ॐ अदृश्यत्वादिगुणको धर्मोक्ते ॐ
६. अदृश्यत्वाधिकरणम्
सूत्रभाष्यम्
अदृश्यत्वादिगुणा विष्णोरुक्ता । तत्र "यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुश्रोत्रं तदपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीरा’ (मुं.उ. १-१-६) इत्युक्त्वा, "यथोर्णनाभिस्सृजते गृह्णते च यथा पृथिव्यामोषधय सम्भवन्ति । यथा सत पुरुषात्केशलोमानि तथाऽक्षरात्सम्भवतीह विश्र्वम्’ (मुं.उ.१-१७) इत्युक्त्वा तस्माच्च "अक्षरात्परत पर’ (मुं.उ.३-१-२) इति पर प्रतीयत इत्यतोऽब्रवीत् ।
॥ ॐ अदृश्यत्वादिगुणको धर्मोक्ते ॐ ॥ २१ ॥
पृथिव्यादिदृष्टान्तमुक्त्वा "अक्षरात्सम्भवतीह विश्र्वम्’ (मुं.उ.१-१-७) इत्यत परं तत्परत पराभिधानात्, "कूटस्थोऽक्षर उच्यत’ (भ.गी.१५-१६) इति स्मृतेश्र्च प्रकृते प्राप्ति । ब्रह्मशब्दात्तत्परत पराभिध्यानादेव च हिरण्यगर्भस्य । "तमेवं विद्वानमृत इह भवति’ (तै.आ.३-१२-७) । "तत्कर्म हरितोषं यत्सा विद्या तन्मतिर्यया’ "अथ द्वे वाव विद्ये वेदितव्ये परा चैवापरा च । तत्र ये वेदा यान्यङ्गानि यान्युपाङ्गानि यानि प्रत्यङ्गानि साऽपरा । अथ परा यया स हरिर्वेदितव्यो योऽसावदृश्यो निर्गुण पर परमात्मा’ इत्यादिना तद्धर्मत्वेनावगतपरविद्याविषयत्वोक्तेर्विष्णुरेवादृश्यत्वादिगुणक ॥ २१ ॥
सत्तकदीपावली
अदृश्येऽनात्म्ये इत्यादिना अदृश्यत्वादिगुणा विष्णोरुक्तास्ते चाथर्वणे अक्षरस्योच्यन्ते । यत्तदद्रेश्यमग्राह्यमिति । न चैतदक्षरं विष्णु । तस्य तस्मात्परत्वेन श्रूयमाणत्वात् । अक्षरात्परत पर इति । एवं प्राप्ते सूत्रमवतारयति ॥ अदृश्यत्वेति ॥ अदृश्यत्वादिगुणकमक्षरं विष्णुरेव न प्रकृतिहिरण्य-गर्भाविति प्रतिपिपादयिषया प्रसक्तिं दर्शयति ॥ पृथिव्यादीत्यादिना ॥ अस्यार्थ । पृथिवीदृष्टान्तेन ह्यक्षर-मुच्यमानं प्रकृतिर्भवेत् । कूटस्थोऽक्षर उच्यते । उत्तम पुरुषस्त्वन्य इति स्मृत्या प्रकृतेरक्षरत्वेनोच्यमान-त्वात् । "ब्रह्मा देवानां प्रथम सम्बभूव’ "विश्र्वस्य कर्ता भुवनस्य गोप्ता’ "स ब्रह्मविद्यां सर्वविद्या-प्रतिष्ठामाथर्वाय ज्येष्ठपुत्राय प्राह’ इत्युपक्रम्य श्रूयमाणमदृश्यत्वादिगुणकमक्षरं हिरण्यगर्भो वा भवेत् । तस्मिन्नपि ब्रह्मशब्दसम्भवात् पुरुषोत्तमस्त्वेतदक्षरं न भवत्येव । तस्मात्परत्वेनोपरि श्रूयमाणत्वा-दित्येतन्निषेधति । तमेवमित्यादिना । अस्यार्थ । अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमिति परविद्याविषयत्ववचनाद्विष्णुरेवादृश्यत्वादिगुणकोऽक्षर । परविद्याविषयत्वस्य तमेवं विद्वानमृत इह भवतीत्यादिवाक्यान्तरेषु विष्ण्वेकनिष्ठत्वेन तद्धर्मत्वेनोक्तत्वात् । वेदानामपरविद्याविषयत्वं यज्ञाद्यर्थान्तर-विषयत्वविवक्षया तेषामेव परविद्याविषयत्वं विष्णुविषयत्वविवक्षयेत्यवगन्तव्यम् । तदुक्तं परमसंहितायाम् ।
ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचका ।
ता एव परमा विद्या यदा विष्णोस्तु वाचका ॥ इति ।
तत्त्वप्रदीपिका
अदृश्यत्वादिगुणा इत्यादेरयमर्थ । "अदृश्येऽनात्म्ये’ "सहैव सन्तं न विजानन्ति देवा’ "स योऽतोऽश्रुत’ इत्यादिनाऽदृश्यत्वादिगुणा विष्णोरुक्ता । श्रुत्यन्तरे तु "अथ परा यया तदक्षरमधिगम्यते, यत्तदद्रेश्यमग्राह्यमगोत्रम्’ इत्याद्युक्त्वा उत्तरत्र अक्षरात्परत पर इति वचनात् तस्माददृश्यत्वादिगुणकादक्ष-रात्परत पर कश्र्चिदस्तीति प्रतीयत इति । अनेन भाष्येणाधिकरणसङ्गतिरगादि ॥ विषयवाक्यं चोदाहारि । संशयस्थानं चोदभावि । पूर्वपक्षबीजं चासूचि ।
ॐ अदृश्यत्वादिगुणको धर्मोक्ते ॐ ॥ तमेव पूर्वपक्षं सहेतुकमिह वर्णयति । ""यथोर्णनाभि सृजते गृह्णते च यथा पृथिव्यामोषधयस्सम्भवन्ति । यथा सत पुरुषात्केशलोमानि तथाऽक्षरात्सम्भवतीह विश्र्वम्’’ इत्यूर्णनाभिपृथिव्यादिदृष्टान्तेनाक्षरस्य जगदुपादानत्वमुक्त्वोपरि तस्माच्चाक्षरात्परत परस्याभिधानाज्जडप्रकृति-रदृश्यत्वादिगुणकमक्षरमिति पूर्वपक्ष ॥ "कूटस्थोऽक्षर उच्यत’ इति स्मृतेश्र्चित्प्रकृतिर्वा । "ब्रह्मा देवानां प्रथमस्सम्बभूव’ "विश्र्वस्य कर्ता भुवनस्य गोप्ता’ "स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठाम्’ इत्यादि ब्रह्मशब्दात्, तस्मात्परस्या प्रकृते परस्य हरेरभिधानादेव च हिरण्यगर्भो वेति । तमेवं विद्वानित्यादिना परिहरति । विष्णुधर्मत्वेन स्पष्टं श्रुत्यन्तरसिद्धं परविद्याविषयत्वब्रह्मत्वामृतत्वादि, तदत्राप्युच्यते, "अथ परा’ "तदेतदक्षरं ब्रह्म’ "पुरुष एवेदं विश्र्वं’ "कर्म तपो ब्रह्म परामृतम्’ इत्यादिना ॥ अतोऽदृश्यत्वादिगुणको विष्णुरेव । आयुर्वेदो धनुर्वेदो गान्धर्वं स्थापत्यं चोपाङ्गानि । शिष्टा कला विद्या प्रत्यङ्गानि ।
तत्त्वप्रकाशिका
अत्राऽक्षरशब्दसाहित्येन अन्यत्र प्रसिद्धादृश्यत्वादििलङ्गानां ब्रह्मणि समन्वयप्रतिपादनादस्ति शास्त्रादि-सङ्गति । श्रुत्यादिसङ्गतिं विषयवाक्योदाहरणेन विषयसंशयौ सयुक्तिकं पूर्वपक्षं च सूचयति ॥ अदृश्य-त्वादीति ॥ "अदृश्येऽनात्म्य’ इत्यानन्दमयस्य अदृश्यत्वादिगुणा उक्ता । ते चाथर्वणे कस्यचिदक्षर-स्योच्यन्ते । "अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुश्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीरा । यथोर्णनाभि सृजते गृह्णते च यथा पृथिव्यामोषधय सम्भवन्ति । यथा सत पुरुषात्केशलोमानि तथाऽक्षरात्सम्भवतीह विश्वम्’ इति । तेषां च विष्ण्वन्यनिष्ठत्वे प्रागुक्तानन्दमयत्वं चान्यस्यैव स्यादित्यवश्यं निर्णेतव्यता । तददृश्यत्वादििलङ्गजातमत्र विषय । विष्णोरन्यस्य वेति सन्देह । आनन्दमये श्रुतत्वमक्षरशब्दश्च सन्देहबीजम् । न विष्णोरदृश्यत्वादीति तावत्पूर्व पक्ष । अदृश्यत्वादिगुणकेऽक्षरात्सम्भवतीह विश्वमित्यक्षरशब्दश्रवणात् । तस्य च विष्णौ निरवकाशत्वात् । यतोऽस्मादप्यक्षरादुत्तरवाक्ये पर प्रतीयते ।
"दिव्यो ह्यमूर्त पुरुष स बाह्याभ्यन्तरो ह्यज ।
अप्राणो ह्यमना शुभ्रो ह्यक्षरात्परत पर’
इति । न हि विष्णोरपि परोऽस्तीत्यतो न विष्णुरदृश्यत्वादिगुणक इति नानन्दमयोऽपीति भाव ।
सिद्धान्तयत्सूत्रं तावदवतारयति ॥ अत इति ॥ अदृश्यत्वादिकं न विष्णोश्चेत्तर्हि वाक्यस्य निर्विषयतयाऽप्रामाण्यं स्यादित्यत पूर्वपक्षं विशदयति ॥ पृथिव्यादीति ॥ अदृश्यत्वादिकं जडप्रकृतेर्भवेत् । अस्या पृथिव्यादिदृष्टान्तेन उपादानतया जगत्कारणत्वोक्ते । न चायं कारणत्वमात्रे दृष्टान्त इति वाच्यमित्यतो वाक्यादनन्तरम् अक्षरात्परत पर इति तस्मात्परत पराभिधानात् । चेतनप्रकृतेर्वाऽ-दृश्यत्वादिकम् । तस्यामक्षरशब्दस्य स्मृतिसिद्धत्वात् । न चासौ शब्द परमात्मन्यपि सम्भवतीति वाच्यम् । तत्परत पराभिधानात् । तच्च तस्यामक्षरात्परत पर इति सामानाधिकरण्येनोपपन्नम् । विकारित्वेन जगत्कारणत्ववचनं तस्या विकाराभिमानित्वाद्युज्यते । हिरण्यगर्भस्य वाऽदृश्यत्वादिकम् । स ब्रह्मविद्यामित्यादिब्रह्मशब्दात् । न च ब्रह्मशब्दो विष्णौ मुख्य इति तद्ग्रहणम् । तत्परत पराभिधानात् । रुद्रस्य वैतददृश्यत्वादििलङ्गजातम् । कर्तारमीशमिति ईशशब्दश्रवणात् । न च ईशशब्दो विष्णावपि सम्भवतीति तद्ग्रह । तत्परत पराभिधानादेवेति भाव । एवं प्राप्तं पूर्वपक्षं प्रतिक्षेप्तुं सूत्रं व्याचष्टे ॥ तमेवमिति ॥ अदृश्यत्वादिगुणको विष्णुरेव । अथ परा यया तदक्षरमधिगम्यत इत्यदृश्यत्वादिगुणकस्य परविद्याविषयत्वोक्ते । परविद्याविषयत्वस्य च श्रुतिस्मृतिभि विष्णुधर्मत्वेनावगतत्वादित्यर्थ । तमेवमिति श्रुतौ मोक्षसाधनविद्याविषयत्वोक्त्या विष्णो परविद्याविषयत्वमुक्तं भवति । मोक्षसाधनविद्याया परविद्यात्वात् । तत्कर्मेति स्मृतौ च सैव परविद्या यया हरेर्ज्ञानं भवतीति तस्य परविद्याविषयत्वमुच्यते । द्वे विद्ये इत्यत्र च यदा वेदाद्यन्यविषयतया योज्यते तदा तस्याऽपरविद्यात्वम् । यदा पुनरेतै स हरिर्वेद्यो भवति तदा परविद्यात्वमिति हरे परविद्याविषयत्वमुच्यते । तदुक्तं
"ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचका ।
ता एव परमा विद्या तदा विष्णोस्तु वाचका’ इति ॥ २१ ॥
गुर्वर्थदीपिका
तस्य च विष्णौ निरवकाशत्वादित्यत्र निरवकाशत्वं विष्णावेवावकाशरहितत्वमित्यर्थ । रुद्रपक्षे त्वक्षराद्रुद्रात्परत उत्तमाच्चतुर्मुखात्पर उत्तम इति पुम्मात्रविवक्षयाऽर्थो द्रष्टव्य ।
भावबोध
ॐ अदृश्यत्वादिगुणको धर्मोक्ते ॐ ॥ श्रुत्यादिसङ्गतिमिति ॥ अदृश्यत्वादिगुणा विष्णोरुक्ता इति भाष्योक्तरीत्या प्रागुक्तपृथिव्याद्यविदितत्वाक्षेपाद् ""अदृश्यत्वाद्यभावाख्यम्’’ इत्यनुव्याख्याने तत परमित्यस्यानुवृत्तौ सत्यां तदुक्तरीत्याऽभावनिरूपणस्य भावनिरूपणानन्तरत्वेनाधिकरणपञ्चकेन भावरूपधर्मविचारं कृत्वात्राभावरूपधर्मविचाराद्वाऽनन्तरसङ्गतिर्द्रष्टव्या ॥ विष्णोरन्यस्य वेति ॥ अत्रादृश्यत्वादि किं प्रकृतिविरिञ्चादेरुत विष्णोरिति चिन्ता । तदर्थमदृश्यत्वादिगुणके प्रतीता पृथिव्यादि-दृष्टान्तपूर्वकजगत्कारणत्वप्रतिपादकवाक्याक्षरब्रह्मेशशब्दा किं जडाजडप्रकृतिविरिञ्चरुद्रविषया उत न इति । तदर्थं तत्समानाधिकरणमक्षरात्परत परत्वं विष्णौ न सम्भवत्युत सम्भवतीति । तदर्थमक्षरात्सम्भव-तीत्युक्तमक्षरमेवाक्षरात्परत वाक्यगताक्षरशब्देनोच्यते, उतान्यदक्षरमिति । तदर्थमवधिवाचकाक्षरशब्देन प्रकृतादृश्यत्वादिगुणकविश्र्वयोनिपरित्यागेनाप्रकृताक्षरान्तरग्रहणे कारणमदृश्यत्वादिगुणकस्य विष्णुत्वसाधकं प्रकृतिविरिञ्चादित्वे बाधकञ्च नास्त्युतास्तीति । तदर्थं परविद्याविषयत्वादेर्विष्णुमात्रनिष्ठत्वे प्रमाणं नास्त्युतास्तीति । तस्य विष्णौ निरवकाशत्वादित्यादिना न हि विष्णोरपि परोऽस्तीत्यन्तेनाक्षरात् परत पर इति श्रुतेरपि नाक्षरात् सम्भवतीत्यस्या निरवकाशत्वमिति न्यायविवरणम् "नञम्’ "अपि’पदञ्च विना उक्ततात्पर्यकं भवतीति द्रष्टव्यम् ॥ पृथिव्यादिदृष्टान्तेनेति ॥ श्रुतावूर्णनाभिदृष्टान्तस्य प्राथम्येऽपि तत्र सृजत इत्यनेन कर्तृत्वप्रतीतेर्भाष्ये पृथिव्यादीत्युक्तमिति भाव । अत एव स्वयमुपादानतयेत्युक्तम् ॥ न च कारणत्वमात्रे दृष्टान्त इति ॥ तथा च विष्णुग्रहणे नेयमनुपपत्तिरिति भाव । इत्यतो वाक्यादनन्तरमिति । उपलक्षणं चैतत् । कारणत्वमात्रस्य सम्भवतीह विश्र्वमित्यनेनैव सिद्ध्या दृष्टान्तकथनवैयर्थ्यात् । बाधकाभावेऽन्तरङ्गस्योपादानत्वस्य त्यागायोगाच्च इत्यपि द्रष्टव्यम् । सामानाधि-करण्येनेति ॥ चित्प्रकृतेरुत्तमादुत्तमस्याभावेनाक्षरात् परत इति पञ्चम्योर्वैय्यधिकरण्यायोगादिति भाव ॥ तत्परत पराभिधानादिति ॥ उपलक्षणं चैतत् । पूर्वत्र "ब्रह्मा देवानां प्रथम सम्बभूव’ इत्युत्तरत्र "तस्मादेतद् ब्रह्मनामरूपमन्नञ्च जायत’ इति जायमानत्विलङ्गेन चतुर्मुखपरेण ब्रह्मशब्देन सह दृष्टस्य स ब्रह्मविद्यामिति ब्रह्मशब्दस्यान्यपरत्वायोगादित्यपि द्रष्टव्यम् । ईशशब्दप्राप्तोऽपि न रुद्र इति वक्ष्यमाणानुरोधादाह रुद्रस्य वा एतदिति ॥ अत एवोक्तमिति भाव इति । परविद्याप्रतिपादकै-तत्प्रकरणगतवाक्यस्य भाष्येऽनुदाहृतत्वात् तदुदाहरति अथ परा यया तदक्षरमधिगम्यत इति ॥ ययेति तृतीयान्तपदं वेदादिव्यतिरिक्तपरमिति भ्रमं वारयितुं सप्रमाणकं श्रुत्यर्थमाह यदा वेदादीत्या-दिना ॥ ब्रह्ममीमांसाशास्त्रव्युत्पादितन्यायानुपकृतं वेदादीत्यर्थ ॥ एतैरिति ॥ तद्व्युत्पादितन्यायोप-कृतैर्वेदादिभिरित्यर्थ । तथा चानुव्याख्याने परमाख्याविद्येति ब्रह्ममीमांसाया परविद्यात्वोक्तिरुपपन्नेति ज्ञातव्यम् ।
भावदीप
ॐ अदृश्यत्वादिगुणको धर्मोक्ते ॐ ॥ इत्यन्तभाष्यं सङ्गतिपरत्वेन व्याचष्टे ॥ अदृश्य इति ॥ अदृश्यत्वादीत्यादिपदेनानात्म्यपदोक्तजीवगुणराहित्यं स्वामिराहित्यमित्यादिग्रह । तत्रेत्यस्य तात्पर्यं ते चेति । विश्वमित्युक्त्वेत्यन्तस्य तात्पर्यम् आथर्वण इत्यादि । कुत्रोच्यन्त इत्यतो यत्तदिति भाष्यं प्राप्तमित्युपेत्य तत्पठति ॥ अथेति ॥ गुणानामक्षरनिष्ठताप्रदर्शनाय वा सिद्धान्तहेतुप्रदर्शनार्थं तदुपयोगितया वा पूर्वशेषोक्ति । भाष्ये विच्छिद्य पाठात् सङ्गत्याद्युक्त्यर्थम् अक्षरद्वयैक्यसूचनाय समग्रोक्ति । दृष्टान्तोक्तेरप्युपन्यासस्य कृत्यमग्रे व्यक्तम् । अद्रेश्यं चक्षुरादिना अदृश्यम् । अग्राह्यं मनसा । अवर्णं ब्राह्मण्यादिवर्णहीनम् । संहर्तृत्वमधिकं वदन् भूतयोनिमित्युक्तकारणत्वं स्पष्टयति ॥ यथोर्णनाभिरिति ॥ कारणत्वं कर्तृत्वरूपमिति वक्तुमाद्य । अङ्कुरजनने पृथिवीबीजमिव विश्वसृष्टौ तत्तत्कर्मापेक्षत इति वक्तुं द्वितीय । अनायासेन तत्सृष्टिरिति वक्तुं तृतीयो दृष्टान्त । सतो जीवत पुरुषाद्देहात् । शिरस्था केशा । अन्यानि लोमानि । सर्वस्य तात्पर्यमाह ॥ तेषामिति ॥ अक्षरश्रुत्या दृष्टान्त-पूर्वमुक्तोपादानत्वयुक्त्या तस्मादक्षरादिति भाष्यशेषोक्तदिशा विष्णावयोगे चान्यनिष्ठत्व इत्यर्थ । उक्ता इत्यन्तवाक्यस्य तात्पर्यं प्रागुक्तेति ॥ इतीति ॥ पूर्वाक्षेपरूपसङ्गतिसम्भवाद्धेतोरित्यर्थ ॥ निर्णेतव्यतेति ॥ तेषामित्यनुकर्ष । भाष्ये गुणा इति बहुवचनोक्तेराह ॥ जातमिति ॥ पादसङ्गत्यर्थं िलङ्गेति । तदेव भाष्यं पूर्वपक्षतद्युक्तितत्फलपरत्वेन व्याकर्तुं पर प्रतीयत इत्युक्तिलब्धप्रतिज्ञामाह ॥ न विष्णोरिति ॥ विष्णोर्न चेन्निर्विषयं वाक्यमित्यत उक्तं तावदिति । अन्यस्य तु पश्चाद्विवरिष्याम इत्यर्थ । कुत इत्यतस्तत्रेत्याद्यक्षरात्सम्भवतीह विश्वमित्युक्त्वेत्यन्तपूर्ववाक्यं प्राप्तमिति मत्वाऽऽह ॥ अदृश्यत्वादिगुणक इति ॥ भाष्यस्थतत्रेत्यस्यार्थोऽयम् । तथापि कुतो न विष्णुरित्यत अक्षरात्परत पर इति श्रुतेरपि नाक्षरात्सम्भवतीत्यस्या निरवकाशत्वमिति न्यायविवरणोक्तदिशाऽक्षरशब्दस्य विष्णौ निरवकाशत्वं वक्तुं प्रवृत्तं तस्माच्चेत्यादिभाष्यवाक्यशेषं मत्त्वाऽऽह ॥ तस्य चेति ॥ तत्र हेतुत्वेन भाष्यशेषं व्याचष्टे ॥ यत इति ॥ तस्मादित्यस्य व्यवहितयत्किञ्चित्परामर्शित्वभ्रमनिरासायास्मादप्यक्षरादिति व्याख्या । भाष्ये इत्यत परमित्यग्रेतनभाष्यानुरोधादिहापीतिशब्दानन्तरं वाक्य इति शेष । अस्मादप्यक्षरात् अक्षरात्सम्भवतीति वाक्यादुत्तरवाक्येऽस्मादप्यक्षरात्पर प्रतीयत इत्यर्थ । एतेन भाष्ये तस्मादिति पूर्ववाक्यमक्षरं च परामृश्यत इति दर्शितम् । इत्युक्त्वा प्रवृत्ते उत्तरवाक्य इति योजनात् क्त्वाश्रुत्युपपत्ति । तत्किमुत्तरवाक्यमित्यतोऽक्षरात्परत पर इत्येतत् प्रवृत्तमिति मत्वा परो विष्णुरित्यत्र िलङ्गानि वक्तुं शेषपूर्वकमाह ॥ दिव्यो हीति ॥ दिव्योऽत्यद्भुत । अमूर्तो नियतपरिच्छिन्नपरिमाणरहित । किन्तु बाह्य आभ्यन्तरश्च । अप्राणो ह्यमना इति षोडशकलाराहित्यमुच्यते । शुभ्र शुद्ध इति कर्मनिर्णयटीकोक्तार्थो बोध्य ॥ न हीति ॥ सैव हि सत्यादय इत्यादौ तस्यैकस्यैव परत्वोक्ते । सा काष्ठा सा परा गतिरित्यादेरिति भाव । एतेनाक्षरात्सम्भवतीति वाक्यस्थाक्षरशब्दस्य निरवकाशत्व-मित्यर्थो दर्शित ॥ अत इति ॥ निरवकाशाक्षरशब्दादित्यर्थ । उक्त्वेत्यन्तवाक्यतात्पर्यमदृश्यत्वादीति अद्रेश्यवाक्ये अदृश्यवाक्ये च श्रुतेत्यर्थ ॥ प्रकृते प्राप्तिरिति प्रकृतिपदस्य जडपरत्वं तावदुपेत्य भाष्यं व्याचष्टे ॥ जडेति ॥ अस्येति ॥ अदृश्यत्वादिगुणकाक्षरस्येत्यर्थ । यथोर्णनाभिरित्यत्र स्फुटमुपादानत्वाप्रतीते पृथिव्यादीत्युक्तम् । भाष्यटीकयोर्यथोर्णनाभिरित्युक्तिस्तु सिद्धान्ते उपयुज्यत इति भाव । प्रागुक्तन्यायविवरणानुरोधेनाक्षरादित्युत्तरभाष्यं िलङ्गनिरवकाशतोक्त्यर्थं प्रवृत्तमिति मत्वाऽवतारयति ॥ न चेति ॥ तथा च विष्णावपि तद्युक्तमिति भाव । दृष्टान्तवैय्यर्थे सत्यपि इत्यत परमिति भाष्योक्तं दोषान्तरं व्यनक्ति ॥ इत्यतो वाक्यादिति ॥ तच्छब्दार्थस्तस्मादिति । कारणत्वेनोक्ताक्षरादित्यर्थ । विष्णो परत्वोक्ते तदवध्यक्षरत्वमयुक्तम् । जडत्वे तु तत परत श्रीतत्वात्परो विष्णुरिति युक्तमिति उपादानत्वं जडप्रकृतेरेव दृष्टान्तवैय्यर्थ्यं च नेति भाव । एतेनाक्षरात्सम्भवतीत्यस्या निरवकाशत्वमिति न्यायविवरणोक्तम् इत्यन्तस्योपादानस्य निरवकाशत्वमित्यर्थान्तरं दर्शितम् । कूटस्थेत्यादि व्याचष्टे ॥ चेतनेति ॥ न्यायविवरणमनुरुध्य पूर्वोक्तदिशा अक्षरशब्दनिरवकाशत्वोक्तिपरतया पूर्वभाष्यमेव शङ्कापूर्वं योजयति ॥ न चेति ॥ अक्षरन्यायनयेनेति भाव । चित्प्रकृतौ वा कथं युक्तम् अन्तराले कस्यचिदभावेन परत इत्युक्त्ययोगात् । अत आह ॥ तच्चेति ॥ युज्यत इति ॥ विष्णावविकारित्वादतदभिमानित्वाच्च न युज्यत इति भाव । ब्रह्मेत्यादि व्याचष्टे ॥ हिरण्यगर्भस्य वेति ॥ तत्परत इति ॥ परावधित्वेनोक्ताक्षरत्वायोगान्न विष्णुग्रहणमित्यर्थ । विरिञ्चस्याक्षरत्वे तु परत श्रीतत्वात् परो विष्णुरिति भाव । तदुक्तं तत्वप्रदीपे । तस्मात् परस्या प्रकृते परस्य हरेरभिधानादिति । ईशपदप्राप्तोऽपि न रुद्र इत्यग्रे भाषणान्निरवकाशत्वोक्तिसौकर्याय अत्रैवाह ॥ रुद्रस्येति ॥ विष्णावपीति ॥ अन्तर्नयन्यायेनेति वा शब्दादेवेत्यत्रेशशब्दपर्यायेशानशब्दस्य समन्वेष्यमाणत्वाद्वेति भाव ॥ तत्परत इति ॥ रुद्रस्याक्षरत्वे तु परतश्चतुर्मुखात्परो विष्णुरिति युक्तम् । अस्मिन्पक्षे श्रीतत्वमीश्वरकोटिनिविष्टमिति भाव । भाष्यं व्युत्क्रमेण व्याचष्टे ॥ अदृश्यत्वेति ॥ तत्त्वित्यनुवृत्त्यस्यार्थो विष्णुरेवेति । हेतुक्तिपरं वाक्यं दर्शयंस्तद्धर्मत्वेनावगतपरविद्येति भाष्यमाकाङ्क्षानुरोधेन विच्छिद्य व्याकुर्वन् सूत्रखण्डार्थमाह ॥ अथ परेति ॥ तमेवेत्यादेरर्थ श्रुतीति । श्रुती च स्मृतिश्च ताभिरित्यर्थ । हरेर्ज्ञानमिति । अनेन तन्मतिरिति परामर्शप्रदर्शनाय पूर्वपादोक्तिरिति सूचितम् । परापरविद्ययोर्भेदभ्रान्तिं निरस्यन् परापरविषयत्वरूपोपाधिकृतभेदमाह ॥ यदेति ॥ अन्येति ॥ कर्मादि-विषयतया ॥ तदुक्तमिति ॥ आथर्वणभाष्य इत्यर्थ । यथैकमेव कर्माभिसन्धिभेदात्प्रवृत्तं निवृत्तमिति चोच्यते तथेति भाव । एतेन ऋगाद्यपरविद्याविषये शास्त्रयोनौ हरौ न तद्विरुद्धपरविद्याविषयत्वमिति निरस्तम् । भाष्ये यान्यङ्गानीति शिक्षादीनि षडङ्गान्युच्यन्ते । आयुर्वेदो धनुर्वेदो गान्धर्व स्थापत्यं चोपाङ्गानि शिष्टा कला विद्या प्रत्यङ्गानीति तत्वप्रदीपोक्तार्थ ॥ २१ ॥
अभिनवचन्द्रिका
गुणग्रहणं किमर्थम्? गुणग्रहणमदृश्यत्वादीनां गुणत्वप्रतिपत्त्यर्थम् । अक्रियमाणे गुणग्रहणेऽ-दृश्यत्वादीनामभावरूपत्वेन गुणत्वप्रतिपत्तिर्न स्यात् । नन्वादिग्रहणं व्यर्थम् । आनन्दमयाद्यधिकरणेषु आनन्दमयादिशब्दाना मुदाहरणत्वेनान्नमयादिशब्दग्रहणवदिहापि अदृश्यत्वशब्दस्याप्युदाहरण-त्वेनाऽग्राह्यत्वादीनां ग्रहणसम्भवादिति चेत्, सत्यम् अदृश्यत्वग्रहणस्योदाहरणतया अग्राह्यत्वादीनां ग्रहणं भवतीति, तथाप्यादिशब्देन तेषां ग्रहणं युज्यते । अग्राह्यत्वादीनां गुणत्वज्ञापनाख्यप्रयोजनसद्भावात् । अन्यथा दृश्यत्वान्योऽदृश्यः तस्य भावः अदृश्यत्वमिति अदृश्यत्वशब्देन अन्योन्याभावाभिधानेन अन्योन्याभावस्य धर्मिस्वरूपत्वेन भावत्वाद्गुणत्वान्वयबुद्धिः स्यात् न तु अगोत्रत्वादेः । न विद्यते गोत्रं यस्येति अगोत्रपदेनात्यन्ताभावरूपधर्मवत्त्वाभिधानात् । अत्यन्ताभावस्य भावरूपत्वाभावेन न गुणत्वान्वयधीः स्यात् । आदिग्रहणे पुनः क्रियमाणे न दोषो भवति । साक्षादेव तेषां गुणत्वाभिधानात् ॥
नन्वेतद्य्वाख्यानं सुधाविरुद्धम् गोत्रादिसंसर्गाभावो ब्रह्मधर्म इत्यर्थस्य सुधानभिमतत्वात् । यथा हि दण्डो देवदत्तस्य विशेषणं तथा गोत्राद्यभावोऽपि ब्रह्मणो विशेषणम् । न च श्रुतिविरोधः । दण्डित्ववदभाववत्त्वस्य धर्मत्वेन विवक्षितत्वादित्यादिना गोत्राद्यभाववत्ताया एव गुणत्वाभिधानादिति चेत्, उच्यते सुधायाः गोत्राद्यभावो न ब्रह्मगुण किन्तु गोत्राद्यभाववत्त्वमेवेति नाभिप्रायः । किं तर्हि "एवं धर्मान् पृथक् पश्य(का०२-४-१४)न्निति ब्रह्मधर्माणामभेदमभिधात्र्याः श्रुतेः द्वित्वादिवद्गोत्राद्यभावो न विषयः, किं तु गोत्राद्यभाववत्त्वमेव विषय इति अभिप्रायः । अवश्यं चैतदेवं विज्ञेयम् यथा हि दण्डो देवदत्तस्य विशेषणं तथा गोत्राद्यभावोऽपि ब्रह्मणो विशेषणमिति स्वयमेव धर्मत्वाभिधानात् । यस्तु सुधायाः गोत्राद्यभावो न ब्रह्मधर्म इत्याशय इति मन्यते स प्रष्टव्यः गोत्राद्यभावः ब्रह्मगतो न वा । नेतिपक्षे कथं गोत्राद्यभाववत्त्वमपि ब्रह्मधर्मः स्यात् । आद्ये गोत्राद्यभावः कथं न ब्रह्मधर्मः । न हि प्रतिनिधिना विशेषेण घटमानो धर्मधर्मिभावो । न भेदेनेति साम्प्रतम् । इयांस्तु विशेषः अभिन्ना धर्मा विष्णोः स्वलक्षणानि, भिन्ना धर्मास्तु तटस्थलक्षणानि । इममेवाभिप्रायं मनसि निधाय भागवते जगज्जन्मादिकारणत्वस्य गोत्राभावादिवत्तटस्थलक्षणत्वव्यावृत्तये "स्वलक्षणैर्लक्षितभावलक्षण’-(निवृत)मिति स्वलक्षणत्वमुक्तम् । सम्मतं चैतद्भाष्यकृतः । तन्त्रसारे तटस्थानामपि चक्रादीनां केशवादिलक्षणत्वाभिधानात् । कस्यचिदक्षरस्योच्यन्त इति ॥ एतदधिकरणप्रतिपाद्यधर्मस्य आनन्दमयधर्मत्वेन प्रतीयमानत्वम्, आनन्दमयाधिकरणतच्छ्रुतिभ्यां सङ्गतिरिति भावः । नानन्दमयोऽपीति भाव इति ॥ अदृश्यत्वादिगुणकस्याक्षरस्य विष्ण्वन्यत्वाददृश्यत्वगुणकतया अक्षराभिन्नत्वेन प्रत्यभिज्ञायमानः तैत्तिरीयश्रुत्युक्तानन्दमयोऽपि न विष्णुरिति भावः । एतेन अदृश्यत्वस्यान्यत्वेपि सर्वोत्तमत्वेनाभिमतस्य विष्णोरानन्दपूर्णत्वापलापे कारणाभावात् न विष्णुरानन्दमयोऽपीत्ययुक्तमिति परास्तम् । विष्णोरानन्दपूर्णत्वमङ्गीकृत्य विष्णुभिन्नतया निश्चितादक्षराददृश्यत्वधर्मवशेनाभिन्नतया प्रत्यभिज्ञायमानः तैत्तिरीयश्रुत्युक्तानन्दमयो न विष्णुरित्यभिधानात् । पृथिव्यादिदृष्टान्तेनेति ॥ ननु ऊर्णनाभिदृष्टान्तस्य प्राथमिकत्वादूर्णनाभ्यादिदृष्टान्तेनेति वक्तव्यम् । यदि ऊर्णनाभेश्चेतनत्वेनाऽनु-पादानत्वात् तद्विहाय पृथिव्यादिग्रहणम्, हन्त तर्हि पृथिव्यादिग्रहणमपि न कर्तव्यम् । किं कारणम्, अनुपादानत्वात् । कथमनुपादानत्वम् "पृथिव्यामोषधय’ (मु.१-७) इत्यत्र पृथिव्यामिति सप्तम्या अधिकरणत्वप्रतीतेः । तयोर्विशेषदर्शनाच्च ।
एवं पुरुषोऽपि न केशलोम्नामुपादानम्, किं तर्हि अपादानाम् । पुरुषादिति पञ्चम्या अपादानत्वश्रवणात् । अस्तु वा पृथिवीपुरुषयोरुपादानत्वम् । एवमपि सन्देहः प्राप्नोति । किमूर्णनाभि-दृष्टान्तबलेनाक्षरस्य निमित्तत्वं ग्राह्यम्, आहोस्वित् पृथिव्यादिदृष्टान्तेनोपादानत्वमिति । ततश्च साधकाभावेन न जडप्रकृतेरक्षरत्वमिति पूर्वपक्षो युक्त इति चेत्, न पृथिवीशब्दः पृथिव्यंशौषध्युपादान-बीजपरः । एवं पुरुषशब्दोऽपि केशलोमाद्युपादानभूतदेहांशमांसपरः । उपादाने चेयं पञ्चमी, ततश्च पृथिव्यां बीजे समवेताः सन्तः ओषधयो भवन्तीति यथा पृथिव्यामिति वाक्येनोच्यते, यथा सतः पुरुषादिति वाक्येनापि उपादानभूता देहभागा एव केशलोमानि भवन्तीत्युच्यत इति पूर्वपक्षी मन्यत इत्यङ्गीकारात् । यदपि ऊर्णनाभिदृष्टान्तदर्शनेन सन्देहो भवतीति तन्न तदाच्छादनेन पूर्वपक्षस्य प्रवृत्तत्वात्। न चायं कारणत्वमात्र इति ॥ दृष्टान्त इत्यनन्तरं "विष्णुरेवादृश्यत्वादिगुण’ इति शेषः । अस्तु कारणत्वमात्रे दृष्टान्तः, एवमपि नाक्षरस्येश्वरत्वं सम्भवति । उत्तरवाक्ये अक्षरात् परतः पराभिधानात् । न च तद्विष्णाववकाशमर्हति इत्याशयेन समाधत्ते इत्यतो वाक्यादिति ॥ तस्मात्परत इति ॥ परमात्मनः पर एव नास्ति । कुतः परतः परस्मादिति भावः । ननु परतः पराभिधानं यथा विष्णुपक्षे बाधकम्, एवं प्रकृतिपक्षेऽपि बाधकमित्यत आह त च्चेति ॥ तस्यां प्रकृतौ तत्परतः पराभिधानं "परतः अक्षरा’दिति सामानाधिकरण्येन योजनायामुपपन्नं भवतीत्यर्थः । सब्रह्मविद्या-मित्यादीति ॥ अक्षरविद्यायां ब्रह्मविद्यापदप्रयोगात् अक्षरे ब्रह्मशब्दो लब्ध इति भावः । एतेनाक्षरविषयकेण ब्रह्मशब्देन अक्षरस्य ब्रह्मत्वसाधनमयुक्तमिति परास्तम् । परविद्याविषयत्वोक्तेरिति ॥ यद्यप्यत्र परविद्याविषयत्वं न श्रूयते, तथापि अक्षरप्रतिपादकविद्यायाः परत्वोक्तौ अक्षरस्य परविद्याविषयत्व-मर्थाल्लभ्यत इति भावः । ननु किं परविद्याविषयत्वस्य श्रुतिस्मृतिबलेन विष्णुधर्मत्वं प्रसाध्य तेनाऽ-दृश्यत्वादिगुणकस्य विष्णुत्वसाधनप्रयासेन । ब्रह्मशब्देनैव विष्णुत्वसाधनसम्भवात् । सूत्रं चैवं सति लघु स्यात् "अदृश्यत्वादिगुणकः शब्दा’दिति । यदि परतः पराभिधानात् न ब्रह्मशब्दो विष्णुत्वसाधकः हन्त तर्हि तत एव परविद्याविषयत्वमपि न तथा स्यात् इति चेत्, सत्यमेव । तथापि ब्रह्मशब्दस्यापि यौगिकत्वेन धर्मवचनत्वज्ञापनाय धर्मोक्तेरित्युक्तम् । भाष्यकृता तु ब्रह्मशब्दोक्तगुणपूर्णत्वधर्मोक्तिः सूत्रार्थतया शिष्यैरेव ज्ञातुं शक्येत्यभिप्रेत्य परविद्याविषयत्वरूपधर्म एव निगदितः । तमेवेति श्रुताविति ॥ नन्वत्र विद्याशब्देन ज्ञानसाधनत्वं विवक्षितम् । "अथ परा यया तदक्षरमधिगम्यत’ (आ.१-५) इति वचनात् । एवं चास्यां श्रुतौ तमेवं विद्वानमृतो भवतीत्यनेन मोक्षसाधनीभूत ज्ञानविषयत्वलाभेऽपि विद्याविषयत्वस्यालाभात् नैतच्छ्रुत्युदाहरणमुचितमिति चेत्, न "एवं विद्वा’नित्यत्र एवंशब्दस्य विद्योक्तप्रकारेणेत्यर्थकत्वेन विद्याविषयत्वस्य स्पष्टं प्रतिभासनात् । यदा वेदाद्यन्यविषयतयेति ॥ ननु यदा वेदाद्यन्यविषयतया योज्यते तदा अपरविद्यात्वमित्युक्तं, योजनामात्रेण परविद्याया अपर-विद्यात्वायोगादिति चेत्, न नात्र परविद्यात्वमपरविद्यात्वमखण्डं, किं तर्हि परविषयकप्रबोधजनकत्वमेव परविद्यात्वम्, एवं तदन्यप्रबोधजनकत्वमपरविद्यात्वम् । एवं तदन्य प्रबोधजनकत्वमपरविद्यात्वम् । तदुभयं च तत्र योजनारूपसहकारिसम्पत्त्या एकस्या एव विद्याया उपपद्यते । एकस्यैव चतुरस्य देवत्तस्य सहकारिभेदेन विचित्रकार्यजनकत्वदर्शनात् । यदा विष्णोर्न वाचका इति ॥ यदा विष्णुवाचकत्वेनाननुसंहिताः अन्यवाचकत्वेनानुसंहिताः तदाऽन्यबोधजनकत्वात् अपरविद्याः । यदा भगवद्वाचकत्वेनानुसंहिताः तदा परप्रबोधजनकत्वात् परविद्या इत्यर्थः । एतेन वाचकत्वस्य स्वाभाविकत्वेन सदातनत्वात् "यदा वाचकाः, यदा न वाचका’ इत्युक्तिरयुक्तेति परास्तम् ।
वाक्यार्थमुक्तावली
ॐ अदृश्यत्वादिगुणको धर्मोक्ते ॐ ॥ अक्षरशब्दसाहित्येनान्यत्र प्रसिद्धेति ॥ ननु अक्षर-शब्दोऽविनाशित्वसाम्यात् उभयत्र प्रसिद्ध इति वक्ष्यति । कथं तत्साहित्येनापि अदृश्यत्वादेरन्यत्र प्रसिद्धत्वमिति चेन्न । विष्णौ यौगिकत्वात् । चित्प्रकृतौ कूटस्थोऽक्षर उच्यते इति रूढत्वात् रूढ्योभयत्र प्रसिद्ध्यभावात् । योगेन प्रसिद्धावपि तत्परत पराभिधानेन त्यागोपपत्ते । एतेनाक्षराधिकरणेऽक्षर-समन्वयेऽभिहितेऽदृश्यत्वमपि सिद्ध्यति किमनेनाधिकरणेनेति निरस्तम् । अक्षरात्परत परत्वानुपपत्ते तत्रापरिहारादिति ॥ ननु अव्यक्तात् पुरुष पर इति वाक्यवत् अक्षरात् परत पर इति वाक्यस्यापि भगवदुत्कर्षविरोधित्वेन न्यायैक्यादानुमानिकाधिकरणन्यायेनैतद्गतमिति चेन्न । तत्र विरोधमङ्गीकृत्य तदधीनत्वादर्थवदिति समाधानात् । अत्र पुनस्त्र्यक्षराभिधानेन विषयभेदमङ्गीकृत्य विरोधस्यापाततोऽपि अनवकाशोक्तेरिति ॥ श्रुत्यादिसङ्गतिमिति ॥ अव्यवहितसङ्गतिस्तु अदृश्यत्वादिगुणा विष्णोरुक्ता इति भाष्ये यं पृथिवी न वेद इत्यादावित्यपि विवक्षितत्वेनाविदितत्वरूपादृश्यत्वाक्षेपादिति बोध्यम् ॥ विष्णोरन्यस्य वेति ॥ अत्रादृश्यत्वादिकं पृथिव्यादिदृष्टान्तपूर्वकं जगत्कारणत्वप्रतिपादकवाक्याक्षर-ब्रह्मशब्देशशब्दबलात् किं जडाजडप्रकृतिविरिञ्चरुद्राणाम् उत परविद्याविषयत्वादिहेतुबलात् विष्णोरिति ॥ तदर्थं पूर्वपक्षप्रापकाणां विष्णौ निरवकाशत्वमुत सावकाशत्वमिति । तदर्थमक्षरादिश्रुतीनां पृथिव्यादिवत् कारणत्वस्य च विष्णुविषयत्वे अक्षरात्परत पराभिधानं बाधकं भवत्युत न भवतीति । तदर्थमक्षरात् सम्भवतीत्युक्तमेवाक्षरात् परत इति वाक्यगताक्षरपदेनोच्यते उतान्यदिति । तदर्थं परविद्याविषयत्वादिकं सावकाशमुत निरवकाशमिति ॥ अनात्म्य इति ॥ अनेन भाष्ये आदिशब्दस्यानात्म्यपदोक्तजीवगुणराहित्यं स्वामिराहित्यमित्यादिकमर्थ इति दर्शितम् । अद्रेश्यं चक्षुरादिना । अग्राह्यं मनसा हस्ताभ्यां वा । अवर्णं ब्राह्मणादिवर्णहीनम् । भूतयोनिमित्युक्तयोनित्वं प्रपञ्च्यते ॥ यथेति ॥ कारणत्वं कर्तृत्वमिति विवेक्तुमाद्य । मन्दं प्रति कारणत्वं बुध्यारूढं कर्तुं कारणत्वमात्रे द्वितीय । अनायासेन सृष्ट्युपपादनाय तृतीयो दृष्टान्त । सतो जीवत पुरुषात् देहात् । गुणानामक्षरनिष्ठताप्रतिपादनाय वा सिद्धान्तोपयोगितया वा अथेति पूर्वशेषोक्ति । भाष्ये विच्छिद्य पाठात् । अक्षराद्वा ऐक्यसूचनाय सङ्गतिप्रदर्शनाय वा समग्रोक्तिरिति ध्येयम् । दृष्टान्तोपन्यासकृत्यमग्रे व्यक्तम् । पर प्रतीयते इत्युक्तिलभ्यतात्पर्यमाह ॥ न विष्णोरिति ॥ विष्णोर्न चेत् निर्विषयं वाक्यं स्यादित्यत उक्तम् ॥ तावदिति ॥ विषयान्तरं वक्ष्यतीति भाव ॥ पृथिव्यादिदृष्टान्तेनेति ॥ श्रुतौ ऊर्णनाभिदृष्टान्तस्यादित्वेऽपि तत्र सृजते इत्यत्र कर्तृत्वप्रतीते भाष्यटीकयो पृथिव्यादीत्युक्तम् । प्रथमस्तु सिद्धान्ते उपयोज्यते इति भाव । अतपरमित्यस्यार्थमाह ॥ अतो वाक्यादनन्तरमिति ॥ उपलक्षणमेतत् । कारणत्वमात्रस्य सम्भवतीह विश्र्वमित्यनेनैव सिद्ध्या दृष्टान्तकथनवैय्यर्थ्यात् । बाधकाभावेऽन्तरङ्गस्योपादानस्य त्यागायोगाच्चेत्यपि द्रष्टव्यम् । जडप्रकृतिपक्षे तु तत परत श्रीतत्वात् परो विष्णुरित्युक्तमिति भाव ॥ न चासौ शब्द इति ॥ अविनाशित्वसाम्यादिति भाव । ननु चित्प्रकृतेरक्षरत्वग्रहणेऽपि तत्परत पराभिधानं सम्भवति । हरेरेकस्यैव परत्वेन तत्परत परस्याभावादित्यत आह ॥ तच्चेति ॥ तत्परत पराभिधानमित्यर्थ ॥ तस्यामिति ॥ अक्षरशब्दगृहीतायामिति शेष ॥ सामानाधिकरण्येनेति ॥ परतोऽक्षरादिति विशेषणविशेष्यभावेनेत्यर्थ ॥ स ब्रह्मविद्यामित्यादिब्रह्मशब्दादिति ॥ आदिपदेन ब्रह्मा देवानां प्रथम सम्बभूव । तस्मादेतद् ब्रह्मनाम रूपमन्नं च जायते इति पूर्वोत्तरवाक्यस्थब्रह्मशब्दग्रहणम् ॥ तत्परत पराभिधानादिति ॥ उपलक्षणमेतत् । सम्बभूव जायत इति जायमानत्विलङ्गविरोधाच्चेति ज्ञेयम् ।
अत एव सन्दंशन्यायेन मध्यस्थब्रह्मशब्दस्य सावकाशस्य सन्दिग्धस्य भगवत्परत्वं व्यावर्तयितुं तदुपादानम् । विरिञ्चस्याक्षरत्वे तु तत्परत पराभिधानं परत श्रीतत्वात् परो विष्णुरिति सुघटमिति भाव । ईशशब्दप्राप्तोऽपीति वक्ष्यमाणानुसारेणाह ॥ रुद्रस्य चेति ॥ रुद्रस्याक्षरत्वे तु परतो हिरण्यगर्भात् पर इति पुंविवक्षया योज्यमिति भाव । सूत्रे तत्त्वित्यनुवर्तते । धर्मोक्तेरिति यथाश्रुतं धर्मत्वोक्तेरिति भावप्रधानं च विवक्षितम् । ततश्र्चादृश्यत्वादिगुणको विष्णुरेव अदृश्यत्वादिगुणस्य अथ परा यया तदक्षरमधिगम्यते इति परविद्याविषयत्वरूपधर्मोक्तेस्तस्य च धर्मस्य श्रुतिस्मृतिषु विष्णुधर्मत्वोक्तेरिति सूत्रार्थमाह ॥ अदृश्यत्वादिगुणा इत्यादिना ॥ परविद्यात्वादिति ॥ याथार्थ्यस्य विद्यापदेन लाभेन फलत एव परत्वस्य विवक्षितत्वादिति भाव । यद्यपि तत्कर्म हरितोषं यत् सा विद्या तन्मतिर्यया इति स्मृतौ तन्मते परविद्यात्वं नोक्तम् । तथापि यया तन्मति सा विद्या इत्यसाधारण्योक्त्या परत्वं लभ्यत इति भावेन सैव परविद्या इत्युक्तम् । ननु वेदादीनां हरिवेदकत्वात् कथमपरविद्यात्वमुच्यत इत्यत आह ॥ द्वे विद्येत्यत्र च यदा वेदाद्यन्यविषयतयेति ॥ ब्रह्ममीमांसाशास्त्रानुपकृतं वेदादीत्यर्थ ॥ एतैरिति ॥ तद्य्वुत्पादितन्यायोपकृतैर्वेदादिभिरित्यर्थ । परापरविषयत्वरूपोपाधितो वेदादेरेव द्वैविध्यम् । यथैकमेव कर्माभिसन्धिभेदात् प्रवृत्तं निवृत्तं चोच्यत इति भाव । भाष्ये अङ्गानि शिक्षादीनि षडङ्गानि । उपाङ्गानि गान्धर्वो स्थापत्यं चोपाङ्गानि । शिष्टा कला विद्या प्रत्यङ्गानीति तत्त्वप्रदीपोक्ते ।
तत्त्वसुबोधिनी
ॐ अदृश्यत्वादिगुणको धर्मोक्ते ॐ ॥ अन्तर्यामिणो ब्रह्मत्वे हेतूकृतस्य "यं पृथिवी न वेद’ इत्युक्तस्य अदृश्यत्वस्याक्षेपेण पूर्वपक्षोत्थानात् अनन्तरसङ्गति । तावत्पूर्वपक्षे इत्यत्र तावच्छब्द अग्रे पूर्वपक्षविशदीकरणाभिप्राय । तत्र हेतुमाह ॥ अदृश्यत्वादीति ॥ अस्त्वक्षरशब्दश्रवणं तत किमित्यत आह ॥ तस्य चेति ॥ अक्षरशब्दस्य विष्णाववकाशाभावादित्यर्थ । "निर्विकारोऽक्षर शुद्ध’ इत्यादौ विष्णौ अक्षरशब्दस्य श्रवणात् कथं तस्य तत्रावकाशाभाव इत्याशङ्क्य अस्तु तत्राक्षरशब्द विष्णो तथापि प्रकृते बाधकात् नास्य तत्रावकाश इत्याह । यतोऽस्मादित्यादिना ॥ तावदवतारयतीति ॥ सूत्रावतारिकामात्रं क्रियते व्याख्यां तु अग्रे करिष्यतीति भाव । पृथिव्यादिदृष्टान्तेनेति । श्रुतावूर्णनाभि-दृष्टान्तस्य प्राथम्येऽपि तत्र सृजत इत्यनेन कर्तृत्वप्रतीते भाष्ये पृथिव्यादीत्युक्तम् । अत एव स्वयमुपादा-नतयेत्युक्तम् ॥ न च कारणत्वमात्र इति ॥ तथा च विष्णुग्रहणे नेयमनुपपत्तिरिति भाव । इत्यतो वाक्यादिति । उपलक्षणं चैतत् कारणत्वमात्रस्य सम्भवतीह विश्र्वमित्यनेनैव सिद्ध्या दृष्टान्तकथनवैय्यर्थ्यात् । बाधकाभावेऽन्तरङ्गस्योपादानत्वस्य त्यागायोगाच्चेत्यपि द्रष्टव्यम् ॥ तस्यामिति ॥ नन्वेतत्प्रकृतावपि कथमुपपन्नमत आह ॥ सामानाधिकरण्येनेति । चित्प्रकृते उत्तमादुत्तमस्या-भावेनाक्षरात्परत इति पञ्चम्यो वैय्यधिकरण्यायोगादिति भाव । नन्वुपादानतया जगत्कारणत्ववचनं चित्प्रकृतौ कथं घटत इत्यत्राह ॥ विकारित्वेनेति ॥ तत्परत इति ॥ उपलक्षणं चैतत् । पूर्वं ब्रह्मा देवानां प्रथम सम्बभूवेत्युत्तरत्र तस्मादेतद् ब्रह्मनामरूपमन्नं च जायत इति जायमानत्विलङ्गेन चतुर्मुखपरेण ब्रह्मशब्देन च सह दृष्टस्य स ब्रह्मविद्यामिति ब्रह्मशब्दस्यान्यपरत्वायोगाच्चेत्यपि द्रष्टव्यम् । ईशशब्दप्राप्तोऽपि न रुद्र इति वक्ष्यमाणानुरोधात् आह ॥ रुद्रस्य चेति ॥ परविद्याविषयत्व-प्रतिपादकवाक्यस्य भाष्ये अनुदाहृतत्वात्तदुदाहरति ॥ अथ परेति ॥ अस्तु परविषयत्वोक्ति तत किमत आह ॥ परेति ॥ ययेति ॥ तृतीयान्तपदं वेदादिव्यतिरिक्तपरमिति भ्रमं वारयितुं श्रुत्यर्थमाह । यदा वेदादीत्यादिना ब्रह्ममीमांसाशास्त्रव्युत्पादितन्यायानुपकृतवेदादीत्यर्थ ॥ एतैरिति ॥ तद्य्वुत्पादितन्यायोपकृतै वेदादिभिरित्यर्थ ।
वाक्यार्थमञ्जरी
अथेति ॥ अथापरविद्यानिरूपणानन्तरं परापरविद्या निरूप्यत इति शेष । यया विद्यया तत्प्रसिद्ध-मक्षरमक्षरशब्दाभिधेयं ब्रह्म अधि अधिकत्वेन गम्यते अवगम्यते सा परविद्येत्यर्थ । प्रसिद्धाक्षरव्यावृत्तये तत्स्वरूपं निरूपयति ॥ यत्तदद्रेश्यमित्यादिना ॥ यत्पूर्वोक्तमक्षरमद्रेश्यमदृश्यम् अग्राह्यं केनापि गृहीतुम-शक्यम् । अगोत्रं भारद्वाजादिगोत्ररहितम् । अवर्णं प्राकृतवर्णरहितं ब्राह्मणादिवर्णरहितं वा । अचक्षुश्रोत्रं चक्षुश्रोत्रोपलक्षितप्राकृतज्ञानेन्द्रियरहितम् । अपाणिपादं पाणिपादोपलक्षितप्राकृतकर्मेन्द्रियरहितम् । यद्वाऽचक्षुश्रोत्रं चक्षुश्रोत्रोपलक्षितसमस्तेन्द्रियरहितम् अपाणिपादं पाणिपादोपलक्षितप्राकृतदेहरहितम् । नित्यस्वरूपतो देहतश्र्चाविनाशि । विभुं समर्थं सर्वगतं सर्वत्र व्याप्तं सुसूक्ष्मं जीवादप्यतिशयेन सूक्ष्मम् अव्ययं ह्रासरहितम् । नन्वेवमक्षरस्यादृश्यत्वेऽधिगम्यत इति दृश्यत्वोक्ति कथमित्यत आह ॥ यद्भूत-योनिमिति । भूतयोनिं जगत्कारणं यदक्षरं तद्धीरा पण्डिता परिपश्यन्ति । स्वयोग्यतानुसारेण जानन्ति ॥ अनेनाधीराणामदृश्यमित्युक्तं भवति । लोके पितुरन्यस्यैव मारकत्वदर्शनान्न तथेहान्यस्य संहर्तृत्वं मन्तव्यमिति भावेन स्रष्टृत्वं संहर्तृत्वं च सदृष्टान्तमुपपादयति ॥ यथेति ॥ स दृष्टान्तो यथा ऊर्णनाभिस्तन्तुवायक स्वभुक्तमन्नादिकं तन्त्वाद्याकारेण सृजते पुनर्गृह्णते संहरति च तथाऽक्षरशब्दोक्तो भगवानपि पूर्वकल्पे भुक्तं जगत्सृजते संहरति च । किमनुसृत्य सृजत इत्यतो दृष्टान्तेनाह ॥ यथेति ॥ यथा पृथिवी शाल्यादिनानाबीजान्यपेक्ष्य तत्तदङ्कुरान् जनयति तथा चेतनानां विविधकर्माण्यपेक्ष्य तत्सृजतीत्युक्तं भवति । कुलालवन्नाक्षरस्य क्लेशेन स्रष्टृत्वम् इति सदृष्टान्तमाह ॥ यथेति ॥ सतश्र्चेतनाधिष्ठितात्पुरुषदेहाच्छिरसि विद्यमाना केशा देहे विद्यमानानि लोमानि अनायासेन भवन्ति । तथाऽक्षरादिहास्वतन्त्रवर्गे विश्र्वं सर्वमनायासेन भवत्युत्पद्यत इत्यर्थ । प्रकृत्यादीनामप्यदृश्यत्वं वक्ष्यामीति तावच्छब्द ॥ दिव्य इति ॥ दिव्योऽलौकिक । अमूर्त अपरिछिन्नपरिमाण पुरुष पूर्णषगुण बाह्याभ्यन्तर बहिरन्तश्र्च नियामकतया स्थित अज उत्पत्तिरहित ॥ अप्राणो ह्यमना इति ॥ षोडशकलारहित शुभ्र शुद्ध अक्षराज्जडप्रकृते पराच्छ्रीतत्वात्पर उत्तम इत्यर्थ ॥ ॐ अदृश्यत्वादिगुणको धर्मोक्ते ॐ ॥ अदृश्यत्वम् आदि येषाम् अग्राह्यत्वादीनां तेऽदृश्यत्वादय अदृश्यत्वादयो गुणा यस्यासौ अदृश्यत्वादिगुण स एवादृश्यत्वादिगुणक स च विष्णुरेव ॥ अथ परेति ऋगादिपरविद्याविषयत्वरूपतद्धर्माभिधानादित्यर्थ । वाक्यस्य यत्तदद्रेश्यमित्यादे ॥ न चेति ॥ तथा च विष्णुग्रहणोपपत्तेरिति भाव । इत्यत इत्यनुवादस्तस्मात्परत अदृश्यत्वादिगुणकाक्षरात्परत एवमग्रेऽपि ॥ सामानाधिकरण्येनेति ॥ परत ब्रह्माद्युत्तमादक्षरादित्यक्षरपरशब्दयोश्र्चित्प्रकृतिरूपैकार्थ-प्रतिपादकत्वेनेत्यर्थ ॥ स ब्रह्मेति ॥ स ब्रह्मविद्यामथर्वाय ज्येष्ठपुत्राय प्राहेत्यत्रेत्यर्थ ॥ कर्तारमिति ॥ कर्तारमीशं पुरुषं ब्रह्मयोनिमित्यत्रेत्यर्थ । श्रुत्यादौ परविद्याविषयत्वपरशब्दाभावात्कथं तदुदाहरण-मित्यतस्तदुपपादयति ॥ तमेवेत्यादिना ॥ भाष्येऽङ्गानि शिक्षादीनि ष उपाङ्गानि आयुर्वेदादीनि पञ्च शिष्टा कला विद्या प्रत्यङ्गानीति तत्त्वप्रदीपानुसारेण ध्येयम् ॥ अन्येति ॥ कर्मादीत्यर्थ । तदुक्तमाथर्वणभाष्ये । एतदर्थश्र्च ब्रह्ममीमांसाशास्त्रव्युत्पादितन्यायानुपकृतवेदादयो विष्णोरवाचकास्तदुप-कृतास्तद्वाचका भवन्तीति सुधानुसारेण ध्येय ॥
विवृति
अत्रान्तर्यामिणो ब्रह्मत्वे हेतूकृतस्य यं पृथिवी न वेदेत्युक्तस्यादृश्यत्वस्याक्षेपेण पूर्वपक्षोत्थानादनन्तर-सङ्गति । तावत्पूर्वपक्ष इत्यत्र तावच्छब्द अग्रे पूर्वपक्षविशदीकरणाभिप्राय । तत्रहेतुमाह ॥ अदृश्य-त्वादीति ॥ अस्त्वक्षरशब्दश्रवणं, तत किमत्राह । तस्य चेति ॥ अक्षरशब्दस्य विष्णाववकाशा-भावादित्यर्थ । ननु निर्विकारोऽक्षर शुद्ध इत्यादौ विष्णावक्षरशब्दस्य श्रवणात् कथं तस्य तत्रावकाशाभाव इत्याशङ्क्य अस्तुवाऽक्षरशब्दो विष्णौ तथापि प्रकृते बाधकान्नास्य तत्रावकाशशा इत्याह ॥ यतोऽस्मादित्यादिना ॥ तावदवतारयतीति ॥ सूत्रावतारिकामात्रं क्रियते व्याख्यां त्वग्रे करिष्यतीति भाव । पृथिव्यादिदृष्टान्तेनेति ॥ श्रुतौ ऊर्णनाभिदृष्टान्तस्य प्राथम्येऽपि तत्र सृजत इति कर्तृत्वप्रतीते भाष्ये पृथिव्यादीत्युक्तम् । न चायं कारणत्वमात्र इति ॥ तथा च विष्णुग्रहणेनेयमुपपत्तिरिति भाव । इत्यतो वाक्यादिति ॥ उपलक्षणं चैतत् । कारणत्वमात्रस्यापि सम्भवतीह विश्र्वमित्यनेनैव सिध्या दृष्टान्तकथनवैयर्थ्यात् । बाधकाभावेऽन्तरङ्गस्योपादानत्वस्य त्यागायोगाच्चेत्यपि द्रष्टव्यम् । तस्यामिति ॥ नन्वेत्प्रकृतावपि कथमुपपन्नमत आह ॥ सामानाधिकरण्येनेति ॥ चित्प्रकृतेरुत्तमा-दुत्तमस्याभावेनाक्षरात्पर इति पञ्चम्योर्वैयधिकरण्यायोगादिति भाव । ननु उपादानतया जगत्कारणत्ववचनं चित्प्रकृतौ कथं घटत इत्यत्राह ॥ विकारित्वेनेति ॥ तत्परत इति ॥ उपलक्षणं चैतत् । पूर्वत्र ब्रह्मा देवानां प्रथम सम्बभूवेत्युत्तरत्र तस्मादेतद् ब्रह्मनामरूपमन्नं च जायत इति जायमानत्विलङ्गेन चतुर्मुखपरेण ब्रह्मशब्देन च सह दृष्टस्य ब्रह्मविद्यामिति ब्रह्मशब्दस्यान्यपरत्वायोगाच्चेत्यपि द्रष्टव्यम् । ईशशब्दप्राप्तोऽपि न रुद्र इति वक्ष्यमाणानुरोधादाह । रुद्रस्येति ॥ परविद्याविषयत्वप्रतिपादके भाष्ये करणगतवाक्यस्यानुदाहृतत्वात्तदुदाहरति ॥ अथ परेति ॥ अस्तु परविद्याविषयत्वोक्ति तत किमित्यत आह ॥ परेति ॥ ययेति तृतीयान्तपदं वेदादिव्यतिरिक्तपरमिति भ्रमं वारयितुं श्रुत्यर्थमाह ॥ यदा वेदादीत्यादिना ॥ ब्रह्ममीमांसाशास्त्रव्युत्पादितन्यायानुपकृतं वेदादीत्यर्थ ॥ एतैरिति ॥ तद्य्वुत्पादितन्यायोपकृतैर्वेदादिभिरित्यर्थ ॥