ॐ जन्माद्यस्य यतः ॐ
अथ असम्भवपरिहारः
सुधा
ननु तथाऽपि विष्णावसम्भवीदं लक्षणम् । ‘जनितोत विष्णोः’ इत्यादौ तस्य जन्मादिदोषश्रवणात् । न हि जन्मादिदोषवतोऽस्मदादेरिव जगज्जन्मादिकारणत्वं सम्भवति । इत्यत आह गुणा इति ।।
अनुव्याख्यानम्
गुणाः श्रुता इति ह्यस्मान्न दोषोऽर्थः श्रुतेर्भवेत् ।।
सुधा
‘‘गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवात्र शङ्का । चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः ।।’ इत्यस्माद्वाक्यात् विष्णोर्जन्मादिदोषो ‘जनितोत विष्णोः’ इत्यादि श्रुतेरर्थो न भवेद्धि यस्मात्तस्मान्नासम्भवीदं लक्षणम् ।
इदमुक्तं भवति । वाक्यार्थावगमे हि व्याख्यानं मुख्यकारणम्; यथाहुः ‘व्याख्यानतो विशेषप्रतिपत्तिः’ इति । तत्रापि यदीयं व्याख्येयं तदीयमेव चेद्य्वाख्यानं तदा सुतरां ततोऽर्थावगतिः । तत्र ‘गुणाः श्रुताः’ इति श्रुतिरेव सर्वश्रुतीर्व्याख्याति । सर्वाः श्रुतयो विष्णोरनन्तानलौकिकानेव गुणान्वदन्ति न कुत्रापि दोषान् । दोषवादप्रतीतिस्तु शब्दशक्तितात्पर्यापरिज्ञाननिमित्तैवेति ।। एवं श्रुत्यैव सर्वासु श्रुतिषु व्याख्यातासु कथं तद्विरुद्धं दोषपरतया व्याख्यानं युज्यते । तस्माद्विष्णुरिति यजमानस्य यज्ञस्य वा नाम । तौ सोमाद्भवत इति सोमो जनितोत विष्णोरित्युच्यत इत्यादि व्याख्येयमिति ।
वाक्यार्थचन्द्रिका
ननु लक्षणातिव्याप्तिनिरासावसरे श्रुतेर्दोषपरत्वाभाव व्युत्पादनमसङ्गत-मित्यतो जन्माद्यस्येत्युपसंहारभाष्ये एवकारप्रहाणेन योजनेऽसम्भवपरिहारस्याप्यभि प्रेतत्वादसम्भव-परिहाराय दोषश्रुतेर्गतिकथनं नासङ्गतमित्याशयेनोत्तरवाक्यमवतारयति । नन्विति ।।
ननु ‘गुणाः श्रुताः’ इत्यनुसारेण दोषश्रुतेः स्वार्थप्रहाणे न किञ्चिन्नियामकं वैपरीत्यस्यापि सम्भवात् । न च व्याख्यानरूपत्वमेव तथेति वाच्यम् । व्याख्यानानुसारेणार्थकथनस्यापि नियामक-शून्यत्वादन्यथाव्याख्यानस्यापि सम्भवाच्च । कथं चास्य दोषवचनव्याख्यानरूपत्वम् । तदनुसारेणास्याः स्वार्थप्रहाणे निर्विषयत्वापत्त्याऽप्रामाण्यापत्तिश्चेत्यत आह इदमुक्तं भवतीति ।। अत्र परिभाषां प्रमाणयति यथाऽऽहुरिति । ‘एकशतं षष्ठ्यर्थाः’ इति ‘अस्तेर्भूः’ इत्यादौ यत्रानेकेषां योगानां प्राप्तिस्तत्र स्थाने षष्ठी ग्राह्येति नियमार्थं प्रवृत्ते ‘षष्ठी स्थानेयोगा’ इति सूत्रे (स्थानेन योगो यस्या इति विग्रहः । निपातनादेत्वम्) स्थान इत्युक्तेऽप्यनन्तरे वा समीपे वेति सन्देहात्तन्निवृत्तये ‘व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्’ इति भाष्यकारेणोक्तम् । व्याख्यानेन विशेषप्रतिपत्तिरर्थविशेष निश्चयो भवत्येव न तु सन्देहाल्लक्षणाभावः । एवं ‘स्थान इति व्याख्यास्यामः’ ततश्चार्थनिश्चय इति भाष्यकृता व्याख्यानस्यार्थावगतिहेतुताया उक्तत्वादिति भावः ।। अन्यथाव्याख्यानसम्भवं शङ्कितं निराचष्टे तत्रापीति ।। श्रुता अश्रुताश्चेत्येतत्तात्पर्यकथनम् अनन्तानिति ।। सुविरुद्धा इत्येतत्तात्पर्यकथनम् अलौकिकानिति । लोकरीत्या विरुद्धानित्यर्थः । श्रुता इत्यस्य सङ्कोचका-भावात्सर्वपरत्वमभिप्रेत्य सर्वाः श्रुतय इत्युक्तम् ।। श्रुताश्च दोषा न सन्तीत्युक्तेः श्रुतानां कथमसत्त्व-मित्यतोऽज्ञैर्हि तथा प्रतीताः श्रुत्युक्ततया प्रतीता इत्येव न तु वस्तुतः श्रुतयो दोषान्वदन्तीति स्वयमेव व्याख्यानात्तदनुसारेण दोषाः श्रुता न सन्तीत्यस्य श्रुतयो दोषान्नैव वदन्तीति व्याख्याने आवश्यके तत्प्रायपाठात् श्रुता गुणाः सन्तीत्यस्यापि श्रुतयो गुणान्वदन्तीति व्याख्यानं कृतम् । नैवात्र शङ्का इत्येतत्तात्पर्यम् एवेति ।। अचिन्त्याश्च तथैव दोषा इत्येतत्तात्पर्यकथनम् न कुत्रापीति ।। अज्ञेत्यादितात्पर्यम् दोषेत्यादि ।। तर्हि वाक्यस्य निर्विषयतयाऽप्रामाण्यापत्तिं परिहरन्नेवोपसंहरति तस्मादिति । यद्यपि सोमादिशब्दवाच्यान्मूल रूपादवताररूपप्रादुर्भावपरतया सन्न्यायरत्नावल्यामिदं व्याख्यातं तथाऽपि सोमादिपदानां प्रसिद्धार्थपरत्वेऽपि ‘अतो दोषवचो यत्र तद्वाक्यमवरं वदेत्’ इति ऋग्भाष्यानुसारेण ‘यज्ञो वै विष्णुः’ ‘पशवः शिपिः’ इत्यादिश्रुत्या विष्णुशब्दस्य यज्ञादिनामत्वेनैव-मपि व्याख्यातुं शक्यमिति भावेन व्याख्यानान्तरमेतदिति द्रष्टव्यम् ।
परिमळ
सुविरुद्धाश्चेति लोकदृष्ट्या । अश्रुता अपि रमादिचिन्त्यास्तदचिन्त्याश्चेत्यर्थः । श्रुता अपि दोषा न सन्ति । श्रुतत्वे कथं नेत्युक्तिरित्यत उक्तम् अज्ञैर्हि तथा प्रतीता इति । ननु गुणाः श्रुता इति श्रुत्युक्तमात्रेण कथमुक्तशङ्कानिरास इत्यत आह इदमुक्तं भवतीति । ‘सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः । जनिताऽग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः’ इति श्रुतौ सोमस्य प्रकृतत्वादाह सोमाद्भवत इतीति । जनितोत विष्णोरिति वाक्यं तु सोमादिशब्द वाच्यात् क्षीराब्धिशयनान्मूल रूपाद्विष्णुशब्दाभि धेयप्रादुर्भाव रूपस्य विवक्षयोपपन्नमिति सन्न्यायरत्नावल्युक्तिं हृदि कृत्वाह इत्यादि व्याख्येयमिति ।
यादुपत्यम्
सर्वाः श्रुतय इति ।। अनेन गुणा एव श्रुताः श्रुतिषु प्रतिपादिता इति योजना सूचितेति द्रष्टव्यम् । अश्रुता अपि गुणाः सन्तीत्यनेन लब्धमर्थं दर्शयति अनन्तानिति । सुविरुद्धा अचिन्त्या इत्येतत्तात्पर्यकथनम् अलौकिकानिति । न कुत्रापि दोषा इत्यनेन दोषाः श्रुताः श्रुतितात्पर्यगोचरा नैवेति योजनोक्ता भवति । अज्ञैर्हि तथा प्रतीता इत्येतत्तात्पर्यप्रदर्शनम् दोषवाद-प्रतीतिरिति ।। तौ सोमाद्भवत इति ।। सोमेन यजेतेति सोमस्य यागसाधनत्वश्रवणाद्यजमानत्वस्यापि सोमाधीनयागसापेक्षत्वादिति भावः ।।
श्रीनिवासतीर्थीया
लक्षणस्यासम्भवमाशङ्कते ननु तथापीति ।।
वाक्यार्थरत्नमाला
प्रहाण इति सप्तमी । अस्या इति । गुणाः श्रुता इत्यस्या इत्यर्थः । तदनुसारेण गुणाः श्रुता इत्येतदनुसारेण । अस्याः जनितोतेति श्रुतेरित्यर्थः । बहवो हि षष्ठ्यर्थाः स्वस्वामिसम्बन्धसमीपेत्यादि काशिकाग्रन्थव्याख्यानरूपमञ्जर्यामेकशतं षष्ठ्यर्थाः इत्यादिकं षष्ठी-दण्डकाभिधग्रन्थोक्तरीत्या प्रतिपाद्यभाष्ये सूत्रं प्रत्याख्यातं कथमस्तेर्भूरित्यत्र सन्देह इत्यादि चोक्तम् । तद्ग्रन्थानुसारेण सूत्रप्रवृत्तिमुपवर्ण्य तत्प्रत्याख्यानरूपव्याख्यानत इति भाष्योक्तपरिभाषाप्रवृत्तिं च वर्णयन्नेव तदर्थकथनपूर्वकं तस्याः प्रकृतोपयोगं च दर्शयति एकशतं षष्ठ्यर्था इत्यादिना । इतीत्यस्येति षष्ठीदण्डके षष्ठ्यर्थानामनेकेषामुक्तत्वादित्यर्थः । योगानाम् । सम्बन्धानाम् । अस्तेरित्युक्ते हि अस्तेः स्थाने अनन्तरं समीपे वेत्येवं योगाः प्राप्ताः । स्वस्वामिभावादेः शब्देऽसम्भवात् । प्राप्तयोगेष्वप्या-नन्तर्यसामीप्ययोरस्तेर्भूरित्यत्रासम्भवेन लक्ष्यानुरोधेन नियमस्यावश्यकत्वादिति भावः । स्थाने षष्ठीति । स्थाने योगे एव षष्ठीत्यर्थः । स्थान इत्युक्तेऽपीति । स्थाने न योगे इति वदता सूत्रकारेणोक्त-संशयनिराकरणोपाये उक्तेऽपीत्यर्थः । इत्युक्तेऽपीत्यनन्तरमस्तेर्भूरित्यत्र स्थानेऽनन्तरे समीपे वेति पाठः । विषयोदाहरणपूर्वकं त्रिकोटिकसन्देहस्यैव भाष्ये उक्तत्वात् । तत्पदपरित्यागो लेखकागतः सूत्रे स्थान इत्युक्तेऽपि भाष्यकारेणेत्युक्तमिति सम्बन्धः । तथा च सूत्रकारेणैवमुऽक्तेपि भाष्यकारेण तु प्रकारान्तरमभिहितमित्यर्थसूचनेन तत्सूत्रं प्रत्याचक्षाणेनेति लभ्यते । अस्तेर्भूरित्यादावित्युपक्रमाद्बुध्या विवेकेनास्तेर्भूरित्यत्रेत्यनुवर्तत इति वा । सन्देहं व्युत्पाद्येति पाठः स्वरस एव । सन्देहादिति पाठे तु सन्देहं व्युत्पाद्येति ल्यबन्तलोपनिमित्ता पञ्चमी । भाष्यकारेणोक्तमित्युक्तयाहुरिति मूलं व्याख्यातम् । सन्देहपरिहारस्य विशेषव्याख्यानमात्रेण सम्भवात् स्वतन्त्रयोगकरणं व्यर्थमिति प्रत्याख्यानप्रकारोऽपि अनेन सूचितो भवति । व्याख्यानेनेत्यारभ्यार्थनिश्चय इत्यन्तं परिभाषाव्याख्यानम् । इति भाष्यकृते-त्यादिकं प्रकृतोपयोगप्रदर्शनम् । इतीत्यस्य तथा चेत्यर्थः । इतीत्यनन्तरं तथा चेति पाठे तु इतीत्यन्तं व्याख्यानमिति ज्ञेयम् ।
अर्थावगतिः अर्थविशेषावगतिः । अधिकमानुमानिकाधिकरणेऽमङ्गलत्वाच्छब्दानां राज्ञ इत्यनु-व्याख्यानमूलटीकाव्याख्यावसरे वक्ष्यामः । श्रुता अश्रुताश्चेत्येतत्तात्पर्यमिति पाठः । सुविरुद्धाश्चेत्यत्रत्य चशब्दस्य श्रुताश्चेति सम्बन्धे श्रुता अश्रुताश्चेति लभ्यते । अत एव सर्वधर्मोपपत्तेश्चेत्येतत्सूत्रीय-तत्त्वप्रकाशिकायां सुविरुद्धा लोकदृष्ट्येति व्याख्याय चशब्दतात्पर्यतया अश्रुता अपीति सम्बन्ध-प्रदर्शनपूर्वकं रमादिचिन्त्या अचिन्त्याश्चेति वर्णितम् । अत एव छान्दोग्यभाष्येऽष्टमे ‘सुविरुद्धा अश्रुताश्च गुणाः सन्त्येव सर्वशः । दोषाः केऽपि न सन्त्येव श्रुता अपि तु सर्वश’ इति गारुडवचनमुदाहृतम् । तथा गीताभाष्यटीकायामेकादशाध्याये श्रुता अश्रुता अपीति व्याख्यातम् । तत्र श्रुताश्चेति शब्दसम्बन्धाभिप्राय एव मूलम् । तथा सुविरुद्धाश्चेत्यपि चशब्दसम्बन्धमभिप्रेत्य अन्यत्र सहादृष्टाः अविरुद्धाश्चेति व्याख्यातम् । एवमुपासनापादीयमूलेऽन्यत्रापि च विशेषोक्तेरिति भावः । सुविरुद्धा इत्येतदिति प्रथमान्तपाठः । सुविरुद्धानिति नकारो लेखकप्रयुक्तः । सुविरुद्धा इत्येतदनुवादरूपं सुविरुद्धानित्येतदलौकिकानित्येतदनुसारेणेति वा । तथैव दोषा श्रुताश्चेत्यत्रापि चशब्दबलादश्रुता अपीति लाभात् तथा गुणा इव दोषाः श्रुता अश्रुताश्च नैव सन्ति । किन्त्वज्ञैर्मिथ्यादृष्टिभिर्हि तथा सन्तीति प्रतीता इत्यर्थमुदाहृतगीताभाष्यटीकोक्तरीत्या सिद्धवत्कृत्य श्रुता गुणाः सन्तीत्यादेर्गुणान् श्रुतयो वन्दतीति श्रुतिप्राधान्येन व्याख्यानं कुतः कार्यमित्यतस्तत्र नियामककथनपूर्वकं तत्तदर्थाभिप्रायेण तत्तन्मूलं योजयति श्रुताश्च दोषा इत्यादिना । एवेतीति । अलौकिकानेवेत्येवशब्द इत्यर्थः । तर्हीति । प्राप्ता याऽप्रामाण्यापत्तिस्तामित्यर्थः । इदमिति । जनितोतेतिवाक्यमित्यर्थः । प्रसिद्धार्थपरत्वेऽपीत्यनेन पूर्वोक्तयोजनायामप्रसिद्धार्थस्वीकार इति सूचयति । ऋग्भाष्यबलादवरार्थान्तरमात्रमागतम् । अतस्त-द्विशेषलाभायाह यज्ञो वै विष्णुरित्यादि । एवमपीति । अत एव तत्त्वनिर्णयद्वितीयपरिच्छेदान्तो-दाहृतोत्पत्तिर्वासुदेवस्य प्रादुर्भावो न चापर इत्यादि परमश्रुतिव्याख्यानावसरे उत्पत्तिरित्यस्योत्पत्ति-वचनार्थ इति आविर्भावो हरेर्जनिरित्यत्रापि जनिरित्यस्य जनिश्रुतेरर्थ इत्युक्तेः प्रत्यक्षत्वं हरेर्जन्मेत्य-सम्भवस्तु सतोऽनुपपत्तेरित्येतद्भाष्योक्तेश्च प्रकारान्तरेणापि व्याख्यानं दृष्टमिति ज्ञेयम् । शक्य-मित्यनन्तरमिदमिति वर्तते ।