तृतीयोध्यायः

तृतीयोध्यायः
आत्मस्वरूपं ज्ञानसाधनं चोक्तं पूर्वत्र ।ज्ञानसाधनत्वेनाकर्म विनिन्द्य कर्म विधीयत उत्तराध्याये-
अर्जुन उवाच
ज्यायसी चेत् कर्मणस्ते मता बुदि्धर्जनार्दन ।तत् किं कर्मणि घोरे मां नियोजयसि केशव॥१ ॥
व्यामिश्रेणैव वाक्येन बुदि्धं मोहयसीव मे ।तदेकं वद निश्चित्य येन श्रेयोहमाप्नुयाम्॥२ ॥
कर्मणो ज्ञानमत्युत्तममित्यभिहितं भगवता "दूरेण ह्यवरम्" इत्यादौ । एवं चेत् किमिति कर्मणि घोरे युद्धाख्ये नियोजयसि निवृत्तिधर्मान् विनेत्याह - ज्यायसीति । कर्मणः सकाशात् बुदि्धर्ज्यायसी चेत् ते तव मता तत् तर्हि ॥ १, २ ॥
श्रीभगवानुवाच
लोकेस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्॥३ ॥
ज्यायस्त्वेपि बुद्धेराधिकारिकत्वात् त्वं कर्मण्यप्यधिकृत. इति तत्र नियोक्ष्यामीत्याशयवान् भगवानाह - लोक इति । द्विविधा अपि जनाः सन्ति । गृहस्थादिकर्मत्यागेन ज्ञाननिष्ठाः सनकादिवत् । तत्स्था एव ज्ञाननिष्ठाश्च जनकादिवत् । मद्धर्मस्था एवेत्यर्थः । साङ्ख्यानां ज्ञानिनां सनकादीनाम् । योगिनामुपायिनां जनकादीनाम् । ज्ञाननिष्ठा अप्याधिकारिकत्वादीश्वरेच्छया लोकसङ्ग्रहार्थत्वाच्च ये कर्मयोग्या भवन्ति तेपि योगिनः । निष्ठा स्थितिः । त्वं तु जनकादिवत् सकर्मैव ज्ञानयोग्यः । न तु सनकादिवत् तत्त्यागेनेत्यर्थः । सन्ति हीश्वरेच्छयैव कर्मकृतः प्रियव्रतादयोपि ज्ञानिन एव । तथाह्युक्तम् - 'ईश्वरेच्छया विनिवेशितकर्माधिकारः'' इति ॥ ३ ॥
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोश्नुते ।न च संन्यसनादेव सिदि्धं समधिगच्छति॥४ ॥
इतश्च नियोक्ष्यामीत्याह - न कर्मणामिति । न कर्मणां युद्धादीनामनारम्भेण नैष्कर्म्यं निष्कर्मतां काम्यकर्मपरित्यागेन प्राप्यत इति मोक्षं नाश्नुते । ज्ञानमेव तत्साधनं, न तु कर्माकरणमित्यर्थः । कुतः ? पुरुषत्वात् । सर्वदा स्थूलेन सूक्ष्मेण वा पुरेण युक्तो ननु जीवः । यदि कर्माकरणेन मुक्तिः स्यात् स्थावराणां च । न चाकरणे कर्माभावान्मुक्तिर्भवति । प्रतिजन्मकृतानामनन्तकर्मणां भावात् । न च सर्वाणि भुक्तानि । एकस्मिन् शरीरे बहूनि हि कर्माणि करोति । तानि चैकैकानि बहुजन्मफलानि कानिचित् । तत्र चैकैकानि कर्माणि भुञ्जन् प्राप्नोत्येव शेषेण मानुष्यम् । ततश्च बहुशरीरफलानि कर्माणीत्यसमाप्तिः । तच्चोक्तम्- 'जीवंश्चतुर्दशादूर्ध्वं पुरुषो नियमेन तु ।स्त्री वाप्यनूनदशकं देहं मानुषमार्जते ।चतुर्दशोर्ध्वजीवीनि संसारश्चादिवर्जितः ।अतोवित्त्वा परं देवं मोक्षाशा का महामुने'' ॥ इति ब्राह्मे ।यदि च सादिः स्यात् संसारः पूर्वकर्माभावादतत्प्राप्तिः । अबन्धकत्वं त्वकामेनैव भवति । तच्च वक्ष्यते - 'अनिष्टमिष्टम्'' इति । ननु निष्कामकर्मणः फलाभावान्मोक्षः स्मृतः - 'निष्कामं ज्ञानपूर्वं तु निवृत्तमिति चोच्यते ।निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम्'' ॥ इति मानवे ।अतस्तत्साम्यादकरणेपि भवतीत्यत आह - न चेति । संन्यासः काम्यकर्मपरित्यागः 'काम्यानां कर्मणां न्यासम्'' इति वक्ष्यमाणत्वात् । अकामकर्मणामन्तःकरणशुद्ध्या ज्ञानान्मोक्षो भवति । तच्चोक्तम् - 'कर्मभिः शुद्धसत्त्वस्य वैराग्यं जायते हृदि'' इति भागवते । विरक्तानामेव च ज्ञानमुक्तम् -'न तस्य तत्त्वग्रहणाय साक्षाद् वरीयसीरपि वाचः समासन् ।स्वप्ने निरुक्त्या गृहमेधिसौख्यं न यस्य हेयानुमितं स्वयं स्यात्'' ॥ इति ।न तु फलाभावात् । कर्माभावात् । अतो न कर्मत्याग एव मोक्षसाधनम् । यत्याश्रमस्तु प्रायत्यार्थो भगवत्तोषार्थश्च । अप्रयतत्वमेव हि प्रायो गृहस्थादीनाम् । इतरकर्मोद्योगात् । अप्रयतानां च न ज्ञानम् । तथाहि श्रुतिः - 'नाशान्तो नासमाहितः'' इति । महांश्च यत्याश्रमे तोषो भगवतः । तथाह्याह - 'यत्याश्रमं तुरीयं तु दीक्षां मम सुतोषणीम्'' इति नारायणाष्टाक्षरकल्पे । आधिकारिकास्तु तत्स्था एव प्रायत्ये समर्थाः । स एव च महान् भगवत्तोषः । तच्चोक्तम्- देवादीनामादिराज्ञां महोद्योगेपि नो मनः ।विष्णोश्चलति तद्भोगोप्यतीव हरितोष(णम्)णः'' ॥ इति पाद्मे ॥४ ॥
न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् ।कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः॥५ ॥
न तु कर्माणि सर्वात्मना त्यक्तुं शक्यानीत्याह - नहीति ॥ ५ ॥
कर्मेंद्रियाणि संयम्य य आस्ते मनसा स्मरन् ।इंद्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते॥६ ॥
यस्त्विंद्रियाणि मनसा नियम्यारभतेर्जुन ।कर्मेंद्रियैः कर्मयोगमसक्तः स विशिष्यते॥७ ॥
तथापि शक्तितस्त्यागः कार्य इत्यत आह - कर्मेंद्रियाणीति । मन एव प्रयोजकमिति दर्शयितुमन्वयव्यतिरेकावाह- मनसा स्मरन् मनसा नियम्येति । कर्मयोगं स्ववर्णाश्रमोचितम् । न तु गृहस्थकर्मैवेति नियमः । संन्यासादिविधानात् । सामान्यवचनाच्च ॥ ६, ७ ॥
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः॥८ ॥
अतो नियतं वर्णाश्रमोचितं कर्म कुरु ॥ ८ ॥
यज्ञार्थात् कर्मणोन्यत्र लोकोयं कर्मबन्धनः ।तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर॥९ ॥
'
कर्मणा बध्यते जन्तुः'' इति कर्म बन्धकं स्मृऽतमित्यत आह - यज्ञार्थादिति । कर्म बन्धनं यस्य लोकस्य स कर्मबन्धनः । यज्ञो विष्णुः । यज्ञार्थं सङ्गरहितं कर्म न बन्धकमित्यर्थः । मुक्तसङ्ग इति विशेषणात् 'कामान् यः कामयते'' इति श्रुतेश्च 'अनिष्टमिष्टम्'' इति वक्ष्यमाणत्वाच्च 'एतान्यपि तु'' इति च 'तस्मान्नेष्टियाजुकः स्यात्'' इति च । विशेषवचनत्वे समेपि विशेषणं परिशिष्यते ॥९॥
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।अनेन प्रसविष्यध्वमेष वोस्त्विष्टकामधुक्॥१० ॥
देवान् भावयतानेन ते देवा भावयन्तु वः ।परस्परं भावयन्तः श्रेयः परमावाप्स्यथ॥११ ॥
इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः ।तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः॥१२ ॥
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्॥१३ ॥
तत्रार्थवादमाह - सहयज्ञा इति ॥ १०-१३ ॥
अन्नाद् भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः॥१४ ॥
हेत्वन्तरमाह - अन्नादिति । यज्ञः पर्जन्यान्नत्वात् तत्कारणमुच्यते । पूर्वयज्ञविवक्षायां चक्रप्रवेशो न भवति । तद्ध्यापाद्यं कर्मविधये । न तु सामान्य(साम्य)मात्रेणेदानीं कार्यम् । मेघचक्राभिमानी च पर्जन्यः तच्च यज्ञाद् भवति ।'अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठति ।आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः'' ॥ इति स्मृऽतेश्च ।उभयवचनादादित्यात् समुद्राच्चाविरोधः । अतश्च यज्ञात् पर्जन्योद्भवः सम्भवति । यज्ञो देवतामुद्दिश्य द्रव्यपरित्यागः । कर्म इतरक्रिया ।॥१४ ॥
कर्म ब्रह्मोद्भवं विदि्ध ब्रह्माक्षरसमुद्भवम् ।तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्॥१५ ॥
कर्म ब्रह्मणो जायते 'एष ह्येव साधु कर्म कारयति'', 'बुदि्धर्ज्ञानम्'' इत्यादिभ्यः । न च मुख्ये सम्भाव्यमाने पारम्पर्येण औपचारिकं कल्प्यम् । न च जडानां स्वतः प्रवृत्तिः सम्भवति 'एतस्य वा अक्षरस्य'' इत्यादिसर्वनियमनश्रुतेश्च 'द्रव्यं कर्म च'' इत्यादेश्च अचिन्त्यशक्तिश्चोक्ता । जीवस्य च प्रतिबिम्बस्य बिम्बपूर्वैव चेष्टा 'न कर्तृत्वम्'' इत्यादिनिषेधाच्च । अक्षराणि प्रसिद्धानि । तेभ्यो ह्यभिव्यज्यते परं ब्रह्म । अन्यथानादिनिधनमचिन्त्यं परिपूर्णमपि ब्रह्म को जानाति? न च रूढिं विना योगाङ्गीकारो युक्तः । परामर्शाच्च- 'तस्मात् सर्वगतं ब्रह्म'' इति । नह्येकशब्देन द्विरुक्तेन भेदश्रुतिं विना वस्तुद्वयं कुत्रचिदुच्यते । तानि चाक्षराणि नित्यानि- 'वाचा विरूप नित्यया'', 'अनादिनिधना नित्या वागुत्सृष्टा'', 'अत एव च नित्यत्वम्'' इत्यादिश्रुतिस्मृऽतिभगवद्वचनेभ्यः ।दोषश्चोक्तः सकर्तृकत्वे । नचाबुदि्धपूर्वमुत्पन्नानि । तत्प्रमाणाभावात् । निःश्वसितशब्दस्त्वक्लेशाभिप्रायः । नाबुदि्धपूर्वाभिप्रायः 'सोकामयत'' इत्यादेश्च 'इष्टं हुतम्'' इत्यादिरूपप्रपञ्चसहाभिधानाच्च । महातात्पर्यविरोधाच्च । तच्चोक्तं पुरस्तात् । नह्यस्वातन्त्र्येण कर्तुः प्राधान्यम् । अस्वातन्त्र्यं च तदमतिपूर्वकत्वेन भवति । यथा रोगादीनां पुरुषस्य तज्जत्वेपि उत्पत्तिवचनानि अभिव्यक्त्यर्थानि अभिमानिदेवता- विषयाणि च 'नित्या'' इत्युक्त्वा 'उत्सृष्टा'' इति वचनात् । अभिव्यञ्जके कर्तृवचनं चास्ति 'कृत्स्नं शतपथं चक्रे'' इति कथमादित्यस्था वेदास्तेनैव क्रियन्ते । वचनमात्राच्च निर्णयात्मक- शारीरकोक्तं बलवत् । शास्त्रं योनिः प्रमाणं अस्येति तु शास्त्रयोनित्वम् 'जन्माद्यस्य यतः'' इत्युक्ते प्रमाणं हि तत्रापेक्षितम् । न तु तस्य जातत्वं वेदकारणत्वं वा । नहि वेदकारणत्वं जगत्कारणत्वे हेतुः । नहि विचित्रजगत्सृष्टेर्वेदसृष्टिरशक्या सृज्यत्वे । न च सर्वज्ञत्वे । यदि वेदस्रष्टा सर्वज्ञः किमिति न जगत्स्रष्टा? तस्माद् वेदप्रमाण- कत्वमेवात्र विवक्षितम् । अतो नित्यान्यक्षराणि । यत एवं परम्परया यज्ञाभिव्यङ्ग्यं ब्रह्म तस्मात् तन्नित्यं यज्ञे प्रतिष्ठितम् । तानि चाक्षराणि भूताभिव्यङ्ग्यानीति चक्रम् ॥१५ ॥
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।अघायुरिंद्रियारामो मोघं पार्थ स जीवति॥१६ ॥
तदेतत् जगच्चक्रं यो नानुवर्तयति स तद्विनाशकत्वादघायुः । पापनिमित्तमेव यस्यायुः सोघायुः ॥ १६ ॥
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते॥१७ ॥
तर्ह्यतीव मनःसमाधानमपि न कार्यमित्यत आह - यस्त्विति । रमणं परदर्शनादिनिमित्तं सुखम् । तृप्तिरन्यत्रालम्बुदि्धः । सन्तोषस्तज्जनकं सुखम् 'सन्तोषस्तृप्तिकारणम्'' इत्यभिधानात् । परमात्मदर्शनादिनिमित्तं सुखं प्राप्तः । अन्यत्र सर्वात्मनालम्बुदि्धं च । महच्च तत् सुखम् । तेनैवान्यत्रालम्बुदि्धरिति दर्शयति - आत्मन्येव च सन्तुष्ट इति । तत्स्थ एव सन् सन्तुष्ट इत्यर्थः । नान्यत् किमपि सन्तोषकारणमित्यवधारणम् । आत्मना तृप्तः । नह्यात्मन्यलम्बुदि्धर्युक्ता । तद्वाचित्वं च 'वयं तु न वितृप्याम उत्तमश्लोकविक्रमैः'' इति प्रयोगसिद्धम् । अध्याहारस्त्वगतिकागतिः । आत्मरतिरेवेत्यवधारणादसम्प्रज्ञातसमाधिस्थस्यैव कार्यं न विद्यते ।'स्थितप्रज्ञस्यापि कार्यो देहादिर्दृश्यते यदा ।स्वधर्मो मम तुष्ट्यर्थः सा हि सर्वैरपेक्षिता'' इति वचनाच्च पञ्चरात्रे ।अन्यदान्यरतिरपीषत् सर्वस्य भवति । नच तत्रालम्बुदि्धमात्रमुक्तम् । आत्मतृप्त इति पृथगभिधानात् । कर्तृशब्दश्च कालावच्छेदेपि चायं प्रसिद्धः- 'यो भुङ्क्ते स तु न ब्रूयात्'' इत्यादौ । अतोसम्प्रज्ञात- समाधावेवैतत् । मानव इति ज्ञानिन एवासम्प्रज्ञातसमाधिर्भवतीति दर्शयति 'मनु अवबोधने'' इति धातोः । परमात्मरतिश्चात्र विवक्षिता 'विष्णावेव रतिर्यस्य क्रिया तस्यैव नास्ति हि'' इति वचनात् ॥१७ ॥
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः॥१८ ॥
तस्य 'कर्मकाले वक्तव्योहम्'' इति कञ्चित् प्रत्युक्त्वा तत्कृता- वात्मरत्यधिकः समो वार्थो नास्ति । न च सन्ध्याद्यकृतौ कश्चिद् दोषः अस्ति । नचैतदपहाय सर्वभूतेषु कश्चित् प्रयोजनाश्रयः । अर्थो येन दर्शनादिना भवति सोर्थव्यपाश्रयः । ज्ञानमात्रेण प्रत्यवायो यद्यपि न भवति । तदर्जुनस्यापि सममिति न तस्य कर्मोपदेशोपयोग्येतद् भवति । ईषत् प्रारब्धानर्थसूचकं च तद्भवति । महच्चेद् वृत्रहत्यादिवत् ॥ १८ ॥
तस्मादसक्तः सततं कार्यं कर्म समाचर ।असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः॥१९ ॥
यतोसम्प्रज्ञातसमाधेरेव कार्याभावस्तस्मात् कर्म समाचर ॥ १९ ॥
कर्मणैव हि संसिदि्धमास्थिता जनकादयः ।लोकसङ्ग्रहमेवापि सम्पश्यन् कर्तुमर्हसि॥२० ॥
आचारोप्यस्तीत्याह - कर्मणैवेति । कर्मणा सह, कर्म कुर्वन्त एवेत्यर्थः । कर्म कृत्वैव ततो ज्ञानं प्राप्य वा । न तु ज्ञानं विना । प्रसिद्धं हि तेषां ज्ञानित्वं भारतादिषु 'तमेवं विद्वान्'' इत्यादिश्रुतिभ्यश्च । अत्रापि कर्मणां ज्ञानसाधनत्वोक्तेश्च 'बुदि्धयुक्तः'' इति । गत्यन्तरं च 'नान्यः पन्थाः'' इत्यस्य नास्ति । इतरेषां ज्ञानद्वाराप्यविरोधः । यत्र च तीर्थाद्येव मुक्तिसाधनमुच्यते-
'
ब्रह्मज्ञानेन वा मुक्तिः प्रयागमरणेन वा ।अथवा स्नानमात्रेण गोमत्यां कृष्णसन्निधौ ॥'' इत्यादौ तत्र पापादिमुक्तिः । स्तुतिपरता च । तत्रापि हि कुत्रचिद् ब्रह्मज्ञानसाधनत्वमेवोच्यतेन्यथा मुक्तिं निषिद्ध्य-
'
ब्रह्मज्ञानं विना मुक्तिर्न कथञ्चिदपीष्यते ।प्रयागादेस्तु या मुक्तिर्ज्ञानोपायत्वमेव हि ॥'' इत्यादौ ।न च तीर्थस्तुतिवाक्यानि तत्प्रस्तावेप्युक्तज्ञाननियमं घ्नन्ति । यथा कञ्चिद् दक्षं भृत्यं प्रत्युक्तानि 'अयमेव हि राजा किं राज्ञा'' इत्यादीनि । यथाह भगवान्- 'यानि तीर्थादिवाक्यानि कर्मादिविषयाणि च ।स्तावकान्येव तानि स्युरज्ञानां मोहकानि वा ।भवेन्मोक्षस्तु मद्दृष्टेर्नान्यतस्तु कथञ्चन'' ॥ इति नारदीये ।अतोपरोक्षज्ञानादेव मोक्षः । कर्म तु तत्साधनमेव ॥२० ॥
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते॥२१ ॥
स यत् वाक्यादिकं प्रमाणीकुरुते, यदुक्तप्रकारेण तिष्ठतीत्यर्थः ॥ २१ ॥
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि॥२२ ॥
यदि ह्यहं न वर्तेयं जातु कर्मण्यतंद्रितः ।मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥२३ ॥
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः॥२४ ॥
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम्॥२५ ॥
न बुदि्धभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।जोषयेत्सर्वकर्माणि विद्वान् युक्तः समाचरन्॥२६ ॥
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।अहङ्कारविमूढात्मा कर्ताहमिति मन्यते॥२७ ॥
विद्वदविदुषोः कर्मभेदमाह - प्रकृतेरिति । प्रकृतेर्गुणैः इंद्रियादिभिः । प्रकृतिमपेक्ष्य गुणभूतानि हि तानि । तत्सम्बन्धीनि च । नहि प्रतिबिम्बस्य क्रिया ॥ २७ ॥
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते॥२८ ॥
कर्मभेदस्य गुणभेदस्य च तत्त्ववित् । गुणाः इंद्रियादीनि । गुणेषु विषयेषु ॥ २८ ॥
प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु ।तानकृस्नविदो मन्दान् कृत्स्नविन्न विचालयेत्॥२९ ॥
प्रकृतेर्गुणेषु इंद्रियादिषु सम्मूढाः । इंद्रियाद्यभिमानादि्ध विषयादिसङ्गः । गुणकर्मसु विषयेषु कर्मसु च- 'शब्दाद्या इंद्रियाद्याश्च सत्त्वाद्याश्च शुभानि च ।अप्रधानानि च गुणा निगद्यन्ते निरुक्तिगैः ॥'' इत्यभिधानात् ।सत्त्वाद्यङ्गीकारे- ''गुणा गुणेषु" इत्ययुक्तं स्यात् ॥२९ ॥
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।निराशीर्निर्ममो भूत्वा युद्ध्यस्व विगतज्वरः॥३० ॥
अतः सर्वाणि कर्माणि मय्येव संन्यस्य, भ्रान्तितो जीवेध्यारोपितानि मय्येव विसृत्य भगवानेव सर्वाणि कर्माणि करोतीति, मत्पूजेति च । आत्मानं मामधिकृत्य यच्चेतस्तदध्यात्मचेतः । संन्यासस्तु भगवान् करोतीति । निर्ममत्वं नाहं करोमीति ॥ ३० ॥
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।श्रद्धावन्तोनसूयन्तो मुच्यन्ते तेपि कर्मभिः॥३१ ॥
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।सर्वज्ञानविमूढांस्तान् विदि्ध नष्टानचेतसः॥३२ ॥
फलमाह - ये म इति । ये त्वेवं निवृत्तकर्मिणस्तेपि मुच्यन्ते ज्ञानद्वारा । किमु अपरोक्षज्ञानिनः ? न तु साधनान्तरमुच्यते-
'
निवृत्तादीनि कर्माणि ह्यपरोक्षेशदृष्टये ।अपरोक्षेशदृष्टिस्तु मुक्तौ किञ्चिन्न मार्गते ।सर्वं तदन्तराधाय मुक्तये साधनं भवेत् ।न किञ्चिदन्तराधाय निर्वाणायापरोक्षदृक्'' ॥ इति ह्युक्तं नारायणाष्टाक्षरकल्पे ।अत एव समुच्चयनियमोपि निराकृतः ॥ ३१, ३२ ॥
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति॥३३ ॥
एवं चेत् किमिति ते मतं नानुतिष्ठन्ति लोकाः इत्यत आह - सदृशमिति । प्रकृतिः पूर्वसंस्कारः ॥ ३३ ॥
इंद्रियस्येंद्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ॥
तयोर्न वशमागच्छेत् तौ ह्यस्य परिपन्थिनौ॥ ३४ ॥
तथापि शक्तितो निग्रहः कार्यः । निग्रहात् सद्यः प्रयोजनाभावेपि भवत्येवातिप्रयत्नत इत्याशयवानाह - इंद्रियस्येति । तथाह्युक्तम् - 'संस्कारो बलवानेव ब्रह्माद्या अपि तद्वशाः ।तथापि सोन्यथाकर्तुं शक्यतेतिप्रयत्नतः'' ॥ इति ॥३४ ॥
श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् ।स्वधर्मे निधनं श्रेयः परधर्मो भयावहः॥३५ ॥
तथाप्युग्रं युद्धकर्मेत्यत आह- श्रेयानिति ॥ ३५ ॥
अर्जुन उवाच
अथ केन प्रयुक्तोयं पापं चरति पूरुषः ।अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः॥३६ ॥
बहवः कर्मकारणाः सन्ति क्रोधादयः कामश्च । तत्र को बलवानिति पृच्छति - अथेति । अथेत्यर्थान्तरम् 'तयोर्न वशमागच्छेत्'' इति प्रश्नप्रापकम् ॥ ३६ ॥
श्रीभगवानुवाच
काम एष क्रोध एष रजोगुणसमुद्भवः ।महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्॥३७ ॥
यस्तु बलवान् प्रवर्तकः स एष कामः । क्रोधोप्येष एव । तज्जन्यत्वात् 'कामात् क्रोधोभिजायते'' इति ह्युक्तम् । यत्रापि गुरुनिन्दादिनिमित्तः क्रोधस्तत्रापि भक्तिनिमित्तानिन्दाकामनिमित्त एव । ये त्वन्यथा वदन्ति ते सङ्करान्न सूक्ष्मं जानन्ति । उक्तं च- 'ऋते कामं न कोपाद्या जायन्ते हि कथञ्चन'' इति ।महाशनः । महदि्ध कामभोग्यम् । महाब्रह्महत्यादिकारणत्वान्महापाप्मा । सर्वपुरुषार्थविरोधित्वाद् वैरी ॥३७ ॥
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च ।यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम्॥३८ ॥
कथं विरोधी सः? इदमनेनावृतम् । यथा धूमेनाग्निरावृतः प्रकाशरूपोप्यन्येषां सम्यगदर्शनाय तथा परमात्मा । यथादर्शो मलेनावृतोन्याभिव्यक्तिहेतुर्न भवति तथान्तःकरणं परमात्मादेर्व्यक्ति- हेतुर्न भवति कामेनावृतम् । यथोल्बेनावृत्य बद्धो भवति गर्भस्तथा कामेन जीवः ॥ ३८ ॥
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।कामरूपेण कौन्तेय दुष्पूरेणानलेन च॥३९ ॥
शास्त्रतो जातमपि ज्ञानं परमात्मापरोक्ष्याय न प्रकाशते कामेनावृतं ज्ञानिनोपि । किमु अल्पज्ञानिनः ? कामरूपेण कामाख्येन नित्यवैरिणा । दुष्पूरेण । दुःखेन हि कामः पूर्यते । नहीन्द्रादिपदं सुखेन लभ्यते । यद्यपीन्द्रादिपदं प्राप्तं पुनर्ब्रह्मादिपदमिच्छतीत्य- लम्बुदि्धर्नास्तीत्यनलः । उक्तं च- 'ज्ञानस्य ब्रह्मणश्चाग्नेर्धूमो बुद्धेर्मलं तथा ।आदर्शस्याथ जीवस्य गर्भोल्बोपि हि कामकः'' ॥ इति ॥३९ ॥
इंद्रियाणि मनोबुदि्धरस्याधिष्ठानमुच्यते ।एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम्॥४० ॥
वधार्थं शत्रोरधिष्ठानमाह - इंद्रियाणीति । एतैर्ज्ञानमावृत्य । बुद्ध्यादिभिर्हि विषयगैर्ज्ञानमावृतं भवति ॥ ४० ॥
तस्मात्त्वमिंद्रियाण्यादौ नियम्य भरतर्षभ ।पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम्॥४१ ॥
हृताधिष्ठानो हि शत्रुर्नश्यति ॥ ४१ ॥
इंद्रियाणि पराण्याहुरिंद्रियेभ्यः परं मनः ।मनसस्तु परा बुदि्धर्यो बुद्धेः परतस्तु सः॥४२ ॥
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।जहि शत्रुं महाबाहो कामरूपं दुरासदम्॥४३ ॥
॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयोध्यायः ॥
शत्रुहनन आयुधरूपं ज्ञानं वक्तुं ज्ञेयमाह - इंद्रियाणीति 'असङ्गज्ञानासिमादाय तरातिपारम्'' इति ह्युक्तम् । शरीरादिंद्रियाणि पराणि उत्कृष्टानि । न केवलं बुद्धेः परः । श्रुत्युक्तप्रकारेणाव्यक्तादपि 'अव्यक्तात् पुरुषः परः'' इति हि श्रुतिः । न च तत्र तत्रोक्तैकदेशज्ञानमात्रेण भवति मुक्तिः । सार्वत्रिकगुणोपसंहारो हि भगवता गुणोपसंहारपादेभिहितः - 'आनन्दादयः प्रधानस्य'' इत्यादिना । तथा चान्यत्र-
'
अपौरुषेयवेदेषु विष्णुवेदेषु चैव हि ।सर्वत्र ये गुणाः प्रोक्ताः सम्प्रदायागताश्च ये ।सर्वैस्तैः सह विज्ञाय ये पश्यन्ति परं हरिम् ।तेषामेव भवेन्मुक्तिर्नान्यथा तु कथञ्चन'' ॥ इति गारुडे ।तस्मादव्यक्तादपि परत्वेन ज्ञेयः । न चात्र जीव उच्यते 'रसोप्यस्य परं दृष्ट्वा निवर्तते'' इत्युक्तत्वात् 'अविज्ञाय परं मत्तो जयः कामस्य वै कुतः'' इति च । अतः परमात्मज्ञानमेवात्र विवक्षितम् । आत्मानं मनः । आत्मना बुद्ध्या ॥ ४२, ४३ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये तृतीयोध्यायः ॥