ॐ जन्माद्यस्य यतः ॐ

अथ लक्षणविशिष्टलक्ष्यप्रतिपादनम्

सुधा

स्वरूपसाधनफलजिज्ञासा हि ब्रह्मजिज्ञासोच्यते ।। ब्रह्मण इति कर्मणि षष्ठीपरिग्रहेऽपि प्रधानेनाप्रधानोपलक्षणस्याङ्गीकृतत्वात् साधनादिजिज्ञासामन्तरेणाकाङ्क्षानुपरमाच्च तत्र साधनफलयोर्ब्रह्मोपहितत्वात् ब्रह्मणश्च स्वप्रधानात्वात् अभ्यर्हितत्वेन तत्स्वरूपजिज्ञासैव प्रथमं प्राप्ता । स्वरूपजिज्ञासा च लक्षणप्रमाणाभ्यां संभवति । तत्रापि लक्षणेन स्वेतरसमस्तवस्तु-व्यावृत्ततया स्वरूपे प्रतिपादिते प्रमाणाकाङ्क्षा जायत इति लक्षणस्यैव प्राथम्यं युक्तम् इत्याशयवान् सूत्रातात्पर्यमाह अन्तः समुद्रगमिति ।

अनुव्याख्यानम्

।। ॐ जन्माद्यस्य यतः ॐ ।।

अन्तः समुद्रगं विश्वप्रसूतेः कारणं तु यत् ।।

सूक्तोपनिषदाद्युक्तं जन्माद्यस्येति लक्ष्यते ।।

वाक्यार्थचन्द्रिका

नन्वाद्याध्यायाभ्यां समन्वयाविरोधयोस्तृतीयचतुर्थाभ्यां तु साधनफलयो-र्विचार्यत्वेन ब्रह्मजिज्ञासायाः क्वाप्यननुष्ठानान्नेदं सङ्गतिकथनमुपपन्नमित्यत आह स्वरूपेति ।। ननु ब्रह्मजिज्ञासेत्यत्र कर्मणि षष्ठीपरिग्रहेण स्वरूपजिज्ञासाया ब्रह्मजिज्ञासात्वप्राप्तावपि साधनादि-जिज्ञासाया न ब्रह्मजिज्ञासात्वलाभः, तल्लाभे वा प्रतिज्ञातत्वाविशेषात्साधनादिजिज्ञासातः स्वरूप-जिज्ञासायाः प्राथमिकत्वे न नियामकमस्ति, अस्तु वा स्वरूपजिज्ञासायाः प्राथमिकत्वं लक्षणादि-जिज्ञासायास्तु किमायातम् । तस्याः कथञ्चिल्लक्षणादिजिज्ञासात्वेऽपि लक्षणजिज्ञासायाः प्रमाण-जिज्ञासापूर्वभावो नियामकशून्य एवेत्यत आह ब्रह्मण इतीत्यादिना ।। ब्रह्मज्ञानसाधनं ब्रह्मज्ञान-फलमिति प्रमाणादिस्वरूपप्रतिपत्तेर्ब्रह्मज्ञानाधीनज्ञानत्वं ब्रह्मोपहितत्वम् । ब्रह्मणः स्वप्रधानत्वं स्वरूपप्रतिपत्तौ साधनादिज्ञानानधीनत्वम् । प्रमाणादिस्वरूपविचारसाधनस्यान्यार्थत्ववद्ब्रह्मस्वरूप-विचारसाधनस्यान्यार्थत्वाभावात्स्वरूपतः प्रधानत्वं च अभ्यर्हितत्वम् । हेत्वन्तरं चैतत् ।। तत्रापीति । व्यावृत्तास्वरूपस्य बुध्द्यनारोहे तत्र प्रमाणाकाङ्क्षानुदयादिति भावः ।

परिमळ

पूर्वोत्तराध्यायद्विकद्वयस्य पौर्वापर्ये बीजं नयस्य द्वितीयत्वे बीजं वदन् भाष्य-मवतारयति ।। स्वरूपेति ।। ननु शेषषष्ठ्या निषेधेन कर्मणि षष्ट्याः स्वीकारेण स्वरूपजिज्ञासाया एव प्राधान्येन प्राप्त्या साधनफलजिज्ञासायाः कथं प्राप्तिरित्यत आह ब्रह्मण इतीति ।। उपलक्षणे बीजमाह साधनादीति । यद्वाऽऽकाङ्क्षाबलात्तल्लाभ इति भावेनाह साधनादीति । ब्रह्मज्ञानाय विचारः कार्य इत्युक्ते केन साधनेन कस्मै फलायेत्याकाङ्क्षायाः साधनफलविचारं विनाऽनिवृत्तेरित्यर्थः । ब्रह्मेति । ब्रह्मज्ञानसाधनं ब्रह्मज्ञानफलमिति ब्रह्मनिरूपितत्वादित्यर्थः ।। साधनफलयोरित्युक्त्या तयोः पौर्वापर्या-त्तद्विचारपरयोरूत्तरयोरध्याययोरपि पौर्वापर्ये बीजं सूचितम् ।। प्रथमप्राप्तेति । तद्विचारः पूर्वाध्यायद्वये क्रियत इति भावः ।

यादुपत्यम्

नन्विदमयुक्तम्, तृतीयचतुर्थयोः साधनफलजिमासाकरणेन ब्रह्मजिज्ञासाऽकरणात् इत्यत आह स्वरूपसाधनेति ।। ननु ‘जिज्ञास्योऽयं विधीयते’ इति ‘ब्रह्मजिज्ञासा’ इत्यत्र कर्मणि षष्ठी व्याख्याताः तेन ब्रह्मस्वरूपकर्मिकैव जिज्ञासा पूर्वं विहितेति प्राप्नोति न साधनफलयोः । यदेयं शेषषष्ठी तदैव परब्रह्मसंबन्धिनोः साधनफलयोरपि जिज्ञासा पूर्वं विहिता स्यात्; सा च नेष्टा । अतः कथमेतदित्यत आह ब्रह्मण इतीति ।। प्रधानेनेति । राजाऽयं गच्छतीत्यादौ राजपदेनाप्रधान-परिवारादेरिव कर्मतयाऽभ्यर्हितत्वेन च प्रधानं ब्रह्म, तत्प्रतिपादकेन ब्रह्मपदेनाप्रधानयोः साधनफलयो-रप्युपलक्षणाङ्गीकारात् साधनफलजिज्ञासे अपि पूर्वं विहिते इत्यर्थः । साधनफले स्वपदेनोपादाय ब्रह्मैव कुतो न लक्ष्यत इत्याशङ्कापरिहाराय प्रधानेनेत्युक्तम् । एतेन गुणप्रधानभावरूपः शक्यसंबन्धोऽप्युक्तो भवति ।। लक्षणास्वीकारे प्रयोजनमप्याह साधनादीति । ब्रह्मस्वरूपे जिज्ञासया निर्णीतेऽपि किं मया कार्यमित्याकाङ्क्षाऽनुपरमाच्चेत्यर्थः । नन्वेवं जिज्ञासात्रयस्यापि पूर्वं विहितत्वेन ब्रह्मस्वरूपजिज्ञासाया एव कुतः प्राथम्यमित्यत आह तत्र साधनफलयोरिति । ब्रह्मज्ञानफलमिति साधनफलयोर्ब्रह्मोपहितत्वेन तज्ज्ञानाधीनज्ञानत्वादित्यर्थः ।। स्वप्रधानत्वादिति । अनन्याधीनत्वादित्यर्थः । अत्र हेतुमाह अभ्यर्हितत्वेनेति ।। यद्वा । चन्द्रिकोक्तप्रकारेण स्वप्रधानत्वादित्यस्य साधनादिज्ञानाधीनज्ञानत्वा भावादित्यर्थः ।। अभ्यर्हितत्वेनेति । स्वरूपजिज्ञासायाः प्राथमिकत्वे हेत्वन्तरम् ।। प्रमाणाकाङ्क्षेति । लक्षणविशिष्टे स्वरूपे या प्रमाणाकाङ्क्षा सा न लक्षणविशिष्टस्वरूपप्रतिपादने भवितुमर्हतीति भावः ।

वाक्यार्थरत्नमाला

अननुष्ठानादिति । ब्रह्मविचारस्य क्वाप्यकृतत्वादित्यर्थः । कर्मणि षष्ठीति । एतच्च ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासेति षष्ठीसमास इत्यभिधाय प्रवृत्ते षष्ठी च कर्मणीति पूर्वमूले तट्टीकायां च स्पष्टम् । परोक्तशेषषष्ठीपरिग्रहनिराकरणाय कर्मषष्ठीपरिग्रहमुपपाद्य सम्बन्धे षष्ठीपरिग्रहे ब्रह्मसम्बन्धिसाधनादिजिज्ञासायाः प्रतिज्ञातत्वप्राप्तावपि कर्मणि तत्परिग्रहे स्वरूपमात्रविचार-प्रतिज्ञापत्त्या साधनादिविचारस्यासङ्गतत्वापातादित्याशङ्कापरिहाराय राजाऽयमागच्छतीत्युक्तेऽपि सपरिकरराज्ञः आगमनप्रतिपादनलाभवत् ब्रह्मस्वरूपजिज्ञासेत्युक्त एव साधनादिसहितब्रह्मविचारस्य प्रतिज्ञातत्वलाभान्नासङ्गतिरिति तस्या विनाप्यभिधानेन लाभादिति पूर्वमूलाभिप्रेतं परिहारं मनसि कृत्वा आह तल्लाभे वेति । शिष्टमुत्तरमूलानुसारेण व्यावर्त्याशङ्काप्रदर्शनम् । स्वप्रधानत्वात् अभ्यर्हित-त्वेनेत्युक्तयोरभेदान्न हेतुहेतुमद्भावः सम्भवतीत्यतस्तदुभयं भिन्नं यथा स्यात् तथा निर्वक्ति ब्रह्मणः स्वप्रधानत्वमित्यादिना । मूले चशब्दाभावाद्धेतुहेतुमद्भावेन प्रतीतेश्च तन्निरासाय चशब्दपूरणाभि-प्रायेणाह हेत्वन्तरं चैतदिति ।

Load More