ॐ जन्माद्यस्य यतः ॐ

अथ अतिव्याप्तिपरिहारः

सुधा

ननु कथं जगत्सृष्ट्यादिकारणत्वं हरेरेव स्यात्, यावता ‘हिरण्यगर्भः समवर्तताग्रे’, ‘एको रुद्रो न द्वितीयाय तस्थे’, ‘इमाल्लोकानीशत ईशनीभिः’, ‘ज्ञात्वा शिवं शान्तिमत्यन्तमेति’ इत्यादि श्रुतिषु हिरण्यगर्भादीनां तत्प्रतीयते इत्यत आह सृष्टिरिति । आसु श्रुतिषु परेणोदाहृतासु हिरण्यगर्भ इत्याद्यास्वपि विश्वस्य सृष्ट्यादयो हरेरेवोक्ता न तु ब्रह्मरुद्रादिभ्य इति न लक्षणस्यातिव्याप्तिरिति ।

तत्कथमित्यत आह यं नामानीति ।

अनुव्याख्यानम्

यं नामानि विशन्त्यद्धा यो देवानामिति ह्यपि ।

श्रुतेर्नामानि सर्वाणि विष्णोरेव यतस्ततः ।।

अनेन ‘नामानि सर्वाणि यमाविशन्ति’ इत्यादिश्रुतिमुपादत्ते । ओत्याङोऽर्थकथनम् । ‘यो देवानां नामधा एक एव’ इत्यपि प्रसिद्धश्रुतेः नामानि सर्वाणि हिरण्यगर्भ इत्यादीनि, विष्णोरेव यतः, ततः, हिरण्यगर्भ इत्यादि श्रुतिषु विश्वस्य सृष्ट्यादयो हरेरेव उक्ता इति पूर्वेण सम्बन्धः ।

वाक्यार्थचन्द्रिका

एतद्वाक्यसङ्गतत्वेनोत्तरवाक्यं योजयितुमतिव्याप्तिशङ्का- परिहार प्रतिज्ञा-परत्वेनेदमेव वाक्यं योजयति नन्विति । यावतेत्यस्य यत इत्यर्थः । श्रुतिगतस्य सर्वाणीत्य-स्याङश्चानुपादानादर्थत उपादाने वक्तव्ये कस्येदमुपादानमिति न ज्ञायत इत्यतोऽव्ययत्वेनान्तरङ्ग-तयाऽव्यवधानाच्चाङ इदं ग्रहणमित्याह ओतीति । पूर्वोक्तप्रतिज्ञोपपादकहेतुकथन रूपत्वमस्य दर्शयितुं पूर्वेण सम्बन्धमाह ।। तत इति ।

परिमळ

लक्षणानामतिव्याप्तिनिरासकत्वेनापि योजयति ननु कथमित्यादिना । यावतेति यस्मादित्यर्थे भिन्नक्रमतयाप्यपि पदान्वयमुपेत्याह इत्याद्यास्वपीति । हरेरेवेति पञ्चमी । ब्रह्मरुद्रादिभ्य इति प्रतियोगिनि पञ्चमीनिर्देशात् । ‘इति ह्यपि । श्रुतेः’ इत्यत्र हिशब्दार्थमाह प्रसिद्धश्रुतेरिति ।।

यादुपत्यम्

प्रसिद्धश्रुतेरित्यत्र प्रसिद्धेति हिशब्दार्थकथनम् ।

श्रीनिवासतीर्थीया

द्वितीयायेति । द्वितीयतयाऽवस्थानायान्यो न तस्थ इत्यर्थः । विभक्ति-व्यत्ययेन द्वितीय इत्यर्थ इत्यप्याहुः ।

वाक्यार्थरत्नमाला

वक्तव्य इति । ओत्यस्योभयार्थत्वस्यापि सम्भवात्तेन तदुभयोपादान-प्रसक्तिरिति भावः । अत्र भाष्यमूलयोः यन्नामानीत्यत्रानुस्वारस्य मयिपरसवर्ण इत्यनेन परसवर्णः । यमिति पदच्छेद इति ज्ञेयम् । कस्येदमिति । इदं ओत्येतत् कस्योपादानमिति योज्यम् । अव्ययत्वेन । आङ इवाद्धेत्यस्याप्यव्ययत्वेन साम्यादित्यर्थः । अन्तरङ्गत्वहेतुरयम् । इह ग्रहणमित्युत्तरेण सम्बन्धः । अव्यवधानाच्चेति । आविशन्तीत्यव्यवधानादित्यर्थः ।

Load More