ॐ सर्वथाऽपि तु त एवोभयलिङ्गात् ॐ

५. उभयलिङ्गाधिकरणम्

सूत्रभाष्यम्

।। ॐ सर्वथाऽपि तु त एवोभयलिङ्गात् ॐ ।। ३४ ।।

सर्वप्रकारेणोत्साहेऽपि ये ज्ञानयोग्यास्त एव ज्ञानं प्राप्नुवन्ति नान्ये । ‘य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’(छां.उ.८-७-३) इति श्रुत्याऽऽचार्योपदेशसाम्येऽपि विरोचनो विपरीतज्ञान-मापेन्द्रः सम्यग्ज्ञानमित्युभयविधलिङ्गात् ।

तत्त्वप्रदीपिका

अयोग्या अपि क्वापि तप आदिभिर्महोत्साहैः कथञ्चिज्ज्ञानमाप्नुयुः । योग्यताया एव हेतुत्वे महोत्साहवैयर्थ्यादित्यत आह– ॐ सर्वथाऽपि तु त एवोभयलिङ्गात् ॐ ।। तपोगुरुशुश्रूषा-श्रवणादिभिरप्ययोग्या न ज्ञानमाप्नुवन्ति । तत्वजिज्ञासू हीन्द्रविरोचनौ द्वात्रिंशतं वर्षाणि प्रजापतौ ब्रह्मचर्यमूषतुः । तस्मादेवाऽचार्या‘द्य आत्मा’ इत्यादिश्रुत्यात्मकं समानमुपदेशं समानकालमेव प्रापतुः । तथाऽपि विरोचनो विपरीतज्ञानं सद्यः सम्प्राप्य प्रतस्थे । इन्द्रः सम्यग्ज्ञानमापेत्युभयत्रापि लिङ्गात् । अयोग्य उत्साहेनापि न ज्ञानं प्राप्नोति । तुशब्दाद्विपर्ययं प्राप्नोतीति च । अमृतार्थं प्रयतमान इव राहुः शिरश्च्छेदम् । योग्य उत्साहेन ज्ञानं प्राप्नोति, अमृतमिवामराः । योग्यतैव ज्ञानहेतुरिति न ब्रूमः । येनोत्साहवैयर्थ्यम् । योग्यस्य महोत्साह इत्येव ब्रूमः । पुनरपि चिरकालममरासुर-गुरुचरणपरिचर्यया हि विबुधपतिः परमविबोधमवाप । ‘वसापराणि द्वात्रिंशतं वर्षाणी’ इत्यादिनाऽसकृत्परिवास्य हि प्रजापतिरुपदेशमुपसञ्चहार ।

तत्त्वप्रकाशिका

अत्र भगवत्प्राप्तिसाधनज्ञानस्याधिकारिमात्रप्राप्यत्वमहिम्नो वर्णनादस्ति शास्त्रादिसङ्गतिः । अनधिकारिप्राप्यत्वे मुक्त्ययोग्यानामपि मोक्षप्रसङ्गात्समर्थनीयमेतत् । प्रकृतं ज्ञानमत्र विषयः । किमधिकारिभिरेवाप्यत उतानधिकारिभिरपीति सन्देहः । उभयथापि लोके दर्शनं सन्देहबीजम् । अनधिकारिभिरपि ज्ञानमाप्यत इति पूर्वः पक्षः । अधिकाराभावेऽपि महाप्रयत्नेन प्राप्तुं शक्यत्वात् । वेदानधिकारिणामपि प्रयत्नेन तत्प्राप्तिदर्शनात् । अतोऽयोग्यैरपि ज्ञानस्य प्राप्तुं शक्यत्वादयोग्यानामपि मोक्ष इति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। सर्वथापीति ।। देशकालगुरूपसत्ति-श्रवणाद्यनेकोत्साहेऽपि योग्यानामेव ज्ञानप्राप्तिर्भवति नायोग्यानाम् । कुतः । य आत्मेतिश्रुति-रूपेणेन्द्रविरोचनयोः प्रजापतेराचार्यस्योपदेशसाम्येऽपि योग्यत्वादिन्द्र एव सम्यग्ज्ञानं प्राप्तो न त्वयोग्यो विरोचनः । प्रत्युत विपरीतज्ञानमेवापायमात्मापहतपाप्मत्वादिलक्षणः स जिज्ञास्य इति प्रजापतिनोपदिष्टे कोऽसाविति ताभ्यां पृष्टेन प्रजापतिनोक्तम् । य एषोऽन्तरक्षणि पुरुषो दृश्यते ‘एष आत्मा’ इति । तच्छ्रुत्वेन्द्रेणापहतपाप्मत्वादिलक्षणोऽक्षिस्थो हरिरात्मेति ज्ञातत्वात् । विरोचनेन तु चक्षुषि प्रतीयमानप्रतिबिम्ब एवापहतपाप्मत्वादिलक्षणात्मेति कल्पितत्वादिति भावः । अविजिघत्सोऽपिपास इति बुभुक्षादिना पीडाभाव उच्यते । न ह्यस्य घटादेरिवान्वेषणं युज्यत इत्यतः स विजिज्ञासितव्य इति ।।

गुर्वर्थदीपिका

उभयथापि लोके दर्शनमित्यत्रावैष्णवविप्रैर्वैष्णवविप्रैश्च वेदाध्ययनस्य क्रियमाणत्वादित्यर्थः । वेदानधिकारिणामपीत्यत्र वेदानधिकारिणां योग्यस्त्रीशूद्रादीनामपि स्वयोग्यज्ञानप्राप्तिदर्शनाद्वेदान्त-जनितज्ञानमप्ययोग्यानां भवत्वित्यर्थः । प्रतिबिम्ब एवेत्यत्र स्वप्रतिबिम्ब एवेत्यर्थः । एवं बिम्बप्रतिबिम्बयोरैक्यादहमेव ब्रह्मेति ज्ञातवानिति भावः । अविजिघत्स इत्यत्र जग्धुमिच्छा जिघत्सा पातुमिच्छा पिपासा । उभयविधेच्छाया अपि नवनीतभक्षके क्षीरपातरि च कृष्णेऽवक्तु-मशक्यत्वात्तन्निमित्तपीडाभाव एव तदुभयाभाव इति भावः ।

भावबोधः

अधिकारिमात्रप्राप्यत्वमहिम्न इति ।। नियताधिकारिकाध्ययनस्य अनधिकारिप्राप्यत्ववत् । तथाभूतापरोक्षज्ञानस्यापि अनधिकारिप्राप्यत्वे पूर्वाधिकरणोक्तस्वफलजनकत्वनियमो न स्यादिति पूर्वाक्षेपादनन्तरसङ्गतिरिति भावः । अत एव वेदानधिकारिणामपीति । अध्ययनप्रतिबन्दीग्रहणं करिष्यति ।। किमिति ।। अत्रापरोक्षज्ञानं किमनधिकारिभिरपि प्रप्यमुताधिकारिभिरेवेति चिन्ता । तदर्थं किं ज्ञानं गुरूपसत्त्यादिप्रयत्नमात्रसाध्यं उत योग्यतासाध्यमिति । तदर्थं ज्ञानस्य योग्यता-साध्यत्वे प्रमाणं नास्त्युतास्तीति । सर्वथापीति । सर्वप्रकारेणोत्साहेऽपीति सूत्रभाष्याभ्यां सूचितयुक्तिमाह– अधिकाराभावेऽपीति ।।

ननु ‘असार्वत्रिकी’ इत्यत्र ज्ञानस्य नियताधिकारित्वेनोक्तत्वात् कथं अधिकाराभावे तत्प्राप्तिः स्यादित्यत आह– वेदानधिकारिणामिति ।। हरिभक्त्यादिनियताधिकारस्याप्यध्ययनस्या-न्यायेनाधिकारिणामपि प्रयत्नेन प्राप्तिदर्शनान्न विरोध इति भावः । श्रुतेरेवोपदेशत्वेन कथं श्रुत्योपदेशसाम्येऽपीत्युक्तमित्यत आह– श्रुतिरूपेणेति ।। ‘अविजिघत्सो पिपास’ इति पदयोरिच्छाभावार्थत्वनिरासायाह– बुभुक्षादिनेति ।। स विजिज्ञासितव्य इत्यस्य पौनरुक्त्य-परिहारार्थमाह– न हीति ।।

भावदीपः

सूत्रादौ त एवेत्युक्तेराह ।। अधिकारिमात्रेति ।। महाप्रयत्नेनानधिकारिभिरपि प्राप्यत्वमस्तीति शङ्कानिरासेनेति भावः । एतेन पूर्वत्र सहकारित्वेन चेत्यत्र शुभं कृत्वा च वर्धत इत्युक्तदिशा यथा ज्ञानिभिर्महाप्रयत्नेन मुक्तावाधिक्यं प्राप्यते । तथाऽनधिकारिभिरपि महाप्रयत्नेन ज्ञानं चाप्यतामिति शङ्कोदयात्पूर्वसङ्गतिरपि सूचिता ।। मोक्षप्रसङ्गादिति ।। तथा च यावदधिकारमवस्थितिरित्यादौ मुक्तिस्थितेः प्राचीनयोग्यतानुसारित्वाद्युक्तिरयुक्तेति भावः ।। लोक इति ।। अध्ययनादेरधिकार्य-नधिकारिभ्यां प्राप्यत्वदर्शनादिति भावः । सर्वेत्यादिभाष्यसूचितयुक्तिमाह ।। अधिकारेति ।। असम्भावितमेतदित्यत आह ।। वेदेति ।। अवैष्णवैरप्याप्यत्वदर्शनादित्यर्थः ।। अत इति ।। प्रयत्नसाध्यत्वादित्यर्थः ।। अयोग्यैरिति ।। आसुरस्वभावैर्मिश्रस्वभावैश्चेत्यर्थः । भाष्यं व्याचष्टे ।। देशकालेति ।। ‘पर्वताग्रे नदीतीरे’ ‘ब्राह्मे मुहूर्त उत्थाय’ इत्यादेर्देशादेरपि ज्ञानहेतुत्वस्मरणादिति भावः । कुत इत्यस्योभयालिङ्गा  दिति भाष्यविवृतिपरं ज्ञातत्वात्कल्पितत्वादित्येतदुत्तरं बोध्यम् । श्रुत्याचार्योपदेशेत्यत्र श्रुतिरूपोऽयमाचार्योपदेश इति वा श्रुतिरूपेणाचार्योपदेशः श्रुत्याचार्योपदेश इति वा विग्रहमुपेत्यार्थमाह ।। य आत्मेति ।। श्रुतिरूपेणेति ।। यद्वा श्रुत्येति भिन्नं पदं साम्योपपादकमिति भावेनोक्तम् ।। श्रुतिरूपेणेति ।। नन्विन्द्रविरोचनौ सम्यग्ज्ञानं विपरीतज्ञानं चापतुरिति कथं ज्ञायते । भाष्योक्तश्रुतौ तददर्शनादित्यतो भाष्योपात्तवाक्यस्य प्रतीकग्रहणत्वेनोप-योगं वदन् तदुत्तरवाक्यार्थोक्त्या तद्दर्शयति ।। य आत्मेत्यादिना ।। छान्दोग्येऽष्टमाध्याये तौ यद्द्वात्रिंशतं वर्षाणि ब्रह्मचर्यमूषतुः । तौ ह प्रजापतिरुवाच किमिच्छन्ताववास्तमिति । तौ होचतुः । य आत्माऽपहतपाप्मेत्यादिविजिज्ञासितव्यान्तं वाक्यमुक्त्वा इति भगवतो वचो वेदयन्ते तमिच्छन्ताववास्तमिति । तौ ह प्रजापतिरुवाच । य एषोऽन्तरक्षणि पुरुषो दृश्यते एष आत्मेति होवाचेत्यादौ य आत्मेत्यस्येन्द्रविरोचनानुवादत्वेन तौ प्रति चतुर्मुखोपदेशत्वाभावेऽपि भगवतो वच इत्यन्ते श्रवणाच्चतुर्मुखोपदेशत्वमेवेति सूचनाय भाष्ये इति श्रुत्येत्युक्तमिति भावेन तदर्थमाह ।। इति प्रजापतिनोपदिष्ट इति ।। तमिच्छन्तावित्यस्यार्थः कोऽसाविति । अदनपानेच्छाराहित्यादि-निरासायाह ।। अविजिघित्स इति ।। अन्वेष्टव्य इत्येतद्विजिज्ञासितव्य इति कुतो व्याख्यायते निर्बीजत्वादित्यत आह ।। न हीति ।।

अभिनवचन्द्रिका

ननु ज्ञानस्याधिकारिप्राप्यत्वमिवानधिकारिप्राप्यत्वस्यापि सिद्धान्तत्वात् अधिकारिमात्र-प्राप्यत्वसमर्थनमयुक्तमित्यत आह– अनधिकारिप्राप्यत्व इति ।। अनधिकारिं प्राप्यत्वे बाधक-सद्भावात् नाऽयं सिद्धान्तः । ततश्च अधिकारिमात्रप्राप्यत्वसमर्थनं युक्तमिति भावः । एतेन अस्य वाक्यस्य अधिकरणाऽऽवश्यकत्वसिद्ध्यर्थं प्रवृत्तत्वेन, वर्णनाभाव एव बाधकस्य वक्तव्यत्वात् तद्विहाय, अनिधिकारिप्राप्यत्वे बाधकत्ववर्णनमयुक्तमिति परास्तम् । अनधिकारिणामपि प्रह्लादा-दीनां ज्ञानस्मरणं हेतुमभिप्रेत्य, तस्यासम्भावनया अपवादो माशङ्कीति भावेन सम्भावनामाह– अधिकाराभावेऽपीति ।। तस्य ज्ञानस्य सम्भावितत्वात् प्रह्लादादीनां श्रुतिस्मृत्युक्तं ज्ञानं नापवादमर्हतीति भावः । एतेन  प्राप्तुं शक्यत्वस्य ‘ज्ञानमाप्यत इत्यर्थनिर्णायकत्वाभावात् तत्सिद्ध्यर्थमुपन्यासायोग इति परास्तम् । असम्भावनापरिहारार्थमुपन्यस्तत्वेन सिद्ध्यर्थमनुप-न्यासात् । अधिकाराभावेऽपि प्राप्तुं शक्यत्वादित्युक्तं प्राप्तिदर्शनादेवाधिकारस्यापि कल्प्यत्वादित्यत आह– वेदानधिकारिणामिति ।। वेदानधिकारिणामपि शूद्राणां वेदप्राप्तिदर्शनेन व्यभिचारात् । येन यत्प्राप्यते स तत्राधिकारीति व्याप्त्यभावात् न प्राप्त्याधिकारः कल्पयितुं शक्यत इति भावः ।। अतोऽयोग्यैरपीति ।। अतोऽयोग्यैरपि ज्ञानस्य प्राप्तुं शक्यत्वेनाऽसम्भावनाऽभावात् अयोग्यानामपि ज्ञानाभिधायकभागवतवचनेन तत्सिद्धेः, तेषामपि मोक्षः स्यादेवेत्यर्थः । ननु इन्द्रविरोचनाभ्या-मपहतपाप्मत्वादिगुणक आत्मेत्येव विज्ञातत्वात् इन्द्रस्य सम्यक्ज्ञानं विरोचनस्य तु ज्ञानं विपरीतज्ञानमिति तु कथमित्यत आह– य आत्मेति ।।

वाक्यार्थमुक्तावली

पारिप्लवार्थ इत्यत्र त्रेधा हि ज्ञानिनो भवन्ति । मनुष्योत्तमादेवाब्रह्मेत्युक्तम् । तदयुक्तम् । असुरादीनामपि प्रयत्नेन ज्ञानित्वसम्भवात् इत्याक्षेपोत्थानादनन्तरसङ्गतिः ।। मुक्त्ययोग्यानामिति ।। तथा च नित्योपलब्ध्यनुपलब्धिप्रसङ्ग इत्यत्रोक्तभङ्गप्रसङ्ग इति भावः ।। किमिति ।। ज्ञानं किमनधिकारिभिरप्याप्यते उताधिकारिभिरेवेति चिन्ता । तदर्थमगुरूपसत्त्यादिस्वप्रयत्नो योग्यता-मभिभाव्यानधिकारिणां ज्ञानदानशक्त उताशक्त इति ।। उभयथेति ।। वेदानधिकारिभिरपि वेद-प्राप्तेरधिकारिभिश्च प्राप्तेरित्युभयथेत्यर्थः । ननु असार्वत्रिकी ज्ञानाधिकारितेत्युक्तत्वात्कथं ज्ञानस्य सर्वप्राप्यत्वमित्यतः, सत्यमधिकाराभावः सर्वेषामिति ।। तथाप्यात्मस्वरूपयोग्यतावन्महाप्रयत्नस्यापि दृढत्त्वात्तेन ज्ञानप्राप्तिः सम्भवतीति भावेन सर्वथापि सर्वप्रकारेणोत्साहेऽपीति सूत्रभाष्यसूचितमात्म- स्वरूपदार्ढ्यमित्युक्तन्यायमेतदधिकरणेऽपि दर्शयति ।। अधिकाराभावेऽपीति ।। यद्यप्यस्मिन्नधि-करणे पूर्वपरसिद्धान्तन्यायौ न्यायमालायां पृथङ् न पठितौ । न्यायविवरणेऽपि न पूर्वन्यायौ सङ्गमितौ । तथापि मुक्तासम्बन्धदीपिकायां शङ्करार्यैः पूर्वाधिकरणन्यायौ सङ्गमिताविति ज्ञेयम् । ननु योग्यताभावे कथमतिदृढेनापि प्रयत्नेन ज्ञानप्राप्तिः । न हि प्रयत्नशतेन नरो वानरीकर्तृं शक्य इत्यत आह ।। वेदेति ।। हरिभक्त्यादिमन्नियताधिकारिकस्यापि वेदस्यान्यायेनानधिकारि-प्राप्यत्वदर्शनात् प्रकृतेऽपि तथोपपत्तिरिति भावः । सूत्रे त इत्यावर्तते । तुशब्दात् विपर्ययं प्राप्नोति चेति स्पष्टं तत्त्वप्रदीपिकायां वचनात् तुशब्दो विपरीतज्ञानं प्राप्नुवन्ति च इति समुच्चायकः । तथा च सर्वथापि देशकालगुरूपसत्यादिसर्वप्रकारेण तत्साम्येऽपि त एव प्रस्तुतज्ञानयोग्या एव ज्ञान-प्राप्तिमन्तो न त्वयोग्याः । प्रत्युत ते विपरीतज्ञानमप्याप्नुवन्ति । कुतः उभयलिङ्गात् उभय-विधयोग्यायोग्यजनस्य ज्ञानप्राप्त्यप्राप्तिरूपोभयविधलिङ्गदर्शनादिति सूर्त्रार्थं स्पष्टयति ।। देशेति ।। श्रुतेरुपदेशरूपत्वेन कथं श्रुत्येत्युपदेशकरणत्वोक्तिरित्यत इत्थंभूतलक्षणे तृतीयेत्यत आह ।। श्रुतिरूपेणेति ।। श्रुतिरूपेण विद्यमानो यमुपदेशतत्साम्येऽपीत्यर्थः । उपदेशसाम्यं चेन्द्रविरोचनयोः प्रजापतौ द्वात्रिंशद्वर्षपर्यन्तं वा साधूक्त्या समदेशकालैकाचार्यत्वैकवाक्यत्वरूपेणेति ध्येयम् । य एषोऽन्तरक्षणीति वाक्येनैवेन्द्रविरोचनयोः सम्यज्ज्ञानविपरीतज्ञानयोर्जननात् कथं य आत्माऽऽ-पहतपाप्मेति भाष्योपात्तश्रुतेस्तादृशोपदेशत्वमित्यत इति ।। श्रुत्येति ।। भाष्यप्रतीकग्रहणमिति भावेनाह ।। इति प्रजापतिनेत्यादिना ।।

अविजिघित्सोपिपास इति जग्धुं पातुं चेच्छाभाव उच्यत इति प्रतीयते । अतो व्याचष्टे ।। अविजिघित्स इति ।। क्षुत्पिपासादिकाश्चैव देवानां भोगसाधकाः न तु पीडाकरास्तेषामिति वचनादिति भावः । एतेन स्थितिरित्युक्तन्यायोऽपि स्थितिशब्दितयोग्यतानुसारेणैव ज्ञानस्य स्थितिरिति सूत्रारूढो दर्शितो भवति ।

तत्त्वसुबोधिनी

अधिकारिमात्रेति । नियताधिकाध्ययनस्यानधिकारिप्राप्यत्ववत्तथाभूतापरोक्षज्ञानस्याप्य-नधिकारिप्राप्यत्वे पूर्वाधिकरणोक्तस्वफलजनकत्वनियमो न स्यादिति पूर्वाक्षेपादनन्तरसङ्गतिरिति भावः । सर्वथाऽपीति ।। सर्वप्रकारेणोत्साहेऽपीति । पूर्वप्रकारेण उत्साहेऽपीति सूत्रभाष्याभ्यां सूचितयुक्तिमाह ।। अधिकाराभावेऽपीति ।। ननु असार्वत्रकीत्यत्र ज्ञानस्यानियताधिकारित्वेन उक्तत्वात् कथं अधिकाराभावे तत्प्राप्तिः स्यादित्यत आह । वेदानधिकारिणामिति ।।  हरिभक्त्यादिमन्नियताधिकारिकस्याप्यध्ययनस्य न्यायेन अनधिकारिणामपि प्रयत्नेन प्राप्तिदर्शनान्न विरोधः इति भावः । श्रुतेरेव उपदेशत्वेन कथं श्रुत्या उपदेशसाम्येऽपीत्युक्तमित्यत आह ।। श्रुतिरूपेणेति ।। अविजिघित्सो पिपास इति पदयोरिच्छाभावार्थत्वनिरासायाह ।। बुभुक्षादिनेति ।। स विजिज्ञासितव्य इत्यस्य पौनरुक्त्यपरिहारार्थमाह ।। न हीति ।।

वाक्यार्थविवरणम्

प्रयत्नेनेति ।। पाठादिरूपप्रयत्नेनेत्यर्थः ।। अनेकेति ।। अनेकप्रकारेणेत्यर्थः ।। प्रजापते-राचार्यस्येति ।। आचार्यभूतस्य चतुर्मुखस्येत्यर्थः ।।

वाक्यार्थमञ्जरी

सर्वथाऽप्यनेकप्रयत्नकरणेऽपि त एव योग्या एव ज्ञानमाप्नुवन्ति न त्वयोग्याः कुतः उभय-लिङ्गात् योग्यायोग्ययोरिन्द्रविरोचनयोर्ज्ञानप्राप्त्यप्राप्तिरूपोभयलिङ्गदर्शनादित्यर्थः । श्रुतेरेवोपदेशत्वेन कथं श्रुत्योपदेशसाम्येऽपीत्युक्तमित्यत आह ।। श्रुतिरूपेणेति ।। तुशब्दार्थमाह ।। प्रत्युतेति ।। उभयं क्रमेणोपपादयति ।। य आत्मेत्यादिना ।। पीडाभाव इति ।। नेच्छाभावमात्रमिति भावः । अन्वेष्टितव्य जिज्ञासितव्य इत्यनयोः पौनरुक्त्यवारणायाह ।। न हीति ।।

 

 

Load More