्यादिभावाच्च तस्यैव हेतोर्लाभ इति भावः । ननु कथमत्र प्रयोगप्रकारः । जीवः परमात्मनो भिन्नः प्रतिबिम्बत्वात्सूर्यकादिवदित्युक्तौ सिद्धसाधनतापत्तेरभेद एव विप्रतिपत्तेर्भेदसाधने अर्थान्तराच्चेत्यत आह ।। इदमिति ।। प्रतिबिम्बत्वमेव कुत इति ।। यद्यप्यंशाधिकरणे आभास एव चेति गुणसूत्र एव सिद्धम् । तथापि तदेवाऽत्र भाष्ये श्रुत्युक्त्या दर्शयतीत्यर्थः ।। इत्यनुषज्यत इति ।। पदद्वयमनुवर्तत इत्यर्थः । यत आभासतामेव श्रुतिरस्य वदत्यलमित्यनुभाष्योक्तेरिति भावः । रूपमिति श्रुत्यर्थस्तु आभास एव चेत्यत्र टीकायां व्यक्तः । एतेन प्रतिबिम्बत्वहेतोरसिद्धिरपास्ता ।

यत्तु दर्पणादिसन्निकृष्टाः प्रतिहताः परावृत्ता नयनरश्मयो मुखेन सन्निकृष्टास्तदेव विषयी-कुर्वन्ति न ततोऽन्यः प्रतिबिम्बोऽस्तीति प्रतिबिम्बत्वमभेदेनैव व्याप्तमिति विरुद्धो हेतुरिति चोद्यं तत्तु आभासत्वविरोधत इत्यनुभाष्य एवाशंक्य निरासाद्वा अत्रैव वक्ष्यमाणवर्णकान्तरेण वा निरस्तप्रायमिति भावः । सूत्राक्षरैरेव प्रतिबिम्बत्वहेतूक्तितत्समर्थनयोर्लाभप्रकारमाह ।। अथवेति ।। यद्वा श्रुत्या प्रतिबिम्बत्वं जीवस्य समर्थ्य युक्त्याऽपि साधयितुमाह ।। अथवेति ।। सिद्धान्त एवेति ।। अत एवोपमेत्यंशस्य सिद्धान्तपरत्वेनैवानुभाष्ये व्याख्यानादिति भावः ।। न चैवमिति ।। एतच्च अशेषशक्तियुक्तश्चेत्स्वातन्त्र्याद्दोषवान्कथमित्यादिनाऽन्यत्र विस्तृतमिति भावः । भाष्यस्थेति- शब्दं हेत्वर्थं मत्वाह ।। अत इति ।। भाष्ये तस्य प्रतिबिम्बत्वमित्यनन्तरमध्याहार्यमाह ।। अत एवोपमेति पदैरिति ।। उक्त्वेत्यतः पश्चादपि शेषमाह ।। तद्धेतुनेति ।। तेन हेतुनेत्यर्थः ।। अनेनेति ।। सूत्रादौ जीवस्य सयुक्तिकं प्रतिबिम्बत्वसमर्थनेनेश्वररूपाणां सर्वसाम्योक्तेर्हेतूकरणेन चेत्यर्थः । यद्वा श्रुत्या युक्त्या च जीवानां प्रतिबिम्बत्वमीश्वररूपाणां तद्राहित्यमिति कथनेनेत्यर्थः । साधनाऽव्यापकत्वसाध्यव्यापकत्वयोः सम्भवादिति भावः ।। उपाधिश्चेति ।। न केवलं प्रतिबिम्ब-त्वानुमानविरोधश्चेतनत्वाद्यनुमानस्येति चार्थः । अभेदनिरासमात्रेण कथं भेदाभेदवादिभङ्ग इत्यत आह ।। अभेदेति ।। तर्कस्याप्रयोजकत्वमाशङ्क्य निराह ।। भेदस्यापीति ।। औपाधिकभेदस्या-पीत्यर्थः ।। मत्स्यादिवच्चेति ।। परमते मत्स्यादिरूपेषु जगदनुग्रहार्थं लीलया विग्रहोपादानेन तदुपाधिकृतभेदे सत्यपि स्वरूपांशत्वेनैश्वर्याद्यविशेषस्तथाऽत्राऽपि स्यादित्यर्थः । दृष्टान्त-बलाच्चेति चार्थः ।

यत्त्वस्त्येव जीवेष्वप्यैश्वर्यादि किं तु तिरोहितमस्तीति तदपि मत्स्यादिवच्चेत्युक्त्यैव निरस्तम् । तत्र तत्तिरोधानाभाववदत्राऽप्याऽऽपत्तेरिति । यदपि मत्स्याद्या लीलाविग्रहोपाधिभिन्ना इत्य-तिरस्कृतैश्वर्यादिमत्त्वात्तदनुसन्धानवन्तः । जीवास्त्वनाद्यविद्याकामकर्मादिनिबन्धनदेहेन्द्रिया-द्युपाधिभिन्ना इति तिरोहितब्रह्मस्वभावत्वान्नानुसन्धानवन्त इति ।। तदप्ययुक्तम् ।। हस्तपादा-द्युपाधिभेदेऽपि भोक्तुरेकत्वानुसन्धानादित्यादिना तत्वोद्योतोपाधिखण्डनादौ निरासादिति भावः । विस्तृतश्चाऽयमर्थो न्यायामृते द्वितीयपरिच्छेदे । स्वरूपांशत्वे ज्ञानाद्य वैशेष्याद्यापत्तिरित्या-द्युक्तयुक्त्यैव प्रतिबिम्बत्वसिद्धेः । अस्मिन्पक्षे भाष्ये रूपमित्याद्युक्तिर्व्यर्थेत्यत आह ।। युक्तीति ।। उक्तार्थद्वये वक्ष्यमाणार्थे च सूत्राक्षरयोजना तन्त्रदीपिकायां व्यक्ता । अथाभासा मुख्यतः सूर्यकादिवत् । यदा तदोपाध्यायत्तरूपाणां नाशिता भवेत् । इत्याशङ्कानिवृत्त्यर्थमाह वेदाधिपः प्रभुः । अत एवोपमेत्येव चान्याभासविशेषिताम् । यदुक्तं तदधीनत्वं सर्वावस्थास्वशेषतः । जीवस्येत्याद्यनुभाष्यदिशा अत एवोपमेत्यंशस्य वर्णकान्तरपरभाष्यशेषमवतार्य व्याचष्टे ।। यदुक्तमिति ।। सूर्यकादिवदिति ।। एतेन अथाऽऽभासा मुख्यतः सूर्यकादिवदित्युक्तदिशा । पूर्वत्र भाष्येऽपि तस्य सूर्यकादिवत्प्रतिबिम्बत्वमुक्त्वा इत्यपि योजना सूचिता । अन्यथा तस्य चशब्दसूचिताऽभेदनिरासरूपसाध्य एव दृष्टान्तोक्त्याऽसदनुवादः स्यात् ।। उपाध्यायत्तत्वादि-धर्मेति ।। तन्नाशनाश्यत्वजडत्वतत्कृतविकारादिरादिपदार्थः । धर्मादनिच्केवलादित्यनिच् प्रत्ययः ।। अनित्यत्वादीति ।। कृतहानाकृताभ्यागमादिरादिपदार्थः ।। अत इति ।। यदाभास उपाध्यायत्त ईयते । उपाध्यायत्तताभावादित्यनुभाष्योक्तदिशा प्रतिबिम्बत्वव्याप्तोपाध्यधीनत्वाभावादित्यर्थः ।

ननु यावदात्मभावित्वाच्च न दोषस्तद्दर्शनादित्यत्र जीवचिन्तापेटिकायां बिम्बोपाधितत्सन्निधीनां नित्यत्वेन जीवस्य नित्यत्वोपपादनात्कथमेषा शङ्का । मैवम् । तत्र ज्ञोऽत एवेत्यत्र देहयोगेन जीवोपाध्युत्पत्तावुक्तायां तर्हि देहरूपोपाध्युत्पत्तौ तद्विनाशे च तदुपाधिकस्य प्रतिबिम्बरूप-जीवस्याऽप्यनित्यत्वमिति शङ्कायां देहस्य न जीवोपाधित्वं येनानित्यत्वमित्येवोक्तम् । न तु नित्योपाध्यधीनत्वम् । तथैव भाष्यन्यायविवरणयोः प्रतीतेः । तत्वप्रदीपे तथैव व्याख्यानाच्च । टीकायां जीवोपाधिर्द्विधा प्रोक्त इत्यादिवचनोक्तिपूर्वकं तदुक्तिस्तु देहस्य जीवोपाधित्वं नेत्येतत्स्पष्ट-मुपपादयितुम् । यद्वा अथोपाधयोऽविनाशिनस्तदा प्रत्यक्षादिविरोधः सर्वदा संसारित्वं च स्यादिति सुधोक्तदिशा स्वरूपोपाधौ विप्रतिपत्त्या विशेषशङ्काऽत्रेति भावः । फलोक्तिपूर्वं तत्र हेतुत्वेन सूत्रभाष्ये व्याचष्टे ।। न सूर्यकादीति ।। अत एवेत्यस्याऽप्रकृतपरामर्शित्वभ्रान्तिं निराह ।। पृथगिति ।। उपाध्यायत्तत्वादीति ।। उपपादितमेतदाभास एव चेत्यत्र ‘सोपाधिरनुपाधिश्च प्रतिबिम्बो द्विधेयते । जीव ईशस्याऽनुपाधिरिन्द्रचापो यथा रवेः’ इति । नन्वेवमतिसाम्याभावा-द्दृष्टान्तदार्ष्टान्तिकभावो न स्यादित्यतो नातिसाम्यं निदर्शन इत्यनुभाष्योक्तं तात्पर्योक्त्या व्यनक्ति ।। यौ हीति ।। अन्यथा सर्वसाम्ये । सादृश्यं चेत्युक्त्या प्रत्येकं साधनमिति दर्शितम् ।। प्रतिबिम्बपदोक्तमिति ।। तथा च प्रतिबिम्बत्वादित्यस्य तदधीनत्वात्तत्सदृशत्वाच्चेत्यर्थ इति भावः । इमौ च हेतू प्रागुपपादितावेव सन्ध्ये सृष्टिरित्यादिभिरनेकैः सूत्रैः सप्रमाणं सूत्रकृतेति नासिद्धौ भेदेन व्याप्तावेवेति कृत्वा च न विरुद्धानैकान्तिकत्वादीति भावेनोक्तं न कश्चिद्दोष इति । नन्वथाऽपि बिम्बप्रतिबिम्बयोरैक्यात्सूर्यकादिदृष्टान्तः साध्यसाधनहीन इत्यतो न कश्चिद्दोष इत्ये-तदुपपादनायोक्तं दृष्टान्तदार्ष्टान्तिकयोरस्तीति । बिम्बप्रतिबिम्बयोर्भेदस्तु सुधायामुपपादित इति भावः । विस्तरस्तु न्यायामृते बिम्बप्रतिबिम्बवादे चन्द्रिकायां चाऽदृष्टानियमादित्यधिकरणे  द्रष्टव्यः । सूत्रोक्तं हेतूकृत्य फलोक्त्योपसंहरति ।। अत इति ।। अभेदस्य प्रबलनिर्दोषयुक्ति-बाधादित्यर्थः ।

अभिनवचन्द्रिका

भेदाऽभेदमतमत्र निराक्रियते । तथा हि जीवब्रह्मणोर्भेदस्तावत्सिद्धान्तिनाऽङ्गीक्रियते श्रुत्यादिसिद्धश्च । अभेदस्तु ‘जीवो ब्रह्माऽभिन्नः चेतनत्वात्, तदंशत्वाच्च, मत्स्यादिव’त् इत्यनुमानसिद्धः । अत उत्तरं पठति ‘सूर्यकादिवच्च’ इति सूत्रखण्डेन । अनेन जीवो न परमात्माऽभिन्नः तदाभासत्वात् सूर्यकादिवत्’ इति प्रयोगः सूचितः । तत्रेयमाशङ्का उपाध्यायत्तो ह्याभास उच्यते । यथा सूर्यकादिः । न चाऽसावुपाध्यायत्तः । अनित्यत्वप्रसङ्गात् । ततश्चाऽसिद्धमाभासत्वम् । सूर्यकाद्युपमा चाऽनुपपन्नेति । तां परिहर्तुं स्वाभिप्रायं व्यनक्ति ‘अत एव चोपमा’ इति सूत्रखण्डेन । अत एव ‘संध्येसृष्टिराह ही’ इत्यादौ प्रकृताभ्यां तदधीनत्वतत्स-दृशत्वाभ्यामेवाऽभेदो निराक्रियते । सूर्यकादिदृष्टान्तेन तादृशाऽऽभासत्वस्यैव हेतुत्वेन सूचितत्वात् तदधीनत्वतत्सादृश्ययोरेव विवक्षितत्वेनोपमा चोपपन्ना भवति । उक्तं च सुधायाम्, ‘अनेन अत एव प्रकृताभ्यां तदधीनत्वतत्सदृशत्वाभ्यामेव आभासत्वं सूर्यकाद्युपमा चोक्तेति स्वाभिप्रायप्रकटनं सूत्रार्थ इत्युक्तं भवति’ इति ।। भक्त्ययोगादिति ।। दोषिणा ऐक्ये दोषाणामवर्जनीयत्वादिति भावः ।। भक्तिरेव विषय इति ।। यद्यपि अत्र परमात्मा विषयः । जीवाऽभिन्नो न वेति सन्देहः । अभिन्न इति पूर्वपक्ष इत्येव वक्तव्यम् । तथापि जन्माधिकरणोक्तगुणपूर्णत्वे जीवाभिन्नत्वयुक्ति-विरोधपरिहारात्मकत्वादस्याधिकरणस्य युक्तिपादे निवेशो युक्त इति शङ्कानिरासायास्याधिकरणस्य युक्तिविरोधनिरासफलकत्वमिव भक्तिसिद्धिफलकत्वमप्यस्तीति विवक्षावशादत्राऽन्तर्भावो युक्त इति ज्ञापनाय तथोक्तम् । एवमुत्तरत्रापि द्रष्टव्यम् ।। न हीति ।। न हि स्वाधिकत्वेन स्वात्मनि भक्तिरुपपद्यत इत्यर्थः । परमात्मनो नभिद्यते इति ।। अत्यन्तभेदशून्यः अभिन्न इति यावत् । एतेन पूर्वपक्षिणो भेदाऽभेदवादित्वाद्भेदनिराकरणमयुक्तमिति परास्तम् ।। न भेद इतीति ।। अभेद इति प्रागेव सिद्धमित्यर्थः । दृष्टान्तकथनेनोक्त्वेति ।।

ननु दृष्टान्तकथनस्य परकालत्वेन चशब्दात्पूर्वकालत्वाभावात् क्त्वाप्रत्ययोऽनुपपन्न इति  चेत् न ब्रूमो वयम् ‘अत एव च’ इति श्रुतचशब्देन साध्यभेदं समुच्चिनोतीति येनोक्तदोषः स्यात् किंनाम सूर्यकादिवदित्यतःपरमनुवृत्तेन चशब्देनेति । एवं च कृत्वा स दोषः परिहृतो भवति । अनुवृत्त च शब्दात् दृष्टान्तवचनस्य पूर्वकालत्वात् । तदिदमुक्तम् सूर्यकादिवच्चेति पदे व्याचष्ट इति ।। अन्यथाचसूर्यकादिवदिति पदे व्याचष्ट इत्यवक्ष्यत् । श्रूयमाणश्चशब्दो न केवलं तदधीनत्व-तत्सदृशत्वयोर्हेतुतया विवक्षितत्वात् हेतुर्नासिद्धः । अपि तु अत एवोपमा चोपपन्नेति समुच्चयार्थः । अनुवृत्तस्तु साध्यसमुच्चयार्थ इति विवेकः ।। अत एवोपमेति पदैरुक्त्वेति ।। मत्स्यादिवत् ज्ञानैश्वर्याद्यविशेषप्रसङ्गात् उपमैव भगवत्प्रतिबिम्बत्वमेव न मत्स्यादिवदंशत्वमिति अत एवोपमेति-पदैरुक्त्वा तद्धेतुना अत एवोपमेति पदलब्धहेतुना सह सूर्यकादिदृष्टान्तेन लब्धं भेदं चशब्देन समुच्चिनोतीत्यर्थः । साधनस्य साध्येन समुच्चयार्थ एव चशब्दः । न तु हेतुसमुच्चयार्थ इति भावः । ननु पूर्वपक्षिणा भेदस्याङ्गीकृतत्वाद्भेदसाधनं व्यर्थमित्यत आह– अभेदांश एवेति ।। अभेद एव विवादात्तन्निराकरणमेव सूत्रार्थः न तु भेदसाधनमिति भावः । ब्रह्मस्वरूपानुगतेरावश्यकत्त्वा-दिति ।। स्वरूपानुगतेरैक््यव्यापकत्वेन ऐक््यं प्रतिजानतस्तत्स्वरूपाऽनुगतेरावश्यकत्वात् भेदबलेन ऐश्वर्यादिनिषेधो न कार्य इति भावः । ननु अस्तु तर्हि ब्रह्मस्वरूपानुगतिर्जीवेषु, तथापि ऐश्वर्यनिषेधः कुतो न युक्त इत्यत आह– ऐश्वर्यादेश्चेति ।। चोऽवधारणार्थः । अनेन जीवो यदि ब्रह्माऽभिन्नः स्यात् तर्हि ऐश्वर्याद्यनुगतिमान् स्यात् मत्स्यादिवत् घटवच्चेति तर्कः सूचितो भवति । विशेषव्याप्तौ मत्स्यादिदृष्टान्तः । सामान्यव्याप्तौ तु अनुक्तसमुच्चयार्थेन चकारेण सूचितो घटादिदृष्टान्त इति विवेकः । एतेन मत्स्यदिवदित्येतावतैव पूर्णत्वाच्चकारो व्यर्थ इति परास्तम् । ननु अस्यां योजनायां युक्तित एव प्रतिबिंबत्वहेतुसिद्धेः ‘रूपं रूपम्’ इत्यादिश्रुत्युदाहरणं किमर्थमित्यत आह– युक्तिदृष्टार्थ एवेति ।। दृष्टान्तदार्ष्टान्तिकयोरस्तीति ।। दृष्टान्तस्य साध्य-साधनवत्त्वं निश्चितमेव विवक्षितम् । दार्ष्टान्तिकस्य तु साधनवत्त्वं नाम तत्त्वेन निश्चितत्वम् साध्यवत्त्वं तु तत्त्वेन विवक्षितत्वमात्रं न तु तत्त्वेन निश्चितत्वमिति बोध्यम् । एतेन दार्ष्टान्तिकस्य साध्यवत्तया निश्चितत्वेऽनुमानवैयर्थ्यमिति निरस्तम् । अत एव साध्यं साधनं चाऽस्तीत्युक्तम् । अन्यथा व्याप्यं व्यापकं चाऽस्तीत्यवक्ष्यत् ।

पूर्वपक्षस्तु जीवस्तावत्परमात्मनो भिद्यते इति श्रुत्यादिसिद्धम् अनुमतं च भवताम् । एवं सति प्रयुज्यते ‘जीवः परमात्माऽभिन्नः चेतनत्वात् तदंशत्वात् मत्स्यादिवत्’ एवं च ईश्वरस्य जीवे भिन्नत्वेऽपि अभेदस्याऽपि भावात् दोषिणा ऐक््ये च दुष्टत्वावश्यंभावात् न परमात्मनि भक्तिर्युक्तेति ।

सिद्धान्तस्तु जीवो न परमात्माऽभिन्नः तत्प्रतिबिम्बत्वात् यो यत्प्रतिबिम्बः नाऽसौ तदभिन्नः यथा सूर्यकादिः । ननु उपाध्यायत्तः प्रतिबिम्ब उच्यते न चाऽसावुपाध्यायत्तः तथात्वेऽ-नित्यत्वप्रसङ्गात् । ततश्च असिद्धं प्रतिबिम्बत्वम् । अथ परमात्माधीनत्वे सति चेतनत्वेन तत्सादृश्यं हेतुतया विवक्षितम्, तर्हि अनुपपन्नो दृष्टान्तः प्राप्नोतीति चेत्, न । चेतनत्वादिविशेषरूपस्याऽ-विवक्षितत्वात् । तदधीनत्वतत्सदृशत्वयोरेव हेतुतया विवक्षितत्वात् । अत एवोपमाप्युपपन्ना । बिम्बाधीनत्वमिव बिम्वसादृश्यस्याऽपि तत्र सत्त्वात् । नन्वेवमपि पक्षे सर्वदृष्टान्तधर्माभावात् ‘तथा चाऽयम्’ इत्युपनयो न सम्भवतीति चेत्, न यथा दृष्टन्तः साध्यव्याप्यसाधनवान् तथा पक्षोऽपीत्येतावन्मात्रस्य उपनये विवक्षितत्वेन यावत्साधर्म्यस्याविवक्षितत्वात् । अन्यथा अनुमानमात्रोच्छेदप्रसङ्ग इति । अतो जीवपरमात्मनोरभेदाभावात् युक्ता भगवति भक्तिरिति तन्महिमवर्णनमुपपन्नमिति सिद्धम् ।

वाक्यार्थमुक्तावली

अत्रानन्तरसङ्गतिः प्रागेवोक्ता ।। भक्त्ययोगादिति ।। स्वात्मात्मीयसमस्तवस्तुभ्योऽधिको माहात्म्यज्ञानपूर्वः स्नेहो हि भक्तिः । सा च जीवाभेदे स्वस्मिन्निव परमात्मन्ययुक्तेति भावः । एतेन माहात्म्यपूर्वकस्नेहस्य स्वस्मिन्विद्यमानत्वात्स्वस्मिन्निवेत्युक्तमयुक्तमिति निरस्तम् ।। युक्तीति ।। भक्तिः परमात्मन्ययुक्तोत युक्तेति चिन्ता । तदर्थं जीवस्य परमात्मनाभेदोऽस्ति न वेति । तदर्थ-मभेदसाधकं चेतनत्वाद्यनुमानमनाभासमुताभासमिति । तदर्थमभेदाभावसाधकं प्रतिबिम्बत्वं नोपपद्यत उतोपपद्यत इति । न्यायसाम्यमिति न्यायप्रदर्शकयस्मादेवमित्युत्तरभाष्यानुसारेण पूर्वपक्षयति ।। न युक्तेति ।। ननु पृथगुपदेशादित्यन्तसूत्रैः भेदस्य श्रुत्यादिभिः समर्थितत्वादनुमानं बाधितम् । गतार्थं चेदमधिकरणमित्याशङ्क्य ‘समुदायैक्यमापतेत् । ईशाख्या समुदाये स्यात्’ इत्यनुव्याख्यानं मनसि निधाय निषेधति ।। न चेति ।। अनुवदतीति ।। बहिरेव पूर्वपक्षमाह । न तु यस्मादेवमित्यत-श्शब्दार्थतयोच्यत इति । केचित्तु उपमेत्यनन्तरं न भेदादिति सूत्रादिति चानुवर्तते । ततो हि अस्य इत्यतो अस्येत्यस्ति । अत एवेत्यावर्तते । तथा च अत एव ईशरूपाणामभेदस्य साधितत्वादेव अत एव चेतनत्वादिहेतोरेव अस्य जीवस्योपमा मत्स्यादिसाम्यं मत्स्यादिवदभेद इति यावदिति चेन्नेति सूत्रार्थकथनपरं भाष्यमित्याहुः ।। अतस्तत्सादृश्याच्चेतनत्वादेरिति ।। ईश्वररूपाणाम-भेदात्तद्दृष्टान्ताच्चेतनत्वादेर्हेतोरित्यर्थः । यद्वा चेतनत्वादिरूपतत्सादृश्यादित्यर्थः । प्रतिबिम्बहेतुः केनोक्त इत्यत आह । सूर्यकादिवदिति दृष्टान्तकथनेनोक्त्वा सूचयित्वेति भेदं दर्शयतीति भाष्यस्या-भेदं निरस्य शुद्धभेदं दर्शयतीत्यर्थः । भेदाभेदवादिनो भेदस्य सिद्धत्वात् । अत एवानुव्याख्याने चर्चितत्वात् अभिन्नमित्यभेदो निरस्त इति भावेन प्रयोगप्रकारमाह ।। इदमुक्तं भवतीति ।। अत एव वक्ष्यति अभेदांश एव विवादात्तन्निरास इति ।

एवं यस्मादेवमित्यादिभाष्यं पूर्वपक्षानुवादपरमिति व्याख्याय तस्य प्रतिबिम्बत्वमित्यादिकं सूर्यकादिवच्चेति सूत्रखण्डविवरणपरमिति व्याख्यातम् । तर्हि पूर्वपक्ष इत्यध्याहारः प्रतिबिम्बत्वहेतोः कण्ठतोऽनुक्तिः कश्चिदित्युक्तस्य वैय्यर्थ्यमित्युक्त्यरुच्या यस्मादेवमित्यादिसमग्रभाष्यं अत एवेत्यादिसमग्रसूत्रविवरणपरतया सिद्धान्तपर एवेति पक्षान्तरमाह ।। अथवेति ।। अत इत्यस्य प्रदर्शनपरं यस्मादेवमित्यादिभाष्यं व्याचष्टे ।। यस्मादित्यादिना ।। अत इत्यस्य तर्हीत्यर्थं मनसि निधायापादकमाह ।। जीवस्यापि परमेश्वरस्वरूपत्व इति ।। यत उपमा अत इत्यपि सम्बन्धं मत्वा प्रवृत्तस्य जीवस्यापि तथा स्यादित्यस्यार्थमाह ।। तद्वज्ज्ञानैश्वर्याद्यविशेषः स्यादिति ।। आपादन-लब्धं विपर्यये पर्यवसानमत्यल्पतेत्युक्तन्यायमनुसृत्याह ।। न चैवमिति ।। न च जीवस्येश्वरेण ज्ञानैश्वर्याद्यविशेषोऽयुक्तः । अल्पगुणत्वेनानुभवात् । अतो न परमेश्वरांशत्वं युक्तमिति विपर्यय-पर्यवसानं द्रष्टव्यमिति भावः । अस्त्वेवं ततः किमित्यतः प्रवृत्तस्यात उपमैवेति सूत्रखण्ड-स्योपयोगकथनपरमिति तस्य प्रतिबिम्बत्वमिति भाष्यं व्याचष्टे । अतोंऽशत्वेऽपि जीवो ब्रह्म-प्रतिबिम्ब एव । भाष्ये इतिशब्दः सौत्रातःशब्दोक्तहेत्वर्थकः । सूत्रे उपमाशब्दः उपमाव-त्प्रतिबिम्बपरः । तथा च यत एवं जीवस्य ब्रह्मस्वरूपांशत्वं नास्ति, अतोंऽशत्वेऽपि जीवो ब्रह्मण उपमा प्रतिबिम्ब एवेति तस्य प्रतिबिम्बत्वं अत एवोपमेति पदैः साधयित्वेत्यर्थ इति भावः । यत उपमा प्रतिबिम्बः अतः सूर्यकादिवच्च नाभिन्न इति सूत्रार्थमभिप्रेत्य प्रवृत्तस्य प्रतिबिम्बत्वमुक्त्वा चशब्देन भेदं समुच्चिनोतीति भाष्यस्यार्थमाह ।। तद्धेतुत्वेनेति ।। स चासौ हेतुश्चेति विग्रहः । ततश्चायं सूत्रार्थः । अतो मत्स्यादीनां परमेश्वरेण ज्ञानानन्दाद्यविशेषस्योक्तत्वात् अतस्तर्हि जीवस्यापि परमेश्वरस्वरूपांशत्वे यत उपमा अतस्तत्सादृश्यात् उपमा स्यात् ज्ञानाद्यविशेषप्रसङ्गो न चैवमतो जीवांशोऽपि उपमैव प्रतिबिम्ब एव यतोऽतस्सूर्यकादिवच्च भिन्न एवेति ।। अनेनेति ।। प्रतिपक्षवचनेनेत्यर्थः ।। उपाधिश्चेति ।। अंशत्वस्य प्रयोजकत्वं चेत्यर्थः । अत एवांशत्वेऽ-पीत्युक्तम् ।

न चाभेदः प्रागेव निरस्त इति भेदाभेदोऽत्र निरसनीयः, कथमभेदनिरासेन चारितार्थ्यमित्यत आह ।। अभेदांश एवेति ।। ननु ज्ञानैश्वर्यादीश्वरसाम्ये जीवानां नेश्वराभेदः प्रयोजकः, किन्तु तद्भेदाभावः । प्रकृते भेदस्य सत्त्वान्नैश्वर्यादिसाम्यमित्याशङ्कते ।। भेदस्यापीति ।। ब्रह्मस्वरूपानु-गतेरिति । मृदादिना भिन्नाभिन्ने घटादौ मृदादिस्वरूपानुगतिवत् ब्रह्माभिन्नेषु जीवेषु ज्ञानैश्वर्याद्यनुगतेरावश्यकत्वादित्यर्थः । किञ्च परेण भिन्नाभिन्नतयाङ्गीकृतेष्वपि मत्स्यादिष्वैश्वर्यादि-ब्रह्मस्वरूपावगतेर्दर्शनात्तद्वज्जीवेष्वपि स्यादित्यभिप्रेत्याह ।। मत्स्यादिवच्चेति ।। नन्वस्यां योजनायां युक्तित एव प्रतिबिम्बत्वहेतुसिद्धेः रूपं रूपमिति श्रुत्युदाहरणं किमर्थमित्यत आह ।। युक्तीति ।। अत एवोपमेति सूत्रखण्डस्य व्याख्यानान्तरपरतयैव तदधीनत्वमित्यादिभाष्यं तन्निवर्तनीयाशङ्का-पूर्वमवतारयति ।। यदुक्तमित्यादिना ।। उपाध्यायत्तत्वादीत्यादिपदेन जडत्वं गृह्यते । अनित्यत्वा-दीत्यादिपदेन जन्ममोहाभावादि गृह्यते ।। अत इति ।। व्यापकस्योपाध्यायत्तत्वादेः नित्येषु चेतनेषु जीवेष्वभावात्तद्व्याप्यप्रतिबिम्बत्वाभावात् हेतोरसिद्धेरुपाध्यभावाच्च यदुक्तं चेतनत्वाशंत्वाभ्यां जीवानां ब्रह्माभेद इति तत्तदवस्थमेवेत्यर्थः ।। पृथगुपदेशादिति ।। पृथगित्यत्र भिन्नत्वं सन्ध्य इत्यत्र तदधीनत्वं तद्गुणेत्यत्र तत्सादृश्यमिति विवेकः ।। उपाध्यायत्तत्वादिसर्वप्रतिबिम्बधर्मेति ।। उपाध्यधीनत्वतन्नाशनाश्यत्वजडत्वाद्यैरपि नेत्यर्थ इति सुधानुसारेण सर्वशब्दार्थो ज्ञेयः । क्वातिसाम्यं निदर्शने इत्यनुव्याख्यानं मनसि निधायाह ।। यौ चेति ।। भाष्ये भिन्नत्वादित्रितयोक्तेः प्रयोजनमाह ।। अत्र चेति ।।

तत्त्वसुबोधिनी

जीवस्येति ।। ननु जीवपरमात्मनोरभेदेऽपि कुतः परमात्मनि भक्त्ययोग इत्यत आह ।। न हीति ।। तथा लोकेऽदृष्टत्वादिति भावः । ननु द्वा सुपर्णा’ इत्यादिना जीवपरमात्मनोर्भेद-स्योक्तत्वादभेदे विमतिरित्यत आह ।। न चेति ।। ननु मत्स्यादेः परमात्मभिन्नत्वात् तत्र साध्यवैकल्यमित्यत आह ।। मत्स्यादीनामिति ।। प्रागेव न स्थानतोऽपीत्यत्रोक्तमित्यर्थः । ननु पृथगुपदेशादित्यत्र भेदस्य निपुणतरं समर्थितत्वात् कथमभेदेन पूर्वपक्षोत्थानमित्याशङ्क्य निषेधति ।। न चेति ।। नात्र केवलभेदोऽभिप्रेतः । किन्तु जीवसमुदायस्य परमात्मनाऽभेदो एकैकजीवेन भेद इति भेदाभेदावभिमतावित्याह ।। सर्वेति ।। ईशत्वेनेति ।। ईशाख्यवत्वेनेत्यर्थः । अभेदे सति कथं भेदस्तयोर्विरोधादित्यत आह ।। अभेदेऽपीति ।। एवं च समुदायत्वावच्छेदेनाभेदः एकैकजीवत्वा-वच्छेदेन भेदः इति व्यवच्छेदकभेदादविरोध इति भावः । तस्य प्रतिबिम्बत्वमुक्त्वेत्यनेन सूर्यकादिवदिति पदं कथं व्याख्यातमित्यत आह ।। दृष्टान्तकथनेनैवेति ।। सूर्यकादिदृष्टान्ते अभेदाभावव्याप्तत्वेन प्रतिबिम्बत्वस्य सुप्रसिद्धत्वादिति भावः । ननु जीवब्रह्मणोर्भेदाभेदाङ्गीकार-वादिनं प्रति भेदसाधने सिद्धसाधनता स्यादित्यत आह ।। इदमुक्तं भवतीति ।। रूपं रूपमिति भाष्यमवतार्य व्याचष्टे ।। जीवस्येति ।। तथा च प्रतिबिम्बत्वहेतोः श्रौतत्वेन प्राबल्यात् तेनांशत्वचेतनत्वयोर्बाध इति भावः । इत्यादीति कर्तृवाचकपदस्य कर्मक्रियावर्तनेनान्वयमाह ।। इत्यादीति ।। आत्मकाः आत्मन इमे आत्मकाः जीवाः । यस्मादेवमिति भाष्यस्य भिन्नवाक्यत्वेन पूर्वपक्षानुवादपरत्वे पूर्वपक्ष इत्यस्याध्याहारप्रसङ्गात् प्रतिबिम्बत्वहेतोः कण्ठतोऽनुक्तेः कश्चिदित्यस्य वैय्यर्थ्यम् । विपर्ययपर्यवसानायोगेन स्यादित्यापादनानुपपत्तिश्च स्यादित्यतो यस्मादित्यादि दर्शयतीत्यन्तं भाष्यमेकवाक्यतया योजयति ।। अथ वेत्यादिना ।। अत्रापि जीवस्यापि परमेश्वरस्वरूपांशत्वे इत्यापादकाध्याहारस्यावश्यकत्वात् आद्यव्याख्यानमिति ज्ञातव्यम् । स्यादित्यापादनलभ्यं विपर्ययपर्यवसानमाह ।। न चैवमिति ।। ज्ञानैश्वर्याद्यविशेषस्तु नेत्यर्थः । जीवानामल्पगुणत्वेनानुभवादिप्रमाणसिद्धत्वादिति भावः ।

भाष्ये इतिशब्दात्प्राक्तनः यस्मादेवमित्यादिको ग्रन्थः सौत्रतच्छब्देन परामृश्यमाणार्थप्रतिपादक इति सौत्रातःशब्दोक्तहेत्वर्थक उपमैव इत्येवशब्दसम्बन्धः उपमाशब्दः बिम्बपर इत्यभिप्रेत्य व्याचष्टे ।। अतोंऽशत्वेऽपीति ।। प्रतिबिम्ब एवेति ।। इतिशब्दः प्रकारार्थः । चशब्देनेत्यादिभाष्यं व्याचष्टे ।। तद्धेतुनेति ।। स चासौ हेतुश्चेति विग्रहः । प्रतिबिम्बत्वहेतुना भेदः साध्यः ।। अनेनेति ।। प्रतिबिम्बत्वस्य हेतुत्वकथनेनेत्यर्थः । चशब्दोऽप्रयोजकत्वसमुच्चयार्थः । अत एवाशंत्वेऽपीत्यपिपदेन हेतोरप्रयोजकत्वं पूर्वमुक्तम् । ननु भेदाभेदयोरङ्गीकृतत्वात् कथमभेदमात्रनिरास इत्यत आह

।। अभेदांश एवेति ।। ज्ञानैश्वर्यादीश्वरसाम्ये जीवानां नेश्वरभेदः प्रयोजकः किन्तु तद्भेदाभाव इत्याशङ्कते ।। भेदस्यापीति ।। ब्रह्मस्वरूपानुगतेति ।। मृदादिनाऽभिन्नघटादौ मृदादिस्वरूपानु-गतिवत् ब्रह्माभिन्नेषु जीवेषु ज्ञानैश्वर्यादिरूपब्रह्मस्वरूपानुगतेरावश्यकत्वादित्यर्थः । ननु जीवस्य ब्रह्माभेदेऽपि ज्ञानैश्वर्यादिरूपाननुगतिः । तस्य ब्रह्मस्वरूपत्वाभावादित्यत आह ।। ऐश्वर्यादेश्चेति ।। किञ्च परेण भिन्नाभिन्नतयाङ्गीकृतेष्वपि मत्स्यादिषु ऐश्वर्यादिरूपब्रह्मस्वरूपानुगतेर्दर्शनात् तद्वत् जीवेष्वपि स्यादित्यभिप्रेत्याह ।। मत्स्यादिवच्चेति ।। नन्वस्यां योजनायां ब्रह्मस्वरूपत्वे ज्ञानैश्वर्यादिविशेषः स्यात् । न चैवं अतोंऽशत्वेऽपि प्रतिबिम्बत्वमेवेति युक्तित एव प्रतिबिम्बत्व-हेतुसिद्धेः रूपं रूपमिति श्रुत्युदाहरणं किमर्थमित्यत आह ।। युक्तिदृष्टार्थ एवेति ।। तथा च युक्तिसिद्धार्थे संवादितया श्रुत्युदाहरणं न त्वसिद्धप्रतिबिम्बत्वरूपहेतुसाधनार्थम् ।

अत एव चोपमेति सूत्रखण्डस्य व्याख्यानान्तरं अत एव तदधीनत्वमित्यादिभाष्यं तन्निवर्तनीयाशङ्कापूर्वकमवतारयति ।। यदुक्तमिति ।। आद्य इति ।। सूर्यकादिवदिति भावः ।। न सूर्यका हीति ।। प्रतिबिम्बमात्रस्योपाध्यायत्ततानियमात् प्रतिबिम्बस्य जीवस्योपाध्यायत्तताभावे तस्य दृष्टान्तत्वासम्भवः । यतस्तस्य दृष्टान्तत्वासम्भवः अत उपाध्यायत्तत्वादिव्यापकाभावे तद्वत्प्रति-बिम्बत्वाभावात् । बाधाभावेन यदुक्तं चैतन्यांशत्वाभ्यां जीवानां ब्रह्माभेद इति तत्तदवस्थमेवेत्यर्थः । तर्ह्यनित्यत्वमत आह ।। उपाधीति ।। ननु जीवप्रतिबिम्बत्वे न सूर्यकादिदृष्टान्तः सम्भवतीति दृष्टान्तस्थोपाध्यायत्तत्वादिधर्माणां तत्राभावादित्यत आह ।। अत्र चेति ।। अत्र सूत्रे सूर्यकादि-वदित्यनेन प्रतिबिम्बत्वहेतुः ग्राह्यः । चशब्देन भेदरूपसाध्यसमुच्चयः । एवं च जीवः ब्रह्माभिन्नो न भवति तत्प्रतिबिम्बत्वात् । यो यत्प्रतिबिम्बः स तेनाभिन्नो न । यथा सूर्यकः सूर्यप्रतिबिम्ब-स्तेनाभिन्नो न भवति । ननु जीवस्य ब्रह्मप्रतिबिम्बत्वं न, उपाध्यायत्तत्वादिरूपप्रतिबिम्ब-धर्माभावादित्यत उक्तम् ।। अत एवोपमेति ।। अत एव भिन्नत्वतदधीनत्वतत्सादृश्येनैवोपमा सूर्यकादिसाम्यम् । न तूपाध्यायत्तत्वेनेत्यर्थः । यद्वा अतश्शब्द उक्तार्थपरामर्शकः । चशब्दः भेदरूपसाध्यसमुच्चायकः । उपमाशब्दः प्रतिबिम्बत्वार्थः । उपमैवेत्येवकारसम्बन्धः । सूर्यकादिवदिति दृष्टान्तः । एवं च जीवस्य मत्स्यादिवत् स्वरूपांशत्वे ज्ञानैश्वर्याद्यविशेषरूप-बाधकसद्भावो यतोऽतः कारणात् जीव उपमैव ब्रह्मप्रतिबिम्ब एव ।। न तेनाभिन्नः ।। सूर्यकादिदृष्टान्तवदित्यर्थः । अनुमानं तु पूर्ववदेवोह्यमिति सूत्राक्षरार्थः ।

वाक्यार्थविवरणम्

।। अत एवोपमेतिपदैरुक्त्वेति ।। सूचयित्वेत्यर्थः न तु भेदांश इत्येवार्थः तदधीनत्व-तत्सादृश्यैरेव सूर्यकाद्युपमेत्युक्त्या तदधीनत्वे सति तत्सादृश्यरूपं प्रतिबिम्बत्वं सूचितमित्यर्थः । पूर्वं सूर्यकादिवदिति दृष्टान्तोक्त्या प्रतिबिम्बत्वसूचनमुक्तमत्र तु अत एवोपमेति पदैरिति ध्येयम् ।। प्राचीनानुमानस्य ।। चेतनांशत्वानुमानस्य ।। उपाधिश्चेति ।। न केवलं भेदसाधकप्रतिबिम्ब-त्वानुमानबाधः सूचितः । किं नाम अप्रतिबिम्बत्वोपाधिश्चानेन सूत्रेण सूचित इत्यर्थः । ननु भेदाभेदनिरासः साधनीयो न त्वभेदाभावमात्रमित्यत आह ।। अभेदांश एवेति ।। द्वितीययोजनायां जीवस्यापि तथा स्यादित्यापादनं न युक्तमित्याशङ्कते ।। भेदस्यापीति ।। आवश्यकत्वादिति ।। घटादौ मृदादिस्वरूपानुगतिवदिति भावः । ऐश्वर्यादेश्च ब्रह्मस्वरूपत्वात् जीवानां तदभेदे ऐश्वर्याद्यनुमतिर्जीवेषु स्यादित्यापादनं युक्तमिति योज्यम् ।। जीवानां ब्रह्मणा भेदाभेदाङ्गीकारेऽ-प्यैश्वर्याद्यनुगत्याऽवश्यम्भाव्यमेव । मत्स्यादौ दृष्टत्वादतश्चापादनं युक्तमित्याशयेनाह ।। मत्स्यादि-वच्चेति ।। अनित्यत्वादीति ।। उपाधिनाशेनेत्यर्थः ।। द्वितीयेनेति ।। उपाध्यायत्तत्वादिना साम्याभावादिति भावः ।। उक्तम् ।। अंशित्वहेतुनाऽभिन्नत्वमित्यर्थः । पृथगित्यत्र भिन्नत्वम् । सन्ध्य इति तदधीनत्वं, तद्गुणेत्यत्र सादृश्यमिति बोध्यम् ।। तत्सद्भावेनैवेति ।। तयोर्धर्मयोः सत्त्वेनेत्यर्थः ।। अन्ययेति ।। दृष्टान्तदार्ष्टान्तिकयोः सर्वैरपि धर्मैः साम्याङ्गीकारे ।। सर्वेति ।। धूमानुमानेऽपि पर्वतमहानसयोः पर्वतत्वमहानसत्वादिधर्मेण साम्याभावादिति भावः ।

वाक्यार्थमञ्जरी

प्रागेवेति ।। न स्थानतोऽपीत्यनेनेत्यर्थः ।। समर्थितत्वादिति ।। पृथगुपदेशादित्यनेनेति शेषः ।। सर्वचेतनसमुदायस्येति ।। पटस्य सर्वतन्तुभिरत्यन्ताभेदस्येकैकतन्तुना भेदाभेदस्य च भवद्भि-रभ्युपगमादिति भावः ।। ॐ अत एव चोपमा सूर्यकादिवत् ॐ ।। अत एव ब्रह्म तदंशानां मत्स्यादीनामभेदस्योक्तत्वादेव अत एव अंशत्वहेतोरेवोपमा जीवस्य मत्स्यादिवद् ब्रह्माभेद-साम्यमिति न मन्तव्यम् । कुतः ? अत एव जीवस्येशप्रतिबिम्बांशत्वादेव । कथं सूर्यकादिवत् यथा सूर्यप्रतिबिम्बादिकं सूर्येणाभिन्नं न भवति तत्प्रतिबिम्बांशत्वात्तथा जीवोऽपीशेन भिन्न इत्यर्थः ।। सूर्यकादिवच्चेति ।। अनेन चशब्दो भिन्नक्रम इति सूचितं भवति । ननु भेदाभेदवादिनं प्रति भेदसाधने सिद्धसाधनमित्यत आह ।। इदमुक्तं भवतीति ।। तथा च भेदशब्दोऽभेदाभावपर इति भावः ।। इत्यादीति ।। कर्तृवाचकपदस्य क्रियानवर्तनेनान्वयमाह ।। इत्यादीति ।। पूर्वव्याख्याने पूर्वपक्ष इत्यध्याहारः । प्रतिबिम्बहेतोः कुतोऽनुक्तिरित्याद्यरुच्याह ।। अथवेति ।। भेदशब्दार्थो विशेष इति । तद्धेतुना तेन प्रतिबिम्बत्वहेतुना ।। अनेनेति ।। जीवस्य भेदसाधनायोक्त-प्रतिबिम्बत्वेनेत्यर्थः ।। प्राचीनेति ।। अभेदसाधकचेतनत्वादेरित्यर्थः । ननु तेन भेदाभेदाङ्गीकारात् कथमभेदमात्रनिरास इत्यत आह ।। अभेदांश एवेति ।। ज्ञानैश्वर्यादीश्वरसाम्ये जीवानां नेश्वराभेदः प्रयोजकः किन्तु तद्भेदाभावः स चात्र नास्तीति न साम्यमित्याशङ्कते ।। भेदस्यापीति ।। ब्रह्मस्वरूपानुगतेरिति ।। मृदादिना भिन्नाभिन्ने घटादौ मृदादिस्वरूपानुगतिवद् ब्रह्मणा भिन्नाभिन्नेषु जीवेषु ज्ञानैश्वर्यादिब्रह्मस्वरूपानुगतेरावश्यकत्वादित्यर्थः । किं परेण भिन्नाभिन्न-तयाऽङ्गीकृतेष्वपि मत्स्यादिष्वैश्वर्यादिब्रह्मस्वरूपानुगतेर्दर्शनात्तद्वज्जीवेष्वपि स्यादित्यत आह ।। मत्स्यादिवच्चेति ।। नन्वस्यां योजनायामंशत्वेऽपि विशेषवत्वरूपयुक्तित एव प्रतिबिम्बत्व रूपहेतुसिद्धे रूपमित्यादिश्रुत्युदाहरणं किमर्थमित्यत आह ।। युक्तिदृष्टार्थ एवेति ।।

उपाध्यायत्तेति ।। उपाध्यधीनत्वादिप्रतिबिम्बधर्मवान्न वेत्यर्थः ।। अनित्यत्वेति ।। देहाद्युपाधेरनित्यत्वादिति भावः । यद्यपि यावदात्मभावित्वादिति स्वरूपोपाधिर्नित्य उक्तः तथाप्यधीनत्वं भेदसापेक्षमिति भिन्नोपाध्यधीनत्वाद्येवात्र विकल्पितमिति ध्येयम् ।। न सूर्यका-दीति ।। उभयोरुपाध्यधीनत्वधर्मेण साम्याभावादिति भावः । तर्हि मास्तु सूर्यकादिदृष्टान्तः । तथापि जीवप्रतिबिम्बत्वमस्त्वित्यत आह ।। अत इति ।। सर्वेषां प्रतिबिम्बानामुपाध्यधीनत्व व्याप्तत्वेनोपाध्यधीनत्वरूपव्यापकनिवृत्तौ व्याप्यभूतप्रतिबिम्बत्वस्यापि निवृत्या भेदसाधकानामभावे नोक्तचेतनत्वाद्यनुमानेनाभेदसाधनं युक्तमित्यर्थः । प्रतिज्ञाद्वयं क्रमेणोपपादयति ।। पृथगिति ।। इत्युक्तैरिति ।। इति सूत्रैः क्रमेणोक्तैरित्यर्थः । सर्वधर्मानभ्युपगमे कथं सूर्यकादेर्दृष्टान्तत्वमित्यत आह ।। यौ हीति ।। सर्वेति ।। पर्वतमहानसादेरपि यावत्साम्याभावादिति भावः ।। प्रतिबिम्बपदोक्तमिति ।। तथा च हेतूकृतप्रतिबिम्बशब्दार्थनिरूपणायैव भाष्ये तथोक्तिरिति भावः ।

।। इति उपमाधिकरणम् ।। १० ।।