ॐ जन्माद्यस्य यतः ॐ
ॐ जन्माद्यस्य यतः ॐ
अथ उत्तरसूत्रादिसमस्तशास्त्रस्य प्रथमसूत्रेण सङ्गतिप्रदर्शनम्
प्रथमाध्याये प्रथमपादे जन्माधिकरणम्
श्रीमद् आनन्दतीर्थभगवत्पादाचार्यविरचितं
ब्रह्मसूत्रानुव्याख्यानं
।। ॐ जन्माद्यस्य यतः ॐ ।।
अन्तः समुद्रगं विश्वप्रसूतेः कारणं तु यत् ।।
सूक्तोपनिषदाद्युक्तं जन्माद्यस्येति लक्ष्यते ।।
श्री जयतीर्थयतिकृता
न्यायसुधा
टिप्पणीषट्कोपेता
अथ उत्तरसूत्रादिसमस्तशास्त्रस्य प्रथमसूत्रेण सङ्गतिप्रदर्शनम्
सुधा
।। ॐ जन्माद्यस्य यतः ॐ ।। प्रथमसूत्रे विहिता ब्रह्मजिज्ञासा जन्मादिसूत्रैः क्रियते ।
श्री विद्याधीशतीर्थविरचिता
वाक्यार्थचन्द्रिका
।। ॐ जन्माद्यस्य यतः ॐ ।। नन्वन्तःसमुद्रगमित्युत्तरभाष्यमसङ्गतम् । न चोत्तरसूत्र-तात्पर्यप्रतिपादनंतदितिवाच्यम् सन्दर्भसङ्गत्याकाङ्क्षायाः प्राथमिकत्वादुत्तरसूत्रेणावान्तरसङ्गतेश्चावश्य-वक्तव्यत्वात्तामनुक्त्वा तात्पर्यमात्रकथने न्यूनत्वापत्तेः इत्यतः स्पष्टत्वात्तत्सन्दर्भसङ्गत्यकथनम् । तात्पर्यकथनेनैवावान्तरसङ्गतिसूचनान्न न्यूनता इत्याशयेन भाष्यकृदभिप्रेतामुभयविधसङ्गतिं दर्शयन्नुत्तर-भाष्यमवतारयति प्रथमसूत्र इति ।। विहितेति । प्रतिज्ञातेत्यर्थः। एवं च प्रतिज्ञातोक्त्या प्रपञ्च्य-प्रपञ्चकभावः सङ्गतिरित्युक्तं भवति । यद्वा विषयादिमत्त्वोपपादनेन कर्तव्यत्वेन प्रतिपादितेत्यर्थः । एवं च प्रथमसूत्राभावे शास्त्रारम्भासिध्द्या उत्तरसूत्रादिसमस्तशास्त्रस्य प्रथमसूत्रेण हेतुहेतुमद्भावलक्षणा सङ्गतिरिति सन्दर्भसङ्गतिकथनमेतदिति द्रष्टव्यम् ।
श्री राघवेन्द्रतीर्थविरचितः
न्यायसुधापरिमळ:
।। ॐ ।। जन्माद्यस्य यतः ।। ॐ ।। उत्तरसन्दर्भस्य पूर्वानन्तर्ये बीजं वदन्नभिधेयमाह प्रथमेति ।। विहितेति । कर्तव्यत्वेन बोधितेत्यर्थः ।। जन्मादिसूत्रैरिति । एतेनेक्षतेरित्यादिसूत्रैर्बह्म विचार्यत इति वदन्तो निरस्ताः । व्यक्तं ह्येतत्समन्वयसूत्रे चन्द्रिकायाम् ।
श्री यदुपत्याचार्यविरचिता
सुधाविवृतिः
।। ॐ जन्मद्यस्य यतः ॐ ।। सङ्गतिं दर्शयति प्रथमसूत्र इत्यादिना ।। जन्मादिसूत्रैरिति । ‘अनावृत्तिः शब्दादनावृत्तिः शब्दात्’ इत्येतदन्तैरित्यर्थः ।
श्री पाण्डुरङ्गि नरसिंहाचार्यविरचिता
वाक्यार्थरत्नमाला
ॐ जन्माद्यस्य यतः ॐ ।। प्रथमसूत्र इत्यादिना सन्दर्भसङ्गत्यवान्तरसङ्गत्योर्भाष्यकृता अनुक्तयोरपि कथनं मूले कुतः कृतमित्यतः तत्सङ्गमयति नन्वन्तःसमुद्रगमित्यादिना । सन्दर्भेति । जन्मादिसूत्रादि-समस्तशास्त्ररूपसन्दर्भसङ्गतीत्यर्थः । उत्तरसूत्रेणेति । प्रथमसूत्रस्योत्तरभूतजन्मादि-सूत्रेणेत्यर्थः । यद्यप्युत्तरसूत्रस्य पूर्वसूत्रेण सङ्गतेरित्येव व्यवहारः प्राप्नोति । तथापि सङ्गतेरुभयधर्म-त्वात्पूर्वोत्तरग्रन्थयोः सङ्गतिरित्यपि व्यवहाराच्चोभयथापि व्यवहारोपपत्तिरित्याशयेनोत्तरसूत्रेणेत्युक्तम् । वक्ष्यति च उत्तरसूत्रादिसमस्तशास्त्रस्य प्रथमसूत्रेणेतीति ज्ञेयम् । अत्र सन्दर्भादिसङ्गत्याकाङ्क्षाया एव प्राथमिकत्वात् सन्दर्भसङ्गतेरुत्तरसूत्रेण अवान्तरसङ्गतेश्चावश्यवक्तव्यत्वात्तामिति पाठः स्वरस एव । सन्दर्भसङ्गत्याकाङ्क्षायास्तात्पर्यकथनापेक्षया प्राथमिकत्वस्य च सन्दर्भावान्तरसङ्गत्योरविशेषेऽपि एकैक त्रैकैकोक्तिः सन्दर्भसङ्गत्याकाङ्क्षाया इत्यत्र अवान्तरसङ्गत्याकाङ्क्षाया इत्युपलक्षणया ग्राह्यम् । प्राथमिक-त्वादित्यनन्तरं सन्दर्भसङ्गतेरित्यस्योपलक्षणया पूरितस्य वा सन्दर्भसङ्गतेरिति बुद्ध्या विवेकेनानुवृत्तस्य वाविद्यमानत्वात् अवान्तरसङ्गतेश्चेति समुच्चयसम्भव इति भावेनेति नानुपपत्तिरिति ज्ञेयम् । तामनु-क्तवेति । उक्तोभयविधसङ्गतिस्तदा परामृश्यते । वक्ष्यति च उभयविधसङ्गतिमिति । अवान्तरसङ्गति-सूचनादित्यनन्तरं पृथक् तदकथनं च इति पूरणीयम् । तत्र तत इत्यस्योभयविधसङ्गत्यभिधान-स्यावश्यकत्वाभावादित्यर्थः । तेन न कश्चिद्दोष इति ज्ञेयम् । उत्तरसूत्रैरित्यादिनोक्तसङ्गतिस्फोरणाय विहितेत्येतद्व्याख्याति प्रतिज्ञातेत्यर्थ इति । प्रपञ्च्येति । उत्तरसूत्रादिसमस्तशास्त्रस्य प्रथमसूत्रेणेत्ये-तद्वक्ष्यमाणं आकृष्यते । एवं तदुक्तसङ्गत्यन्तरस्फोरणाय प्रकारान्तरेण व्याख्याति यद्वेति । सङ्गति-रितीत्यनन्तरमेवं द्वेधेति पूरणीयम् । तेन पूर्वस्या अपि सन्दर्भसङ्गतित्वलाभ इति ज्ञेयम् ।