ब्रह्मसूत्रानुव्याख्यानं
।। श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ।।
श्रीमद् आनन्दतीर्थभगवत्पादाचार्यविरचितं
ब्रह्मसूत्रानुव्याख्यानं
नारायणं निखिलपूर्णगुणैकदेहं
निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः ।
अस्योद्भवादिदमशेषविशेषतोऽपि
वन्द्यं सदा प्रियतमं मम सन्नमामि ।।
श्री जयतीर्थयतिकृता श्रीमन्न्यायसुधा
टिप्पणीपञ्चकोपेता
।। श्रीगुरुभ्यो नमः ।। ।। हरिः ॐ ।।
सुधा
श्रियः पत्ये नित्यागणितगुणमाणिक्यविशद-
प्रभाजालोल्लासोपहतसकलावद्यतमसे ।
जगज्जन्मस्थेमप्रलयरचनाशीलवपुषे
नमोऽशेषाम्नायस्मृतिहृदयदीप्ताय हरये ।। १ ।।
वाक्यार्थचन्द्रिका
नित्यागण्यबलद्युतिप्रमितिसत्सौख्याग्य्रवीर्यातुलौ-
दार्यप्राभवधीरतामुखगुणव्रातात्मदिव्याकृतिम् ।
सन्तापादिसमस्तदोषविधुरं वेदैकवेद्यं जग-
ज्जन्मादिप्रदमिन्दिरेश(ममलं)मनिशं नारायणं नौम्यहम् ।। १ ।।
वेदाम्भोधिसमुद्धृतातिविलसत्सूत्रामृताम्भो-
लसद्धारावर्षणतुष्टसद्धृदवनिज्ञानाङ्कुराधायकम् ।
संसारातपनाशनं सुरमनःसच्चातकानन्ददं
वेदव्यासविचित्रमेघमनिशं मच्छ्रेयसे संश्रये ।। २ ।।
यद्वाग्विस्तररश्मिभिर्जगदिदं सन्मार्गमालम्बितं
सत्सिद्धान्तवरारविन्दनिवहा विस्तारमासादिताः ।
दुःसिद्धान्तमहान्धकारनिकरा देशान्तमुल्लङ्घिताः
सोऽयं मध्वदिवाकरो भवतु सज्ज्ञानप्रकाशाय मे ।।३।।
सत्सूत्रान्वितमध्वभाष्यविलसद्गाण्डीवसंयोजितैः
सन्मानेषुभिरर्दयन्कुसमयप्रत्यर्थिदुःस्यन्दनान् ।
श्रीकृष्णेरितवेदवाजिनियतश्रीमध्वशास्त्रो-
ल्लसद्दिव्यस्यन्दनसंस्थितो जयमुनीशाख्यार्जुनः स्यान्मुदे ।। ४ ।।
सच्छास्त्रामलभावबोधकिरणैः संवर्धयन्मध्व-
सत्सिद्धान्ताब्धिमनन्तशिष्यकुमुदव्रातं विकासं नयन् ।।
उद्भूतो रघुवर्यतीर्थजलधेस्तापत्रयं त्रासयन् यस्तं
नौमि रघूत्तमाख्यशशिनं श्रीविष्णुपादाश्रयम् ।। ५ ।।
श्रीमद्रामगिरीन्द्रपादनिरतं विद्रावयन्तं दिशो
दुर्वादीन्द्रमहामृगान्निगमसद्य्वाख्यालसन्नादतः ।
दुःशास्त्रेभकुतर्ककुम्भदलनप्रौढात्मविद्यानखं
वेदव्यासमृगेन्द्रराजमधिकं वन्देऽनिशं मद्गुरुम् ।। ६ ।।
वेदान्ताब्धिममन्दबोधगिरिणा सद्ब्रह्मसूत्राहिना
दुस्तर्केतरदानवामरगणैः सम्मथ्य यो लब्धवान् ।
सन्न्यायामृतचन्द्रिके युधि तथा तर्केऽकरोत्ताण्डवं
सोऽयं व्यासमुनीन्द्रपूज्यचरणो नित्यं भवेन्मे मुदे ।। ७ ।।
अनुव्याख्याब्धियुङ्न्यायसुधाऽगाधसुरापगाम् ।
गुरूणां दयया शुद्ध्यै धियः सेवितुमुत्सहे ।। ८ ।।
टीकाकारा ग्रन्थादौ मङ्गलमाचरन्ति ।। श्रियः पत्य इति ।। नारायणमिति प्रथमपद्यव्याख्यान- रूपेऽत्र पद्ये नारायणपदस्थाने हरिपदप्रक्षेपेण ‘‘प्रादुर्भूत’’ इति श्लोकोक्तहरेरेव नारायणत्वादुत्तर-श्लोकोक्तं तमेवेति समर्थितं भवति । अत्र श्रियः पत्य इत्युक्तया नारा लक्ष्मीः तत्पतित्वेन तदयन-मित्यभिप्रायव्यञ्जनेन आवश्यकसकलवाङ्मनसदेवतानमनाभावप्रयुक्तन्यूनताशङ्काऽपहस्तिता भवति । पूर्वविशेषणान्तर्गतनिखिलपूर्णगुणत्वस्य तदुत्तरनिर्दोषत्वस्य च प्रयोज्यप्रयोजकभावोऽप्यस्तीत्यभिप्रेत्य गुणावद्ययोर्माणिक्यतमोभ्यामुपमानम् । तदुपपादनायैव प्रभाजालोल्लासेति । गुणनिखिलत्वोक्ति-लब्धोपहन्यमानदोषसाकल्यकथनं सकलेति । गुणोपहतत्वयोर्नित्यत्वविशेषणेन तयोः कादाचित्कत्व-शङ्कां व्यवच्छिनत्ति । अस्येति परामर्शविषयमादिपदसंग्राह्यं च दर्शयन्नेव प्रयोजनाभावान्नोद्भवादिदानं युक्तमित्याशङ्कां च परिहरति ।। जगदिति ।। अत्र स्थेमशब्देनान्नदानादिनेव ज्ञानदानेनापि पालनस्याभिप्रेतत्वात्प्रलयशब्देन चाज्ञानबन्धमोक्षाणां रचनाशब्देन तन्त्रेण नियमनस्यापि ग्रहण-सम्भवादुत्तरत्राष्टकसङ्ग्राहकत्वेन व्याख्यास्यमानादिपदसङ्ग्राह्यकथनपरत्वं नास्य युक्तमिति न शङ्कनीयम् । (अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिराः । स्थास्फाय्योष्ठिलोपः । स्थिरं निश्चलम् । स्फिरं प्रभूतम् । तिष्ठतेर्बुक् ह्रस्वत्वं च । स्थविरः । खद स्थैर्ये हिंसायां च । खदिरः । खदिरी शाखभेदे स्त्री ना चन्द्रे दन्तधावने इति मेदिनी । बाहुलकाच्छङो बुक्ह्रस्वश्च । शिबिरम् । शेरतेऽस्मिन् राजबलानि । निवेशः शिबिरं शण्डमित्यमरः । अजगतिक्षेपणयोः अजेर्वीभावाभावः । अजिरमङ्गणम् ओर्ल्युटि अनादेशस्य बाहुलकाण्णत्वमित्येके । अन्ये तु विश्वकोशाद्युपष्टम्भेन दन्त्यमेवेच्छन्ति । इह दशपादीवृत्तौ नञ् पूर्वस्य जीर्यतेर्ऋवर्णलोपो निपात्यत इत्युक्तं तदपि ग्राह्यम् । ‘‘आशु दृतमजिरं प्रत्नमीड्यं’’ इत्यादौ न जीर्यतीत्यजिर इत्यर्थस्यानुगुणत्वात् । अजिरं प्राङ्गणे काये विषये दर्दुरेऽनिले । शश प्लुतगतौ । उपधाया इत्वम् । शिशिरं स्यादृतोर्भेदे तुषारे शीतलेऽन्यवत् । शिशिरो ना हिमे न स्त्री ऋतुभेदे जडे त्रिषु । श्रथ मोचने । उपधाया इत्वं रेफलोपः प्रत्ययरेफस्य लत्वम् । शिथिलम् ।) अत्राजिरशिशिरशिथिलस्थिरेत्युणादिसूत्रेण (उणादीत्यादिपदेन प्यञ्अञ्त्वतलां समावेशो बोध्यः) स्थाधातोः किरच्प्रत्यये आतो लोप इटि चेति धात्वाकारलोपे च निष्पन्नस्य दृढार्थस्थिरशब्दस्य दृढादित्वेन वर्णदृढादिभ्य (वर्णदृढादिभ्यः ष्यञ्च । चादिमनिच् । शौक्ल्यं शुक्लिमा । दार्ढ्यम् । पृथुमृदुभृशकृशदृढपरिवृढानामेव रत्वम् । द्रढिमा षो ङीषर्थः । औचिती । यथाकामी । ब्राह्मणा-देराकृतिगणत्वाद्गुणवचनब्राह्मणादिभ्यः ष्यञ् कर्मणि चेति सूत्रेण ष्यञ् । हलस्तद्धितस्येति यलोपः । चाद्भावे । जडस्य कर्म भावो वा जाड्यम् । मौढ्यम् । ब्राह्मण्यम् । अर्हतो नुम् चेति नुमर्थः पाठः । आर्हन्त्यम् । आर्हन्ती । एकभाव । अन्यभाव । त्रिभाव । एषां पाठः स्वार्थे विधानार्थः । आन्यभावम् ।) इतीमनिचि (पृथ्वादिभ्य इमनिज्वा । वावचनमणादिसमावेशार्थम् । रऋतो हलादेर्लघोः । इष्ठेमेयस्सु । टेः । टेर्लोपः स्यादिष्ठे मेयस्सु । पृथोर्भावः प्रथिमा । पार्थवम् । म्रदिमा । मार्दवम् ।) प्रियस्थिरेत्यादिना (प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रप्द्राघिवृन्दाः । प्रियादीनां क्रमात्प्रादयः स्युरिष्ठादिषु । प्रेष्ठः स्थेष्ठः स्फेष्ठः वरिष्ठः बंहिष्ठः गरिष्ठः वर्षिष्ठः त्रपिष्ठः द्राघिष्ठः । वृन्दिष्ठः । एवमीयम् । प्रियोरुबहुलगुरुदीर्घाणां पृथ्वादित्वात्प्रेमेत्यादि ।) स्थादेशे निष्पन्नस्थेमशब्दस्य दार्ढ्ये प्रसिद्धावपि ‘अखिलभुवनजन्मस्थेमभङ्गादिलील’ इति रामानुजभाष्यनान्दीश्लोके स्थित्यर्थत्वेन तद्य्वाख्यानरूपश्रुतप्रकाशिकायामन्यत्र चाभियुक्तप्रयोगाणां बहुलमुपलम्भात्तिष्ठतीति स्थिरमिति व्युत्पत्तेः स्थितिमत्परत्वेऽप्युपपत्तेश्च स्थेमशब्दस्य स्थितावत्र प्रयोग इति द्रष्टव्यम् । सुवाक्यैरित्यत्र वाक्यानां शोभनत्वमात्ररूपसुष्ठुत्वस्य प्रकृतानुपयोगादपौरुषेयत्वेन तन्मूलकाप्तवाक्यत्वेन वा शोभनत्व-मुच्यत इत्यभिप्रेत्याप्यतममित्यत्र तमबर्थं चाह ।। अशेषेति ।। (द्वन्द्वे घि । द्वन्द्वे घिसंज्ञं पूर्वं स्यात् । हरिश्च हरश्च हरिहरौ । अनेकप्राप्तावेकत्र नियमोऽनियमः शेषे । हरिगुरुहराः । हरिहरगुरवः ।) न च द्वन्द्वे घीत्यस्य पटुगुप्तावित्यत्राजाद्यन्तमित्यस्य (अजाद्यन्तम् । इदं द्वन्द्वे पूर्वं स्यात् । ईशकृष्णौ । बहुषु अनियमः । अश्वरथेन्द्राः । इन्द्राश्वरथाः । घ्यन्तादजाद्यदन्तं विप्रतिषेधेन । इन्द्राग्नी ।) चेशकृष्णौ इत्यत्र सावकाशत्वेनेन्द्राग्नी इत्यत्रेवाम्नायस्मृतीत्यत्राप्युभयप्रसङ्गे विप्रतिषेधे परं कार्यमित्यजाद्यन्तत्वादाम्नाय शब्दस्य पूर्वनिपातसम्भवेऽप्यजाद्यन्तमित्यस्य पूर्वोक्तेऽल्पाच्तरमित्यस्य (अल्पाच्तरम् । शिव-केशवौ ।) प्लक्षन्यग्रोधावित्यत्र सावकाशत्वेन वागीशावित्यत्रेवात्राप्युभयप्रसङ्गे पूर्वन्यायेनाल्पाच्तरत्वा-त्स्मृतिशब्दस्यैव पूर्वनिपातः स्यादिति वाच्यम् । लक्षणहेत्वोः क्रियायाः समुद्राभ्राद्ध इत्यादिषु यथायथं व्यभिचारं कुर्वता सूत्रकृतैतत्प्रकरणस्यानित्यत्वज्ञापनादल्पाच्तरमित्यस्यानित्यत्वाच्छकुनिसूत्रयोरिति साध्विति वदता टीकाकृता तदनित्यत्वस्योक्तत्वाच्च । अल्पाच्तरमिति लक्षणस्य व्यभिचारं कुर्वाणेनेति युक्तिपादीयटीकाकारीयोक्तिश्च तन्नित्यत्वाभ्युपगमवादेन प्रवृत्तेति न विरोध इति द्रष्टव्यम् ।। १ ।।
परिमळ
पूर्णागण्यगुणोदारमूर्तये पुण्यकीर्तये ।
नमः श्रीपतये भक्तदत्तस्वानन्दमूर्तये ।। १ ।।
पूर्णागण्यगुणोदारनित्यसुन्दरमूर्तिने ।
श्रीब्रह्मवीन्द्रपूर्वेड्यकीर्तिने ब्रह्मणे नमः ।। २ ।।
विश्वं यस्य वशे सर्वमनिशं शङ्करादिकम् ।
तस्य वायोस्तृतीयांशमाश्रये शमवाप्तये ।। ३ ।।
सत्पद्मबन्धवो यस्य गावो विश्वतमोनुदः ।
स स्यात्तत्त्वप्रकाशाय जयतीर्थरविर्मम ।। ४ ।।
पदवाक्यप्रमाणज्ञो दुर्मतध्वान्तभास्करः ।
व्यासतीर्थमुनीन्द्रो मे भूयाज्ज्ञानसमृद्धये ।। ५ ।।
अस्मद्देशिकपादानां प्रणम्य चरणाम्बुजम् ।
श्रीमन्न्यायसुधावाक्यव्याख्यां कुर्यां यथामति ।। ६ ।।
आद्यपद्यं विवृण्वानो ग्रन्थादौ नम्यत्वप्रयोजकविशिष्टत्वेष्टत्वाधिकृतत्वयुक्तदेवतानतिरूपं मङ्गल-माचरति ।। श्रिय इति ।। मूले अशेषविशेषतोऽपीत्यनेन सङ्कलय्य श्रीब्रह्माद्युत्तमत्वमुक्तम् । तत्र सकलवाङ्मनसदेवतायाः देव्याः ग्रन्थारम्भेऽवश्यं वन्द्यत्वद्योतनाय श्रियः पत्य इति विशिष्योक्तिः । तदपि ईश्वरोपसर्जनतयेति ज्ञापनाय श्रिय इति पृथगुक्तिः । निखिलेति निर्दोषमिति च विशेषणद्वयस्य हेतुहेतुमद्भावेन योजनाद्योतनाय नित्येत्याद्युक्तम् । ‘प्रच्युतोऽशेषदोषैः सदा पूर्तित’ इत्युक्तेः सर्वस्वातन्त्र्यसर्वज्ञानसर्वशक्तिसर्वैश्वर्यादिगुणसत्त्वे पारतन्त्र्यादिदोषाणामयोगात् । एतच्च ब्रह्मपदेन गुणपूर्तिवन्निर्दोषस्यापि लाभाय । तेन नारायणशब्दस्य ब्रह्मशब्दसमानार्थत्वसूचनेन ब्रह्मतन्त्रे नारायणनतिः मूले न युक्तेति शङ्का परास्ता । यद्वा लोके गुणदोषयोरविनाभावदृष्टेरिहापि गुणित्वे दोषित्वापत्तिरित्यतः मितगुणित्वे दोषित्वमत्रामितगुणित्वान्न दोषितेति सूचनायैवमुक्तिः । देहस्य ज्ञानादिगुणात्मकत्वे लोके ज्ञानादेरनित्यत्वाद्देहोऽपि तथा स्यादिति शङ्कानिरासाय नित्येति गुणविशेषणम् । तेन मूले सदापदस्य निखिलेत्यत्रापि अन्वयः सूचितः । निर्दोषमित्यत्र दोषपदं अशेषदोषपरमिति ज्ञापनाय सकलावद्येत्युक्तिः । अस्योद्भवादिदमित्यत्रास्येतिपदं प्रमितसर्वपरं सदपि नेश्वरपरमिति ज्ञापनाय जगज्जन्मेत्युक्तम् । अनेनास्य समस्तस्योद्भवादिदमित्यन्वयः सूचितः । स्थेमा स्थैर्यं रक्षेत्यर्थः । उक्तं हि श्रुतप्रकाशेऽपि । ‘अखिलभुवनजन्मस्थेमभङ्गादिलील’ इति भाष्य-व्याख्यानावसरे स्थेमा स्थितिरिति । स्थिरशब्दादिमनिच्प्रत्यये प्रियस्थिरेत्यादिसूत्रेण स्थिरशब्दस्य स्थादेशे आद्गुण इति गुणे च स्थेमेति रूपम् । यद्यपि वामनवृत्यादौ मुग्धप्रौढस्थिरशब्दानां पृथ्वादिष्वपाठात्पृथ्वादिभ्य इमनिज्वेत्युक्तेमनिजप्राप्तेरिमनिजन्तप्रयोगोऽसाधुरिति उक्तम् । तथापि नैषधद्वादशसर्गस्थस्य ‘यत्कस्यामपि भानुमान्न ककुभि स्थेमानमालम्बत’ इत्यस्य व्याख्याने ‘‘वर्णदृढादिभ्यः ष्यञ् च’’ सूत्रे चकारेण इमनिचः समुच्चितत्वात् स्थिरशब्दस्य दृढादिषु पाठादि-मनिजित्युक्तत्वात्साधुरेवायं ध्येयः । यद्वा तिष्ठतेरौणादिकेमनिचि गुणे रूपं स्थेमेति । स्थितिरित्यर्थः । उद्भवादिदमित्यनेन सृष्ट्याद्यष्टकग्रहणेऽपि वियदधिकरणन्यायेन ईशादन्यसर्वसम्बन्धित्वाज्जन्मादि-त्रयस्यैवात्रोक्तिः । नियतिरप्युपलक्ष्या । ईश्वरस्य जगज्जन्मादिना फलं नास्ति चेदस्योद्भवादिद-मित्ययुक्तम् । प्रेक्षावतो निष्फले प्रवृत्त्ययोगात् । अस्ति चेन्निखिलपूर्णगुणेत्ययुक्तमित्यतः शीलेति । जन्मादिरचनास्वभावेत्यर्थः । फलाभावेऽपि स्वभावोऽयं सृष्ट्यादिव्यापारः । यथाचैतत्तथा नप्रयोजनाधि करणे वक्ष्याम इति भावः । अनेन सदाऽस्योद्भवादिदमित्यप्यन्वयः सूचितः । मूले देहमित्युक्तिर्न केवलं ज्ञानादिगुणसत्त्वाद्युपपत्त्यर्थं किन्त्वस्योद्भवादिदमित्युक्तस्रष्टृत्वाद्युपपत्यर्थं चेति सूचनाय वपुष इत्युक्तिः । अन्यथा पत्युरसामञ्जस्यादित्यधिकरणे सम्बन्धानुपपत्तिश्चेति सूत्रेऽशरीरस्य जगता कर्तृकार्यभावरूपसम्बन्धानुपपत्तेरिति वक्ष्यमाणदोषापत्तेरिति भावः । सुवाक्यैरित्येतद्वेदवेदानुसारि-सर्वपौरुषेयापौरुषेयपरमिति भावेनोक्तम् । अशेषाम्नायस्मृतीति । आपाततो नोक्तगुणविशिष्टो हरिः प्रतीयत इत्यत उक्तम् । हृदयेति । तात्पर्यप्रकाशितायेत्यर्थः । सदा प्रियतममित्यस्यार्थः हरय इति । नित्येत्यादिविशेषणद्वयेन विशिष्टत्वम् अशेषेत्यधिकृतत्वम् हरत्यशेषक्लेशानिति हरय इत्यनेनेष्टत्वमुक्तं ध्येयम् । ‘हरिं हरन्तमनुयन्ति देवा’ इत्यादेः । यद्वा मूले तमेवेति श्लोके व्यासगुरोर्नारायणैक्यमुच्यते । ‘प्रादुर्भूतो हरिर्व्यास’ इति श्लोके च हर्यैक्यम् तत्कथमित्यतस्तावेक एवेति ज्ञापनाय मूलोक्त-नारायणविशेषणान्येवोक्तवा हरय इति विशेष्यमुक्तम् । ‘वेदाक्षराणि यावन्ति पठितानि द्विजातिभिः । तावन्ति हरिनामानी’ति स्मृतिसूचनाय हरिपदप्रयोग इत्येके । अनेन हरेर्नारायणानन्यत्वप्रतीत्या प्रादुर्भूतो हरिर्व्यास इति व्यासस्य हर्यवतारत्वोक्तेर्नारायणानवतारत्वात्तमेवेति तदभेदोक्तिरयुक्तेति शङ्काऽनवकाश इति । तमेव शास्त्रप्रभवमित्युपपत्त्यर्थमित्यन्ये । हरेर्नारायणविशेषणविशिष्टत्वोक्तया हरिविशेषणानां कृत्यं मूलविशेषणकृत्यवद्बोध्यम् । निखिलेत्यादिविशेषणत्रये ‘वेदादिरेव मानमिति ज्ञापनाय मूलक्रमोल्लङ्घने-नाशेषाम्नायेत्यस्यान्ते निवेशः । नित्येति विशेषणेन पूर्वाध्यायद्वयस्य अशेषेत्यादिविशेषणविशेष्याभ्या-मुत्तरद्वयस्यार्थोक्तिः । ‘नासिकास्तनयोर्ध्माधेटो’रिति निर्देशादल्पाच्तरमित्यस्य प्रायिकत्वाद्वाऽभ्यर्हित-त्वाद्वा आम्नायशब्दस्य पूर्वनिपातः ।। १ ।।
यादुपत्यम्
सुखमुखगुणबिम्बः साधुमार्गावलम्बः सुमतिजलजमोदो दूषितान्यप्रमोदः ।
भुवनविततमोहध्वान्तविध्वंसदेहो दिशतु दृशमभीष्टां व्याससूर्यः स्वनिष्ठाम् ।। १ ।।
पूर्णप्रज्ञजयार्यपूर्वकगुरूनानम्य विद्याप्रदान् वेदेशाभिधयोगिनोऽपि कृपया
तेषां सुधाटिप्पणीम् ।
बालानां तनुते मितां यदुपतिर्बोधाय धीशुद्धये स्वस्यापि प्रविचिन्त्य
सद्गुरुमुखात्सम्यक् श्रुतार्थान्मुहुः ।। २ ।।
न पाण्डित्याभिमानेन नापि मत्सरतः क्वचित् ।
यत्नोऽयं किन्तु धीवाचोविशुद्ध्यै मम नान्यथा ।। ३ ।।
अथ परमकारुणिको जयतीर्थश्रीचरणो ‘ग्रन्थोऽयमपि बह्वर्थो भाष्यं चात्यर्थविस्तरम् । बहुज्ञा एव जानन्ति विशेषेणार्थमेतयो’रित्याचार्योक्तौ लोकानां विश्वासमुपजनयन्ननुव्याख्यानव्याख्यामारभमाणो अभीष्टसमाप्त्यादिप्रयोजनकं श्रीपतिस्तुतिप्रणामरूपं मङ्गलं कृत्वा शिष्यशिक्षायै ग्रन्थादौ तदुपनिबध्नाति ।। श्रियः पत्य इति ।। अत्राद्ये पद्ये अनुव्याख्यानाद्यपद्यगतविशेषणचतुष्टयविवरणाय नित्यागणितेत्यादि विशेषणानि । तेन तेषां विशेषणानां यद्वक्ष्यमाणं प्रयोजनं तदेतेष्वपि बोध्यम् । गुणमाणिक्यविशद- प्रभाजालोल्लासोपहतसकलावद्यतमस इत्यनेन निखिलपूर्णगुणैकदेहं निर्दोषमित्येतयोर्हेतुहेतुमद्भावो विवक्षित इति सूचितमिति ज्ञातव्यम् । यद्यपि स्थिरशब्दप्रकृतिकः स्थेमशब्दो दार्ढ्ये रूढः तथापि स्थाधातुनिष्पन्नत्वाद्योगेन स्थितिवाच्यपि भवतीत्यभिप्रेत्य स्थेमेत्युक्तम् । अत एव ‘अखिलभुवन-जन्मस्थेमभङ्गादिलील’ इति प्राचां प्रयोगः । व्याख्यातं च तट्टीकायां स्थेमा स्थितिरिति । स्मृतिपद-स्याल्पाचतरत्वेऽपि आम्नायपदस्याभ्यर्हितत्वात्पूर्वं प्रयोग इति ज्ञातव्यम् ।। १ ।।
श्रीनिवासतीर्थीया
वेदव्यासं गुणावासं पुर्णबोधान्मुनीनपि ।
वन्देऽहं जयतीर्थार्यांस्तथा वेदेशयोगिनः ।। १ ।।
वेदेशमुनिसत्पादसेवासंप्राप्तवैभवान् ।
यादवार्यान् न्यायसुधाटीकाकारानहं भजे ।। २ ।।
तत्पादाराधकश्रीनिवासेन तदनुग्रहात् ।
टीकाऽगृहीतवाक्यार्थविवृतिः क्रियते मया ।। ३ ।।
ग्रन्थादौ श्रीपतिनमनरूपं मङ्गलमाचरति ।। श्रियः पत्य इति ।। १ ।।
वाक्यार्थरत्नमाला
सद्बोधोरुसुखोन्नतद्युतिवरौदार्याग्रयवीर्यातुल-
स्वातन्त्र्यादिगुणार्णवं जनिमृतिभ्रान्त्यादिदोषातिगम् ।
वैराग्योन्नतभक्तिसंश्रुतिमतिध्यानैश्च साक्षात्कृतं
सद्भिः प्राप्यमजेशपूर्वसुरपं लक्ष्मीनृसिंहं भजे ।। १ ।।
वेदव्यासं वेदमुद्धृत्य वेदव्याख्यानार्थं भारताद्यं च सूत्रम् ।
कृत्वाऽजेशेन्द्रादिदेवेषु दत्वा जैमिन्यादीन् बोधयन्तं नमामि ।। २ ।।
श्रीमध्वाचार्यवर्योनिलवपुरतुलं ब्रह्मसूत्रस्य भाष्यं
कृत्वा दुर्वादिभाष्याण्यपवदितुमनुव्याकृतिं चानुवर्त्य ।
तत्रत्यन्यायदीप्त्यै वरनयविवृतिं चाकरोत् सत्सुखार्थं
तं मे सद्बोधसिद्ध्यै गुरुगमनुभजे वैष्णवाध्वावभासम् ।। ३ ।।
वाक्चेतसोर्मानिनीं भारतीं त्वां टीकाकृदुक्तौ परिगच्छतो मे ।
वाक्चेतसोः संस्कुरु सन्निधानं बद्धाञ्जलिस्त्वां प्रणमामि मूर्ध्ना ।। ४ ।।
श्रीमध्वोक्तिविकासनी वरगुरुप्रौढप्रसादार्चिता
दुर्वादीरितमूकतापसरणी गम्भीरभावान्विता ।
शुद्धा श्रीजयराजवागनुदिनं मद्वाग्घृदोर्भासतां
यद्भानान्मम वागशेषविदुषामल्पापि मान्या भवेत् ।। ५ ।।
यः श्रीमान् व्यासतीर्थः सुखमुनिगुरुसम्प्रोक्तभाष्यानुभाष्य-
न्यायव्याख्येतसूत्रे जयमुनिरचितव्याकृतौ चातिधीरः ।
चक्रे दुर्वादिभङ्गं सुजनसुमतये चाकरोच्चन्द्रिकादि-
ग्रन्थं जीवेशभेदादिपरमनुभजे तं धियो वीर्यसिद्ध्यै ।। ६ ।।
रघूत्तमाद्या गुरवो ज्ञानभत्तयादिशालिनः ।
मन्मानसं वर्तयन्तु सच्छास्त्रोक्तसुवर्त्मनि ।। ७ ।।
येनालाभि समस्तशास्त्रजमहाज्ञानं समाः षोडशं
येनाबोधि रमेशतत्त्वमपवाद्युक्तिश्च दूरीकृता ।
येनाकारि विरक्तिरच्युतपदे भक्तिश्च लोकश्रुता
विद्याधीशयतिः स मे परगुरुः विद्याप्रदीप्त्यै भवेत् ।। ८ ।।
यद्धस्तनिःसृतरमेशपदाभिषेकतीर्थेन शुष्कतरवः सरसा गयायाम् ।
जाता विपश्यति जने बहुदेशसंस्थे तं दैवतं परपुमांसमहं नमामि ।। ९ ।।
पुण्यस्तम्भनिवासिगौतमसरित्स्नानाग्निहोत्रादि
सद्धौतार्षादिगुरूक्तकर्मनिचयश्रीशप्रपूजारतान् ।
श्रीमध्वीयसुशास्त्रकण्टकहरांस्तद्व्याकृतौ पण्डितान्
वन्दे व्याप्तसुशिष्यसन्नतियुतानानन्दभट्टारकान् ।। १० ।।
इनोदयस्नानसुरार्चनाग्निहोत्रादिसत्कर्मरतातिशुद्धम् ।
श्रीश्रीनिवासाभिधमार्यवर्यं पितृव्यमानौम्यतिधीरशिष्यकम् ।। ११ ।।
श्रीमत्सत्यनिधिप्रभूतयतिराट् श्रीसत्यनाथाभिधः
सत्याभीनवतीर्थसद्गुरुवरे संवृद्धभाग्यप्रदः ।
श्रीकृष्णश्रुतिनाथरामभजकश्चित्रैर्नवैः साधनैः
भक्तं मां नरसिंहमाशु कृपया पायादपायात् प्रभुः ।। १२ ।।
विद्याधीशगुरोरशेषसमयानभ्यस्य मध्वीयस-
त्तन्त्रार्थं प्रविचार्य चानुहृदयं शास्त्रप्रवक्ताऽभवत् ।
दुर्वादीन्द्रसुभङ्गकृद्वरनदीस्नानाग्निहोत्रादिकृत्
श्रीमध्वेशवरार्चने रतमनाः श्रीकेशवार्याह्वयः ।। १३ ।।
यद्व्याख्यानस्य शाला त्वहमहमिकया शिष्यसङ्घेन पूर्णा
व्याख्या चातुर्यदूरीकृतकुमतिजना शिष्यवाक्सारयुक्ता ।
सायं ज्ञात्यादिशिष्यप्रसुतवरनरावल्ल्यपूर्वान्न जात-
प्रीत्या युक्ता गुरुं तं पितरमपि पतिं नौमि मे रूपदीपम् ।। १४ ।।
यस्यानुग्रहलेशतोऽहमभवं विद्वत्सुमानाश्रयो
यद्वाचानुगतेर्मदीयवचनं विद्वन्मनोगोचरः ।
यो मच्छिक्षणसिद्धये मम करेणालेखयद्व्याकृतीः
तत्सेवां करवाणि कां तदुदितार्थालोचनादेः पराम् ।। १५ ।।
रुग्मिण्यायीमातृपादौ प्रवन्दे सुष्ट्वन्नादेर्दानतो लालनाच्च ।
मां संपाल्य ज्ञानिवर्गे निवेशयोग्यं कृत्वाऽऽशीर्वचोरक्षितारौ ।। १६ ।।
यौ वै शास्त्रचतुष्टयेऽतिनिपुणो दूरीकृताज्ञानको
दुर्वादीन्द्रविदारणेऽतिचतुरो दाने तु कर्णोपमः ।
गुर्वानुग्रहवारिधिर्मयि परं स्नेहं दयातोऽकरोत्
ज्येष्ठभ्रातरमाश्रये सुमतये श्रीश्रीनिवासं गुरुम् ।। १७ ।।
अथोक्तनम्यकृपया गुरुशिक्षानुसारतः ।
यथामति व्याकरिष्ये सौधवाक्यार्थचन्द्रिकाम् ।। १८ ।।
श्रीमच्छ्रीगुरुतद्गुरूदितमहाटीकाविवृत्यादिकं
नानाशास्त्रगमर्मवाक्यरचनाशैलीविदां शोभते ।
अप्येवं गुरुपादचिन्तनबलात्स्मृत्वोरुतच्छिक्षितं
न्यायांस्तत्र यतन् स्खलन्नपि पुनर्निन्द्यो न सुज्ञानिनाम् ।। १९ ।।
श्रीमट्टीकाकारो ग्रन्थादौ मङ्गलमाचरति ।। नित्यागण्येति ।। एतत्पद्यस्य श्रियः पत्य इत्येतदाद्य-पद्यविवरणरूपत्वाट्टीकाकृद्वक्ष्यमाणतत्पद्यगतविशेषणप्रयोजनेषु यावन्ति प्रयोजनानि संभवन्ति तावत् प्रयोजनकतयैतत्पद्यगतविशेषणानि योजनीयानि । मूलकारीयगुणपदनिर्दिष्टगुणानामुपलक्षणया प्रदर्शनं बलद्युतीत्यादि । नित्यपदं सादित्वविनाशरूपदोषयोरिव दुःखसंभिन्नत्वादिदोषान्तरस्याप्युपलक्षणया निरासपरमित्याशयं स्पष्टयितुं नित्यपदोपलक्ष्यकथनं सत्सौख्याग्रयेत्यादि । अत्र नित्यत्वागण्यत्वे बलद्युत्यादिसर्वान्विते । यथासंभवं च सत्त्वादिकं मध्येदीपिकान्यायेन सर्वान्वयि । प्राभवं प्रभुता । मुखपदेन शक्त्यादेर्ग्रहः । व्रातः समूहः । व्रातात्मा दिव्या अद्भुता आकृतिर्मूर्तिर्यस्येति विग्रहः । आद्यपदोक्तदोषाणामुपलक्षणया प्रदर्शनं सन्तापादीति । वेदैकवेद्यमित्येतत् आगमैकविज्ञेयं, गुणैकदेहमितिवद्व्युत्पाद्यम् । शिष्टं स्पष्टम् । यद्यपि कर्मण्यणिति कर्मण्युपपदे धातोरणि प्राप्ते तदपवादेनातोऽनुपसर्गे क इत्यनेनानुपसर्गादेवातो धातोः कः इति कप्रत्यविधानाद्गोद इत्यादावनुपसर्गे तत्प्राप्तावपि गोसन्दाय इत्यादौ सोपसर्गतया कप्रत्ययाप्राप्तौ निरपवादेऽण्येव सति आतो युक् चिण्कृतोरिति युगागमे चोक्तरूपवज्जन्मादिप्रदमित्यत्रापि निरपवादे अण्येव सति युकि च प्रदायमिति प्राप्नोति । तथापि सोपसर्गार्थमारब्धेन प्रेदाज्ञ इति सूत्रेण प्रशब्दपूर्वकाद्ददातेर्जानातेश्च कप्रत्ययविधानेन सर्वप्रदः वसुप्रदः फलप्रदः इत्यादेः साधुत्ववत्प्रकृतेऽपि जन्मादिकं प्रददातीति जन्मादिप्रद इति प्रोपसृष्टाद्ददातेः प्रेदाज्ञ इत्यनेन अणोपवादेन कप्रत्यये आतो लोप इटि चेत्याकारलोपे च प्रदमित्यस्य साधुत्वम् । उक्तं च काशिकायाम् सोपसर्गार्थमयमारम्भ इत्यादि । कुम्भं करोतीति कुम्भकार इति तिङन्तेन विग्रहेऽपि कुम्भस्य कार इति प्रक्रियावाक्याश्रयणेनोपपद- मतिङिति सूत्रेण समासवत्प्रकृतेऽपि स्वपदविग्रहसिध्यर्थं जन्मादेः प्रद इति प्रक्रियावाक्यमाश्रित्योपपदमतिङित्यनेन समास इति ज्ञेयम् । विद्यैवेत्यधिकरणीयहत्याया मोक्षहेतुत्वं कुत इत्येतदनुव्याख्यानमूलटीका-प्रपञ्चावसरेऽधिकं च वक्ष्यामः । उत्तमपुरुषप्रयोगसत्त्वस्थलेऽपि वन्देऽहं तम्, वन्देऽहं देवभक्त्ये-त्यादाविव पृथगेवाहमिति कर्तुरुक्तिरपि युक्तैव ।। १ ।।
देवतात्वेन नारायणप्रणामं कृत्वा शास्त्रकर्तृवेदव्यासरूपेणापि नारायणं मेघश्लेषेण स्तौति वेदेति । वेदलक्षणाम्भोधेः समुद्धृतमतिविलसत्सूत्रामृताम्भः तस्य लसन्ती शोभमाना या धारा तस्याः वर्षणेन तुष्टा सतां हृदयलक्षणा या अवनिः तस्यां ज्ञानलक्षणाङ्कुराधायकमित्यर्थः । अन्यत्र तु प्रसिद्धजलेन वर्षणादिकं सिद्धम् । प्रसिद्धमेघासाध्यकार्यकथनेन लब्धस्यातिशयस्य कथनं विचित्रेति । एवं दिव्यस्यन्दनेति मृगेन्द्रराजमिति चातिशयकथनपरम् ।। २ ।।
दिवाकरः इत्यादौ तु विशेषणसामर्थ्यप्राप्तातिशयस्य स्पष्टत्वाशयेनानुक्तावपि न दोषः । सत्सिद्धान्तेति । सत्सिद्धान्तलक्षणानि यानि उत्कृष्टानि अरविन्दानि तेषां निवहाः समूहाः अन्धकारनिकराः तत्समूहाः ।। ३ ।।
गाण्डीवस्थानीयभाष्यस्यरज्जुसद्भावप्रतिपादनाय सत्सूत्रेत्युक्तम् । कुसमयलक्षणाः ये प्रत्यर्थिभूताः विरोधिनः दुस्यन्दनाः दुष्टरथिनः तानित्यर्थः । कृष्णेरितत्वं च वेदव्यासनाम्ना वासिष्ठकृष्णेनोद्धृतत्वं विभक्तत्वादिकं ज्ञेयम् । श्रीमध्वशास्त्रं च श्रीमध्वभाष्यातिरिक्तं अत्र विवक्षितमिति न कश्चित् क्षुद्रोपद्रवः । अर्जुनश्लेषकरणेन इन्द्रावतारत्वादिप्रसिद्धिरपि अनुकूलिता ।। ४ ।।
सच्छास्त्राणि सूत्रभाष्यटीकारूपाणि । प्रसिद्धकिरणादिवैलक्षण्यं वक्तुं अमलेत्याद्युक्तम् । नयतेः द्विकर्मकत्वात् व्रातं विकासमिति उभयत्रापि द्वितीया ।। ५ ।।
एवं विद्रावयन्तम् इत्यत्रापि । श्रीमद्रामेति । रामो मूलरामादिः । दिशः प्रति । मद्गुरुम् इत्यनेन उत्तरश्लोकोक्तमठान्तरस्थव्यासतीर्थेभ्यो व्यावृत्तिः सूचिता ।। ६ ।।
वेदान्ताब्धिमिति श्लोके इतरे सत्तर्काः श्रीमध्वोक्ताः विवक्षिताः । यद्यपि न्यायामृते मध्वसच्छास्त्रदुग्धाब्धिमित्युक्तं तथापि सूत्रे भाष्ये चेत्याद्युक्तेः स्वयं तत्र तत्र श्रुतिविचारस्यापि करणात् वेदान्ताब्धिमित्युक्तेर्न दोष इत्यादि ज्ञेयम् । दुस्तर्केति । दुस्तर्काश्च तदितरे सत्तर्काश्च दुस्तर्केतरे । दानवाश्चामराश्च दानवामराः । दुस्तर्केतरे च ते दानवामराश्च तेषां गणाः । देवानां अमृतलाभवत् चन्द्रलाभवच्च व्यासमुनेः तदुभयलाभं प्रतिपाद्यामृतपानानन्तरं देवैः दैत्ययुद्धकरणादस्यापि तत्स्थानीय-माह युधि तथेति ।। ७ ।।
यत्र गङ्गासागरसङ्गमः तत्र शरीरशुद्ध्यर्थं सेवाकरणमस्तीति प्रकृते न्यायसुधायाः अनुव्याख्यान-सङ्गमं गङ्गासागरसङ्गमोपश्लेषेणाह अनुव्याख्याब्धीति । सुराणां देवानां आपगां नदीं भागीरथीमिति यावत् । न्यायसुधैवाऽगाधा सुरापगा तथोक्ता । अनुव्याख्याब्धिना युक् योगः यस्याः सा तथोक्ता । अनुव्याख्याब्धियुक् चासौ न्यायसुधाऽगाधसुरापगा च तथोक्ता । तामित्यर्थः । धियः शुद्ध्या इति संबन्धः ।। ८ ।।
मङ्गलमाचरन्तीति । वाचनिकमङ्गलस्यायमाचार एव इति आचरन्तीत्युक्तम् । विस्तृतं चैतत् मङ्गलमाचरतीति चन्द्रिकाव्याख्याने गुरुराजेन । अत्रापि उपयुक्तं अनुपदमेव स्पष्टीकरिष्यामः । प्रथमपद्यव्याख्यानरूप इति । अनेनेदं पद्यं तद्व्याख्यानरूपं इत्यतः एतद्गतविशेषणप्रयोजनकथनं उत्तरत्र क्रियमाणं नासङ्गतमिति ध्वनयति । तद्व्याख्यानं चाशेषविशेषतोऽपि वन्द्यमित्यादिविशेषणद्वयं विहायेतरांशे विवक्षितमिति न दोषः । एवमेवेदं च पद्यं भाष्यस्थोक्तश्लोक विवरणरूपत्वात् इत्येतत् चन्द्रिकावाक्येऽपि संभवत् अंशाभिप्रायेण विवरणत्वं विवक्षितमिति ज्ञातव्यम् । प्रक्षेपेणेत्यस्य समर्थितं इत्युत्तरेण संबन्धः । समर्थनप्रकारकथनं प्रादुर्भूतः इत्यादि पञ्चम्यन्तम् ।
अयमर्थः । तमेवेति श्लोके तं पूर्वप्रणतं नारायणमेव शास्त्रप्रभवं प्रणम्येत्युत्तया नारायणस्य शास्त्रप्रभवत्वादिना गुरुत्वमुक्तम् । तत्कथम् । प्रादुर्भूतइति श्लोके हरेरेव व्यासरूपेण प्रादुर्भूतस्य शास्त्रप्रभवत्वादिप्रतिपादनेन नारायणस्य तदभावादिति न शङ्कनीयम् । तत्रोक्तहरेरेव उत्तरमूलानुसारेण नारायणत्वेन हरिस्वरूपप्रतिपादकस्य नारायणस्वरूपप्रतिपादकतया नारायणस्य शास्त्रप्रभवत्वा-देरुपपत्त्या तं शास्त्रप्रभवं नारायणमेवेति प्रतिपादनोपपत्तेरिति समर्थितमिति । नारा लक्ष्मीरिति । न विद्यन्ते अराः दोषाः यस्याम् इति व्युत्पत्त्येति शेषः । अभिप्रायव्यञ्जनेनेति । अनुव्याख्यानकारीयेति शेषः । तादृशदेवताभूतलक्ष्मीपतित्वेन नारायणवन्दने तस्या अपि नमनलाभः । न च तत्पतित्व-समर्पकाभावः । नारायणपदस्यैव तथात्वात् इत्येवंरूपोऽभिप्रायो बोध्यः । न्यूनतेति । अनुव्याख्याने प्राप्तेति शेषः । पूर्वेति । अनुव्याख्यानगतनिखिलपूर्णगुणेतिविशेषणेत्यर्थः । संपूर्णस्य एकदेह-विशिष्टत्वस्य मूलपदादलाभात् अन्तर्गतेत्युक्तम् ।। प्रयोज्यप्रयोजकभावोऽपीति ।। न केवलं प्रत्येकं वैशिष्ट्यसमर्पकत्वमित्यपेरर्थः । गुणावद्ययोरित्यतः परं उक्तस्योपहन्त्रुपहन्यमानभावस्य घटनायेति शेषः । माणिक्यतमोभ्यामित्यत्र गुणावद्ययोरिति वर्तते इति ज्ञेयम् । उपमानोक्त्या गुणा एव माणिक्यानीत्यादिरुपमितसमास इत्युक्तं भवति । तदुपपादनायैवेति । उपहन्त्रुपहन्यमानभावोपपादनाय एवेत्यर्थः । न केवलं उपपादनायात्रोपमानमपि तु प्रभेत्यादिकमपीत्येवशब्देनाह । माणिक्यस्य द्रव्यान्तरप्रतिघाते उपहन्तृत्वं न सम्भवतीत्यतः तस्याप्रतिहन्तत्वमस्तीति सूचनाय प्रभेत्यादिकमुक्तमिति भावः । यद्वा उपमानोपपादनायैवेत्यर्थः । उपमानमात्रेण पूर्तेः प्रभेत्यादिः व्यर्थमिति न शङ्कनीयम् । उपमानोपपादनायैव उपहन्तृत्वसामर्थ्यप्रदर्शनाय तस्याभिधानादित्येवकारेणोक्तम् । गुणनिखिल-त्वोक्तीति । गुणपूर्णत्वस्य निर्दोषत्वोपपादकतयोक्तिस्थितावपि यद्येकमात्रदोषराहित्यं निर्दोष-मित्यत्राभिप्रेतं स्यात् तर्हि ज्ञानादिगुणेषु अज्ञानविरोधिज्ञानोक्त्यैवाज्ञानाख्य दोषाभावरूप-निर्दोषत्वलाभः । एवं दुःखविरोधिपूर्णसुखमात्रोक्त्या दुःखाख्यदोषाभावरूपनिर्दोषत्वलाभ इत्येवं एकगुणमात्रोक्त्या तदलाभात् तदर्थं सुखादिगुणान्तरप्रतिपादकं निखिलपदं व्यर्थं स्यादित्यतो निर्दोषत्वमित्यत्रानेकदोषराहित्यमेवाभिप्रेतमित्याश्रित्य तावद्दोषराहित्योपपादकतया तद्विरोध्यनेक-गुणकथनं कृतमिति वाच्यम् । इत्येवं गुणसाकल्यकथनेन दोषसाकल्यमप्यभिप्रेतमिति लाभात् भाष्याभिप्रेततत्साकल्यकथना सकलपदमित्यर्थः । गुणोपहतत्वयोरिति । गुणापगमकाले निर्दोषत्वमपि तत्साध्यं नास्ति सत्यपि वा गुणे दोषोपहतिर्नास्तीति कादाचित्कत्वं तयोः यच्छङ्क्यं तदुभयं नित्यत्वविशेषणेन निरस्तमित्यर्थः । अनेन नित्याश्च ते अगणिताश्च ते गुणाश्चेति नित्यत्वं गुणविशेषणम् । तथा नित्यं अगणितगुणमाणिक्यविशदप्रभाजालोल्लासेन उपहतमिति नित्यत्वं उपहतत्वस्यापि विशेषणम् । तन्त्रेण च विशेषणोपादानमिति भाव इति सूचितम् । अस्येतीति । न प्राक् प्रकृतपरामर्श्य यं इदंशब्दः किन्तु बुद्धिप्रकृतपरामर्शीति भावेनेति शेषः । शीलपदव्यावर्त्यां शङ्कां प्रदर्शयति प्रयोजनाभावादिति । नप्रयोजनत्वादित्यधिकरणीयशङ्केयम् । प्रयोजनोद्देशे चापूर्णत्वं स्यादिति भावः । अन्नदानादिनेवेति । पालनस्येत्याकृष्यते । अन्नदानादिना पालनस्येवेति योज्यम् । अज्ञानबन्धमोक्षाणामिति । मोहान्तमापिपत् नप्रेत्यसंज्ञा इत्यादौ विनाशार्थकप्रलयशब्दप्रयोगाद- ज्ञानस्य प्रलयपदेन सङ्ग्रहो युक्तः । प्रकृष्टं यल्लीयते तत् प्रलय इति व्युत्पत्त्याऽज्ञानबन्धयोः ग्रहणमिति वा । एवं च प्रलयपदेन संहारादिचतष्टयं सङ्गृहीतं भवति । स्वतन्त्रकृत्यर्थकरचनाशब्देन तन्त्रेणोपात्तेन प्रलयश्च रचना च जन्म स्थेमप्रलयरचनाः तासां रचनेति योजनायाः सूचितत्वात् प्रथमस्य रचनाशब्दस्य नियमार्थत्वं द्वितीयस्य तु कृत्यर्थत्वं इति योजनीयमिति भावेनाह रचनाशब्देनेति । उत्तरत्रेत्यादि । अस्योद्भवादिदं इत्येतत् व्याख्यानावसरे मुखतः उपात्तोद्भवव्यतिरिक्ताष्टकेत्यादि योज्यम् । यद्वा आदिपदेत्यस्य उद्भवपदसहितादिपदेत्यर्थः । अत एव उद्भवः आदिः यस्योद्भवादि जन्माद्यष्टकमिति मूले वक्ष्यति । उत्तरत्रेत्यादि न शङ्कनीयमिति प्रतिज्ञायां अत्रेत्यादिसंभवात् इत्यन्तो हेतुः । अनेनैवात्र तद्गुणसंविज्ञानो बहुव्रीहिरित्यपि सूचितम् । आदिपदस्यान्यसङ्ग्राहकत्वविचारस्तु जन्माधिकरणे वैशेषिकाधिकरणे च करिष्यते ।
किरच्प्रत्यये निरूढत्वप्रतिपादनमुखेन किरच्विधायकमजरेति सूत्रं इत्याशयेनाह अजरशिशिर-शिथिलस्थिरेत्युणादीति । इति उणादीत्यर्थः । आदिपदेन स्फिरस्थविरखदिराः इति सूत्रशेषग्रहणम् । स्थाधातोः किरचि स्थेरेति प्राप्तावाह आतो लोप इटि चेतीति । आकारान्तधातोः किति इटि च परे आकारलोपो भवतीति सूत्रार्थः । उक्तं च उणादिवृत्तौ दशपद्याम् । ष्ठा गतिनिवृत्तौ । अस्याकारलोपः । तिष्ठतीति स्थिरं दृढमिति । सिद्धान्तकौमुद्यां तु स्थास्फायोश्च टिलोप इति यदुक्तं तत्तु स्फायतेष्टि-लोपस्यावश्यकत्वेऽपि स्थाधातोराकारलोपेनैव सामञ्जस्ये टिलोपस्यावाच्यत्वात् अयुक्तमिति सूचयितुं चाकारलोपाभिधानम् । दृढादित्वेनेति । दृढवृढपरिवृढेत्यादिषु तरुणमन्दस्थिरेति परिगणनादिति भावः । वर्णदृढादिभ्यः इतीति । वर्णदृढादिभ्यश्चेति सूत्रेण वर्णविशेषवाचिशुक्लादिप्रातिपदिकेभ्यो दृढादिभ्यश्च ष्यञ् भवति । चकारादिमनिच्प्रत्ययश्च भवति भावरूपेऽर्थे विवक्षित इति विधानादिति भावः । प्रियस्थिरेत्यादिनेति । स्थिरोरुबहुलगुरुवृद्धेत्यादिवृन्दाः इत्यन्तसूत्रेण इष्टेमेयस्सु प्रियादि-शब्दानां प्रस्थाघादेशविधानात् इति भावः । स्थेमशब्दस्येति । इमनिच इकारचकारयोर्लेपे गुणे च स्थेमन् इति नकारान्तप्रातिपदिकसिद्धिः । तस्य च दृढार्थकस्थिरशब्दप्रकृतिकतया दाढर्््यमेवार्थतया प्राप्तम् । न केवलं उक्तप्राप्तिमात्रमपि तु तथा प्रसिद्धिरपि अस्तीत्यर्थः । तथाच जन्मप्रलयसाहचर्येणात्र स्थितिरूपोऽर्थः प्राप्तोऽपि न युज्यत इति भावः । स्थितावपि अखिलेति । प्रयोगाणां इत्येतत् वक्ष्यमाणे बुद्ध्या विवेकेन प्रयोगस्येति लाभात् स्थेमशब्दस्य स्थितावपि नान्दीश्लोके अभियुक्तप्रयोगस्य उपलम्भादिति वक्ष्यमाणेन संबन्धः सिद्धः । अत्राखिलभुवनजन्मस्थेमभङ्गादिलीले विततविविधभूत-व्रातरक्षैकदीक्षे । श्रुतिशिरसि विदीप्ते ब्रह्मणि श्रीनिवासे भवतु मम परस्मिन् शेमुषीभक्तिरूपेति तदीयप्रथमपद्यपाठानुसारेण भुवनजन्मेति पाठः स्वरस एव । जगज्जन्मेति पाठसत्त्वे स्वार्थानुवादः । एवं भङ्गादिलील इति ह्रस्वलकारपाठः । सप्तम्यन्तपाठानुसारात् लाकारपाठो लेखकागतः । भङ्गादि-लीला यस्येति विग्रहः । नप्रयोजनवत्त्वात् इत्यधिकरणे तथा प्रमेयस्य तन्मते स्थितत्वात् । स्थित्यर्थत्वेनेति । स्थेमशब्दस्य स्थितावपीति वर्तते । तथा च स्थेमशब्दस्य स्थितावपि श्रुतप्रकाशिकायां प्रयोगस्योपलंभादिति वक्ष्यमाणेन पूर्ववदेव संबन्धः । श्रीभाष्यीयमङ्गलश्लोकवत् तट्टीकायां पद्यादौ तत्प्रयोगो नास्तीत्यत उक्तं स्थित्यर्थत्वेन तद्व्याख्यानरूपेति । स्थेमा स्थितिरिति । तत्र व्याख्यानात् । मौलप्रयोगव्याख्यानेनैव तदीयप्रयोगः सिद्ध इति भावः ।
केचित्तु नान्दीश्लोके स्थितौ प्रयोगोपलम्भे विप्रतिपद्यमानं प्रति तद्व्याख्यानसंमतिकथनाय इदम् । तथाच नान्दीश्लोकव्याख्यानरूपश्रुतप्रकाशिकायां स्थेमशब्दस्य स्थित्यर्थत्वेनोपलम्भादिति वाक्यस्य श्रुतप्रकाशिकायां स्थित्यर्थत्वेन तद्व्याख्यानस्योपलम्भादिति योजनाभिप्रेतेति न टीकाकारीयप्रयोग-गवेषणादिप्रयासप्रसक्तिरिति प्राहुः । अन्यत्र प्रयोगाः शोध्याः सन्ति ।
ननु तिष्ठतीति स्थिरमिति हि व्युत्पत्तिः स्थिरशब्दे । सा च उणादिवृत्तौ दृढमिति दृढ एव दर्शिता । तथा च स्थिरशब्दात् इमनिचि निष्पन्नस्थेमशब्दोऽपि दृढत्वमेव ब्रूयात् न स्थितिमित्यतो भवेदेवं यदि सा व्युत्पत्तिः दृढार्थे न संभवतीति स्यात् । न चैवम् । स्थितिमत्यपि तिष्ठतीति स्थिरमिति व्युत्पत्त्यु-पपत्तेः । तथाच स्थिरशब्दाद्भावे इमनिचि निष्पन्नस्थेमशब्दस्य स्थितिमतो भावरूपया स्थित्या व्याख्यानोपपत्तिः । वृत्तिकारोक्तिस्तु नान्यार्थव्यावृत्त्यभिप्रायेत्याशयेनाह तिष्ठतीति स्थिरमितीति । इत्यभिप्रेत्येति । आहेति वक्ष्यमाणं अत्रापि सम्बध्यते । तथा चेत्यभिप्रेत्य आहेत्यस्येति अभिप्रेत्या पौरुषेयत्वादिरूपं शोभनत्वं न तु प्रमाणाभाससाधारणं सुश्राव्यत्वं इत्याहेत्यर्थलाभात् तमबर्थं चेति समुच्चयोपपत्तिः । तमबर्थश्च हृदयपदेनोक्तोऽधर्मप्राणादिव्यावृत्तये महातात्पर्यरूपः । उपलक्षणं चैतत् । वर्णानां सर्वगततया वाक्याप्तेः सर्वसाधारणतया तद्य्वावृत्त्यर्थं दीप्तत्वरूपमाप्यत्वं च इह विवक्षित-मित्याहेत्यपि बोध्यम् । पटु गुप्तावित्यत्रेति सावकाशत्वेनेति वक्ष्यमाणेन सम्बन्धः । सर्वत्रापि बाधे शास्त्रवैयर्थ्यापत्त्या क्वचित् सावकाशतायाः आवश्यकत्वमिति दर्शयितुं अत्र तत्र तत्र स्थले सावकाशत्वं वर्णितम् । परमितीति । परमितिन्यायेनेत्यर्थः । वक्ष्यति च पूर्वन्यायेनेति । अजाद्यदन्तत्वात् इत्यनन्तरं इन्द्रशब्दस्येवेति शेषः । पूर्वोक्त इति । ईशकृष्णावित्यत्रेत्यर्थः । इत्यत्र चेति । अत्र चशब्दस्य अल्पाच्तर इत्यस्य चेति संबन्धाश्रयणात् न वैयर्थ्यमिति ज्ञेयम् । अत एवाजाद्यदन्तं इत्यस्य चेति पूर्वं शब्दप्रयोगः । सावकाशत्वेन वागीशावित्यत्रेवेति पाठः सर्वत्र । सावकाशत्वेनेवेति क्वचित्तु पाठे इवपदं लेखकागतम् । अल्पाच्तरत्वादित्यनन्तरं वाक्शब्दस्येवेति शेषः । इति न वाच्यं इति पूर्वेणान्वयः । कुतो न वाच्यं इत्यतः तस्यानित्यत्वेनात्र तत्प्रवृत्त्यभावोपपत्त्या अपवादाभावे अजाद्यदन्तशास्त्रस्यैव प्रवृत्त्या इन्द्राग्नीत्यत्र इन्द्रशब्दस्येव इहापि आम्नायशब्दस्याजाद्यदन्तस्य पूर्वनिपातोपपत्तेः इति हेतुं मनसि निधाय भवेदेवं यदि तच्छास्त्रं अनित्यं स्यात् तदेव कुतः इत्याशङ्कापरिहाराय तदनित्यत्वे नियामकमाह लक्षणेत्यादि । इत्यादिषु इत्यादिपदेन समानाधिकरणजातीययोः नासिकास्तनयोः ध्माधेटोः उत्तमैकाभ्यां चेत्यादेर्ग्रहणम् । अस्तु तदनित्यत्वं सूत्रज्ञापितं तथापि ग्रन्थकाराभिप्रेतोऽयं परिहारः कस्मात् इत्यतः स्थलान्तरे तथात्वेन ग्रन्थकृताभिधानादेवेति परिहरति अल्पाच्तर-मित्यस्येति । इति वदतेति । तत्त्वनिर्णयटीकायामिति शेषः ।। ननु व्यभिचारं कुर्वाणेनेत्युत्तया प्रयोजनार्थं लक्षणस्य व्यभिचारः कुत इति प्रतीत्योत्तरग्रन्थे तन्नित्यत्वाभ्युपगमसिद्धेः तद्ग्रन्थविरोधः । तदनित्यत्वाश्रयणे स्यात् इत्यत आह अल्पाच्तरमितीति । धर्मादिषूभयमित्यत्राकृतिगणतायाः आकरे स्वीकारेण गुणवृद्धी वृद्धिगुणावित्यत्रेव पदद्वयस्यापि पर्यायेण पूर्वनिपातसिद्धेः आम्नायस्मृतीत्यप्य-पपन्नमिति केचित् । अन्ये तु वासुदेवार्जुनाभ्यां वुन् इत्यादिनिर्देशमूलकाभ्यर्हितं पूर्वं वक्तव्यं इति वचनात् अल्पाच्तरशास्त्रबाधेनाम्नायमूलकतया लब्धप्रमाणभावस्मृत्यपेक्षया उपजीव्याम्नायस्याभ्यर्हि-तत्वात् आम्नायशब्दस्यैव पूर्वनिपात इत्याहुः । एतदुभयपक्षेऽपि तत्त्वनिर्णयटीकाननुसारात् श्वयुवमघो-नामतद्धिते इति सूत्रेऽभ्यर्हितस्यापि मघवच्छब्दस्य पूर्वनिपाताभावेन तस्य नियामकस्यापि व्यभिचारेण च प्रकारान्तरं टीकायामभिहितम् । युक्तिपादीयेति । निर्णीतिजयकारक इति नविलक्षणत्वाधि-करणीयानुव्याख्याव्याख्यानवसरे तथोक्तिरिति ज्ञेयम् । मूले हरये नम इति । नमः स्वस्तीत्यादिना चतुर्थी । नित्यागणितगुणमाणिक्यानीव तेषां याः विशदप्रभाः तासां यज्जालं समूहः, जालं समूहः आनायः इत्यमरोक्तेः । तस्य यः उल्लासो विकासः तेन नित्यं उपहतं सकलं अवद्यतमो येनेति विग्रहः । नोद्यते नोच्यते इत्यवद्यं गर्हितम् । वदेर्नञि उपपदेः वदेः सुपि क्यप्चेति यत्क्यपोः प्राप्तयोः तदपवादेन यदेव भवति । स च गर्हायामेवेत्युभयार्थमवद्यपण्यवर्यागर्ह्यपणितव्यानिरोधेषु इत्यवद्यशब्दनिपातनात् । तत् तम इवेति । उपमितं व्याघ्रादिभिः इत्यनेन समासः । अत्र गुणानां माणिक्योपमानेन शुभत्वाभि-धानात् अनुभाष्यस्थगुणपदस्य तार्किकादिपरिकल्पितदुःखादिपरत्वभ्रान्तिरपि निराकृता । स्वतन्त्र-कृत्यर्थकरचनापदप्रयोगेण दानकर्मणाऽभिप्रेतत्वेन संप्रदानतयाऽस्येति षष्ठ्यनुपपत्तिरिति शङ्काऽ-पाकृता । देहशून्यस्य संबन्ध एवानुपपन्न इति शङ्का वपुष इत्युक्त्या निराकृता । अनिष्टनिवर्तकत्वार्थ-कहरिशब्दप्रयोगात्सदा प्रियतमं इत्युपपादितं भवति । अशेषविशेषतोऽपि वन्द्यं इत्येतत् उपपादकतया निखिलेत्यादेः प्रवृत्तिरिति मूले वक्ष्यमाणतया निखिलेत्यादिविशेषणजातविवरणेनैव तस्यापि विवृतप्रायत्वात् न तदविवरणं दोषाय । उत्तरपद्यस्य किञ्चित् विवरणतायाः वक्ष्यमाणत्वेन आद्यपद्यस्य संपूर्णविवरणतायाः सिद्धत्वात् इत्येतावत् मूलार्थो गुरुराजेन पृथगुक्तो ज्ञेयः ।। १ ।।