ॐ जन्माद्यस्य यतः ॐ

अथ लक्षणस्य लक्ष्यधर्मतोपपादनम्

सुधा

ननु च बृहद्ब्रह्मेति समस्तगुणपूर्णत्वं ब्रह्मत्वं प्रसिद्धमेव; तत्किं लक्षणान्तरेण ।। सत्यम् । तथाऽपि तदुपपादनार्थमेतदित्यदोषः । प्रसिद्धेन ह्यसाधारणेन धर्मेणाप्रसिद्धं वस्तु समस्त-व्यावृत्ततयाऽवगन्तव्यम् । न च परमेश्वरस्य समस्तगुणपूर्णत्वं प्रसिद्धम्, येन लक्षणतया निर्देष्टुं शक्यते । अनेन तु लक्षणेन लक्षिते ब्रह्मणि समस्तगुणपूर्णत्वमपि प्रधानलक्षणं सिध्द्यति, अविनाभावात् ।

वाक्यार्थचन्द्रिका

अत्र सृष्टिरित्युत्तरवाक्ये जगज्जन्मादिकारणत्वरूपब्रह्मलक्षणस्य प्रसिद्ध-त्वोक्त्या लक्षणान्तरस्याप्रसिद्धिः सूचिता । न च लक्षणान्तरमप्रसक्तमिति वाच्यम् ब्रह्मशब्द-यौगिकप्रवृत्तिनिमित्तत्वेनैव तत्प्रसक्तेः । एवं च ब्रह्मशब्दबललब्धलक्षणसंभवेऽतादृशलक्षणाभिधानेन सूत्रकारानौचित्यं निरस्तं भवतीत्याशयेन लक्षणान्तरप्रसक्तिं, प्रधानलक्षणत्वेन तस्याप्यत्राभिप्रेतत्वं, तदप्रसिद्धिं, प्रसिद्धताया लक्षणत्वोपयोगम्, अस्य लक्षणस्य तत्साधकत्वं च दर्शयन्नेवाकाङ्क्षा-क्रमेणोत्तरवाक्यमवतारयति ननु चेत्यादिना ।

परिमळ

प्रसिद्धमेवेति । ‘बृहन्तो ह्यस्मिन् गुणाः’ इत्यादाविति भावः ।। ‘जन्माद्यस्येति सूत्रेण गुणसर्वस्वसिद्धये । ब्रह्मणो लक्षणं प्रोक्तम्’इत्यानन्दमयनयानुव्याख्यानोक्तं हृदि कृत्वाऽऽह तदुपपादनार्थर्मतदितीति । तस्य लक्ष्यधर्मतोपपादनार्थमित्यर्थः ।। कथमित्यत आह प्रसिद्धेनेति ।। न च परमेश्वरस्य समस्तगुणसंपूर्णत्वं प्रसिद्धमिति । लोके क्वाप्यदर्शनेनासंभावनापराहतत्वात् इति भावः ।। अनेन त्विति । जगज्जन्मादिकारणत्वेनेत्यर्थः । एतच्च कार्यस्य घटादेः कर्त्रविनाभावदर्शनेन महदादिसर्वकार्यकर्ता नासंभावितो वक्ष्यमाणदिशाऽनेकप्रमाणप्रमितश्चेत्यनुपदमेव विवरिष्यत इति भावः ।। ‘कर्तृत्वात्सगुणं ब्रह्म’ इति भागवतोक्तिं हृदि कृत्वाऽऽह अविनाभावित्वादिति ।

यादुपत्यम्

समस्तगुणपूर्णत्वमिति । पूर्णत्वमेव ब्रह्मशब्दार्थः । इतरद्योग्यताबललभ्यमिति ध्येयम् ।। प्रसिद्धमेवेति । व्याकरणादिनेति शेषः ।। लक्षणान्तरेणेति । निर्वचनलभ्यस्यैवान्तरङ्गस्य लक्षणत्वसंभवे किं तदविनाभूतलक्षणान्तरेणेत्यर्थः ।। तदुपपादनार्थमिति । तस्य लक्ष्यधर्मतोप-पादनार्थमित्यर्थः ।। प्रसिद्धेन हीति । लक्ष्यनिष्ठतया प्रसिद्धेन हीत्यर्थः । तथा च निर्वचनलभ्यस्य गुणपूर्णत्वस्य व्याकरणादिना प्रसिद्धत्वेऽपि लक्ष्यभूतजीवत्वतिरीक्तेश्वरनिष्ठतया प्रसिध्द्यभावान्न प्रथमं तल्लक्षणतयोच्यत इति भावः ।

वाक्यार्थरत्नमाला

ननु चेत्युत्तरग्रन्थमवतारयति अत्र सृष्टिरित्यादिना । अत्रेति बुद्धिप्रकृतत्वादुक्तम् । सूचितेत्यस्य सूचयिष्यत इत्यर्थः । एवं चेति । लक्षणान्तरस्याप्रसिद्धिसूचनेनेत्यर्थः । लक्षणसम्भवे तदनभिधाय ब्रह्मशब्दबलेनालभ्यं यल्लक्षणं तदभिधानेन प्राप्तं यत्सूत्रकारस्यानौचित्यं तन्निरस्तमित्यर्थः । प्रसक्तिमित्यादिचतुष्टयस्य दर्शयन्नित्युत्तरेण सम्बन्धः ।

Load More