ॐ आकाशस्तल्लिङ्गात् ॐ
८. आकाशाधिकरणम्
सूत्रभाष्यम्
"को ह्येवान्यात्क प्राण्याद्यदेष आकाश आनन्दो न स्यात्’ (तै.उ. २-७) इत्याकाश-स्याऽऽनन्दमयत्वे हेतुरुक्त, न तु विष्णोरिति न मन्तव्यम् । यत-
॥ ॐ आकाशस्तल्लिङ्गात् ॐ ॥ २२ ॥
"अस्य लोकस्य का गतिरित्याकाश इति होवाच’ (छां.उ. १-९) इत्यत्र भूताकाशस्य प्राप्ति । न चासौ युज्यते, किन्तु विष्णुरेव । "स एष परोवरीयानुद्गीथ स एषोऽनन्त’ (छां.उ. १-९) इत्यादितल्लिङ्गात् ।
विष्णोर्नु कं वीर्याणि प्रवोचं य पार्थिवानि विममे रजांसि । (ऋ. १-१५४-१)
परो मात्रया तन्वा वृधान (ऋ.सं. ७-९८-१) इत्यादिना तस्यैव (तस्य पा.) हि तल्लिङ्गम् ।
"अनन्तो भगवान्ब्रह्मा आनन्देत्यादिभि पदै ।
प्रोच्यते विष्णुरवैक परेषामुपचारत’ इति ब्राह्मे ।
"नामानि सर्वाणि यमाविशन्ति’ इति (भाल्लवेयश्रुति) चोक्तम् ॥ २२ ॥
सत्तकदीपावली
इन्द्रादिजीवेष्वसम्भावितधर्मोपदेशात्तेभ्योऽन्य परमात्मा विष्णुरित्युक्तम् । उपर्याकाशादिष्वसम्भावित-लिङ्गनिर्देशात्तेभ्योऽन्य इत्येतत्प्रतिपादकसूत्रव्याख्यानं कर्तुमाह ॥ को ह्येवेति ॥ छान्दोग्ये श्रूयते । अस्य लोकस्य का गतिरिति आकाश इति होवाच सर्वाणि ह वा इमानि भूतानि आकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति आकाशो ह्येवैभ्यो ज्यायान् । आकाश परायणं स एष परोवरीयानुद्गीथ स एषोऽनन्त इति । तत्राकाशशब्दनिर्दिष्टो भूताकाश एव लोकप्रसिद्धत्वाद्भवेत् । ततश्र्च को ह्येवान्यात्क प्राण्यात् । यदेष आकाश आनन्दो न स्यादित्यानन्दमयप्रकरणपठितोऽपि स एव भवेदिति । एवं प्राप्ते अभिधीयते । अत्राकाशशब्देन विष्णुरेवोच्यते । स एषोऽनन्त इत्यादिलिङ्गात् । अपरिमितगुणत्वं ह्यनन्तत्वं मुख्यतो विष्णोरेव श्रूयते विष्णोर्नु कमित्यादिश्रुतौ । भागवते चैतदुक्तम् । विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह य पार्थिवान्यपि कविर्विममे रजांसीति । अत एवानन्तशब्दो विष्णुरूढ । सर्वभूतोत्पादकत्वे हेतु इति श्रवणात् आकाशशब्दार्थ परमात्मेति ज्ञायते । विष्णोरेव सर्वभूतोत्पादकत्वमुपनिषत्सूत्रसिद्धम् । (१।१।८)
तत्त्वप्रदीपिका
आकाशस्तल्लिङ्गात् ॥ अस्य लोकस्य का गतिरिति शिलकप्रश्ने आकाश इति होवाच प्रवाहण । गतिराश्रय । "अस्य लोकस्य का गतिरित्याकाश इति होवाच’ इत्युदाहरणवाक्यम् । तत्र संशय, किमयमाकाशशब्दो भूताकाशविषय किं वा विष्णुविषय इति । "यदेष आकाश आनन्दो न स्यात्’ इत्याकाशशब्दस्य परविषयत्वोपलब्धि लोकतो भूतविषयत्वोपलब्धिश्र्च संशयबीजम् । तदभिप्रायेण प्रावोचत् को ह्येवान्यादिति । अनेन सङ्गतिभाष्येण संशयबीजसूचनपरोऽपि गुरुतम पूर्ववादिनमन्यत्र-प्रसिद्धिकोटिबलदर्पादानन्दमयश्रुतौ प्रकरणबलात्प्रसाधितार्थमप्याकाशशब्दमनादरादसाधितमिव मन्वानमति-शङ्कमानमनुवदति । अनिष्णातमतयोऽनवसरेऽपि भ्रमन्तीति द्योतयन्प्रतिवदति च परमदाढर्याय । प्राचुर्येणा-न्यत्र प्रसिद्धि पूर्वपक्षयुक्तिरनयो पादयो । विशेषयुक्तयश्र्च भगवताऽनुभाषिता एव सर्वत्र सम्यगनु-व्याख्यानन्यायविवरणयोर्बुद्धिमार्गमारोहन्ति ।
परोवरीयस्त्वादेरनन्यथासिद्धिलङ्गाद्विष्णुरेवाऽकाश इति सिद्धान्त ।
"परस्मादुत्तमं प्रोक्तं परो इति तत परम् ।
परोवरं परं तस्मात् प्रोक्तं पारोवरीयकम् ॥’ इति सामसंहितायाम् ।
उच्चत्वेन गीयत इति उद्गीथ । "सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते, आकाशं प्रत्यस्तं यन्ति, आकाशो ह्येवैभ्यो ज्यायान्, आकाश परायणम्’ इति जगदुत्पादकत्वमुदीर्यमाण-मादिशब्दादुपाददीत ।
विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह
य पार्थिवान्यपि कविर्विममे रजांसि ।
चस्कम्भ यस्स्वरभसा चिलतं त्रिपृष्ठं
यन्मां निशाम्य सदनादुरुकम्पमानम् ।
इति भागवतवचनाद्विष्णोर्नु कमित्यस्यार्थोऽवगम्यते । अन्यत्र प्रसिद्धे पुनरतिदौर्बल्यं साधयति विष्णोरेव तत्तन्नामत्वने नामानि सर्वाणि यमाविशन्तीत्यादिना । आकाशशब्द सर्वाधिभूतोपलक्षणार्थ ॥
तत्त्वप्रकाशिका
अत्र लोकतोऽन्यत्र प्रसिद्धाकाशनाम्नो ब्रह्मणि समन्वयप्रतिपादनादस्ति शास्त्रादिसङ्गति । को ह्येवान्यादित्याकाशशब्द आनन्दमये प्रयुक्त । स एव छन्दोगश्रुतौ पठ्यते । "अस्य लोकस्य का गतिरित्याकाश इति होवाच । सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते । आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाश परायणं स एष परोवरीयानुद्गीथ स एषोऽनन्त’ इति । स चाकाशो यदि विष्णोरन्यस्तदा प्रागुक्तोऽपि स एवेत्यानन्दमयोऽप्यन्यप्रसज्येत स निर्णेय । स आकाशोऽत्र विषय । विष्णुरन्यो वेति सन्देह । आकाशशब्दस्याऽऽनन्दमये प्रयुक्तत्वमन्यत्र प्रसिद्धिश्च सन्देहबीजम् ।
भूताकाश एवायमिति पूर्व पक्ष । आकाशशब्दस्य तत्र रूढत्वात् । न च वाच्यं योगवृत्त्याऽऽकाश-शब्दो विष्णौ सावकाश इति । बाधकं विनाऽमुख्यार्थाङ्गीकारायोगात् । न चाकाशस्य भगवदधीनत्वेन तत्रैवाऽऽकाशशब्दो मुख्य इति युक्तम् । आकाशस्याचेतनत्वेनान्याधीनत्वायोगात् । चेतनस्य हि चेष्टादावन्याधीनत्वं सम्भवतीति । आकाशशब्दस्यावकाशेऽपि रूढत्वादत्र भूताकाशग्रहणे को विशेषहेतुरिति चेत् पृथिवीगतित्वोपपादनाय सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त इत्यादिनाऽऽकाशस्य सर्वभूतकारणत्वलयाधिकरणत्वादेरुक्तत्वात् । तच्चाकाशाद्वायुरित्यादिना भूताकाशस्यैव प्रसिद्धमतो भूताकाश एवायमिति मनसि निधाय पूर्वपक्षफलमाह ॥ को हीति ॥ एवमाकाशे छन्दोगश्रुत्युक्ते भूताकाशे सति को हीति तैत्तिरीयश्रुत्युक्तोऽपि स एव स्यात् । तथा च लोकचेष्टकत्वहेतुराकाशस्यैवाऽऽनन्दमयत्वे कथित स्यान्न विष्णोस्ततश्च स एवाऽऽनन्दमयो भवति । आकाशस्याचेतनत्वेनाऽऽनन्दानुपपत्तावप्यभिमानिद्वारा तदुपपत्तेरिति भाव । अनेनैवाकाशशब्दस्याऽऽनन्दमये प्रयुक्तत्वाद्विष्णुराकाश किं न स्यादिति परास्तम् । रूढेर्बलवत्त्वेन तस्यापि बाधोपपत्तेरिति ।
सिद्धान्तयति ॥ इतीति ॥ कुतो न मन्तव्यमित्याशङ्कायां हेतुतया सूत्रमुपादत्ते ॥ यत इति ॥ विषयादे पूर्वं मुखतोऽनुक्तेस्तदनुवादपूर्वकं सूत्रं व्याचष्टे ॥ अस्येति ॥ यद्यप्यस्य लोकस्य का गतिरिति वाक्ये भूताकाशस्योक्तरीत्याऽस्ति प्रतिपाद्यत्वप्राप्तिस्तथापि नासावत्र वाच्यो युज्यतेऽपि तु विष्णुरेव युज्यते । परोवरीयस्त्वादिविष्णुलिङ्गस्याऽऽकाशनिष्ठतया श्रवणात् । एवं यतस्तल्लिङ्गाच्छन्दोगश्रुत्युक्ताऽऽकाशो विष्णुस्ततश्च को हीत्यत्रापि स एव प्रतिपाद्यत इति तस्यैवाऽऽनन्दमयत्वे हेतुरुक्तोऽत आकाशस्याऽऽ-नन्दमयत्वे हेतुरुक्त इति न मन्तव्यमित्यर्थ ।
"परस्मादुत्तमं प्रोक्तं परो इति तत परम् ।
परोवरं परं तस्मात्प्रोक्तं पारोवरीयकम्’
इति स्मृति । उच्चत्वेन गीत उद्गीत स एवोद्गीथ । ननु सर्वोत्तमत्वानन्तत्वयो कुतो विष्णुलिङ्गत्वमित्यत आह ॥ विष्णोरिति ॥ विष्णोर्वीयाणि को नु प्रवक्ति योऽपि पार्थिवपरमाणून् गणयतीति तस्यानन्तत्वमुच्यते । परो मात्रया इत्यनेन सर्वोत्तमत्वम् । नन्वनन्तत्वम् "अनन्ताकाशवत्पश्यन्’ इत्याकाशस्यापि स्मर्यतेऽत कथं विष्णो लिङ्गम् इत्यत आह ॥ अनन्त इति ॥ ननु श्रुत्या पूर्वपक्षिते कथं लिङ्गेन निर्णयो लिङ्गस्य श्रुतितो दौर्बल्यादित्यत आह ॥ नामानीति ॥ श्रुत्या पूर्वपक्षितेऽपि लिङ्गमात्रेण निर्णयो घटते । आकाशश्रुते नामानि सर्वाणीति श्रुतिबलेन विष्णौ सावकाशत्वाल्लिङ्गस्य चाऽऽकाशेऽनवकाशत्वम् । दुर्बलेनापि निरवकाशेन प्रबलस्यापि सावकाशस्य बाधोपपत्तेरिति भाव । अस्तु लिङ्गेन श्रुतेर्बाध तथाऽपि विष्णौ श्रुतिरमुख्यैवाऽन्यत्र रूढत्वात् विष्णौ यौगिकत्वात् इति चेन्न । आकाशस्य भगवदधीनत्वेन तत्रैव मुख्यत्वात् महायोगविद्वद्रूढ्योर्भावाच्च । न चाऽऽकाशस्याऽपराधीनत्वात् । "नभो ददाति श्वसतां मार्गं यन्नियमादद’ इत्यादे । न च भूतकारणत्वोक्तिविरोध । तस्य विष्णावेव सम्भवात् । तस्मादाधिभौतिकसर्वशब्दोपलक्षकाकाशशब्दवाच्यो विष्णुरेवेति स एवाऽऽनन्दमय इति स्थितम्
॥ २२, अ० ८ ॥
गुर्वर्थदीपिका
रूढेर्योगापवादकत्ववद्योगस्य रूढ्यपवादकत्वाभावान्न तद्वन्मुख्यतेति भावेनोक्तम् अमुख्यार्थाङ्गीकारा-योगादिति न तु सर्वथाऽमुख्यत्वम् । पाचकादिशब्दानां पाकादिकर्तरि लक्षणोपचारयोरनङ्गीकारेण योगस्यैव वक्तव्यत्वात्तस्य च मैत्रेऽपि प्रयुज्यमानत्वेन चैत्रत्वाद्यनिमित्तकस्यात एव केवलयोगवत्तया शिष्टै परिगृहीतस्य चैत्रमैत्रनिष्ठचैत्रत्वादिरूढेरपवादकत्वात्क्वचिद्योगोऽपि बलीयानिति हेतो मन्दस्येयमाशङ्केति ज्ञेयम् । किञ्च योगरूढिस्थलीयपङ्कजादि पदयोगस्य पद्मत्वादिरूढिमपेक्ष्य शिष्टैस्तत्रैव प्रयुज्यमानतया तदधीनत्वादस्तु तथा तस्यापहार । आ समन्तात् प्रकाशमानत्वरूपाऽऽकाशपदयोगस्तु स्वस्याऽऽकाशे सर्वथाऽविद्यमानत्वेनाऽऽकाशत्वमपेक्ष्य शिष्टैराकाशे कदाप्यप्रयुज्यमानत्वात्कथं तदधीन । अतस्तामुल्लङ्घ्य यत्रातिशयेन स्वसम्भन्धोऽस्ति तत्र तमेव महाकाशं कथं न कुर्यादिति सूत्रकृतो भाव । "अस्य लोकस्य का गतिरित्ययं लोक इति होवाच’ इति पूर्ववाक्ये स्वर्गसाधनभूलोकस्य प्रस्तुतत्वादस्य लोकस्य का गतिरित्यत्रापि पृथिवीलोकगतित्वस्यैव प्रस्तुतिरिति भावेनोक्तं पृथिवीति । अनन्तत्वस्य सर्वोत्तमत्वहेतुतयोक्तमात्रापरत्वात्मकत्वात् प्रथममुपपादनम् । "सर्वाणि ह वा इमानि भूतानि’ इत्युक्तसर्वभूतकारणत्वस्य भूतचतुष्टयमात्रकारणे भूताकाशे सङ्कोचनीयत्वाद्धरौ तदभावात्तस्य विष्णावेव सम्भवादित्युक्तम् । इत्याकाशाधिकरणम् ॥
भावबोध
सू० ॥ ॐ आकाशस्तल्लिङ्गात् ॐ ॥ श्रुत्यधिकरणसङ्गती दर्शयति को हीत्यादिना ॥ साक्षादव्यवहितपूर्वाधिकरणसङ्गतिस्तु
चेष्टा हि चेतनानां या सा भवेत् तत्प्रसादत ।
अचेतनस्वभावस्तु विवरादि कथं तत ॥
इत्यनुव्याख्यानोक्तरीत्या पूर्वाधिकरणसिद्धान्तन्यायोपमर्देन पूर्वपक्षोत्थानादिति ज्ञातव्यम् । विष्णुरन्यो वेति । अत्राकाश किं भूताकाश, उत ब्रह्मेति चिन्ता । तदर्थमाकाशश्रुतिरनन्तत्वादिलिङ्गबाधिका, उत स्वयं तद्बाध्येति । तदर्थं सा श्रुति किं निरवकाशा, उत सावकाशेति । तदर्थम् आकाशशब्द-प्रवृत्तिनिमित्तं विवरत्वादिकं किमिन्द्रादिशब्दप्रवृत्तिनिमित्तैश्र्वर्यादिसमानयोगक्षेमं न भवत्युत भवतीति । तदर्थमचेतनस्वभाव किं विष्ण्वनधीन उत तदधीन इति । तदर्थं तस्य तदधीनत्व एतत्कल्पकत्वे-नाभिमतानन्तत्वादिलिङ्गनिरवकाशत्वे च प्रमाणं नास्ति उतास्तीति । "भूताकाशस्य प्राप्ति’ इति भाष्याभिप्रायमाह आकाशशब्दस्येति ।
नन्विदं पूर्वाधिकरणन्यायेन गतार्थमित्याशङ्कानिषेधपूर्वकं तद्धेतुत्वेन "चेष्टा हि चेतनानां या सा’ इति पूर्वोदाहृतानुव्याख्यानं मनसि निधायाभ्यधिकाशङ्कामाह न चाकाशस्येत्यादिना । आकशस्या-चेतनत्वेनेत्यनेनाधिभूताध्यात्माधिदैवगतानामपि शब्दानामचेतनत्वजीवान्वयव्यतिरेकनित्यत्वेषु विद्यमाने-ष्वपीति न्यायविवरणे अचेतनत्वेत्यादे अधिभूतेत्यादिना यथाक्रमं सम्बन्धं विवक्षित्वा बुद्ध्या विविच्याचेतनत्वे विद्यमान इत्येतद्व्याख्यातं भवति । भाष्ये विषयोपस्थापकतया आकाश इति होवाचेत्ये-तावत्युदाहर्तव्येऽस्य लोकस्येत्यादिपूर्ववाक्योदाहरणप्रयोजनं तन्निरसनीयाशङ्काप्रदर्शनपूर्वकमाह आकाशशब्दस्येति ॥ पृथिवीगतित्वेति । अस्य लोकस्य का गतिरित्याकाश इति होवाचेत्यनेनोक्त-पृथिवीगतित्वोपपादनायेत्यर्थ । अनुव्याख्यानोक्तविवरत्वं तु "प्राणेन सृष्टावन्तरिक्षं च वायुश्र्चान्तरिक्षं वानुचरन्ति’ इत्यादिश्रुत्या
शब्दामात्रमभूत्तस्मान्नभ श्रोत्रन्तु शब्दगम् । भूतानां छिद्रदातृत्वम् ॥
इत्यादिस्मृत्या च सिद्धमिति तत्रापि भूताकाशग्रहणेन न तद्विरोध इति भाव । इति मनसि निधायेति । अन्यथा विषयसंशयाद्यनुक्त्वा पूर्वपक्षफलवचनस्यासङ्गतत्वादिति भाव । अपेक्षितं पूरयन् को हीति भाष्यं व्याचष्टेआकाशे छन्दोगश्रुत्युक्त इत्यादिना ॥ अनेनैवेति ॥ आनन्दमयत्वस्याप्यभि-मानिद्वारा भूताकाशे वक्तुं शक्यत्वेनैवेत्यर्थ । नन्वाकाशशब्दं योगेन विष्णुपरं कृत्वाऽऽनन्दमयत्वमेव साक्षात्तन्निष्ठं क्रियताम् । अभिमानिद्वारा तदुपपाद्याकाशशब्देन भूताकाशग्रहणे को विशेषहेतुरित्यत आह रूढेर्बलवत्त्वेनेति ॥ आकाशशब्दस्य भूताकाश इत्यर्थ ॥ तस्यापीति ॥ आनन्दमये प्रयुक्तस्याप्याकाशशब्दस्येत्यर्थ ॥ मुखतोऽनुक्तेरिति ॥ पूर्वपक्षफलकथनेन सूचितत्वादिति भाव । "न चासौ युज्यते’ इत्यत्र "असौ’ इति प्राप्तिपरामर्शे "किन्तु विष्णोरेव’ इति स्यात् । न तु "विष्णुरेव’ इति । अत "असौ’ इत्याकाशपरं कृत्वा तस्य स्वरूपेण निषेधायोगात् अपेक्षितमध्याहृत्य व्याचष्टे नासावत्र वाच्य इति ॥ इति स्मृतिरिति ॥ अनेन श्रुतौ परोवरीयस्त्वं नामोक्तस्मृत्यनुसारेण परोवरीयकत्वमेव, न तु परोवरत्वमिति सूचितं भवति । अनन्तत्वमुच्यत इति । गुणतोऽनन्तत्व-स्याप्यनन्तशब्दार्थत्वादिति भाव । लिङ्गस्य चाकाशे निरवकाशत्वादिति । अनेन "अनन्यथासिद्धिलङ्गै’ इति न्यायविवरणं व्याख्यातं भवति । तत्र "लिङ्गै’ इति बहुवचनमनित्येष्वितिवद्विवेक्तव्यम् । एवमुत्तर-त्रापि ज्ञेयम् । तथापि कथं निर्णय इत्यत सन्दिग्धश्रुतिलिङ्गाभ्यामुक्ताभ्यामप्यसन्दिग्धयो केवलयोरेव बलवत्त्वमिति न्यायविवरणं मनसि निधायाऽऽह दुर्बलेनापीति ॥ अनेन "असन्दिग्धस्य केवलस्यैव लिङ्गस्य’ इति न्यायविवरणं बुद्ध्या विवेकेनात्र योजितं भवति । एवमुत्तरत्रापि नेयम् । समग्रतदक्षरयोजना तु गायत्र्यधिकरणे कथ्यते । तस्य विष्णावेवेति । सर्वाणि ह वेति सर्वभूतकारणत्वमाकाशस्योच्यते । तच्चाकाशपदेन विष्णुग्रहण एव सम्भवति । "आत्मन आकाश सम्भूत’ इत्यादिना विष्णोरेव सर्वभूतकारणत्वस्य प्रमितत्वात् । भूताकाशस्य तु स्वव्यतिरिक्तभूतकारणत्वेन तद्ग्रहणे सर्वशब्दसङ्कोच कर्तव्य इति भाव ॥ ४ ॥
भावदीप
॥ ॐ आकाशस्तल्लिङ्गात् ॐ ॥ द्वेधा ह्यन्यत्रप्रसिद्धा शब्दा लोकतो वा लोकप्रसिद्धश्रुति-लिङ्गादिसाहित्येन वा । तत्राद्या आद्यपादे द्वितीयास्तु द्वितीयपादे समन्वीयन्त इति भावेनाह ॥ लोक इति ॥ लोकप्रयोगत इत्यर्थ । भाष्ये पूर्वपक्षफलोक्त्या सूचिते श्रुत्यधिकरणसङ्गती स्वयमाह ॥ को हीति ॥ स एवेति ॥ इत पूर्वं क्वापि लोकप्रसिद्धेरत्याजनेन लोकप्रसिद्ध्या सर्वत्रैकार्थत्वादिति भाव ॥ छन्दोगेति ॥ आद्ये अध्याये विष्णुलिङ्गानां दूरे श्रवणात् तदन्तवाक्योक्ति ॥ प्रागुक्तोऽपि स एवेति ॥ भूते प्रसिद्धिमात्रेण ब्रह्मिलङ्गानामन्यथानयनस्य छान्दोग्य इवात्रापि सम्भवादिति भाव । वक्ष्यति च तथा च लोकचेष्टकत्वहेतुरित्यादि ॥ स आकाश इति ॥ शालावत्यकृतपृथिवीगतिप्रश्नं प्रत्युत्तरत्वेनोक्त इत्यर्थ । भूताकाशस्य प्राप्तिरिति भाष्यं व्याचष्टे ॥ भूतेति ॥ आकाशपदोक्त्या लब्धं हेतुमाह ॥ रूढत्वादिति ॥ विष्णौ तु न रूढिरिति भाव । पूर्वोक्तरीत्या गतार्थत्वमाशङ्कते ॥ न चेति ॥ तन्न्यायविषयत्वमाह ॥ बाधकं विनेति ॥ अनन्तत्वादिलिङ्गं तु रूढाकाशश्रुत्यनुरोधेन भूते कथञ्चिद्योज्यमिति भाव । एवं च पूर्वत्र समुद्रस्थत्वादेर्भाष्योक्तश्रुत्यादिना विष्ण्वेकनिष्ठत्वनिश्चयेन निरवकाशिलङ्गेनेन्द्रादिश्रुतेरज्ञरूढिबाधेन योगवृत्त्या विष्णुनिष्ठत्वोक्तावपीहानन्तत्वादेर्विष्णुनिष्ठत्वानिश्चयेन पूर्वन्यायाविषयत्वान्न तेनास्य गतार्थत्वमिति सूचितम् । एतेन भाष्ये पूर्वपक्षप्रापकविशेषहेत्व-नुक्तेस्तात्पर्यमुद्धाटितं ध्येयम् । एवमग्रेऽपि । सुधायां तु अनन्तत्वादिलिङ्गानां वास्तवं निरवकाशत्वमुपेत्य गतार्थतामाशङ्क्याऽभ्यधिकाऽऽशङ्कोक्ता । अत एव तत्र सुतरां निरवकाशिलङ्गादित्युक्तम् । किञ्च योगो हि प्रवृत्तिनिमित्तस्य तद्गतत्वेन वा तदधीनत्वादर्थवदिति वक्ष्यमाणन्यायेनान्यगतस्य तदधीनत्वाद्वा द्वेधा पूर्वमुक्त । तत्राद्यस्त्वशक्यशङ्क । आकाशपदप्रवृत्तिनिमित्तस्य विवरत्वस्याऽऽकाशस्वभावत्वात् । द्वितीयं निरसितुमाशङ्कते ॥ न चाऽऽकाशस्येति ॥ आकाशपदप्रवृत्तिनिमित्तविवरत्वादेराकाशस्वभावत्वात् आकाशस्य तदधीनत्वानधीनत्वाभ्यां विवरत्वस्यापि ते स्यातामिति भावेनाकाशस्येत्येवोक्तम् ॥ न त्वाकाशत्वस्येति ॥
""चेष्टा हि चेतनानां या सा भवेत्तत्प्रसादत ।
अचेतनस्वभावस्तु विवरादि कथं तत’’
इत्यनुभाष्योक्तसमाधिमाह ॥ आकाशस्येति ॥ यद्वा द्विविधयोगमध्ये आद्यस्य निरासो बाधकं विनेत्यादि । आकाशपदप्रवृत्तिहेतोराकाशस्वभावतया विष्णावसम्भवाच्चेत्यपि ध्येयम् । द्वितीयस्य शङ्कापूर्वं निरासो न चाकाशस्येत्यादि ॥ मुख्य इतीति ॥ "स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम् । स्वातन्त्र्यं तत्र मुख्यं स्यात्’ इत्यनुभाष्योक्तेरिति भाव । एवं च विनैवाभ्यधिकाशङ्कां पूर्वन्यायाविषयत्वेनेह टीकायां पूर्वपक्षप्रवृत्तिरभिमतेत्याहु । आकाशस्य प्राप्तिरित्यनुक्त्वा भाष्ये भूतेत्युक्तेर्भावं विवृण्वान तदुपपादकत्वेनास्य लोकस्येति पूर्वांशोक्तिरिति वक्तुं तटस्थशङ्कामाह ॥ आकाशेति ॥ अवकाशे अव्याकृताकाश इत्यर्थ ॥ सर्वभूतेति ॥ स्वेतरसर्वभूतेत्यर्थ । अत्र रूढत्वादिनोक्त पूर्वपक्षो वाचकशब्दरूपप्रमाणाश्रित । आकाशस्याचनत्वेनेत्यादिनोक्तस्तु शब्दप्रवृत्तिहेतुरूपप्रमेयाश्रित इत्याहु । भाष्योक्तेर्निर्बीजत्वभ्रमनिरासायाह ॥ इति मनसीति ॥ भूताकाश एवायमित्यादिनोक्तमित्यर्थ । स्वोक्तं सर्वं भाष्ये पूर्वत्र योज्यमिति भावेन भाष्यं योजयति ॥ एवमिति ॥ स एवेति ॥ रुढ्या भूतप्राप्तिबलेनात्रत्यानन्तत्वादिब्रह्मिलङ्गस्य च तत्रापि विश्वचेष्टकत्वरूपब्रह्मिलङ्गस्याकाशे योजनीयत्वादिति भाव ॥ अनेनैवेति ॥ उक्तरीत्याऽऽनन्दमयस्याप्याक्षेपसम्भवेनैवेत्यर्थ ॥ मुखत इति ॥ फलोक्तिपरवाक्येन सूचितत्वान्मुखत इत्युक्ति । व्याघातादिभ्रान्तिं निरस्यन् भाष्यं व्याचष्टे ॥ यद्यपीति ॥ तल्लिङ्गात् इत्यत्र तदिति तन्त्रं षष्ठ्यन्तं सप्तम्यन्तं चेति मत्त्वाऽऽह ॥ विष्णुलिङ्गस्येति ॥ हेतुतया सूत्रमुपादत्त इत्युक्तं व्यनक्ति ॥ एवमिति ॥ स एवेति ॥ निरवकाशिलङ्गेन भूते अज्ञप्रसिद्धिबाधस्य छान्दोग्यवाक्य इव तैत्तिरीयवाक्येऽपि विश्वचेष्टकत्वरूपनिरवकाशब्रह्मिलङ्गभावेन भूते अज्ञप्रसिद्धिबाधस्य तुल्यत्वादिति भाव । भाष्ये अत्रानुक्तमपि द्वितीयछान्दोग्यभाष्योक्तमर्थं व्यनक्ति ॥ परस्मादिति ॥ उच्चोऽसौ गीयते चेति छान्दोग्यभाष्योक्ते । "उद्गीयमान उद्गीथो भगवान् पुरुषोत्तम’ इति स्मृतेश्चाह ॥ उच्चत्वेनेति ॥ सर्वोत्तमत्वेन परोवरीयस्त्वोद्गीथत्वयोर्द्वयोरप्युक्ति । क क । प्रवोचं प्रवक्ति । विममे गणयति । तत्वप्रदीपे तु विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह य पार्थिवान्यपि कविर्विममे रजांसि । चस्कम्भ य स्वरभसाच्चिलतं त्रिपृष्ठं यन्मां निशाम्य सदनादुरुकम्पमानम् ॥
इति भागवतवचनादस्यार्थोऽवगम्यत इत्युक्तम् । परो मात्रयेति श्रुत्यर्थो जन्मादिनयेऽभिहित ॥ स्मर्यत इति ॥ पुरुषार्थनयभाष्योक्तभविष्यत्पर्वस्मृतिकर्त्रेत्यर्थ । एतेनानन्यथासिद्धिलङ्गैरिति न्यायविवरणोक्तमनन्यथासिद्धत्वं उपपादितं भवति ॥ श्रुतिबलेनेति ॥ श्रुत्यर्थस्त्वाद्यनयेऽभिहित । ततश्च किमित्ययोऽनन्यथासिद्धिलङ्गै भगवद्विषयत्वमेव इत्यन्यत्रोक्तं हृदि कृत्वाऽऽह ॥ दुर्बलेनापीति ॥ "तथैव ह्यधिभूतगै । अन्नादिशब्दैर्भगवानेको मुख्यतयोदित । शब्दप्रवृत्तिहेतूनां तस्मिन्मुख्यसमन्वयात्’ इत्याद्यनुभाष्यार्थं व्यावर्त्यशङ्कापूर्वमाह ॥ अस्त्विति ॥ आकाशस्येति ॥ तथा च तत्स्वभावस्यापि विवरत्वस्य भगवदधीनत्वमेवेत्यर्थ ॥ मुख्यत्वादिति ॥ ""स्वातन्त्र्यं तत्र मुख्यं स्यात्’’ इत्युक्तेरिति भाव । आकाशस्यावकाशदातृत्वस्येश्वरायत्तत्वमीश्वरस्य पृथक् तद्वत्त्वं चावगम्यत इति सुधोक्तदिशा "सर्वभूतगुणैर्युक्तं देवं त्वं ज्ञातुमर्हसि’ इति स्मृत्युक्तदिशा चावकाशदातृत्वरूपविवरत्वस्य निरवधिकतया तद्गतत्वाच्चेति भावेनाऽऽह ॥ महायोगेति ॥ अत एव "विद्वद्रूढिरपि सिद्धा सा योगादेव लभ्यत’ इत्युक्ते । यद्वा "एतद्ब्रह्म इदं वाव तत् योऽयं बहिर्धा पुरुषादाकाश । यावान्वा अयमाकाश । आकाशो वै नाम नामरूपयो निर्वहिता’ इत्यादिप्रयोगबाहुल्याच्चेति भाव । अत्र प्रतिनयं विष्णौ योगरूढिसमर्थनं तु सर्वत्रानुवृत्ततत्त्वितिशब्दे अवधारणार्थतुशब्दसूचितं ज्ञेयम् । विष्णौ परममुख्य-वृत्त्यभावेऽन्यस्मिंस्तद्भावे वाऽवधारणायोगादाकाशस्याचेतनत्वेनान्याधीनत्वायोगादिति प्रागुक्तमनूद्यानु-भाष्योक्तसमाधिमाह ॥ न चाऽऽकाशस्येति ॥ इत्यादेरिति ॥ तृतीयस्कन्धे आदिपदेन प्राणेन सृष्टावन्तरिक्षं च वायुश्च एतस्य वाक्षरस्य प्रशासने गार्गि द्यावाभूमी विधृते तिष्ठत इत्यादिश्रुतिर्ग्राह्या । अत्र युक्तिस्तु विवरत्वादिकं कारणत स्वरूपतोऽप्यनागन्तुकम् । तथापि धर्मिण एवाकाशादेरुत्पत्ति-विनाशवतो जन्मस्थितिलयेष्वीशाधीनत्वे धर्मस्यापि तथाभावोऽवर्जनीय । तस्य जन्मादिस्तु "आत्मन आकाश सम्भूत’ इत्यादिना सिद्ध इति छन्दोनये सुधायामुक्ता । सा च विवृता चन्द्रिकायाम् ।
अस्तु सच्छिद्रमिति या हरीच्छा तद्वशान्नभ ।
छिद्रात्मकं हि सञ्जातमन्यथा निबिडं भवेद् ।
इत्यादिना ॥ विष्णावेवेति ॥ आत्मन आकाश इत्यत्रेवासङ्कुचितसर्वभूतकारणत्वलाभादिति भाव । विश्वतोमुखत्वं व्यञ्जयन्सूत्रार्थमुपसंहरति ॥ तस्मादिति ॥ निरवकाशानेकिलङ्गभावादिति तल्लिङ्गा-दित्यस्यार्थ । आकाशस्तत्त्विति प्रतिज्ञांशार्थमाह ॥ आधिभौतिकेति ॥ अधिभूताध्यात्माधि-वेदगतानामिति न्यायविवरणोक्ते । एतन्न्यायविषयाणामत्रैव वाच्यत्वात्सूत्रस्याल्पाक्षरत्वेन सर्वोक्तेरयोगात् । उपलक्षणत्वेन कस्यचिदुदाहर्तव्यत्वे सर्वभूतमूलकारणत्वेन प्राधान्यात्पूर्वाक्षेपकत्वेन सङ्गतत्वाच्चाकाश एवोदाहृत सूत्र इति भाव । एवमग्रेऽपि । महायोगविद्वद्रूढिभावादाह ॥ वाच्य इति ॥ स एवानन्दमय इति फलोक्तिपरभाष्यार्थोपसंहार ॥ २२ ॥ अ. ८ ॥
अभिनवचन्द्रिका
ननु तल्लिङ्गग्रहणं शक्यमकर्तुम् । "अन्तस्तद्धर्मोपदेशा’दित्यत तद्धर्मोपदेशादित्यनुवृत्यैव तल्लिङ्गादित्यर्थलाभसम्भवात् । सूत्रं चैवं सत्यल्पाक्षरं स्यात् । यद्यनुवर्तते "भेदव्यपदेशाच्चान्य’ इत्यत्राप्यनुवर्त्तेत । नैष दोष । तत्राऽनुवृत्यभावेऽपि उत्तरसूत्रेऽनुवृत्तिसम्भवात् । तदुक्तं महाभाष्ये "मण्डूकप्लुतयोऽधिकारा । यथा मण्डूका उत्प्लुत्योप्त्लुत्य गच्छन्ति तद्वदधिकारा’ इति । तस्मात् "आकाशश्र्चे’त्येव सूत्रमस्त्विति चेत्, मैवं पूर्वसूत्रे हि धर्मपदं ब्रह्माण्डवीर्यत्वसमुद्रस्थत्वादिधर्मपरं, तदेव चेदिहानुवर्तेत । इहापि ब्रह्माण्डवीर्यत्वादिधर्मपरमेव स्यात् । न च त आकाश उपलभ्यन्त इति असिद्धिशङ्का स्यात्, तत्परिहाराय शिष्याणां मनखेदो मा भूदिति तल्लिङ्गग्रहणम् । कथं तीर्ह "अत एव प्राण’ इत्यादौ अत एवेत्युक्ति, असिद्धिशङ्कासाम्यादिति चेत्, न अत्र हि "परोवरीयानुद्गीथ स एषोऽनन्त’ (छा.१-९-१) इति परोवरीयस्त्वमुच्यते । परोवरीयस्त्वं च महालक्ष्म्युत्तमत्वम् । "सर्वस्मादुत्तमं प्रोक्तं परो इति तत परम् । परोवरं परं तस्मात् प्रोक्तं पारोवरीयक’मिति उत्तराधिकरणे वक्ष्यमाणं श्रीपतित्वं चैतदेवेति नासिद्धिशङ्केति न कश्र्चिद्दोष । पूर्वाधिकरणसङ्गतिमाह । को हीति ॥ आनन्दमयाधिकरणप्रतिपाद्यैतदधिकरणप्रतिपाद्ययोराकाशशब्दविषयत्वमेव सम्बन्ध इति भाव । अस्तु सङ्गति, तथापि आकाशस्य कुतो विष्णुत्वं समर्थनीयमित्यत आह स चाऽऽकाश इति ॥ छन्दोगश्रुत्युक्ताकाशस्य विष्ण्वन्यबुद्ध्यै तैत्तरीयश्रुत्युक्ताऽऽकाशोऽपि अन्य एवेति बुद्धि स्यादित्ययुक्तम् । तस्य को ह्येवान्यादिति हेतुव्यपदेशपूर्वकमानन्दमयत्वस्य समर्थितत्वात् । न च आनन्दमयत्वनिश्र्चयेऽपि विष्ण्वन्यत्वबुद्धिर्युक्ता । ब्रह्मशब्दाभ्यासादिना आनन्दमयो विष्णुरेवेति साधितत्वादिति चेत्, स्यादयं दोष, यदि यस्य ब्रह्मशब्दाभ्यासादिना आनन्दमयो विष्णुरिति निश्र्चय स एवाऽत्राधिकरणेऽधिकारीति
ब्रूम । न चैवं किंनाम प्रत्यधिकरणमधिकारिणो भिद्यन्ते । अधिकरणानां पृथग्विद्यात्वात् । उक्तं च सुधायाम् "सर्वाणि हि सूत्राणि प्रत्येकमनेकवेदवाक्यविचारपरत्वात् अवान्तरब्रह्मविद्या’ इति । एवं च सति एतदधिकरणाधिकारिण ब्रह्मशब्दाभ्यासादेरानन्दमयस्य विष्णुत्वनिश्र्चयाभावात्, अस्याऽऽकाशस्य विष्ण्वन्यत्वबुद्धौ प्रत्यभिज्ञानात् तैत्तिरीयश्रुत्युक्ताऽऽकाशानन्दमययोरप्यन्यत्वबुद्धि स्यादेवेति न किञ्चिदनुपपन्नम् । एवमुत्तरत्रापि द्रष्टव्यम् । तत्र रूढत्वादिति ॥ नन्वन्यत्रप्रसिद्धि सन्देहबीजमिति रूढे सन्देहबीजत्वस्योक्तत्वात् पूर्वपक्षहेतुत्वाभिधानमयुक्तमिति चेत्, न आनन्दमये प्रयोगापेक्षया रूढे प्राबल्यज्ञानविधुरस्य रूढि सन्देहहेतु, प्राबल्यज्ञस्य पूर्वपक्षहेतुरित्यङ्गीकारात् । एवमुत्तरत्रापि द्रष्टव्यम् ।
चेष्टा हि चेतनानां या सा भवेत्तत्प्रसादत ।
अचेतनस्वभावस्तु विवरादि कथं तत’ ॥
इत्यनुव्याख्यानदिशा अभ्यधिकाशङ्कामाह न चेति ॥ आकाशस्येत्यत परं "इन्द्रादिव’दिति ग्राह्यम् । आकाशस्येति आकाशादिशब्दप्रवृत्तिनिमित्तस्य विवरत्वादे स्वाभाविकस्य अन्याधीनत्वा-योगादित्यर्थ । चेतनस्य हीति ॥ अत्र सम्भवतीत्यतपरं दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यादिति शेषो द्रष्टव्य । इति चेदिति ॥ नेति शेष । ननु स एवाऽऽनन्दमयो भवतीत्ययुक्तम् । अचेतनस्याऽऽनन्दाऽ-सम्भवादित्यत आह आकाशस्येति ॥ अचेतनत्वेन स्वत आनन्दासम्भवेऽपि अभिमान्यनुग्रहेण आनन्दो भवेदेव । अभिमानिदेवानां कर्त्तुमकर्त्तुमन्यथाकर्तुं सामर्थ्यसद्भावादिति भाव । एतेन अभिमानिन आनन्दमयत्वेऽपि आकाशस्य तदभावात्, आकाशस्याऽऽनन्दमयत्वे हेत्वभिधानमयुक्तम्, औपचारि-कानन्दमयत्वोपपादनायाऽऽनन्दसाधकहेतूपन्यासस्याऽकर्तव्यत्वादिति परास्तम् । व्यासानुग्रहेण कीटस्य राजत्वमिव देवतानुग्रहेणाऽचेतनस्याप्याकाशस्य आनन्दो भवतीत्यङ्गीकारात् । ननु अस्तु छन्दोगश्रुत्युक्त आकाशो भूताकाश । तस्य तत्र रूढत्वात्, बाधकाभावे मुख्यार्थत्यागायोगात् । तथापि न तैत्तिरीय-श्रुत्युक्त आकाशो भूताकाश । ब्रह्मशब्देन विष्ण्वभिन्नतया सिद्धे आनन्दमये आकाशशब्दप्रयोगेण तत्र रूढार्थग्रहणाऽयोगात्, रूढ्ययोगे च योगस्य ग्राह्यत्वेन विष्णोरेवाऽऽकाशत्वौचित्यात् । एवं च तत्पूर्वाधिकरणाऽऽक्षेप इत्याशङ्क्य निषेधति अनेनेति ॥ अनेनेत्युक्तं हेतुं विवृणोति रूढेरिति ॥ इदमुक्तं भवति स्यादयं तैत्तिरीयश्रुत्युक्तस्याऽऽकाशस्य विष्णुत्वाभ्युपगम, यदि तद्गताकाशशब्दस्य रूढिबाधकमानन्दमस्य विष्णुत्वसाधकमनुमानं प्रबलं स्यात्, न चैवं रूढेर्बलवत्त्वेन तद्बलेनाकाशाऽऽनन्दमययोरभेदे सिद्धे तस्य विष्णुत्वसाधकानुमानस्य बाधितविषयत्वादिति । ननु सूत्रार्थनिरूपणावसरे "आकाश इति होवाचे’(छा.१-९)त्यत्र भूताकाशस्य प्राप्ति । न चाऽसौ युज्यत इति न वक्तव्यम् । असूत्रार्थत्वादित्यत आह विषयादेरिति ॥ सत्यं न चासौ युज्यत इत्यन्तो न सूत्रार्थ, तथापि नैतद्गून्थवैयर्थ्यं, पूर्वपक्षफलाभिधानेन सूचितस्य विषयादे मन्दानां सुबोधत्वाय विषयादेरनुवादार्थत्वात् । अस्मिन् भाष्ये प्राज्ञानां मंदानां चाऽधिकार इति द्योतनाय विषयादिकं प्राक् सूचयित्वा पश्र्चादनुवाद कृत इति बोध्यम् । नासावत्र वाच्य इति ॥ असावत्र प्रतिपाद्य इति न युज्यत इत्यर्थ । न मन्तव्यमित्यर्थ इति ॥ इत परं टीकायां "परोवरीयान् सर्वोत्तम’ इति वाक्यं लेखकदोषादुच्छिन्नमिति तद्वाक्यमिह द्रष्टव्यम् । अवश्यं चैतदेवं विज्ञेयम् । अन्यथा परस्मादिति श्रुत्युदाहरणमसङ्गतं स्यात् । "परोवरीया’निति शब्दस्य कुत सर्वोत्तमत्वमर्थ इत्यत आह परस्मादिति । अत्र स्मृतिरिति न प्रथमान्तपाठ । किन्तु स्मृतेरिति पञ्चम्यन्त । एतेन स्मृतिरिति प्रथमान्तस्याऽनन्वय इति परास्तम् ॥ "विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह य पार्थिवान्यपि कविर्विममे रजांसी’(२-७)ति भागवतानुसारेण श्रुतिं व्याचष्टे विष्णोर्वीर्याणीति । कमित्यस्यार्थ क इति । प्रवोचमित्यस्यार्थ प्रवक्तीति । श्रुतौ "प्रवोच’मिति लुप्रयोगेऽपि प्रवक्तीति लयोग । अत्र लुङो न भूतकालार्थत्वं किंन्तु सर्वकालार्थत्वमिति द्योतनाय । एतेन वर्तमाननिषेधेऽपि स्यादतीतादौ कश्र्चिदिति परास्तम् । तिपो मिबादेश । तदुक्तं महाभाष्ये "तिङां च तिङो भवन्तीति वक्तव्यम् । चषालं ये अश्र्वयूपाय तक्षति तक्षन्तीति प्राप्त’ इति । ततश्र्चैवं योजना कं क, विष्णो वीर्याणि प्रवोचं नु प्रवक्तुमर्हति । ज्ञानाभावात् न कोऽपीत्यर्थ । ननु य सर्वं ज्ञातुं प्रवक्तुं चाऽर्हति, अन्यथा सर्वज्ञत्वभङ्ग इत्यत आह य पार्थिवानीति ॥ योऽपि सर्वज्ञ सोऽपि पार्थिवानिरजांसि विममे काक्का नेति गम्यते । अयं भाव विद्यमानस्याऽज्ञत्वमेव सर्वज्ञत्वविरोधि नतु अविद्यमानाऽज्ञत्वम् । एवं च पार्थिवपरमाणूनामानंत्येन सङ्ख्यापरिच्छेदाभावात् तदज्ञत्वं यथा न दोषाय एवमीश्र्वरगुणानां ततोऽप्यनन्त्वात् तदज्ञानं नतदोषाय किंतु गुण एवेति । अस्त्विति ॥ अस्तु विष्णुलिङ्गेन श्रुतेर्बाध ततश्र्चाऽऽकाशादिशब्दानां भगवत्परत्वनिर्णयश्र्च, तथापि "नामानि सर्वाणी’ति श्रुत्यवष्टम्भेनोक्तं विष्णोराकाशादिशब्दमुख्यार्थत्वं नोपपद्यते । यतस्तवापि मते विष्णावाकाशश्रुतिरमुख्यैव, गुणपूर्तिसिद्धये विष्णावाकाशादिशब्दानां यौगिकत्वाङ्गीकारात् । अन्यत्रैव रूढत्वाङ्गीकारादिति भाव । एतेन श्रुतिरमुख्यैवेति किं श्रुतेर्विष्णौ लाक्षणिकत्वं प्रतिज्ञायते उत यौगिकत्वम् । नाद्य यौगिकत्वेन लाक्षणिकत्वसाधनायोगात् । न द्वितीय साध्यावैशिष्ट्यादिति परास्तम् । यौगिकत्वप्रयुक्तरूढ्यवधिकामुख्यत्वविशेषसाधनस्येहाभिमतत्वात् ।
पूर्वपक्षस्तु "अस्य लोकस्ये’(छा.१-९)ति श्रुत्युक्ताऽऽकाशस्तावत् भूताकाश । आकाशशब्दस्य तत्र रूढत्वात् । न चायमाकाशो विष्णु । आकाशशब्दस्य तत्र यौगिकत्वादिति सत्प्रतिपक्षतेति वाच्यम् । योगस्य हीनबलत्वेनाऽप्रतिपक्षत्वात् । न चाकाशशब्दप्रवृत्तिनिमित्तस्याऽवकाशत्वस्य समवायेनाकाशवृत्तित्ववत् स्वातन्त्र्यलक्षणसम्बन्धेन हरावपि सत्त्वात् उभयत्रापि रूढिरवशिष्टेति रूढ्या भूताकाशत्वानिर्णय इति वाच्यम् । आकाशस्याऽचेतनत्वाद्भगवदधीनत्वाभावेन आकाशत्वस्य स्वस्वामिभावसम्बन्धेन तद्वृत्तित्वाभावात् । एवं छन्दोगश्रुत्युक्ताकाशे भूताकाशे सति तैत्तिरीयश्रुत्युक्ता-काशोऽपि रूढिबलादेव भूताकाश । "सर्वाणि हवा इमानी’(छा.१.९.१)ति तस्याऽऽकाशस्य भूतकारणतयोक्तत्वात् कार्यगतचेष्टाया कारणाधीनतादर्शनेन "को ह्येवान्यादि’(तै.उ.२-१५)ति तैत्तिरीयश्रुत्युक्तजगच्चेष्टकत्विलङ्गस्य सावकाशत्वेनाऽबाधकत्वात् । एवं च आनन्दमयोऽपि स एवेति न ब्रह्मजिज्ञासा सम्भवतीति ।
सिद्धान्तस्तु "अस्य लोकस्ये’ त्यत्राऽऽकाशस्तावद्विष्णु । निरवकाशपरोवरीयस्त्वादिविष्णुलिङ्गात् । आकाशशब्दस्य हरौ महायोगविद्वद्रूढिसद्भावेन तत्रैव मुख्यत्वात् । एवं च छन्दोगश्रुत्युक्ताऽकाशस्य विष्णुत्वे तैत्तिरीयश्रुत्युक्ताकाशोऽपि जगच्चेष्टकत्विलङ्गबलादेव विष्णु । चेष्टकत्वस्य कर्त्तर्येव मुख्यत्वात् । मुख्ये सम्भवति अमुख्यग्रहणायोगात् । सर्वचेष्टकत्वस्य सर्वोत्तमत्वव्याप्यत्वेन भूताकाशे सर्वोत्तमत्वस्या-भावेन सर्वचेष्टकत्वाभावाच्च, आकाशस्य सर्वोपादनत्वाभावेन असङ्कुचितसर्वचेष्टकत्वासम्भवाच्च, अचेतनस्यानन्दाऽयोगाच्च । न च अचेतनस्यापि चेतनानुग्रहेण आनन्द सम्भवतीति वाच्यम् अप्रामाणिकत्वात् । तस्मादाकाश आनन्दमयश्र्च स एवेति युक्ता ब्रह्मजिज्ञासेति सिद्धम् । (अ.८)
वाक्यार्थमुक्तावली
ॐ आकाशस्तल्लिङ्गात् ॐ । अन्यत्र प्रसिद्धिश्शब्दानां द्वेधा । लोकतो वा लोकत प्रसिद्धश्रुतिलिङ्गादिना वा तत्राद्या आद्यपादे द्वितीयास्तु द्वितीयपाद इति भावेनाह ॥ लोकत इति ॥ आनन्दमयाधिकरणे लोकत इत्यनुक्तिस्तु तेषां गुणिसामान्यवाचकत्वादिति बोध्यम् । विस्तरस्त्वन्यत्र भाष्ये । पूर्वपक्षफलोक्त्या सूचितश्रुत्यधिकरणसङ्गती स्वयमाह को हीति । प्रागुक्तोऽपीति । इत पूर्वं प्रसिद्धेरत्याजनेन लोकप्रसद्ध्या सर्वत्रैकार्थत्वादिति भाव । अव्यवहितसङ्गतिस्तु चेतनस्य हि चेष्टादावन्याधीनत्वं सम्भवतीति पूर्वाधिकरणसिद्धान्तन्यायावकाशेनात्र पूर्वपक्षोत्थानस्य वक्ष्यमाणत्वादिति बोध्यम् । विष्णुरन्यो वेति । तत्राकाश किं भूताकाश उत ब्रह्मेति चिन्ता । तदर्थमाकाशश्रुति-रनन्तत्वादिलिङ्गबाधिकोत तद्बाध्येति । तदर्थं श्रुतिर्निरवकाशा लिङ्गं सावकाशमुत विपरीतमिति । रूढत्वादिति । विष्णौ तु न रूढि । न च नामानि सर्वाणीति निगमबलाद्रूढिरस्तीति वाच्यम् । गगने आकाशशब्दस्य बहुप्रयोगवद्विशिष्य रूढिज्ञापकाभावादिति भाव । पूर्वाधिकरणन्यायेन गतार्थत्व-माशङ्क्य चेष्टा हि चेतनानां या सा भवेत् तत्प्रसादत । अचेतनस्वभावस्तु विवरादि कथं तत इत्यनुव्याख्यानं मनसि निधायाभ्यधिकाशङ्कामाह न चाकाशस्येत्यादिना ॥ चेतनस्येति ॥ इन्द्रादिशब्द-प्रवृत्तिनिमित्तमैश्र्वर्यं वर्षणशोषणपालनादिरूपा चेतनसम्बन्धिनी चेष्टा सा चागन्तुकज्ञानेच्छादिकारण-सापेक्षत्वात्स्वयमागन्तुकत्वाच्च कारणद्वारा स्वरूपश्र्च परमेश्र्वरायत्तेति युज्यते । आकाशादिशब्दप्रवृत्तिनिमित्तं तु विवरत्वादिकं न तावदागन्तुकत्वादिति भाव । भूताकशस्य प्राप्तिरति । विशिष्य भूतग्रहणे हेतुमा-शङ्क्याह आकाशशब्दस्येत्यादिना । अवकाशेऽव्याकृताकाशे अनन्तत्वादिलिङ्गन्तु कथञ्चिद्योज्यमिति भाव ॥ पृथिवीगतित्वेति ॥ अस्य लोकस्य का गतिरिति आकाश इति होवाचेत्यत्रेत्यर्थ । अनेनैवेति "अभिमानिन्यानन्दमयत्वसम्भवेनेत्यर्थ । नन्वाकाशशब्दस्यापि योगेन सावकाशत्वसम्भवा-दानन्दमयत्वमेव साक्षाद्विष्णुनिष्ठं क्रियताम् । अभिमानद्वारा तदुपपाद्याकाशशब्देन भूताकाशग्रहणे को विशेषहेतुरित्यत आह रूढेरिति ॥ अथवाऽनेनैवेत्यस्य विवरणमेतदिति ज्ञेयम् ॥ मुखत इति ॥ पूर्वपक्षफलोक्तिपरभाष्ये सूचितत्वादिति भाव । न चासौ युज्यत इत्यत्रासावित्यनेन प्राप्तिपरामशे किं तु विष्णोरेवेत्युत्तरवाक्यं स्यान्न तु विष्णुरित्यतोऽसावित्याकाशपरामर्शे इति भावेन तस्य स्वरूपेण निषेधायोगात् अपेक्षितमध्याहृत्य व्याचष्टे । नासावत्र वाच्य इति । तल्लिङ्गादित्यत्र तदिति तन्त्रं षष्ठ्यन्तं सप्तम्यन्तं चेति मत्वाऽह । विष्णुलिङ्गस्याकाशनिष्ठतया श्रवणादिति हेतुतया सूत्रमुपन्यस्य व्याचष्ट इत्येतद्य्वञ्जयन् यतस्तल्लिङ्गादाकाशो विष्णुरतो न मन्तव्यमित्यन्वयमभिप्रेत्य व्याचष्टे । एवं यत इत्यादिना । परस्मादुत्तमं प्रोक्तं परो इत्यत्र पर उ स्थिते गुणे परो इति निष्पन्नमिति ज्ञेयम् । परं तस्मादिति । परोवरशब्दादतिशयेऽर्थे ईयसुन्प्रत्यये परोवरीय इति सिद्ध्यति । परोवरीय एव पारोवरीयकमिति ज्ञेयम् । अनन्तो भगवानित्यादौ शाखान्तरनिर्णयाय भगवानित्याद्युक्ति । अत एव यदेव आकाश आनन्दो न स्यादित्याकाशस्य विष्णुत्वे आनन्दपदोपादानम् । यद्यप्यनन्त इति श्रुति । तथापि यौगिकत्वाल्लिङ्गत्वोक्तिरिति ज्ञेयम् । नामानि सर्वाणीति श्रुतिबलेनेति । सर्वशब्दसङ्कोचकल्पका-भावादिति भाव ॥ यौगिकत्वादिति ॥ नामानि सर्वाणीति श्रुतेस्सामान्यश्रुतित्वात् योगेनाविशन्तीति श्रुत्यर्थोपपत्तेश्र्चेति भाव । आकाशस्य भगवदधीनत्वेनेति । तदधीनत्वादर्थवदिति वक्ष्यमाणन्यायेन तत्रैव रूढेर्मुख्यत्वादिति अर्थ । तदुक्तम् । स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम् । स्वातन्त्र्यं तत्र मुख्यं स्यादिति । सर्वभूतगुणैर्युक्तं देवं त्वं ज्ञातुमर्हसीति स्मृते । अन्तर खवदिति सङ्ग्रह-भाष्योक्तेश्र्चावकाशदातृत्वरूपाकाशपदप्रवृत्तिनिमित्तस्य निरवधिकतया तत्र विद्यमानत्वान्महायोगोऽप्यस्तीति भावेनाह । महायोगेनेति ॥ अत एव विद्वद्रूढिर्वैदिका स्यात्सा योगादेव लभ्यत इत्युक्तदिशा विद्वद्रूढिरपि सिद्धा विष्ण्वावेति । आत्मन आकाश सम्भूत इत्यादिना विष्णोरेव सर्वभूतकारणत्वस्य प्रमितत्वात् । भूताकाशस्य तु स्वव्यतिरिक्तभूतकारणत्वेन तद्ग्रहणे सर्वशब्दसङ्कोचप्रसक्तेरिति भाव ।
तत्त्वसुबोधिनी
ॐ आकाशस्तल्लिङ्गात् ॐ ॥ अस्ति शास्त्रादिसङ्गतिरिति ॥ अत्र ब्रह्मणीत्यनेन शास्त्रसङ्गति । समन्वयेत्यनेनाध्यायसङ्गति । अन्यत्र प्रसिद्धनाम्न इत्यन्तेन पादसङ्गति सूचिता भवतीत्येवमुत्तरत्रापि द्रष्टव्यम् । यस्तु द्वितीयपादे वैश्र्वानराधिकरणे नामसमन्वयमुखेन लिङ्गसमन्वय उक्त स प्रथमपादे अन्यत्रनिरूढनामसमन्वयस्योक्तत्वेन बुद्धावारोहात् पाचकत्वादिलिङ्गानामपि अन्यत्र निरूढत्वात् बहुत्वाच्च युक्त इत्यर्थ । अत्राद्ये सूत्रे लिङ्गरूपस्वपक्षसाधकोक्ति । द्वितीये परपक्षे भेदव्यपदेशरूपबाधकोक्तिरिति सूत्रक्रम ॥ श्रुत्यधिकरणसङ्गती दर्शयति । को हीति । अव्यवहिताधिकरणसङ्गतिस्तु अधिकां शङ्कां कृत्वा पूर्वाधिकरणसिद्धान्तन्याय एवातिदिश्यत इत्यातिदेशकी । को हीति भाष्यन्तु पूर्वपक्षे आनन्दमयाधिकरणाक्षेपात् सिद्धान्ते च तत्समाधानात् सफलोऽयं विचार इति चिन्ताया साफल्यमात्रपरमित्यवधेयम् ॥ योगवृत्त्येति ॥ आसमन्तात् काशते प्रकाशते इत्याकाश इति योगवृत्त्येत्यर्थ । नन्विदं पूर्वाधिकरणन्यायेन गतार्थमित्यतोऽभ्यधिकाशङ्कामाह । न चाकाशस्येत्यादिना । अचेतनत्वेऽपि कुतोऽनन्याधीनत्वमत आह चेतनस्य हीति ॥ पृथिवीगतित्वेति ॥ "अस्य लोकस्य का गतिरित्याकाश इति होवाच’ इत्यनेनोक्तपृथिवीगतित्वोपपादनायेत्यर्थ ॥ तच्चेति ॥ सर्वभूतकारण-त्वादिकमित्यर्थ । इति मनसि निधायेति । अन्यथा विषयसंशयाद्यनुक्त्वा पूर्वपक्षफलवचनस्यासङ्गतत्वादिति भाव । नन्वाकाशस्य आनन्दमयत्वमयुक्तं तस्याचेतनत्वादित्यत आह । आकाशस्येति । अनेनैवेति । अभिमानिद्वारा आनन्दमयत्वोपपत्तिकथनेनेत्यर्थ । नन्वाकाशशब्दं योगेन विष्णुपरं कृत्वा आनन्दमयत्वमेव साक्षात्तन्निष्ठं क्रियताम् । अभिमानिद्वारा तदुपपाद्य आकाशशब्देन भूताकाशग्रहणे को विशेषहेतुरित्यत आह ॥ रूढे बलवत्वेनेति ॥ आकाशशब्दस्य भूताकाश इति अर्थ ॥ तस्यापीति ॥ आनन्दमये प्रयुक्तस्य आकाशशब्दस्यापीत्यर्थ ॥ मुखतोऽनुक्तेरिति ॥ पूर्वपक्षफलकथनेन सूचितत्वादिति भाव । न चासौ युज्यते इत्यत्रासाविति प्राप्तिपरामर्शे किन्तु विष्णोरेवेति स्यात् । न तु विष्णुरेवेति ॥ अत असाविति आकाशपरं कृत्वा तस्य स्वरूपेण निषेधायोगादपेक्षितमध्याहृत्य व्याचष्टे ॥ नासावत्र वाच्य इति ॥ हेतुरुक्त उपदिष्ट । जगच्चेष्टकत्वस्य ॥ इति स्मृतिरिति ॥ अनेन श्रुतौ परोवरीयस्त्वं नाम उक्तस्मृत्यनुसारेण परोवरीयकत्वमेव न तु परोवरत्वमिति सूचितं भवति ॥ अनन्तत्वमुच्यत इति ॥ गुणतोऽनन्तत्वस्याप्यनन्तशब्दार्थत्वादिति भाव । नन्वाकाशश्रुते विष्णौ सावकाशत्ववत् विष्णुलिङ्गस्यापि आकाशे सावकाशत्वादयुक्तमेतदित्यत आह ॥ लिङ्गस्य चेति ॥ तथापि लिङ्गस्य द्वितीयप्रमाणत्वेन दुर्बलत्वात्कथं निर्णय इत्यत आह ॥ दुर्बलेनापीति ॥ तस्य विष्णावेवेति ॥ सर्वाणि ह वेति सर्वभूतकारणत्वमाकाशस्योच्यते । तच्चाकाशपदेन विष्णुग्रहण एव सम्भवति । आत्मन आकाश सम्भूत इत्यादिना विष्णोरेव सर्वभूतकारणत्वस्य प्रमितत्वात् । भूतकाशस्य तु स्वव्यतिरिक्त-भूतकारणत्वेन तद्ग्रहणे सर्वशब्दसङ्कोच कर्तव्य इति भाव ॥
वाक्यार्थमञ्जरी
अस्य लोकस्येति ॥ अस्य लोकस्य पृथिव्यभिमानिनो ब्रह्मण का गतिरिति शालावत्येन पृष्टे आदीप्तत्वादाकाशनामको विष्णुरिति होवाच प्रवाहण । कथमेतस्य पृथिव्यभिमानिब्रह्मणो गतित्व-मित्यतस्तस्य माहात्म्यमाह ॥ सर्वाणीति ॥ सर्वाणि इमानि प्रमाणप्रसिद्धानि भूतानि ब्रह्मरुद्रादीनि आकाशादेव समुत्पद्यन्ते ह वा इत्यस्यार्थस्य वैदिकप्रसिद्धिमाह । आकाशं प्रति अस्तं अदर्शनं यान्ति यत्रैव प्रलये मुक्तौ च लीना भवन्ति । कुत हि यस्मादाकाश एवैभ्यो ब्रह्मरुद्रादिभूतेभ्यो ज्यायान् । तदपि कुत आकाश परायणम् उत्तमाश्रय । नैतस्मादप्युत्तमं वस्त्वाशङ्क्यमित्याशयेनाह ॥ स इति ॥ स एष आकाशनामा भगवान् परोवरीयान् सर्वोत्तम उद्गीथ उच्चैर्देवैर्गीथ स एषोऽनन्त देशत कालत गुणतश्र्च परिच्छेदशून्यत्वादनन्तनामक इत्यर्थ ॥ आकाशस्येति ॥ तथा च तत्स्वभावभूत-प्रवृत्तिनिमित्तस्यापि भगवदधीनत्वमिति भाव । अवकाशे अव्याकृताकाशे ॥ अनेनैव ॥ आकाश-स्येत्यादिभाष्येणैव । कथमित्यत आह ॥ रूढेरिति ॥ तस्यापि आनन्दमयप्रयुक्ताकाशशब्दस्यापि ॥
ॐ आकाशस्तल्लिङ्गात् ॐ ॥ आकाश इति होवाचेत्याकाशशब्दवाच्यो विष्णुरेव स एष परोवरीयान् स एषोऽनन्त इत्यादिना आकाशे श्रुतपरोवरीयस्त्वानन्तत्वादिविष्णुलिङ्गादित्यर्थ । परोवरीयव्याख्यानरूपां छान्दोग्यभाष्योदाहृतां स्मृतिमुदाहरन्ति ॥ परस्मादिति ॥ परशब्दितभारत्युत्तमो ब्रह्मा पर इत्युच्यते उशब्दस्योत्तमार्थकत्वात्तदुत्तमा रमा परोवरमिति तदुत्तमो हरि पारोवरीयक इति छान्दोग्यभाष्योदाहृत-स्मृत्यर्थ । उच्चत्वेन उत्तमत्वेन ॥ स एवेति ॥ निर्वचनत्वात्तकारस्य थकार इति भाव । योऽपि सोऽपि न प्रवक्तीत्यर्थ ॥ अनन्तत्वमुच्यत इति ॥ गुणतोऽनन्तत्वस्याप्यनन्तशब्दार्थत्वादिति भाव ॥ सर्वोत्तमत्वमिति ॥ मात्रशब्देन परिमितसर्वजगद्ग्रहणादिति भाव । स्मर्यते भविष्यत्पर्वणि । महायोगेऽपि । सर्वभूतगुणैर्युक्तं देव त्वं ज्ञातुमर्हसीत्युक्ते । पुरुषादाकाश यावान्वा अयमाकाश आकाशो वै नामेति वैदिकप्रयोगबाहुल्याच्चेति भाव ॥ नभ इति ॥ आदो नभ यस्य हरे प्रेरणाच्छ्वासं कुर्वतां मार्गं ददातीति तृतीयस्कन्धवाक्यार्थ ॥ विष्णावेवेति ॥ सर्वाणि ह वेति भूतकारणत्व-माकाशस्योच्यते । तच्चाकाशपदेन विष्णोरेव ग्रहणे सम्भवति । आत्मन आकाश सम्भूत इत्यादिना विष्णोरेव सर्वभूतकारणत्वेन प्रमितत्वात् । भूताकाशस्य तु स्वव्यतिरिक्तभूतकारणत्वेन तद्ग्रहणे सर्वशब्दस्य सङ्कोच कार्य इति भाव । इदमभ्युपेत्योक्तम् । उक्तरीत्या भूतशब्दस्य ब्रह्मादिपरत्वात् । उशब्द-स्योत्तमार्थत्वात् ॥ आधिभौतिकेति ॥ महाभूताधिकाराख्यग्रन्थप्रतिपाद्यं देहाद्बाह्यप्रकृत्यन्तञ्जडमधिभूतं तद्गतेत्यर्थ । यथोक्तं महाभूताधिकारणम् । तत्कारणं तथा कार्यमधिभूतं तदन्तिकादिति ॥ ८ ॥
विवृति
श्रुत्यधिकरणसङ्गती दर्शयति ॥ को हीति ॥ अव्यवहिताधिकरणसङ्गतिस्तु अधिकां शङ्कां कृत्वा पूर्वाधिकरणसिद्धान्तन्याय एवातिदिश्यत इत्यातिदेशिकी । तत्र हेतुमाह ॥ आकाशशब्दस्येति ॥ योगवृत्येति ॥ आसमन्तात्काशते, प्रकाशत इत्याकाश इति योगवृत्येत्यर्थ ॥ नन्विदं पूर्वाधिकरणन्यायेन गतार्थमित्यतोऽभ्यधिकां शकामाह ॥ न चाकाशस्येत्यादिना ॥ अचेतनत्वेऽपि कुतो नान्याधीनत्वमत आह ॥ चेतनस्य हीति ॥ पृथिवीगतित्वेति ॥ अस्य लोकस्य का गतिरित्याकाश इति होवाचेत्यनेनोक्तपृथिवीगतित्वप्रतिपादनायेत्यर्थ ॥ तच्चेति ॥ सर्वभूतकारणत्वं लयाधिकरणत्वादिक-मित्यर्थ ॥ इति मनसि निधायेति ॥ अन्यथा विषयसंशयाद्यनुक्त्वा पूर्वपक्षफलवचनस्यासङ्गतत्वादिति भाव ॥ नन्वाकाशस्यानन्दमयत्वमयुक्तं तस्याचेतनत्वादित्यत आह ॥ आकाशस्येति ॥ अनेनैवेति ॥ अभिमानिद्वारा आनन्दमयत्वोपपत्तिकथनेनेत्यर्थ ॥ न चाकाशशब्दं योगेन विष्णुपरं कृत्वा आनन्दमयत्वमेव साक्षात्तन्निष्टं क्रियताम् अभिमानिद्वारा तदुपपाद्याकाशशब्देन भूताकाशग्रहणे को विशेष इत्यत आह ॥ रूढेर्बलवत्वेनेति ॥ आकाशशब्दस्य भूताकाश इत्यर्थ ॥ तस्यापीति ॥ आनन्दमये प्रयुक्तस्य आकाशशब्दस्यापीत्यर्थ । त्वस्याभिमान्याद्वारकत्वरूपमुख्यत्वस्यापीत्यर्थ ॥ मुखतोऽनुक्तेरिति ॥ पूर्वपक्षफलकथनेन सूचितत्वादिति भाव ॥ न चासौ युज्यत इत्यत्रासाविति प्राप्तिपरामर्शे किन्तु विष्णुरेवेति स्यात् न तु विष्णुरेवेति ॥ अत असावित्याकाशपरं कृत्वा तस्य स्वरूपेण निषेधायोगादपेक्षितमध्याहृत्य व्याचष्टे ॥ न चासावत्र वाच्य इति ॥ हेतुरुक्त उपदिष्ट । जगच्चेष्टकत्वस्य । स्मृतिरिति ॥ अनेन श्रुतौ परोवरीयस्त्वं नामोक्तस्मृत्यनुसारेण पारोवरीयकत्वमेव न तु परोवरत्वमिति सूचितं भवति ॥ अनन्तत्वमुच्यत इति ॥ गुणतोऽनन्तत्वस्याप्यनन्तशब्दार्थत्वादिति भाव ॥ नन्वाकाशश्रुते विष्णाववकाशवद्विष्णुलिङ्गस्याप्याकाशे सावकाशत्वादयुक्तमेतदित्यत आह ॥ लिङ्गस्येति ॥ तथापि लिङ्गस्य द्वितीयप्रमाणत्वेन दुर्बलत्वात् कथं निर्णय इत्यत आह ॥ दुर्बलेनापीति ॥ तस्य विष्णावेवेति ॥ सर्वाणि ह वेति सर्वभूतकारणत्वमाकाशस्योच्यते । तच्चाकाशपदेन विष्णुग्रहण एव सम्भवति ॥ आत्मन आकाश सम्भूत इत्यादिना विष्णोरेव सर्वभूतकारणत्वस्य प्रमितत्वात् भूताकाशस्य तु स्वव्यतिरिक्तभूतकारणत्वेन तद्ग्रहणे सर्वशब्दसङ्कोच कर्तव्य इति भाव ॥
॥ इति आकाशाधिकरणम् ॥